श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

कौषीतकिब्राह्मणोपनिषत्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

गार्ग्यो ह वै बालाकिरनूचानः संस्पष्ट आस
सोऽयमुशिनरेषु
संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति
सहाजातशत्रुं काश्यमेत्योवाच ब्रह्म ते ब्रवाणीति तं
होवाच
अजातशत्रुः सहस्रं दद्मस्त एतस्यां वाचि जनको जनक इति
वा उ
जना धावन्तीति ॥ १ ॥
स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपास इति
तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा
बृहत्पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धेति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्तेऽतिष्ठाः सर्वेषां
भूतानां मूर्धा भवति ॥ २ ॥
स एवैष बालाकिर्य एवैष चन्द्रमसि पुरुषस्तमेवाहं
ब्रह्मोपास
इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः सोमो
राजान्नस्यात्मेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्तेऽन्नस्यात्मा
भवति ॥ ३ ॥
सहोवाच बालाकिर्य एवैष विद्युति पुरुष एतमेवाहं
ब्रह्मोपास
इति तं होवाचाजातशत्रुर्मा
मैतस्मिन्समवादयिष्ठास्तेजस्यात्मेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते तेजस्यात्मा भवति ॥ ४ ॥
स होवाच बालाकिर्य एवैष स्तनयित्नौ पुरुष एतमेवाहं
ब्रह्मोपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
शब्दस्यात्मेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते शब्दस्यात्मा
भवति ॥ ५ ॥
स होवाच बालाकिर्य एवैष आकाशे पुरुषस्तमेवाहमुपास
इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
पूर्णमप्रवर्ति ब्रह्मेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते पूर्यते प्रजया
पशुभिर्नो
एव स्वयं नास्य प्रजा पुरा कालात्प्रवर्तते ॥ ६ ॥
स होवाच बालाकिर्य एवैष वायौ पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा इन्द्रो
वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्ते जिष्णुर्ह वा पराजिष्णुरन्यतरस्य
ज्ज्यायन्भवति ॥ ७ ॥
स होवाच बालाकिर्य एवैषोऽग्नौ पुरुषस्तमेवाहमुपास इति
तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा विषासहिरिति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते विषासहिर्वा एष
भवति ॥ ८ ॥
स होवाच बालाकिर्य एवैषोऽप्सु पुरुषस्तमेवाहमुपास इति
तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा नाम्न्यस्यात्मेति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते नाम्न्यस्यात्मा
भवतीतिअधिदैवतमथाध्यात्मम् ॥ ९ ॥
स होवाच बालाकिर्य एवैष आदर्शे पुरुषस्तमेवाहमुपास
इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः प्रतिरूप इति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रतिरूपो हैवास्य
प्रजायामाजायते नाप्रतिरूपः ॥ १० ॥
स होवाच बालाकिर्य एवैष प्रतिश्रुत्काया
पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा
द्वितीयोऽनपग
इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विन्दते
द्वितीयाद्द्वितीयवान्भवति ॥ ११ ॥
स होवाच बालाकिर्य एवैष शब्दः पुरुषमन्वेति
तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा असुरिति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य
प्रजा
पुराकालात्संमोहमेति ॥ १२ ॥
स होवाच बालाकिर्य एवैष च्छायायां
पुरुषस्तमेवाहमुपास
इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठामृत्युरिति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य
प्रजा
पुरा कालात्प्रमीयते ॥ १३ ॥
स होवाच बालाकिर्य एवैष शारीरः पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
प्रजापतिरिति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रजायते प्रजया
पशुभिः ॥ १४ ॥
स होवाच बालाकिर्य एवैष प्राज्ञ आत्मा येनैतत्सुप्तः
स्वप्नमाचरति तमेवाहमुपास इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा यमो राजेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते सर्वं हास्मा इदं
श्रैष्ठ्याय गम्यते ॥ १५ ॥
स होवाच बालाकिर्य एवैष
दक्षिणेक्षन्पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा नान्न
आत्माग्निरात्मा ज्योतिष्ट आत्मेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवति ॥ १६ ॥
स होवाच बालाकिर्य एवैष सव्येक्षन्पुरुषस्तमेवाहमुपास
इति
तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
सत्यस्यात्मा
विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवतीति ॥ १७ ॥
तत उ ह बालाकिस्तूष्णीमास तं होवाचाजातशत्रुरेतावन्नु
बालाकीति एतावद्धीति होवाच बालाकिस्तं
होवाचाजातशत्रुर्मृषा वै किल मा संवदिष्ठा ब्रह्म
ते ब्रवाणीति होवाच यो वै बालाक एतेषां पुरुषाणां
कर्ता यस्य वैतत्कर्म स वेदितव्य इति तत उ ह बालाकिः
समित्पाणिः प्रतिचक्रामोपायानीति तं होवाचजातशत्रुः
प्रतिलोमरूपमेव स्याद्यत्क्षत्रियो ब्राह्मणमुपनयीतैहि व्येव
त्वा ज्ञपयिष्यामीति तं ह पाणावभिपद्य प्रवव्राज तौ
ह सुप्तं पुरुषमीयतुस्तं हाजातशत्रुरामन्त्रयाञ्चक्रे
बृहत्पाण्डरवासः सोमराजन्निति स उ ह तूष्णीमेव शिश्ये
तत उ हैनं यष्ट्या विचिक्षेप स तत एव समुत्तस्थौ तं
होवाचाजातशत्रुः क्वैष एतद्वा लोके पुरुषोऽशयिष्ट
क्वैतदभूत्कुत एतदागादिति तदु ह बालाकिर्न विजज्ञौ ॥ १८ ॥
तं होवाचाजातशत्रुर्यत्रैष एतद्बालाके पुरुषोऽशयिष्ट
यत्रैतदभूद्यत एतदागाद्धिता नाम हृदयस्य नाड्यो
हृदयात्पुरीततमभिप्रतन्वन्ति यथा सहस्रधा केशो
विपाटितस्तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ते शुक्लस्य
कृष्णस्य पीतस्य लोहितस्येति तासु तदा भवति यदा सुप्तः
स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति
तथैनं वाक्सर्वैर्नामभिः सहाप्येति मनः सर्वैर्ध्यातैः
सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः
शब्दैः सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति स यदा
प्रतिबुध्यते यथाग्नेर्ज्वलतो विस्फुलिङ्गा
विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं
विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकास्तद्यथा क्षुरः
क्षुरध्याने हितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाय
एवमेवैष प्राज्ञ आत्मेदं शरीरमनुप्रविष्ट आ लोमभ्य
आ नखेभ्यः ॥ १९ ॥
तमेतमात्मानमेतमात्मनोऽन्ववस्यति यथा श्रेष्ठिनं
स्वास्तद्यथा श्रेष्ठैः स्वैर्भुङ्क्ते यथा वा श्रेष्ठिनं
स्वा भुञ्जन्त एवमेवैष प्राज्ञ आत्मैतैरात्मभिर्भुङ्क्ते ।
यथा श्रेष्ठी स्वैरेवं वैतमात्मानमेत आत्मनोऽन्ववस्यन्ति
यथा श्रेष्ठिनं स्वाः स यावद्ध वा इन्द्र एतमात्मानं न
विजज्ञौ तावदेनमसुरा अभिबभूवुः स यदा विजज्ञावथ
हत्वासुरान्विजित्य सर्वेषां भूतानां श्रैष्ठ्यं
स्वाराज्यमाधिपत्यं पर्येति तथो एवैवं विद्वान्सर्वेषां
भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं
वेद य एवं वेद ॥ २० ॥