श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

तैत्तिरीयोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

अतीतविद्याप्राप्त्युपसर्गप्रशमनार्था शान्तिः पठिता । इदानीं तु वक्ष्यमाणब्रह्मविद्याप्राप्त्युपसर्गोपशमनार्था शान्तिः पठ्यते -
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
सह नाववत्विति । सह नाववतु, नौ शिष्याचार्यौ सहैव अवतु रक्षतु । सह नौ भुनक्तु ब्रह्म भोजयतु । सह वीर्यं विद्यानिमित्तं सामर्थ्यं करवावहै निर्वर्तयावहै । तेजस्वि नौ तेजस्विनोरावयोः अधीतं स्वधीतम् अस्तु अर्थज्ञानयोग्यमस्त्वित्यर्थः । मा विद्विषावहै, विद्याग्रहणनिमित्तं शिष्यस्य आचार्यस्य वा प्रमादकृतादन्यायाद्विद्वेषः प्राप्तः ; तच्छमनायेयमाशीः - मा विद्विषावहै इति । मैव नावितरेतरं विद्वेषमापद्यावहै । शान्तिः शान्तिः शान्तिरिति त्रिर्वचनमुक्तार्थम् । वक्ष्यमाणविद्याविघ्नप्रशमनार्था चेयं शान्तिः । अविघ्नेनात्मविद्याप्राप्तिराशास्यते, तन्मूलं हि परं श्रेय इति
संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि । अनन्तरं अन्तःसोपाधिकमात्मदर्शनमुक्तं व्याहृतिद्वारेण स्वाराज्यफलम् । चैतावता अशेषतः संसारबीजस्य उपमर्दनमस्ति । अतः अशेषोपद्रवबीजस्य अज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते -
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
ब्रह्मविदाप्नोति परमित्यादि । प्रयोजनं चास्या ब्रह्मविद्याया अविद्यानिवृत्तिः, ततश्च आत्यन्तिकः संसाराभावः । वक्ष्यति - विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति । संसारनिमित्ते सति अभयं प्रतिष्ठां विन्दत इत्यनुपपन्नम् , कृताकृते पुण्यपापे तपत इति  । अतोऽवगम्यते - अस्माद्विज्ञानात्सर्वात्मब्रह्मविषयादात्यन्तिकः संसाराभाव इति । स्वयमेवाह प्रयोजनम्ब्रह्मविदाप्नोति परम्इत्यादावेव सम्बन्धप्रयोजनज्ञापनार्थम् । निर्ज्ञातयोर्हि सम्बन्धप्रयोजनयोः विद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते । श्रवणादिपूर्वकं हि विद्याफलम् , श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इत्यादिश्रुत्यन्तरेभ्यः । ब्रह्मवित् , ब्रह्मेति वक्ष्यमाणलक्षणम् , बृहत्तमत्वात् ब्रह्म, तद्वेत्ति विजानातीति ब्रह्मवित् , आप्नोति प्राप्नोति परं निरतिशयम् ; तदेव ब्रह्म परम् ; ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः । स्पष्टं श्रुत्यन्तरं ब्रह्मप्राप्तिमेव ब्रह्मविदो दर्शयति - यो हि वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादि
ननु, सर्वगतं सर्वस्य चात्मभूतं ब्रह्म वक्ष्यति । अतो नाप्यम् । आप्तिश्च अन्यस्यान्येन परिच्छिन्नस्य परिच्छिन्नेन दृष्टा । अपरिच्छिन्नं सर्वात्मकं ब्रह्मेत्यतः परिच्छिन्नवत् अनात्मवच्च तस्याप्तिरनुपपन्ना । नायं दोषः । कथम् ? दर्शनादर्शनापेक्षत्वाद्ब्रह्मण आप्त्यनाप्त्योः, परमार्थतो ब्रह्मस्वरूपस्यापि सतः अस्य जीवस्य भूतमात्राकृतबाह्यपरिच्छिन्नान्नमयाद्यात्मदर्शिनः तदासक्तचेतसः । प्रकृतसङ्ख्यापूरणस्यात्मनः अव्यवहितस्यापि बाह्यसङ्ख्येयविषयासक्तचित्ततया स्वरूपाभावदर्शनवत् परमार्थब्रह्मस्वरूपाभावदर्शनलक्षणया अविद्यया अन्नमयादीन्बाह्याननात्मन आत्मत्वेन प्रतिपन्नत्वात् अन्नमयाद्यनात्मभ्यो नान्योऽहमस्मीत्यभिमन्यते । एवमविद्यया आत्मभूतमपि ब्रह्म अनाप्तं स्यात् । तस्यैवमविद्यया अनाप्तब्रह्मस्वरूपस्य प्रकृतसङ्ख्यापूरणस्यात्मनः अविद्ययानाप्तस्य सतः केनचित्स्मारितस्य पुनस्तस्यैव विद्यया आप्तिर्यथा, तथा श्रुत्युपदिष्टस्य सर्वात्मब्रह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव । ब्रह्मविदाप्नोति परमिति वाक्यं सूत्रभूतं सर्वस्य वल्ल्यर्थस्य । ब्रह्मविदाप्नोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्मणोऽनिर्धारितस्वरूपविशेषस्य सर्वतो व्यावृत्तस्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणाय अविशेषेण उक्तवेदनस्य ब्रह्मणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगात्मतया अनन्यरूपेण विज्ञेयत्वाय, ब्रह्मविद्याफलं ब्रह्मविदो यत्परप्राप्तिलक्षणमुक्तम् , सर्वात्मभावः सर्वसंसारधर्मातीतब्रह्मस्वरूपत्वमेव, नान्यदित्येतत्प्रदर्शनाय एषा ऋगुदाह्रियते - तदेषाभ्युक्तेति । तत् तस्मिन्नेव ब्राह्मणवाक्योक्तार्थे एषा ऋक् अभ्युक्ता आम्नाता । सत्यं ज्ञानमनन्तं ब्रह्म इति ब्रह्मणो लक्षणार्थं वाक्यम् । सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्रह्मणः । विशेष्यं ब्रह्म, विवक्षितत्वाद्वेद्यतया । वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षितम् , तस्माद्विशेष्यं विज्ञेयम् । अतः अस्माद्विशेषणविशेष्यत्वादेव सत्यादीनि एकविभक्त्यन्तानि पदानि समानाधिकरणानि । सत्यादिभिस्त्रिभिर्विशेषणैर्विशेष्यमाणं ब्रह्म विशेष्यान्तरेभ्यो निर्धार्यते । एवं हि तज्ज्ञातं भवति, यदन्येभ्यो निर्धारितम् ; यथा लोके नीलं महत्सुगन्ध्युत्पलमिति । ननु, विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते, यथा नीलं रक्तं चोत्पलमिति ; यदा ह्यनेकानि द्रव्याणि एकजातीयान्येकविशेषणयोगीनि , तदा विशेषणस्यार्थवत्त्वम् ; ह्येकस्मिन्नेव वस्तुनि, विशेषणान्तरायोगात् ; यथा असावेक आदित्य इति, तथा एकमेव ब्रह्म, ब्रह्मान्तराणि, येभ्यो विशेष्येत नीलोत्पलवत् । ; लक्षणार्थत्वाद्विशेषणानाम् । नायं दोषः । कस्मात् ? लक्षणार्थप्रधानानि विशेषणानि, विशेषणप्रधानान्येव । कः पुनर्लक्षणलक्ष्ययोर्विशेषणविशेष्ययोर्वा विशेषः ? उच्यते । सजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य ; लक्षणं तु सर्वत एव, यथा अवकाशप्रदात्राकाशमिति । लक्षणार्थं वाक्यमित्यवोचाम
सत्यादिशब्दा परस्परं सम्बध्यन्ते, परार्थत्वात् ; विशेष्यार्था हि ते । अत एव एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन सम्बध्यते - सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तत्सत्यम् । यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तदनृतमित्युच्यते । अतो विकारोऽनृतम् , वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमित्यवधारणात् । अतःसत्यं ब्रह्मइति ब्रह्म विकारान्निवर्तयति । अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य कारकत्वम् , वस्तुत्वात् मृद्वत् अचिद्रूपता प्राप्ता ; अत इदमुच्यते - ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिः अवबोधः, - भावसाधनो ज्ञानशब्दः - तु ज्ञानकर्तृ, ब्रह्मविशेषणत्वात्सत्यानन्ताभ्यां सह । हि सत्यता अनन्तता ज्ञानकर्तृत्वे सत्युपपद्येते । ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेत् , अनन्तं ? यद्धि कुतश्चित्प्रविभज्यते, तदनन्तम् । ज्ञानकर्तृत्वे ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता स्यात् , यत्र नान्यद्विजानाति भूमा, अथ यत्रान्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इति श्रुत्यन्तरात् । ‘नान्यद्विजानातिइति विशेषप्रतिषेधात् आत्मानं विजानातीति चेत् , ; भूमलक्षणविधिपरत्वाद्वाक्यस्य । ‘यत्र नान्यत्पश्यतिइत्यादि भूम्नो लक्षणविधिपरं वाक्यम् । यथाप्रसिद्धमेव अन्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति, भूमा इति भूमस्वरूपं तत्र ज्ञाप्यते । अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वात् स्वात्मनि क्रियास्तित्वपरं वाक्यम् । स्वात्मनि भेदाभावाद्विज्ञानानुपपत्तिः । आत्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्गः, ज्ञेयत्वेनैव विनियुक्तत्वात्
एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन उभयथा भवतीति चेत् , ; युगपदनंशत्वात् । हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम् । हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशः अर्थवान् । तस्मात् ज्ञातृत्वे सति आनन्त्यानुपपत्तिः । सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति ; सन्मात्रत्वं सत्यम् , तत् सत्यम्’ (छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् । तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः । ‘ज्ञानं ब्रह्मइति कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं प्रयुज्यते । ‘ज्ञानं ब्रह्मइति वचनात्प्राप्तमन्तवत्त्वम् , लौकिकस्य ज्ञानस्य अन्तवत्त्वदर्शनात् । अतः तन्निवृत्त्यर्थमाह - अनन्तमिति । सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य ब्रह्मणः उत्पलादिवदप्रसिद्धत्वात्मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः । एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरःइतिवत् शून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत् , ; लक्षणार्थत्वात् । विशेषणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम । शून्ये हि लक्ष्ये अनर्थकं लक्षणवचनम् । अतः लक्षणार्थत्वान्मन्यामहे शून्यार्थतेति । विशेषणार्थत्वेऽपि सत्यादीनां स्वार्थापरित्याग एव । शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः । सत्याद्यर्थैरर्थवत्त्वे तु तद्विपरीतधर्मवद्भ्यो विशेष्येभ्यो ब्रह्मणो विशेष्यस्य नियन्तृत्वमुपपद्यते । ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेव । तत्र अनन्तशब्दः अन्तवत्त्वप्रतिषेधद्वारेण विशेषणम् । सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः
तस्माद्वा एतस्मादात्मनःइति ब्रह्मण्येव आत्मशब्दप्रयोगात् वेदितुरात्मैव ब्रह्म । एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति आत्मतां दर्शयति । तत्प्रवेशाच्च ; तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति । अतो वेदितुः स्वरूपं ब्रह्म । एवं तर्हि, आत्मत्वाज्ज्ञानकर्तृत्वम् ; ‘आत्मा ज्ञाताइति हि प्रसिद्धम् , सोऽकामयत’ (तै. उ. २ । ६ । १) इति कामिनो ज्ञानकर्तृत्वप्रसिद्धिः ; अतो ज्ञानकर्तृत्वात् ज्ञप्तिर्ब्रह्मेत्ययुक्तम् ; अनित्यत्वप्रसङ्गाच्च ; यदि नाम ज्ञप्तिर्ज्ञानमिति भावरूपता ब्रह्मणः, तदाप्यनित्यत्वं प्रसज्येत ; पारतन्त्र्यं , धात्वर्थानां कारकापेक्षत्वात् , ज्ञानं धात्वर्थः ; अतोऽस्य अनित्यत्वं परतन्त्रता  । ; स्वरूपाव्यतिरेकेण कार्यत्वोपचारात् । आत्मनः स्वरूपं ज्ञप्तिः ततो व्यतिरिच्यते । अतो नित्यैव । तथापि बुद्धेरुपाधिलक्षणायाश्चक्षुरादिद्वारैर्विषयाकारपरिणामिन्याः ये शब्दाद्याकारावभासाः, ते आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एव आत्मविज्ञानेन व्याप्ता उत्पद्यन्ते । तस्मादात्मविज्ञानावभास्याश्च ते विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते । यत्तु ब्रह्मणो विज्ञानम् , तत् सवितृप्रकाशवत् अग्न्युष्णत्ववच्च ब्रह्मस्वरूपाव्यतिरिक्तं स्वरूपमेव तत् । तत्कारणान्तरसव्यपेक्षम् , नित्यस्वरूपत्वात् , सर्वभावानां तेनाविभक्तदेशकालत्वात् कालाकाशादिकारणत्वात् निरतिशयसूक्ष्मत्वाच्च । तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा अस्ति । तस्मात्सर्वज्ञं तद्ब्रह्म । मन्त्रवर्णाच्च अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः शृणोत्यकर्णः । वेत्ति वेद्यं तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३ । १९) इति । हि विज्ञतुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । ३०) इत्यादिश्रुतेश्च । विज्ञातृस्वरूपाव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिः । अतो नैव धात्वर्थस्तत् , अक्रियारूपत्वात् । अत एव ज्ञानकर्तृ ; तस्मादेव ज्ञानशब्दवाच्यमपि तद्ब्रह्म । तथापि तदाभासवाचकेन बुद्धिधर्मविशेषेण ज्ञानशब्देन तल्लक्ष्यते ; तु उच्यते, शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात् । तथा सत्यशब्देनापि । सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद्ब्रह्मणः बाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यतेसत्यं ब्रह्मइति ; तु सत्यशब्दवाच्यं ब्रह्म । एवं सत्यादिशब्दा इतरेतरसंनिधानादन्योन्यनियम्यनियामकाः सन्तः सत्यादिशब्दवाच्यात् निवर्तका ब्रह्मणः, लक्षणार्थाश्च भवन्तीति । अतः सिद्धम् यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ४ । १) अनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) इति अवाच्यत्वम् , नीलोत्पलवदवाक्यार्थत्वं ब्रह्मणः
तद्यथाव्याख्यातं ब्रह्म यः वेद विजानाति निहितं स्थितं गुहायाम् , गूहतेः संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः, गूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा, तस्यां परमे प्रकृष्टे व्योमन् व्योम्नि आकाशे अव्याकृताख्ये ; तद्धि परमं व्योम, एतस्मिन्खल्वक्षरे गार्ग्याकाशः’ (बृ. उ. ३ । ८ । ११) इत्यक्षरसंनिकर्षात् ; ‘गुहायां व्योमन्इति वा सामानाधिकरण्यादव्याकृताकाशमेव गुहा ; तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु, कारणत्वात्सूक्ष्मतरत्वाच्च ; तस्मिन्नन्तर्निहितं ब्रह्म । हार्दमेव तु परमं व्योमेति न्याय्यम् , विज्ञानाङ्गत्वेन व्योम्नो विवक्षितत्वात् । यो वै बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयमन्तर्हृदय आकाशः’ (छा. उ. ३ । १२ । ७), (छा. उ. ३ । १२ । ८) इति श्रुत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वम् । तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा, तस्यां निहितं ब्रह्म तद्व्यावृत्त्या विविक्ततयोपलभ्यत इति । ह्यन्यथा विशिष्टदेशकालसम्बन्धोऽस्ति ब्रह्मणः, सर्वगतत्वान्निर्विशेषत्वाच्च । सः एवं ब्रह्म विजानन् ; किमित्याह - अश्नुते भुङ्क्ते सर्वान् निरवशेषान् कामान् काम्यभोगानित्यर्थः । किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण ? नेत्याह - सह युगपत् एकक्षणोपारूढानेव एकयोपलब्ध्या सवितृप्रकाशवन्नित्यया ब्रह्मस्वरूपाव्यतिरिक्तया, यामवोचामसत्यं ज्ञानम्इति । एतत्तदुच्यते - ब्रह्मणा सहेति । ब्रह्मभूतो विद्वान् ब्रह्मस्वरूपेणैव सर्वान्कामान् सह अश्नुते । तथा यथोपाधिकृतेन स्वरूपेणात्मनो जलसूर्यकादिवत्प्रतिबिम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकरणापेक्षांश्च सर्वान्कामान्पर्यायेणाश्नुते लोकः । कथं तर्हि ? यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्रह्मात्मस्वरूपेण धर्मादिनिमित्तानपेक्षान् चक्षुरादिकरणानपेक्षांश्च सर्वान्कामान्सहाश्नुत इत्यर्थः । विपश्चिता मेधाविना सर्वज्ञेन । तद्धि वैपश्चित्यम् , यत्सर्वज्ञत्वम् । तेन सर्वज्ञस्वरूपेण ब्रह्मणा अश्नुत इति । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः
सर्व एव वल्ल्यर्थःब्रह्मविदाप्नोति परम्इति ब्राह्मण वाक्येन सूत्रितः । सूत्रितोऽर्थः सङ्क्षेपतो मन्त्रेण व्याख्यातः । पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्तद्वृत्तिस्थानीयो ग्रन्थ आरभ्यते - तस्माद्वा एतस्मादित्यादिः । तत्र सत्यं ज्ञानमनन्तं ब्रह्मइत्युक्तं मन्त्रादौ ; तत्कथं सत्यमनन्तं चेत्यत आह । त्रिविधं ह्यानन्त्यम् - देशतः कालतो वस्तुतश्चेति । तद्यथा - देशतोऽनन्त आकाशः ; हि देशतस्तस्य परिच्छेदोऽस्ति । तु कालतश्चानन्त्यं वस्तुतश्च आकाशस्य । कस्मात् ? कार्यत्वात् । नैवं ब्रह्मण आकाशवत्कालतोऽप्यन्तवत्त्वम् । अकार्यत्वात् । कार्यं हि वस्तु कालेन परिच्छिद्यते । अकार्यं ब्रह्म । तस्मात्कालतोऽस्यानन्त्यम् । तथा वस्तुतः । कथं पुनर्वस्तुत आनन्त्यम् ? सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते । यतो यस्य बुद्धेर्निवृत्तिः, तस्यान्तः । तद्यथा गोत्वबुद्धिरश्वत्वान्निवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति । चान्तो भिन्नेषु वस्तुषु दृष्टः । नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्यानन्त्यम् । कथं पुनः सर्वानन्यत्वं ब्रह्मण इति, उच्यते - सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म । कार्यापेक्षया वस्तुतोऽन्तवत्त्वमिति चेत् , ; अनृतत्वात्कार्यस्य वस्तुनः । हि कारणव्यतिरेकेण कार्यं नाम वस्तुतोऽस्ति, यतः कारणबुद्धिर्विनिवर्तेत ; वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमिति श्रुत्यन्तरात् । तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धं देशतः ; तस्येदं कारणम् ; तस्मात्सिद्धं देशत आत्मन आनन्त्यम् । ह्यसर्वगतात्सर्वगतमुत्पद्यमानं लोके किञ्चिद्दृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतः । तथा अकार्यत्वात्कालतः ; तद्भिन्नवस्त्वन्तराभावाच्च वस्तुतः । अत एव निरतिशयसत्यत्वम्
तस्मात् इति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते ; एतस्मात् इति मन्त्रवाक्येन अनन्तरं यथालक्षितम् । यद्ब्रह्म आदौ ब्राह्मणवाक्येन सूत्रितम् , यच्चसत्यं ज्ञानमनन्तं ब्रह्मइत्यनन्तरमेव लक्षितम् , तस्मादेतस्माद्ब्रह्मण आत्मनः आत्मशब्दवाच्यात् ; आत्मा हि तत् सर्वस्य, तत्सत्यं आत्मा’ (छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् ; अतो ब्रह्म आत्मा ; तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपात् आकाशः सम्भूतः समुत्पन्नः । आकाशो नाम शब्दगुणः अवकाशकरो मूर्तद्रव्याणाम् । तस्मात् आकाशात् स्वेन स्पर्शगुणेन पूर्वेण आकाशगुणेन शब्देन द्विगुणः वायुः, सम्भूत इत्यनुवर्तते । वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां त्रिगुणः अग्निः सम्भूतः । अग्नेश्च स्वेन रसगुणेन पूर्वैश्च त्रिभिः चतुर्गुणा आपः सम्भूताः । अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्च चतुर्भिः पञ्चगुणा पृथिवी सम्भूता । पृथिव्याः ओषधयः । ओषधीभ्यः अन्नम् । अन्नात् रेतोरूपेण परिणतात् पुरुषः शिरः - पाण्याद्याकृतिमान् । वै एष पुरुषः अन्नरसमयः अन्नरसविकारः पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजःसम्भूतं रेतो बीजम् । तस्माद्यो जायते, सोऽपि तथा पुरुषाकृतिरेव स्यात् ; सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् । सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे अविशिष्टे, कस्मात्पुरुष एव गृह्यते ? प्राधान्यात् । किं पुनः प्राधान्यम् ? कर्मज्ञानाधिकारः । पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते, ‘पुरुषे त्वेवाविस्तरामात्मा हि प्रज्ञानेन सम्पन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामतमीक्षतीत्येवं सम्पन्नः ; अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम्इत्यादि श्रुत्यन्तरदर्शनात्
हि पुरुषः इह विद्यया आन्तरतमं ब्रह्म सङ्क्रामयितुमिष्टः । तस्य बाह्याकारविशेषेष्वनात्मसु आत्मभाविताबुद्धिः विना आलम्बनविशेषं कञ्चित् सहसा आन्तरतमप्रत्यगात्मविषया निरालम्बना कर्तुमशक्येति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह - तस्येदमेव शिरः । तस्य अस्य पुरुषस्यान्नरसमयस्य इदमेव शिरः प्रसिद्धम् । प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहापि तत्प्रसङ्गो मा भूदिति इदमेव शिर इत्युच्यते । एवं पक्षादिषु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो बाहुः उत्तरः पक्षः । अयं मध्यमो देहभागः आत्मा अङ्गानाम् , ‘मध्यं ह्येषामङ्गानामात्माइति श्रुतेः । इदमिति नाभेरधस्ताद्यदङ्गम् , तत् पुच्छं प्रतिष्ठा । प्रतितिष्ठत्यनयेति प्रतिष्ठा । पुच्छमिव पुच्छम् , अधोलम्बनसामान्यात् , यथा गोः पुच्छम् । एतत्प्रकृत्य उत्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः, मूषानिषिक्तद्रुतताम्रप्रतिमावत् । तदप्येष श्लोको भवति । तत् तस्मिन्नेवार्थे ब्राह्मणोक्ते अन्नमयात्मप्रकाशके एष श्लोकः मन्त्रः भवति
इति प्रथमानुवाकभाष्यम् ॥
अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
अन्नात् रसादिभावपरिणतात् , वै इति स्मरणार्थः, प्रजाः स्थावरजङ्गमात्मकाः, प्रजायन्ते । याः काश्च अविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रिताः, ताः सर्वा अन्नादेव प्रजायन्ते । अथो अपि, जाताः अन्नेनैव जीवन्ति प्राणान्धारयन्ति, वर्धन्त इत्यर्थः । अथ अपि, एनत् अन्नम् , अपियन्ति अपिगच्छन्ति, अपि शब्दः प्रतिशब्दार्थे, अन्नं प्रति लीयन्त इत्यर्थः ; अन्ततः अन्ते जीवनलक्षणाया वृत्तेः परिसमाप्तौ । कस्मात् ? अन्नं हि यस्मात् भूतानां प्राणिनां ज्येष्ठं प्रथमजम् । अन्नमयादीनां हि इतरेषां भूतानां कारणमन्नम् ; अतः अन्नप्रभवा अन्नजीवना अन्नप्रलयाश्च सर्वाः प्रजाः । यस्माच्चैवम् , तस्मात् सर्वौषधं सर्वप्राणिनां देहदाहप्रशमनमन्नमुच्यते
अन्नब्रह्मविदः फलमुच्यते - सर्वं वै ते समस्तमन्नजातम् आप्नुवन्ति । के ? ये अन्नं ब्रह्म यथोक्तम् उपासते । कथम् ? अन्नजोऽन्नात्मान्नप्रलयोऽहम् , तस्मादन्नं ब्रह्म इति । कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमिति, उच्यते - अन्नं हि भूतानां ज्येष्ठं भूतेभ्यः पूर्वमुत्पन्नत्वाज्ज्येष्ठं हि यस्मात् , तस्मात्सर्वौषधमुच्यते ; तस्मादुपपन्ना सर्वान्नात्मोपासकस्य सर्वान्नप्राप्तिः । अन्नाद्भूतानि जायन्ते, जातान्यन्नेन वर्धन्ते इति उपसंहारार्थं पुनर्वचनम् । इदानीमन्नशब्दनिर्वचनमुच्यते - अद्यते भुज्यते चैव यद्भूतैः अत्ति भूतानि स्वयम् , तस्मात् भूतैर्भुज्यमानत्वाद्भूतभोक्तृत्वाच्च अन्नं तत् उच्यते । इति शब्दः प्रथमकोशपरिसमाप्त्यर्थः । अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्यः अभ्यन्तरतमं ब्रह्म विद्यया प्रत्यगात्मत्वेन दिदर्शयिषु शास्त्रम् अविद्याकृतपञ्चकोशापनयनेन अनेकतुषकोद्रववितुषीकरणेनेव तण्डुलान् प्रस्तौति - तस्माद्वा एतस्मादन्नरसमयादित्यादि । तस्माद्वै एतस्मात् यथोक्तात् अन्नरसमयात्पिण्डात् अन्यः व्यतिरिक्तः अन्तरः अभ्यन्तरः आत्मा पिण्डवदेव मिथ्यापरिकल्पित आत्मत्वेन प्राणमयः, प्राणः वायुः, तन्मयः तत्प्रायः । तेन प्राणमयेन एषः अन्नरसमय आत्मा पूर्णः वायुनेव दृतिः । वै एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव शिरःपक्षादिभिः । किं स्वत एव ? नेत्याह - प्रसिद्धं तावदन्नरसमयस्यात्मनः पुरुषविधत्वम् ; तस्य अन्नरसमयस्य पुरुषविधतां पुरुषाकारताम् अनु अयं प्राणमयः पुरुषविधः मूषानिषिक्तप्रतिमावत् , स्वत एव । एवं पूर्वस्य पूर्वस्य पुरुषविधता ; तामनु उत्तरोत्तरः पुरुषविधो भवति, पूर्वः पूर्वश्चोत्तरोत्तरेण पूर्णः । कथं पुनः पुरुषविधता अस्येति, उच्यते - तस्य प्राणमयस्य प्राण एव शिरः प्राणमयस्य वायुविकारस्य प्राणः मुखनासिकानिःसरणो वृत्तिविशेषः शिर इति कल्प्यते, वचनात् । सर्वत्र वचनादेव पक्षादिकल्पना । व्यानः व्यानवृत्तिः दक्षिणः पक्षः । अपानः उत्तरः पक्षः । आकाश आत्मा, आकाशस्थो वृत्तिविशेषः समानाख्यः, आत्मेव आत्मा प्राणवृत्त्यधिकारात् । मध्यस्थत्वादितराः पर्यन्ता वृत्तीरपेक्ष्य आत्मा ; ‘मध्यं ह्येषामङ्गानामात्माइति प्रसिद्धं मध्यस्थस्यात्मत्वम् । पृथिवी पुच्छं प्रतिष्ठा । पृथिवीति पृथिवीदेवता आध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् । सैषा पुरुषस्यापानमवष्टभ्य’ (प्र. उ. ३ । ८) इति हि श्रुत्यन्तरम् । अन्यथा उदानवृत्त्या ऊर्ध्वगमनं गुरुत्वात्पतनं वा स्याच्छरीरस्य । तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्य आत्मनः । तत् तस्मिन्नेवार्थे प्राणमयात्मविषये एष श्लोको भवति
इति द्वितीयानुवाकभाष्यम् ॥
प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
प्राणं देवा अनु प्राणन्ति । अग्न्यादयः देवाः प्राणं वाय्वात्मानं प्राणनशक्तिमन्तम् अनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति, प्राणनक्रियया क्रियावन्तो भवन्ति । अध्यात्माधिकारात् देवाः इन्द्रियाणि प्राणमनु प्राणन्ति । मुख्यप्राणमनु चेष्टन्त इति वा । तथा मनुष्याः पशवश्च ये, ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति । अतश्च नान्नमयेनैव परिच्छिन्नात्मना आत्मवन्तः प्राणिनः । किं तर्हि ? तदन्तर्गतप्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिना आत्मवन्तो मनुष्यादयः । एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिः उत्तरोत्तरैः सूक्ष्मैः आनन्दमयान्तैराकाशादिभूतारब्धैरविद्याकृतैः आत्मवन्तः सर्वे प्राणिनः ; तथा, स्वाभाविकेनाप्याकाशादिकारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तलक्षणेन पञ्चकोशातिगेन सर्वात्मना आत्मवन्तः ; हि परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति । प्राणं देवा अनु प्राणन्तीत्याद्युक्तम् ; तत्कस्मादित्याह - प्राणः हि यस्मात् भूतानां प्राणिनाम् आयुः जीवनम् , यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदेवायुः’ (कौ. उ. ३ । २) इति श्रुत्यन्तरात् । तस्मात् सर्वायुषम् , सर्वेषामायुः सर्वायुः, सर्वायुरेव सर्वायुषम् इत्युच्यते ; प्राणापगमे मरणप्रसिद्धेः । प्रसिद्धं हि लोके सर्वायुष्ट्वं प्राणस्य । अतः अस्माद्बाह्यादसाधारणादन्नमयादात्मनोऽपक्रम्य अन्तः साधारणं प्राणमयमात्मानं ब्रह्म उपासते येअहमस्मि प्राणः सर्वभूतानामात्मा आयुः, जीवनहेतुत्वात्इति, ते सर्वमेव आयुः अस्मिंल्लोके यन्ति ; नापमृत्युना म्रियन्ते प्राक्प्राप्तादायुष इत्यर्थः । शतं वर्षाणीति तु युक्तम् , सर्वमायुरेति’ (छा. उ. २ । ११ । २)(छा. उ. ४ । ११ । २) इति श्रुतिप्रसिद्धेः । किं कारणम् ? - प्राणो हि भूतानामायुः तस्मात्सर्वायुषमुच्यत इति । यो यद्गुणकं ब्रह्मोपास्ते, तद्गुणभाग्भवतीति विद्याफलप्राप्तेर्हेत्वर्थं पुनर्वचनम् - प्राणो हीत्यादि । तस्य पूर्वस्य अन्नमयस्य एष एव शरीरे अन्नमये भवः शारीरः आत्मा । कः ? एष प्राणमयः । तस्माद्वा एतस्मादित्याद्युक्तार्थमन्यत् । अन्योऽन्तर आत्मा मनोमयः । मन इति सङ्कल्पविकल्पात्मकमन्तःकरणम् , तन्मयो मनोमयः ; सोऽयं प्राणमयस्याभ्यन्तर आत्मा । तस्य यजुरेव शिरः । यजुरिति अनियताक्षरपादावसानो मन्त्रविशेषः ; तज्जातीयवचनो यजुःशब्दः ; तस्य शिरस्त्वम् , प्राधान्यात् । प्राधान्यं यागादौ संनिपत्योपकारकत्वात् यजुषा हि हविर्दीयते स्वाहाकारादिना
वाचनिकी वा शिरआदिकल्पना सर्वत्र । मनसो हि स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया तत्सङ्कल्पात्मिका तद्भाविता वृत्तिः श्रोत्रकरणद्वारा यजुःसङ्केतेन विशिष्टा यजुरित्युच्यते । एवम् ऋक् ; एवं साम  । एवं मनोवृत्तित्वे मन्त्राणाम् , वृत्तिरेव आवर्त्यत इति मानसो जप उपपद्यते । अन्यथा अविषयत्वान्मन्त्रो नावर्तयितुं शक्यः घटादिवत् इति मानसो जपो नोपपद्यते । मन्त्रावृत्तिश्चोद्यते बहुशः कर्मसु । अक्षरविषयस्मृत्यावृत्त्या मन्त्रावृत्तिः स्यात् इति चेत् , ; मुख्यार्थासम्भवात् । ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्इति ऋगावृत्तिः श्रूयते । तत्र ऋचः अविषयत्वे तद्विषयस्मृत्यावृत्त्या मन्त्रावृत्तौ क्रियमाणायाम्त्रिः प्रथमामन्वाहइति ऋगावृत्तिर्मुख्योऽर्थश्चोदितः परित्यक्तः स्यात् । तस्मान्मनोवृत्त्युपाधिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्मचैतन्यमनादिनिधनं यजुःशब्दवाच्यम् आत्मविज्ञानं मन्त्रा इति । एवं नित्यत्वोपपत्तिर्वेदानाम् । अन्यथाविषयत्वे रूपादिवदनित्यत्वं स्यात् ; नैतद्युक्तम् । ‘सर्वे वेदा यत्रैकं भवन्ति मानसीन आत्माइति श्रुतिः नित्यात्मनैकत्वं ब्रुवन्ती ऋगादीनां नित्यत्वे समञ्जसा स्यात् । ऋचोऽक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः’ (श्वे. उ. ४ । ८) इति मन्त्रवर्णः । आदेशः अत्र ब्राह्मणम् , आदेष्टव्यविशेषानादिशतीति । अथर्वणाङ्गिरसा दृष्टा मन्त्रा ब्राह्मणं शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात् पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति मनोमयात्मप्रकाशकः पूर्ववत्
इति तृतीयानुवाकभाष्यम् ॥
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादि । तस्य पूर्वस्य प्राणमयस्य एष एव आत्मा शारीरः शरीरे प्राणमये भवः शरीरः । कः ? एष मनोमयः । तस्माद्वा एतस्मादिति पूर्ववत् । अन्योऽन्तर आत्मा विज्ञानमयः मनोमयस्याभ्यन्तरो विज्ञानमयः । मनोमयो वेदात्मा उक्तः । वेदार्थविषया बुद्धिर्निश्चयात्मिका विज्ञानम् , तच्चाध्यवसायलक्षणमन्तःकरणस्य धर्मः, तन्मयः निश्चयविज्ञानैः प्रमाणस्वरूपैर्निर्वर्तितः आत्मा विज्ञानमयः प्रमाणविज्ञानपूर्वको हि यज्ञादिः तायते । यज्ञादिहेतुत्वं वक्ष्यति श्लोकेन । निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्वं श्रद्धा उपपद्यते । सा सर्वकर्तव्यानां प्राथम्यात् शिर इव शिरः । ऋतसत्ये यथाव्याख्याते एव । योगः युक्तिः समाधानम् आत्मैव आत्मा । आत्मवतो हि युक्तस्य समाधानवतः अङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति । तस्मात्समाधानं योग आत्मा विज्ञानमयस्य । महः पुच्छं प्रतिष्ठा । मह इति महत्तत्त्वं प्रथमजम् , महद्यक्षं प्रथमजं वेद’ (बृ. उ. ५ । ४ । १) इति श्रुत्यन्तरात् , पुच्छं प्रतिष्ठा कारणत्वात् । कारणं हि कार्याणां प्रतिष्ठा, यथा वृक्षवीरुधां पृथिवी । सर्वविज्ञानानां महत्तत्त्वं कारणम् । तेन तद्विज्ञानमयस्यात्मनः प्रतिष्ठा । तदप्येष श्लोको भवति पूर्ववत् । यथा अन्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्लोकाः, एवं विज्ञानमयस्यापि
इति चतुर्थानुवाकभाष्यम् ॥
विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुष विधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
विज्ञानं यज्ञं तनुते, विज्ञानवान्हि यज्ञं तनोति श्रद्धापूर्वकम् ; अतो विज्ञानस्य कर्तृत्वं तनुत इति । कर्माणि तनुते । यस्माद्विज्ञानकर्तृकं सर्वम् , तस्माद्युक्तं विज्ञानमय आत्मा ब्रह्मेति । किञ्च, विज्ञानं ब्रह्म सर्वे देवाः इन्द्रादयः ज्येष्ठम् , प्रथमजत्वात् ; सर्ववृत्तीनां वा तत्पूर्वकत्वात्प्रथमजं विज्ञानं ब्रह्म उपासते ध्यायन्ति, तस्मिन्विज्ञानमये ब्रह्मण्यभिमानं कृत्वा उपासत इत्यर्थः । तस्मात्ते महतो ब्रह्मण उपासनात् ज्ञानैश्वर्यवन्तो भवन्ति । तच्च विज्ञानं ब्रह्म चेत् यदि वेद विजानाति ; केवलं वेदैव, तस्मात् ब्रह्मणः चेत् प्रमाद्यति ; बाह्येष्वनात्मस्वात्मा भावितः ; तस्मात्प्राप्तं विज्ञानमये ब्रह्मण्यात्मभावनायाः प्रमदनम् ; तन्निवृत्त्यर्थमुच्यते - तस्माच्चेन्न प्रमाद्यतीति । अन्नमयादिष्वात्मभावं हित्वा केवले विज्ञानमये ब्रह्मण्यात्मत्वं भावयन्नास्ते चेदित्यर्थः । ततः किं स्यादिति, उच्यते - शरीरे पाप्मनो हित्वा ; शरीराभिमाननिमित्ता हि सर्वे पाप्मानः ; तेषां विज्ञानमये ब्रह्मण्यात्माभिमानात् निमित्तापाये हानमुपपद्यते ; छत्रापाय इव च्छायायाः । तस्मात् शरीराभिमाननिमित्तान्सर्वान् पाप्मनः शरीरप्रभवान् शरीरे एव हित्वा विज्ञानमयब्रह्मस्वरूपापन्नः तत्स्थान् सर्वान् कामान् विज्ञानमयेनैवात्मना समश्नुते सम्यग्भुङ्क्ते इत्यर्थः । तस्य पूर्वस्य मनोमयस्य आत्मा एष एव शरीरे मनोमये भवः शारीरः । कः ? एष विज्ञानमयः । तस्माद्वा एतस्मादित्युक्तार्थम् । आनन्दमय इति कार्यात्मप्रतीतिः, अधिकारात् मयट्शब्दाच्च । अन्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः । तदधिकारपतितश्चायमानन्दमयः । मयट् चात्र विकारार्थे दृष्टः, यथा अन्नमय इत्यत्र । तस्मात्कार्यात्मा आनन्दमयः प्रत्येतव्यः । सङ्क्रमणाच्च । ‘आनन्दमयमात्मानमुपसङ्क्रामतिइति वक्ष्यति । कार्यात्मनां सङ्क्रमणमन्नात्मनां दृष्टम् । सङ्क्रमणकर्मत्वेन आनन्दमय आत्मा श्रूयते, यथाअन्नमयमात्मानमुपसङ्क्रामतिइति । आत्मन एवोपसङ्क्रमणम् , अधिकारविरोधात् । असम्भवाच्च । ह्यात्मनैव आत्मन उपसङ्क्रमणं सम्भवति, स्वात्मनि भेदाभावात् ; आत्मभूतं ब्रह्म सङ्क्रमितुः । शिरआदिकल्पनानुपपत्तेश्च । हि यथोक्तलक्षणे आकाशादिकारणे अकार्यपतिते शिरआद्यवयवरूपकल्पना उपपद्यते । अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यादिविशेषापोहश्रुतिभ्यश्च । मन्त्रोदाहरणानुपपत्तेश्च । हि, प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूयमाने आनन्दमये आत्मनि ब्रह्मणि नास्ति ब्रह्मेत्याशङ्काभावात् असन्नेव भवति असद्ब्रह्मेति वेद चेत्’ (तै. उ. २ । ६ । १) इति मन्त्रोदाहरणमुपपद्यते । ‘ब्रह्म पुच्छं प्रतिष्ठाइत्यपि चानुपपन्नं पृथग्ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम् । तस्मात्कार्यपतित एवानन्दमयः, पर एवात्मा । आनन्द इति विद्याकर्मणोः फलम् , तद्विकार आनन्दमयः । विज्ञानमयादान्तरः, यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः । ज्ञानकर्मणोर्हि फलं भोक्त्रर्थत्वादान्तरतमं स्यात् ; आन्तरतमश्च आनन्दमय आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रियाद्यर्थत्वाच्च । प्रियादिप्रयुक्ते हि विद्याकर्मणी ; तस्मात्प्रियादीनां फलरूपाणामात्मसंनिकर्षात् विज्ञानमयादस्याभ्यन्तरत्वमुपपद्यते ; प्रियादिवासनानिर्वर्तितो ह्यात्मा आनन्दमयो विज्ञानमयाश्रितः स्वप्ने उपलभ्यते । तस्य आनन्दमयस्यात्मनः इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः, प्राधान्यात् । मोद इति प्रियलाभनिमित्तो हर्षः । एव प्रकृष्टो हर्षः प्रमोदः । आनन्द इति सुखसामान्यम् आत्मा प्रियादीनां सुखावयवानाम् , तेष्वनुस्यूतत्वात् । आनन्द इति परं ब्रह्म ; तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधौ अन्तःकरणवृत्तिविशेषे तमसा अप्रच्छाद्यमाने प्रसन्ने अभिव्यज्यते । तद्विषयसुखमिति प्रसिद्धं लोके । तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात् सुखस्य क्षणिकत्वम् । तद्यदन्तःकरणं तपसा तमोघ्नेन विद्यया ब्रह्मचर्येण श्रद्धया निर्मलत्वमापद्यते यावत् , तावत् विविक्ते प्रसन्ने अन्तःकरणे आनन्दविशेष उत्कृष्यते विपुलीभवति । वक्ष्यति - रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति, एष ह्येवानन्दयाति’ (तै. उ. २ । ७ । १) एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । एवं कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्षः आनन्दस्य वक्ष्यते । एवं उत्कृष्यमाणस्य आनन्दमयस्यात्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्प्रकृतं सत्यज्ञानानन्तलक्षणम् , यस्य प्रतिपत्त्यर्थं पञ्च अन्नादिमयाः कोशा उपन्यस्ताः, यच्च तेभ्य आभ्यन्तरम् , येन ते सर्वे आत्मवन्तः, तत् ब्रह्म पुच्छं प्रतिष्ठा । तदेव सर्वस्याविद्यापरिकल्पितस्य द्वैतस्य अवसानभूतम् अद्वैतं ब्रह्म प्रतिष्ठा, आनन्दमयस्य एकत्वावसानत्वात् । अस्ति तदेकमविद्याकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा पुच्छम् । तदेतस्मिन्नप्यर्थे एष श्लोको भवति
इति पञ्चमानुवाकभाष्यम् ॥
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेन न्ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती ३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता ३ उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥
असन्नेव असत्सम एव, यथा असन् अपुरुषार्थसम्बन्धी, एवं सः भवति अपुरुषार्थसम्बन्धी । कोऽसौ ? यः असत् अविद्यमानं ब्रह्म इति वेद विजानाति चेत् यदि । तद्विपर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजं सर्वविशेषप्रत्यस्तमितमपि, अस्ति तत् ब्रह्म इति वेद चेत् , कुतः पुनराशङ्का तन्नास्तित्वे ? व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः । व्यवहारविषये हि वाचारम्भणमात्रे अस्तित्वभावितबुद्धिः तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते । यथाघटादिर्व्यवहारविषयतयोपपन्नः सन् , तद्विपरीतः असन्इति प्रसिद्धम् , एवं तत्सामान्यादिहापि स्याद्ब्रह्मणो नास्तित्वं प्रत्याशङ्का । तस्मादुच्यते - अस्ति ब्रह्मेति चेद्वेदेति । किं पुनः स्यात्तदस्तीति विजानतः ? तदाह - सन्तं विद्यमानं ब्रह्मस्वरूपेण परमार्थसदात्मापन्नम् एनम् एवंविदं विदुः ब्रह्मविदः । ततः तस्मात् अस्तित्ववेदनात् सः अन्येषां ब्रह्मवद्विज्ञेयो भवतीत्यर्थः । अथवा यो नास्ति ब्रह्मेति मन्यते, सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्य नास्तित्वं प्रतिपद्यते ; ब्रह्मप्रतिपत्त्यर्थत्वात्तस्य । अतः नास्तिकः सः असन् असाधुरुच्यते लोके । तद्विपरीतः सन् यः अस्ति ब्रह्मेति चेद्वेद, तद्ब्रह्मप्रतिपत्तिहेतुं सन्मार्गं वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात् , ततः तस्मात् सन्तं साधुमार्गस्थम् एनं विदुः साधवः । तस्मादस्तीत्येव ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः । तस्य पूर्वस्य विज्ञानमयस्य एष एव शरीरे विज्ञानमये भवः शारीरः आत्मा । कोऽसौ ? एष आनन्दमयः । तं प्रति नास्त्याशङ्का नास्तित्वे । अपोढसर्वविशेषत्वात्तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता ; सर्वसाम्याच्च ब्रह्मणः । यस्मादेवम् , अतः तस्मात् अथ अनन्तरं श्रोतुः शिष्यस्य अनुप्रश्नाः आचार्योक्तिमनु एते प्रश्नाः । सामान्यं हि ब्रह्म आकाशादिकारणत्वात् विदुषः अविदुषश्च ; अतः अविदुषोऽपि ब्रह्मप्राप्तिराशङ्क्यते - उत अपि अविद्वान् अमुं लोकं परमात्मानम् इतः प्रेत्य कश्चन, चनशब्दः अप्यर्थे, अविद्वानपि गच्छति प्राप्नोति ? ‘किं वा गच्छति ? ’इति द्वितीयोऽपि प्रश्नो द्रष्टव्यः, अनुप्रश्ना इति बहुवचनात् । विद्वांसं प्रत्यन्यौ प्रश्नौ - यद्यविद्वान्सामान्यं कारणमपि ब्रह्म गच्छति, अतो विदुषोऽपि ब्रह्मागमनमाशङ्क्यते ; अतस्तं प्रति प्रश्नः - आहो विद्वानिति । उकारं वक्ष्यमाणमधस्तादपकृष्य तकारं पूर्वस्मादुतशब्दाद्व्यासज्य आहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छति - उताहो विद्वानिति । विद्वान् ब्रह्मविदपि कश्चित् इतः प्रेत्य अमुं लोकं समश्नुते प्राप्नोति । समश्नुते इत्येवं स्थिते, अयादेशे यलोपे कृते, अकारस्य प्लुतिः - समश्नुता इति । विद्वान्समश्नुते अमुं लोकम् ; किं वा, यथा अविद्वान् , एवं विद्वानपि समश्नुते इत्यपरः प्रश्नः । द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयौ ; बहुवचनं तु सामर्थ्यप्राप्तप्रश्नान्तरापेक्षया घटते । ‘असद् ब्रह्मेति वेद चेत्’ ‘अस्ति ब्रह्मेति चेद्वेदइति श्रवणादस्ति नास्तीति संशयः । ततः अर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः । ब्रह्मणः अपक्षपातित्वात् अविद्वान्गच्छति गच्छतीति द्वितीयः । ब्रह्मणः समत्वेऽपि अविदुष इव विदुषोऽप्यगमनमाशङ्क्य किं विद्वान्समश्नुते समश्नुते इति तृतीयोऽनुप्रश्नः
एतेषां प्रतिवचनार्थ उत्तरो ग्रन्थ आरभ्यते । तत्र अस्तित्वमेव तावदुच्यते । यच्चोक्तम्सत्यं ज्ञानमनन्तं ब्रह्मइति, तत्र कथं सत्यत्वमित्येतद्वक्तव्यमिति इदमुच्यते । सत्त्वोक्त्यैव सत्यत्वमुच्यते । उक्तं हि सदेव सत्यमिति ; तस्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते । कथमेवमर्थता अवगम्यते अस्य ग्रन्थस्य ? शब्दानुगमात् । अनेनैव ह्यर्थेनान्वितानि उत्तरवाक्यानि - तत्सत्यमित्याचक्षते’ (तै. उ. २ । ६ । १) यदेष आकाश आनन्दो स्यात्’ (तै. उ. २ । ७ । १) इत्यादीनि । तत्र असदेव ब्रह्मेत्याशङ्क्यते । कस्मात् ? यदस्ति, तद्विशेषतो गृह्यते ; यथा घटादि । यन्नास्ति, तन्नोपलभ्यते ; यथा शशविषाणादि । तथा नोपलभ्यते ब्रह्म ; तस्माद्विशेषतः अग्रहणान्नास्तीति । तन्न, आकाशादिकारणत्वाद्ब्रह्मणः । नास्ति ब्रह्म । कस्मात् ? आकाशादि हि सर्वं कार्यं ब्रह्मणो जातं गृह्यते ; यस्माच्च जायते किञ्चित् , तदस्तीति दृष्टं लोके, यथा घटाङ्कुरादिकारणं मृद्बीजादि ; तस्मादाकाशादिकारणत्वादस्ति ब्रह्म । चासतो जातं किञ्चिद्गृह्यते लोके कार्यम् । असतश्चेन्नामरूपादि कार्यम् , निरात्मकत्वान्नोपलभ्येत ; उपलभ्यते तु ; तस्मादस्ति ब्रह्म । असतश्चेत्कार्यं गृह्यमाणमपि असदन्वितमेव स्यात् ; चैवम् ; तस्मादस्ति ब्रह्म । तत्र कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति श्रुत्यन्तरमसतः सज्जन्मासम्भवमन्वाचष्टे न्यायतः । तस्मात्सदेव ब्रह्मेति युक्तम् । तद्यदि मृद्बीजादिवत् कारणं स्यात् , अचेतनं तर्हि । ; कामयितृत्वात् । हि कामयित्रचेतनमस्ति लोके । सर्वज्ञं हि ब्रह्मेत्यवोचाम ; अतः कामयितृत्वोपपत्तिः । कामयितृत्वादस्मदादिवदनाप्तकाममिति चेत् , ; स्वातन्त्र्यात् । यथा अन्यान्परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति, तथा ब्रह्मणः प्रवर्तकाः कामाः । कथं तर्हि ? सत्यज्ञानलक्षणाः स्वात्मभूतत्वाद्विशुद्धाः । तैर्ब्रह्म प्रवर्त्यते ; तेषां तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापेक्षया । तस्मात्स्वातन्त्र्यं कामेषु ब्रह्मणः ; अतो अनाप्तकामं ब्रह्म । साधनान्तरानपेक्षत्वाच्च । यथा अन्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिरिक्तकार्यकरणसाधनान्तरापेक्षाश्च, तथा ब्रह्मणः । किं तर्हि ? स्वात्मनोऽनन्याः । तदेतदाह - सोऽकामयत । सः आत्मा यस्मादाकाशः सम्भूतः, अकामयत कामितवान् । कथम् ? बहु प्रभूतं स्यां भवेयम् । कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्यादिति, उच्यते - प्रजायेय उत्पद्येय । हि पुत्रोत्पत्तेरिवार्थान्तरविषयं बहुभवनम् । कथं तर्हि ? आत्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या । यदा आत्मस्थे अनभिव्यक्ते नामरूपे व्याक्रियेते, तदा आत्मस्वरूपापरित्यागेनैव ब्रह्मणः अप्रविभक्तदेशकाले सर्वावस्थासु व्याक्रियेते । तदेतन्नामरूपव्याकरणं ब्रह्मणो बहुभवनम् । नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते अल्पत्वं वा, यथा आकाशस्याल्पत्वं बहुत्वं वस्त्वन्तरकृतमेव । अतः तद्द्वारेणैवात्मा बहु भवति । ह्यात्मनोऽन्यदनात्मभूतं तत्प्रविभक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते । अतः नामरूपे सर्वावस्थे ब्रह्मणैवात्मवती । ब्रह्म तदात्मकम् । ते तत्प्रत्याख्याने स्त एवेति तदात्मके उच्येते । ताभ्यां उपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग्ब्रह्म । सः आत्मा एवंकामः सन् तपः अतप्यत । तप इति ज्ञानमुच्यते, यस्य ज्ञानमयं तपः’ (मु. उ. १ । १ । ८) इति श्रुत्यन्तरात् । आप्तकामत्वाच्च इतरस्य असम्भव एव तपसः । तत्तपः अतप्यत तप्तवान् , सृज्यमानजगद्रचनादिविषयामालोचनामकरोदात्मेत्यर्थः । सः एवमालोच्य तपः तप्त्वा प्राणिकर्मादिनिमित्तानुरूपम् इदं सर्वं जगत् देशतः कालतः नाम्ना रूपेण यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैरनुभूयमानम् असृजत सृष्टवान् । यदिदं किञ्च यत्किञ्चेदमविशिष्टम् , तत् इदं जगत् सृष्ट्वा, किमकरोदिति, उच्यते - तदेव सृष्टं जगत् अनुप्राविशदिति
तत्रैतच्चिन्त्यम् - कथमनुप्राविशदिति । किम् , यः स्रष्टा, तेनैवात्मनानुप्राविशत् , उत अन्येनेति ? किं तावद्युक्तम् ? क्त्वाप्रत्ययश्रवणात् , यः स्रष्टा, एवानुप्राविशदिति । ननु युक्तं मृद्वच्चेत्कारणं ब्रह्म, तदात्मकत्वात्कार्यस्य, कारणमेव हि कार्यात्मना परिणमते ; अतः अप्रविष्टस्यैव कार्योत्पत्तेरूर्ध्वं पृथक्कारणस्य पुनः प्रवेशोऽनुपपन्नः । हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति । यथा घटे चूर्णात्मना मृदोऽनुप्रवेशः, एवमनेन आत्मना नामरूपकार्ये अनुप्रवेश आत्मनः इति चेत् , श्रुत्यन्तराच्च अनेन जीवेनात्मनानुप्रविश्य’ (छा. उ. ६ । ३ । २) इति ; नैवं युक्तम् , एकत्वाद्ब्रह्मणः । मृदात्मनस्त्वनेकत्वात् सावयवत्वाच्च युक्तो घटे मृदश्चूर्णात्मनानुप्रवेशः, मृदश्चूर्णस्य अप्रविष्टदेशत्वाच्च । त्वात्मन एकत्वे सति निरवयवत्वादप्रविष्टदेशाभावाच्च प्रवेश उपपद्यते ; कथं तर्हि प्रवेशः स्यात् ? युक्तश्च प्रवेशः, श्रुतत्वात् - ‘तदेवानुप्राविशत्इति । सावयवमेवास्तु ; तर्हि सावयवत्वात् मुखो हस्तप्रवेशवत् नामरूपकार्ये जीवात्मनानुप्रवेशो युक्त एवेति चेत् , ; अशून्यदेशत्वात् । हि कार्यात्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेण आत्मशून्यः प्रदेशोऽस्ति, यं प्रविशेज्जीवात्मना । कारणमेव चेत्प्रविशेत् , जीवात्मत्वं जह्यात् , यथा घटो मृत्प्रवेशे घटत्वं जहाति । ‘तदेवानुप्राविशत्इति श्रुतेर्न कारणानुप्रवेशो युक्तः । कार्यान्तरमेव स्यादिति चेत् - तदेवानुप्राविशदिति जीवात्मरूपं कार्यं नामरूपपरिणतं कार्यान्तरमेव आपद्यत इति चेत् , ; विरोधात् । हि घटो घटान्तरमापद्यते, व्यतिरेकश्रुतिविरोधाच्च । जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन् ; तदापत्तौ मोक्षासम्भवाच्च । हि यतो मुच्यमानः, तदेव आपद्यते । हि शृङ्खलापत्तिः बद्धस्य तस्करादेः । बाह्यान्तर्भेदेन परिणतमिति चेत् - तदेव कारणं ब्रह्म शरीराद्याधारत्वेन तदन्तर्जीवात्मना आधेयत्वेन परिणतमिति चेत् , ; बहिष्ठस्य प्रवेशोपपत्तेः । हि यो यस्यान्तःस्थः एव तत्प्रविष्ट उच्यते । बहिष्ठस्यानुप्रवेशः स्यात् , प्रवेशशब्दार्थस्यैवं दृष्टत्वात् - यथा गृहं कृत्वा प्राविशदिति । जलसूर्यकादिप्रतिबिम्बवत् प्रवेशः स्यादिति चेत् , ; अपरिच्छिन्नत्वादमूर्तत्वाच्च । परिच्छिन्नस्य मूर्तस्यान्यस्य अन्यत्र प्रसादस्वभावके जलादौ सूर्यकादिप्रतिबिम्बोदयः स्यात् , त्वात्मनः ; अमूर्तत्वात् , आकाशादिकारणस्य आत्मनः व्यापकत्वात् । तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च प्रतिबिम्बवत्प्रवेशो युक्तः । एवं तर्हि नैवास्ति प्रवेशः ; गत्यन्तरमुपलभामहे, ‘तदेवानुप्राविशत्इति श्रुतेः । श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम् । चास्माद्वाक्यात् यत्नवतामपि विज्ञानमुत्पद्यते । हन्त तर्ह्यनर्थकत्वादपोह्यमेतद्वाक्यम्तत्सृष्ट्वा तदेवानुप्राविशत्इति ; , अन्यार्थत्वात् । किमर्थमस्थाने चर्चा ? प्रकृतो ह्यन्यो विवक्षितोऽस्य वाक्यार्थः अस्ति ; स्मर्तव्यः - ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) यो वेद निहितं गुहायाम्’ (तै. उ. २ । १ । १) इति । तद्विज्ञानं विवक्षितम् ; प्रकृतं तत् । ब्रह्मस्वरूपावगमाय आकाशाद्यन्नमयान्तं कार्यं प्रदर्शितम् ; ब्रह्मावगमश्च आरब्धः । तत्र अन्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणमयः ; तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायां प्रवेशितः ; तत्र आनन्दमयो विशिष्ट आत्मा प्रदर्शितः । अतः परमानन्दमयलिङ्गाधिगमद्वारेण आनन्दविवृद्ध्यवसान आत्मा । ब्रह्म पुच्छं प्रतिष्ठा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते । ह्यन्यत्रोपलभ्यते ब्रह्म, निर्विशेषत्वात् ; विशेषसम्बन्धो ह्युपलब्धिहेतुर्दृष्टः - यथा राहोश्चन्द्रार्कविशेषसम्बन्धः । एवमन्तःकरणगुहात्मसम्बन्धो ब्रह्मण उपलब्धिहेतुः, संनिकर्षात् , अवभासात्मकत्वाच्च अन्तःकरणस्य । यथा आलोकविशिष्टघटाद्युपलब्धिः, एवं बुद्धिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात् , तस्मात् उपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव । तद्वृत्तिस्थानीये त्विह पुनस्तत्सृष्ट्वा तदेवानुप्राविशदित्युच्यते
देवेदमाकाशादिकारणं कार्यं सृष्ट्वा तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञात्रित्येवं विशेषवदुपलभ्यते । एव तस्य प्रवेशः ; तस्मादस्ति तत्कारणं ब्रह्म । अतः अस्तित्वादस्तीत्येवोपलब्धव्यं तत् । तत् कार्यमनुप्रविश्य ; किम् ? सच्च मूर्तं त्यच्च अमूर्तम् अभवत् । मूर्तामूर्ते ह्यव्याकृतनामरूपे आत्मस्थे अन्तर्गतेन आत्मना व्याक्रियेते मूर्तामूर्तशब्दवाच्ये । ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वा आत्मा ते अभवदित्युच्यते । किं , निरुक्तं चानिरुक्तं , निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यः देशकालविशिष्टतया इदं तदित्युक्तम् ; अनिरुक्तं तद्विपरीतम् ; निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे । यथा सच्च त्यच्च प्रत्यक्षपरोक्षे, तथा निलयनं चानिलयनं  । निलयनं नीडम् आश्रयः मूर्तस्यैव धर्मः ; अनिलयनं तद्विपरीतम् अमूर्तस्यैव धर्मः । त्यदनिरुक्तानिलयनानि अमूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव, सर्गोत्तरकालभावश्रवणात् । त्यदिति प्राणाद्यनिरुक्तं तदेवानिलयनं  । अतो विशेषणानि अमूर्तस्य व्याकृतविषयाण्येवैतानि । विज्ञानं चेतनम् ; अविज्ञानं तद्रहितमचेतनं पाषाणादि । सत्यं व्यवहारविषयम् , अधिकारात् ; परमार्थसत्यम् ; एकमेव हि परमार्थसत्यं ब्रह्म । इह पुनः व्यवहारविषयमापेक्षिकं सत्यम् , मृगतृष्णिकाद्यनृतापेक्षया उदकादि सत्यमुच्यते । अनृतं तद्विपरीतम् । किं पुनः ? एतत्सर्वमभवत् , सत्यं परमार्थसत्यम् ; किं पुनस्तत् ? ब्रह्म, ‘सत्यं ज्ञानमनन्तं ब्रह्मइति प्रकृतत्वात् । यस्मात् , सत्त्यदादिकं मूर्तामूर्तधर्मजातं यत्किञ्चेदं सर्वमविशिष्टं विकारजातमेकमेव सच्छब्दवाच्यं ब्रह्माभवत् , तद्व्यतिरेकेणाभावान्नामरूपविकारस्य, तस्मात् तत् ब्रह्म सत्यमित्याचक्षते ब्रह्मविदः । अस्ति नास्तीत्यनुप्रश्नः प्रकृतः ; तस्य प्रतिवचनविषये एतदुक्तम् - ‘आत्माकामयत बहु स्याम्इति । यथाकामं आकाशादिकार्यं सत्त्यदादिलक्षणं सृष्ट्वा तदनुप्रविश्य पश्यञ्शृण्वन्मन्वानो विजानन् बह्वभवत् ; तस्मात् तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन् हृदयगुहायां निहितं तत्प्रत्ययावभासविशेषेणोपलभ्यमानमस्तीत्येवं विजानीयादित्युक्तं भवति । तत् एतस्मिन्नर्थे ब्राह्मणोक्ते एषः श्लोकः मन्त्रः भवति । यथा पूर्वेष्वन्नमयाद्यात्मप्रकाशकाः पञ्चस्वपि, एवं सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारेण भवति
इति षष्ठानुवाकभाष्यम् ॥
असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । यद्वै तत्सुकृतम् । रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य । तदप्येष श्लोको भवति ॥ १ ॥
असद्वा इदमग्र आसीत् । असदिति व्याकृतनामरूपविशेषविपरीतरूपम् अव्याकृतं ब्रह्म उच्यते ; पुनरत्यन्तमेवासत् । ह्यसतः सज्जन्मास्ति । इदम् इति नामरूपविशेषवद्व्याकृतं जगत् ; अग्रे पूर्वं प्रागुत्पत्तेः ब्रह्मैव असच्छब्दवाच्यमासीत् । ततः असतः वै सत् प्रविभक्तनामरूपविशेषम् अजायत उत्पन्नम् । किं ततः प्रविभक्तं कार्यमिति - पितुरिव पुत्रः ? नेत्याह । तत् असच्छब्दवाच्यं स्वयमेव आत्मानमेव अकुरुत कृतवत् । यस्मादेवम् , तस्मात् तत् ब्रह्मैव सुकृतं स्वयं कर्तृ उच्यते । स्वयं कर्तृ ब्रह्मेति प्रसिद्धं लोके सर्वकारणत्वात् । यस्माद्वा स्वयमकरोत्सर्वं सर्वात्मना, तस्मात्पुण्यरूपेणापि तदेव ब्रह्म कारणं सुकृतम् उच्यते । सर्वथापि तु फलसम्बन्धादिकारणं सुकृतशब्दवाच्यं प्रसिद्धं लोके । यदि पुण्यं यदि वा अन्यत् सा प्रसिद्धिः नित्ये चेतनकारणे सति उपपद्यते, तस्मादस्ति ब्रह्म, सुकृतप्रसिद्धेरिति । इतश्चास्ति ; कुतः ? रसत्वात् । कुतो रसत्वप्रसिद्धिर्ब्रह्मण इत्यत आह - यद्वै तत्सुकृतं रसो वै सः । रसो नाम तृप्तिहेतुः आनन्दकरो मधुराम्लादिः प्रसिद्धो लोके । रसमेव हि अयं लब्ध्वा प्राप्य आनन्दी सुखी भवति । नासत आनन्दहेतुत्वं दृष्टं लोके । बाह्यानन्दसाधनरहिता अपि अनीहा निरेषणा ब्राह्मणा बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसः ; नूनं ब्रह्मैव रसस्तेषाम् । तस्मादस्ति तत्तेषामानन्दकारणं रसवद्ब्रह्म । इतश्चास्ति ; कुतः ? प्राणनादिक्रियादर्शनात् । अयमपि हि पिण्डो जीवतः प्राणेन प्राणिति अपानेन अपानिति । एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैर्निर्वर्त्यमाना दृश्यन्ते । तच्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं सम्भवति, अन्यत्रादर्शनात् । तदाह - यत् यदि एषः आकाशे परमे व्योम्नि गुहायां निहित आनन्दो स्यात् भवेत् , को ह्येव लोके अन्यात् अपानचेष्टां कुर्यादित्यर्थः । कः प्राण्यात् प्राणनं वा कुर्यात् ; तस्मादस्ति तद्ब्रह्म, यदर्थाः कार्यकरणप्राणनादिचेष्टाः ; तत्कृत एव आनन्दो लोकस्य । कुतः ? एष ह्येव पर आत्मा आनन्दयाति आनन्दयति सुखयति लोकं धर्मानुरूपम् । एवात्मा आनन्दरूपोऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः । भयाभयहेतुत्वाद्विद्वदविदुषोरस्ति तद्ब्रह्म । सद्वस्त्वाश्रयणेन हि अभयं भवति ; नासद्वस्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते । कथमभयहेतुत्वमिति, उच्यते - यदा ह्येव यस्मात् एषः साधकः एतस्मिन् ब्रह्मणि - किंविशिष्टे ? अदृश्ये दृश्यं नाम द्रष्टव्यं विकारः, दर्शनार्थत्वाद्विकारस्य ; दृश्यम् अदृश्यम् , अविकार इत्यर्थः । एतस्मिन्नदृश्ये अविकारेऽविषयभूते, अनात्म्ये अशरीरे, यस्माददृश्यं तस्मादनात्म्यम् , यस्मादनात्म्यं तस्मादनिरुक्तम् ; विशेषो हि निरुच्यते ; विशेषश्च विकारः ; अविकारं ब्रह्म, सर्वविकारहेतुत्वात् ; तस्मात् अनिरुक्तम् । यत एवम् , तस्मादनिलयनं निलयनं नीड आश्रयः निलयनम् अनिलयनम् अनाधारं तस्मिन् एतस्मिन् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने सर्वकार्यधर्मविलक्षणे ब्रह्मणीति वाक्यार्थः । अभयमिति क्रियाविशेषणम् । अभयामिति वा लिङ्गान्तरं परिणम्यते । प्रतिष्ठां स्थितिमात्मभावं विन्दते लभते । अथ तदा सः तस्मिन्नानात्वस्य भयहेतोरविद्याकृतस्यादर्शनादभयं गतो भवति । स्वरूपप्रतिष्ठो ह्यसौ यदा भवति, तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति । अन्यस्य ह्यन्यतो भयं भवति, आत्मन एव आत्मनो भयं युक्तम् ; तस्मात् आत्मैव आत्मनः अभयकारणम् । सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते सत्सु भयहेतुषु ; तच्चायुक्तमसति भयत्राणे ब्रह्मणि । तस्मात्तेषामभयदर्शनादस्ति तदभयकारणं ब्रह्मेति । कदा असौ अभयं गतो भवति साधकः ? यदा नान्यत्पश्यति आत्मनि अन्तरं भेदं कुरुते, तदा अभयं गतो भवतीत्यभिप्रायः । यदा पुनरविद्यावस्थायां हि यस्मात् एषः अविद्यावान् अविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयचन्द्रवत्पश्यत्यात्मनि एतस्मिन् ब्रह्मणि, उत अपि, अरम् अल्पमपि, अन्तरं छिद्रं भेददर्शनं कुरुते ; भेददर्शनमेव हि भयकारणम् ; अल्पमपि भेदं पश्यतीत्यर्थः । अथ तस्माद्भेददर्शनाद्धेतोः तस्य भेददर्शिनः आत्मनो भयं भवति । तस्मादात्मैवात्मनो भयकारणमविदुषः ; तदेतदाह - तत् ब्रह्म त्वेव भयं भेददर्शिनो विदुषः ईश्वरोऽन्यो मत्तः अहमन्यः संसारीत्येवंविदुषः भेददृष्टमीश्वराख्यं तदेव ब्रह्म अल्पमप्यन्तरं कुर्वतः भयं भवति एकत्वेन अमन्वानस्य । तस्मात् विद्वानप्यविद्वानेवासौ, योऽयमेकमभिन्नमात्मतत्त्वं पश्यति । उच्छेदहेतुदर्शनाद्ध्युच्छेद्याभिमतस्य भयं भवति ; अनुच्छेद्यो ह्युच्छेदहेतुः ; तत्र असत्युच्छेदहेतौ उच्छेद्ये तद्दर्शनकार्यं भयं युक्तम् । सर्वं जगद्भयवद्दृश्यते । तस्माज्जगतो भयदर्शनाद्गम्यते - नूनं तदस्ति भयकारणमुच्छेदहेतुरनुच्छेद्यात्मकम् , यतो जगद्बिभेतीति । तत् एतस्मिन्नप्यर्थे एषः श्लोकः भवति
इति सप्तमनुवाकभाष्यम् ॥
भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । सैषानन्दस्य मीमां सा भवति । युवा स्यात्साधुयुवाध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १ ॥
स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः ॥ २ ॥
श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्यानन्दः ॥ ३ ॥
श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहातस्य ॥ ४ ॥
भीषा भयेन अस्मात् वातः पवते । भीषोदेति सूर्यः । भीषा अस्मात् अग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते ; तद्युक्तं प्रशास्तरि सति ; यस्मात् नियमेन तेषां प्रवर्तनम् , तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म । यतस्ते भृत्या इव राज्ञः अस्मात् ब्रह्मणः भयेन प्रवर्तन्ते तच्च भयकारणमानन्दं ब्रह्म । तस्य अस्य ब्रह्मणः आनन्दस्य एषा मीमांसा विचारणा भवति । किमानन्दस्य मीमांस्यमिति, उच्यते - किमानन्दो विषयविषयिसम्बन्धजनितः लौकिकानन्दवत् , आहोस्वित् स्वाभाविकः, इत्येवमेषा आनन्दस्य मीमांसा
तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनसम्पत्तिनिमित्त उत्कृष्टः । सः एष निर्दिश्यते ब्रह्मानन्दानुगमार्थम् । अनेन हि प्रसिद्धेन आनन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते । लौकिकोऽप्यानन्दः ब्रह्मानन्दस्यैव मात्रा ; अविद्यया तिरस्क्रियमाणे विज्ञाने उत्कृष्यमाणायां अविद्यायां ब्रह्मादिभिः कर्मवशात् यथाविज्ञानं विषयादिसाधनसम्बन्धवशाच्च विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः सम्पद्यते ; एव अविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु अकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणोत्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्रह्मण आनन्द इति
निरस्ते त्वविद्याकृते विषयविषयिविभागे, विद्यया स्वाभाविकः परिपूर्णः एकः आनन्दः अद्वैतः भवतीत्येतमर्थं विभावयिष्यन्नाह - युवा प्रथमवयाः ; साधुयुवेति साधुश्चासौ युवा चेति यूनो विशेषणम् ; युवाप्यसाधुर्भवति साधुरप्ययुवा, अतो विशेषणं युवा स्यात्साधुयुवेति ; अध्यायकः अधीतवेदः । आशिष्ठः आशास्तृतमः ; दृढिष्ठः दृढतमः ; बलिष्ठः बलवत्तमः ; एवमाध्यात्मिकसाधनसम्पन्नः । तस्येयं पृथिवी उर्वी सर्वा वित्तस्य वित्तेनोपभोगसाधनेन दृष्टार्थेनादृष्टार्थेन कर्मसाधनेन सम्पन्ना पूर्णा राजा पृथिवीपतिरित्यर्थः । तस्य आनन्दः, सः एकः मानुषः मनुष्याणां प्रकृष्टः एक आनन्दः । ते ये शतं मानुषा आनन्दाः, एको मनुष्यगन्धर्वाणामानन्दः ; मानुषानन्दात् शतगुणेनोत्कृष्टः मनुष्यगन्धर्वाणामानन्दः भवति । मनुष्याः सन्तः कर्मविद्याविशेषात् गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः । ते ह्यन्तर्धानादिशक्तिसम्पन्नाः सूक्ष्मकार्यकरणाः ; तस्मात्प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्तिसाधनसम्पत्तिश्च । ततः अप्रतिहन्यमानस्य प्रतीकारवतः मनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः । तत्प्रसादविशेषात्सुखविशेषाभिव्यक्तिः । एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेन आनन्दोत्कर्ष उपपद्यते । प्रथमं तु अकामहताग्रहणं मनुष्यविषयभोगकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दात् शतगुणेन आनन्दोत्कर्षः मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम् । साधुयुवा अध्यायक इति श्रोत्रियत्वावृजिनत्वे गृह्येते । ते ह्यविशिष्टे सर्वत्र । अकामहतत्वं तु विषयोत्कर्षापकर्षतः सुखोत्कर्षापकर्षाय विशेष्यते । अतः अकामहतग्रहणम् , तद्विशेषतः शतगुणसुखोत्कर्षोपलब्धेः अकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम् । व्याख्यातमन्यत् । देवगन्धर्वा जातित एव । चिरलोकलोकानामिति पितॄणां विशेषणम् । चिरकालस्थायी लोको येषां पितॄणाम् , ते चिरलोकलोका इति । आजान इति देवलोकः तस्मिन्नाजाने जाता आजानजा देवाः, स्मार्तकर्मविशेषतो देवस्थानेषु जाताः । कर्मदेवा ये वैदिकेन कर्मणा अग्निहोत्रादिना केवलेन देवानपियन्ति । देवा इति त्रयस्त्रिंशद्धविर्भुजः ; इन्द्रस्तेषां स्वामी ; तस्य आचार्यो बृहस्पतिः । प्रजापतिः विराट् त्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः संसारमण्डलव्यापी । यत्रैते आनन्दभेदा एकतां गच्छन्ति, धर्मश्च तन्निमित्तः ज्ञानं तद्विषयम् अकामहतत्वं निरतिशयं यत्र, एष हिरण्यगर्भो ब्रह्मा, तस्यैष आनन्दः श्रोत्रियेण अवृजिनेन अकामहतेन सर्वतः प्रत्यक्षमुपलभ्यते । तस्मादेतानि त्रीणि साधनानीत्यवगम्यते । तत्र श्रोत्रियत्वावृजिनत्वे नियते अकामहतत्वं तु उत्कृष्यत इति प्रकृष्टसाधनता अवगम्यते । तस्य अकामहतत्वप्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दः यस्य परमानन्दस्य मात्रा एकदेशः, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । एष आनन्दः - यस्य मात्रा समुद्राम्भस इव विप्रुषः प्रविभक्ताः यत्रैकतां गताः - एष परमानन्दः स्वाभाविकः, अद्वैतात् ; आनन्दानन्दिनोश्च अविभागोऽत्र
तदेतन्मीमांसाफलमुपसंह्रियते -
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति । तदप्येष श्लोको भवति ॥ ५ ॥
यश्चायं पुरुष इति । यः गुहायां निहितः परमे व्योम्नि आकाशादिकार्यं सृष्ट्वा अन्नमयान्तम् , तदेवानुप्रविष्टः, सः इति निश्चीयते । कोऽसौ ? अयं पुरुषे । यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टः, यस्यैकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युपजीवन्ति, सः यश्चासावादित्ये इति निर्दिश्यते । एकः भिन्नप्रदेशघटाकाशाकाशैकत्ववत् । ननु तन्निर्देशे यश्चायं पुरुष इत्यविशेषतोऽध्यात्मं युक्तो निर्देशः ; यश्चायं दक्षिणेऽक्षन्निति तु युक्तः, प्रसिद्धत्वात् । , पराधिकारात् । परो ह्यात्मा अत्र अधिकृतःअदृश्येऽनात्म्ये’ ‘भीषास्माद्वातः पवते’ ‘सैषानन्दस्य मीमांसाइति । हि अकस्मादप्रकृतो युक्तो निर्देष्टुम् ; परमात्मविज्ञानं विवक्षितम् । तस्मात् पर एव निर्दिश्यते - एक इति । नन्वानन्दस्य मीमांसा प्रकृता ; तस्या अपि फलमुपसंहर्तव्यम् । अभिन्नः स्वाभाविकः आनन्दः परमात्मैव, विषयविषयिसम्बन्धजनित इति । ननु तदनुरूप एव अयं निर्देशः - ‘ यश्चायं पुरुषे यश्चासावादित्ये एकःइति भिन्नाधिकरणस्थविशेषोपमर्देन । नन्वेवमप्यादित्यविशेषग्रहणमनर्थकम् ; अनर्थकम् , उत्कर्षापकर्षापोहार्थत्वात् । द्वैतस्य हि यो मूर्तामूर्तलक्षणस्य पर उत्कर्षः सवित्रभ्यन्तर्गतः चेत्पुरुषगतविशेषोपमर्देन परमानन्दमपेक्ष्य समो भवति, कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्यभयं प्रतिष्ठां विन्दत इत्युपपन्नम्
अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः । कार्यरसलाभप्राणनाभयप्रतिष्ठाभयदर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्रह्मेत्यपाकृतः अनुप्रश्न एकः ; द्वावन्यानुप्रश्नौ विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिविषयौ ; तत्र विद्वान्समश्नुते समश्नुत इत्यनुप्रश्नोऽन्त्यः ; तदपाकरणायोच्यते । मध्यमोऽनुप्रश्नः अन्त्यापाकरणादेव अपाकृत इति तदपाकरणाय यत्यते । यः कश्चित् एवं यथोक्तं ब्रह्म उत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीत्येवं वेत्तीति एवंवित् ; एवंशब्दस्य प्रकृतपरामर्शार्थत्वात् । किम् ? अस्माल्लोकात्प्रेत्य दृष्टादृष्टेष्टविषयसमुदायो हि अयं लोकः, तस्मादस्माल्लोकात्प्रेत्य प्रत्यावृत्य निरपेक्षो भूत्वा एतं यथाव्याख्यातम् अन्नमयमात्मानमुपसङ्क्रामति विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं पश्यति, सर्वं स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः । ततः अभ्यन्तरमेतं प्राणमयं सर्वान्नमयात्मस्थमविभक्तम् । अथैतं मनोमयं विज्ञानमयमानन्दमयमात्मानमुपसङ्क्रामति । अथादृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते
तत्रैतच्चिन्त्यम् - कोऽयमेवंवित् , कथं वा सङ्क्रामतीति ; किं परस्मादात्मनोऽन्यः सङ्क्रमणकर्ता प्रविभक्तः, उत एवेति । किं ततः ? यद्यन्यः स्यात् , श्रुतिविरोधः - तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) अन्योऽसावन्योऽहमस्मीति । वेद’ (बृ. उ. १ । ४ । १०) एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) तत्त्वमसि’ (छा. उ. ६ । ८ । १६) इति । अथ एव आनन्दमयमात्मानमुपसङ्क्रामतीति, कर्मकर्तृत्वानुपपत्तिः । परस्यैव संसारित्वं पराभावो वा । यद्युभयथा प्राप्तो दोषो परिहर्तुं शक्यत इति, व्यर्था चिन्ता । अथ अन्यतरस्मिन्पक्षे दोषाप्राप्तिः तृतीये वा पक्षे अदुष्टे, एव शास्त्रार्थ इति व्यर्थैव चिन्ता ; , तन्निर्धारणार्थत्वात् । सत्यं प्राप्तो दोषो शक्यः परिहर्तुमन्यतरस्मिन् तृतीये वा पक्षे अदुष्टे अवधृते व्यर्था चिन्ता स्यात् ; तु सोऽवधृत इति तदवधारणार्थत्वादर्थवत्येवैषा चिन्ता । सत्यमर्थवती चिन्ता, शास्त्रार्थावधारणार्थत्वात् । चिन्तयसि त्वम् , तु निर्णेष्यसि ; किं निर्णेतव्यमिति वेदवचनम् ? ; कथं तर्हि ? बहुप्रतिपक्षत्वात् ; एकत्ववादी त्वम् , वेदार्थपरत्वात् ; बहवो हि नानात्ववादिनो वेदबाह्याः त्वत्प्रतिपक्षाः ; अतो ममाशङ्का - निर्णेष्यसीति । एतदेव मे स्वस्त्ययनम् - यन्मामेकयोगिनमनेकयोगिबहुप्रतिपक्षमात्थ । अतो जेष्यामि सर्वान् ; आरभे चिन्ताम्
एव तु स्यात् , तद्भावस्य विवक्षितत्वात् । तद्विज्ञानेन परमात्मभावो हि अत्र विवक्षितः - ‘ब्रह्मविदाप्नोति परम्इति । हि अन्यस्य अन्यभावापत्तिरुपपद्यते । ननु तस्यापि तद्भावापत्तिरनुपपन्नैव । , अविद्याकृतानात्मापोहार्थत्वात् । या हि ब्रह्मविद्यया स्वात्मप्राप्तिरुपदिश्यते, सा अविद्याकृतस्य अन्नादिविशेषात्मनः आत्मत्वेनाध्यारोपितस्य अनात्मनः अपोहार्था । कथमेवमर्थता अवगम्यते ? विद्यामात्रोपदेशात् । विद्यायाश्च दृष्टं कार्यमविद्यानिवृत्तिः ; तच्चेह विद्यामात्रमात्मप्राप्तौ साधनमुपदिश्यते । मार्गविज्ञानोपदेशवदिति चेत् , तदात्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः । कस्मात् ? देशान्तरप्राप्तौ मार्गविज्ञानोपदेशदर्शनात् । हि ग्राम एव गन्तेति चेत् , ; वैधर्म्यात् । तत्र हि ग्रामविषयं नोपदिश्यते, तत्प्राप्तिमार्गविषयमेवोपदिश्यते विज्ञानम् ; तथेह ब्रह्मविज्ञानव्यतिरेकेण साधनान्तरविषयं विज्ञानमुपदिश्यते । उक्तकर्मादिसाधनापेक्षं ब्रह्मविज्ञानं परप्राप्तौ साधनमुपदिश्यत इति चेत् , ; नित्यत्वान्मोक्षस्येत्यादिना प्रत्युक्तत्वात् । श्रुतिश्चतत्सृष्ट्वा तदेवानुप्राविशत्इति कार्यस्य तदात्मत्वं दर्शयति । अभयप्रतिष्ठोपपत्तेश्च । यदि हि विद्यावान् स्वात्मनोऽन्यन्न पश्यति, ततः अभयं प्रतिष्ठां विन्दत इति स्यात् , भयहेतोः परस्य अन्यस्य अभावात् । अन्यस्य अविद्याकृतत्वे विद्यया अवस्तुत्वदर्शनोपपत्तिः ; तद्धि द्वितीयस्य चन्द्रस्य असत्त्वम् , यदतैमिरिकेण चक्षुष्मता गृह्यते ; नैवं गृह्यत इति चेत् , ; सुषुप्तसमाहितयोरग्रहणात् । सुषुप्तेऽग्रहणमन्यासक्तवदिति चेत् , ; सर्वाग्रहणात् । जाग्रत्स्वप्नयोरन्यस्य ग्रहणात्सत्त्वमेवेति चेत् , ; अविद्याकृतत्वात् जाग्रत्स्वप्नयोः ; यदन्यग्रहणं जाग्रत्स्वप्नयोः, तदविद्याकृतम् , विद्याभावे अभावात् । सुषुप्ते अग्रहणमपि अविद्याकृतमिति चेत् , ; स्वाभाविकत्वात् । द्रव्यस्य हि तत्त्वमविक्रिया, परानपेक्षत्वात् ; विक्रिया तत्त्वम् , परापेक्षत्वात् । हि कारकापेक्षं वस्तुनस्तत्त्वम् ; सतो विशेषः कारकापेक्षः, विशेषश्च विक्रिया ; जाग्रत्स्वप्नयोश्च ग्रहणं विशेषः । यद्धि यस्य नान्यापेक्षं स्वरूपम् , तत्तस्य तत्त्वम् ; यदन्यापेक्षम् , तत्तत्त्वम् ; अन्याभावे अभावात् । तस्मात् स्वाभाविकत्वात् जाग्रत्स्वप्नवत् सुषुप्ते विशेषः । येषां पुनरीश्वरो अन्य आत्मनः, कार्यं अन्यत् , तेषां भयानिवृत्तिः, भयस्य अन्यनिमित्तत्वात् ; सतश्च अन्यस्य आत्महानानुपपत्तिः । असत आत्मलाभः । सापेक्षस्य अन्यस्य भयहेतुत्वमिति चेत् , ; तस्यापि तुल्यत्वात् । यद्धर्माद्यनुसहायीभूतं नित्यमनित्यं वा निमित्तमपेक्ष्य अन्यद्भयकारणं स्यात् , तस्यापि तथाभूतस्य आत्महानाभावात् भयानिवृत्तिः ; आत्महाने वा सदसतोरितरेतरापत्तौ सर्वत्र अनाश्वास एव । एकत्वपक्षे पुनः सनिमित्तस्य संसारस्य अविद्याकल्पितत्वाददोषः । तैमिरिकदृष्टस्य हि द्वितीयचन्द्रस्य आत्मलाभो नाशो वा अस्ति । विद्याविद्ययोः तद्धर्मत्वमिति चेत् , ; प्रत्यक्षत्वात् । विवेकाविवेकौ रूपादिवत् प्रत्यक्षावुपलभ्येते अन्तःकरणस्थौ । हि रूपस्य प्रत्यक्षस्य सतो द्रष्ट्टधर्मत्वम् । अविद्या स्वानुभवेन रूप्यते - मूढोऽहम् अविविक्तं मम विज्ञानम् इति । तथा विद्याविवेको अनुभूयते । उपदिशन्ति अन्येभ्य आत्मनो विद्यां बुधाः । तथा अन्ये अवधारयन्ति । तस्मात् नामरूपपक्षस्यैव विद्याविद्ये नामरूपे ; आत्मधर्मौ, नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति श्रुत्यन्तरात् । ते पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते ; परमार्थतो विद्यमाने । अभेदे एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति कर्मकर्तृत्वानुपपत्तिरिति चेत् , ; विज्ञानमात्रत्वात् सङ्क्रमणस्य । जलूकादिवत् सङ्क्रमणमिहोपदिश्यते ; किं तर्हि, विज्ञानमात्रं सङ्क्रमणश्रुतेरर्थः । ननु मुख्यमेव सङ्क्रमणं श्रूयते - उपसङ्क्रामतीति इति चेत् , ; अन्नमये अदर्शनात् । हि अन्नमयमुपसङ्क्रामतः बाह्यादस्माल्लोकात् जलूकावत् सङ्क्रमणं दृश्यते, अन्यथा वा । मनोमयस्य बहिर्निर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्या आत्मसङ्क्रमणमिति चेत् , ; स्वात्मनि क्रियाविरोधात् । अन्योऽन्नमयमन्यमुपसङ्क्रामतीति प्रकृत्य मनोमयो विज्ञानमयो वा स्वात्मानमेवोपसङ्क्रामतीति विरोधः स्यात् । तथा आनन्दमयस्य आत्मसङ्क्रमणमुपपद्यते । तस्मात् प्राप्तिः सङ्क्रमणम् ; नापि अन्नमयादीनामन्यतमकर्तृकं पारिशेष्यादन्नमयाद्यानन्दमयान्तात्मव्यतिरिक्तकर्तृकं ज्ञानमात्रं सङ्क्रमणमुपपद्यते । ज्ञानमात्रत्वे आनन्दमयान्तःस्थस्यैव सर्वान्तरस्य आकाशाद्यन्नमयान्तं कार्यं सृष्ट्वा अनुप्रविष्टस्य हृदयगुहाभिसम्बन्धादन्नमयादिषु अनात्मसु आत्मविभ्रमः सङ्क्रमणात्मकविवेकविज्ञानोत्पत्त्या विनश्यति । तदेतस्मिन्नविद्याविभ्रमनाशे सङ्क्रमणशब्द उपचर्यते ; हि अन्यथा सर्वगतस्य आत्मनः सङ्क्रमणमुपपद्यते । वस्त्वन्तराभावाच्च । स्वात्मन एव सङ्क्रमणम् । हि जलूका आत्मानमेव सङ्क्रामति । तस्मात् सत्यं ज्ञानमनन्तं ब्रह्मेति यथोक्तलक्षणात्मप्रतिपत्त्यर्थमेव बहुभवनसर्गप्रवेशरसलाभाभयसङ्क्रमणादि परिकल्प्यते ब्रह्मणि सर्वव्यवहारविषये ; तु परमार्थतो निर्विकल्पे ब्रह्मणि कश्चिदपि विकल्प उपपद्यते । तमेतं निर्विकल्पमात्मानम् एवं क्रमेणोपसङ्क्रम्य विदित्वा बिभेति कुतश्चन अभयं प्रतिष्ठां विन्दत इत्येतस्मिन्नर्थेऽपि एषः श्लोकः भवति । सर्वस्यैव अस्य प्रकरणस्य आनन्दवल्ल्यर्थस्य सङ्क्षेपतः प्रकाशनाय एष मन्त्रो भवति
इति अष्टमानुवाकभाष्यम् ॥
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति । एतं ह वाव न तपति । किमहं साधु ना करवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानं स्पृणुते । उभे ह्येवैष एते आत्मानं स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ १ ॥
यतः यस्मात् निर्विकल्पात् यथोक्तलक्षणात् अद्वयानन्दात् आत्मनः, वाचः अभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पे अद्वयेऽपि ब्रह्मणि प्रयोक्तृभिः प्रकाशनाय प्रयुज्यमानानि, अप्राप्य अप्रकाश्यैव निवर्तन्ते स्वसामर्थ्याद्धीयन्ते । मन इति प्रत्ययो विज्ञानम् । तच्च, यत्राभिधानं प्रवृत्तमतीन्द्रियेऽप्यर्थे, तदर्थे प्रवर्तते प्रकाशनाय । यत्र विज्ञानम् , तत्र वाचः प्रवृत्तिः । तस्मात् सहैव वाङ्मनसयोः अभिधानप्रत्ययोः प्रवृत्तिः सर्वत्र । तस्मात् ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचः यस्मादप्रत्ययविषयादनभिधेयाददृश्यादिविशेषणात् सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते, तं ब्रह्मण आनन्दं श्रोत्रियस्य अवृजिनस्य अकामहतस्य सर्वैषणाविनिर्मुक्तस्य आत्मभूतं विषयविषयिसम्बन्धविनिर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं ब्रह्मणो विद्वान् यथोक्तेन विधिना बिभेति कुतश्चन, निमित्ताभावात् । हि तस्माद्विदुषः अन्यद्वस्त्वन्तरमस्ति भिन्नं यतो बिभेति । अविद्यया यदा उदरमन्तरं कुरुते, अथ तस्य भयं भवतीति हि युक्तम् । विदुषश्च अविद्याकार्यस्य तैमिरिकदृष्टद्वितीयचन्द्रवत् नाशाद्भयनिमित्तस्य बिभेति कुतश्चनेति युज्यते । मनोमये उदाहृतः मन्त्रः, मनसो ब्रह्मविज्ञानसाधनत्वात् । तत्र ब्रह्मत्वमध्यारोप्य तत्स्तुत्यर्थं बिभेति कदाचनेति भयमात्रं प्रतिषिद्धम् ; इह अद्वैतविषये बिभेति कुतश्चनेति भयनिमित्तमेव प्रतिषिध्यते । नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया  । नैवम् । कथमिति, उच्यते - एतं यथोक्तमेवंविदम् , वाव इत्यवधारणार्थौ, तपति नोद्वेजयति सन्तापयति । कथं पुनः साध्वकरणं पापक्रिया तपतीति, उच्यते - किं कस्मात् साधु शोभनं कर्म नाकरवं कृतवानस्मि इति पश्चात्सन्तापो भवति आसन्ने मरणकाले ; तथा किं कस्मात् पापं प्रतिषिद्धं कर्म अकरवं कृतवानस्मि इति नरकपतनादिदुःखभयात् तापो भवति । ते एते साध्वकरणपापक्रिये एवमेनं तपतः, यथा अविद्वांसं तपतः । कस्मात्पुनर्विद्वांसं तपत इति, उच्यते - एवंविद्वान् एते साध्वसाधुनी तापहेतू इति आत्मानं स्पृणुते प्रीणाति बलयति वा, परमात्मभावेन उभे पश्यतीत्यर्थः । उभे पुण्यपापे हि यस्मात् एवम् एष विद्वान् एते आत्मानात्मरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वा आत्मानं स्पृणुत एव । कः ? एवं वेद यथोक्तमद्वैतमानन्दं ब्रह्म वेद, तस्य आत्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके जन्मान्तरारम्भके भवतः । इतीयम् एवं यथोक्ता अस्यां वल्ल्यां ब्रह्मविद्योपनिषत् , सर्वाभ्यः विद्याभ्यः परमरहस्यं दर्शितमित्यर्थः - परं श्रेयः अस्यां निषण्णमिति
इति नवमानुवाकभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये ब्रह्मानन्दवल्लीभाष्यं सम्पूर्णम् ॥