श्रीमदमलानन्द-सरस्वती-विरचितः

वेदान्तकल्पतरुः

श्रीमदप्पय्यदीक्षित-विरचितः

कल्पतरुपरिमलः

यदज्ञातं जीवैर्बहुविधजगद्विभ्रमधरं वियद्यवद्बालै स्तलमलिनतायोगि कलितम्।
तदुन्मुद्रज्ञानप्रततसुखसद्ब्रह्म परमं नमस्यामः प्रत्यक्–श्रुतिशतशिरोभिः प्रकटितम् ॥ १॥

बोधाभीषुशतैरबोधतिमिरं हृद्व्योमगं दारयन् प्रज्ञावारिधिमुन्नतिं च गमयन् सोमः सदोदेति यः।
तं संसारसहस्ररश्मिजनितक्लेशापहं दक्षिणामूर्तिं निर्मलयोगिचिन्त्यचरणाम्भोजं भजे शङ्करम् ॥२॥

माद्यन्मोहमहेभकुम्भदलनप्रोद्भूतसन्मौक्तिकद्योतालङ्कृतसत्सुखाद्वयवपुः श्रीमान्नृकण्ठीरवः।
प्रह्लादोक्तगिरः प्रमाणनविधौ दिव्याकृतिः स्तम्भतो निर्यातः प्रकटीभवेत्स हृदयाम्भोजे ममाखण्डितम् ॥ ३॥

ललितैः पदविन्यासैर्या नृत्यति विबुधवदनरङ्गेषु।
सच्छास्त्रवेदवाद्यैः सरस्वतीं तां नमस्यामः ॥ ४ ॥

भजमानविघ्नभित्तिप्रभित्तिकुद्दालमिव करेण रदम्।
दधतं महागणेशं प्रणौमि सकलेष्टसंपदं ददतम् ॥ ५॥

यन्न्यायसूत्रप्रथितात्मबोधसौरभ्यगर्भश्रुतिपद्ममाला।
प्रसाधयत्यद्वयमात्मतत्त्वं तं व्यासमाद्यं गुरुमानतो(अ)स्मि ॥६॥

वेदान्तार्थतदाभासक्षीरनीरविवेकिनम्।
नमामि भगवत्पादं परमहंसधुरन्धरम् ॥ ७॥

स्वयंप्रभसुखं ब्रह्म दयारचितविग्रहम्।
यथार्थानुभवानन्दपदगीतं गुरुं नुमः ॥ ८ ॥

विद्याप्रश्रयसंयमाः शुभफला यत्सन्निधिस्थानतः पुंसां हस्तगता भवन्ति सहसा कारुण्यवीक्षावशात्।
आनन्दात्मयतीश्वरं तमनिशं वन्दे गुरूणां गुरुं लब्धं यत्पदपद्मयुग्ममनघं पुण्यैरनन्तैर्मया ॥९॥

ग्रन्थग्रन्थ्यभिधाः स्फुटन्ति मुकुला यस्योदये कौमुदा व्याकुर्वत्यपि यत्र मोहतिमिरं लोकस्य संशाम्यति।
प्रोद्यत्तारकदिव्यदीप्ति परमं व्योमापि नीराज्यते गोभिर्यस्य सुस्वप्रकाशशशिनं तं नौमि विद्यागुरुम् ॥ १० ॥

वैदिकमार्गं वाचस्पतिरपि सम्यक् सुरक्षितं चक्रे।
नयविजितवादिदैत्यः स जयति विबुधेश्वराचार्यः ॥ ११॥

रूढोऽयं वेदकाण्डान्नयमयविटपो भूरिशाखाविचारः सद्वर्णानन्तपर्णः समुदितपरमब्रह्मबोधप्रसूनः।
साक्षाद्धस्तावचेयं दददमृतफलं जीवविश्वेशवीन्द्रः संसारार्कोत्थतापप्रमथननिपुणस्तन्यते कल्पवृक्षः ॥ १२ ॥

कीर्त्या यादववंशमुन्नमयति श्रीजैत्रदेवात्मजे कृष्णे क्ष्माभृृति भूतत्वं सह महादेवेन संबिभ्रति।
भोगीन्द्रे परिमुञ्चति क्षितिभरप्रोद्भूतदीर्घश्रमं वेदान्तोपवनस्य मण्डनकरं प्रस्तौमि कल्पद्रुमम् ॥ १३ ॥

श्रीमच्छारीरकव्याख्यायाः प्रारिप्सिताया अविघ्नसमाप्त्यादिसिद्धये शास्त्रप्रतिपाद्यां परां देवतां प्रणमन् शास्त्रीयविषयादि दर्शयति –

अनिर्वाच्येति।

एका ह्यविद्या अनादिः भावरूपा देवताधिकरणे (ब्र. अ.१ पा.३ सू, २६ – ३३) वक्ष्यते, अन्या पूर्वपूर्वविभ्रमसंस्कारः, तदविद्याद्वितयं सत्त्वासत्त्वाभ्यामनिर्वाच्यं सचिवं सहकारि यस्य तत्तथा। तत्सचिवता ब्रह्मणः तद्विषयता, तदाश्रयास्तु जीवा एव इति वक्ष्यते। न चाविद्यासाचिव्ये ब्रह्मणोऽनीश्वरत्वम्, उपकरणस्य स्वातन्त्र्याविघातकत्वात् इत्याह –

प्रभवत इति।

अतत्त्वतोऽन्यथाभावो विवर्तः। न केवलं भूतानां ब्रह्मविवर्तत्वं, अपि तु जीवानामपि चराचरशरीरोपाधिकानां तत्प्रतिबिम्बत्वेन तद्विवर्तता इत्याह –

यतश्चेति।

अथवा भूतसृष्टिवद्भौतिकसृष्टेरपि हिरण्यगर्भद्वारा ब्रह्मैव कर्तृ इति अनेनोक्तम्। एवमज्ञानविपर्यस्तत्वाभ्यां विषयत्वमुक्त्वा प्रयोजनतामाह –

अपरिमितेति ॥१॥

जगद्विवर्ताधिष्ठानत्वेन ब्रह्मणः सर्वकर्तृत्वमुक्त्वा सर्वज्ञत्वं ज्ञानपदसूचितं वेदकर्तृत्वादिना साधयति –

निःश्वसितमिति।

वीक्षणमात्रेण सृष्टत्वात्, भूतानि वीक्षितम्। हिरण्यगर्भद्वारा साध्यं चराचरं, वीक्षणाधिकप्रयत्नसाध्यस्मितसाम्यात् स्मितम्। सर्वज्ञत्वसिद्ध्यर्थं चेतनधर्मसुप्तिमत्त्वेन चेतनतां संभावयति –

अस्य चेति।

यद्वा विनायासेन नामरूपसृष्टिप्रलयकर्तृत्वाद् ब्रह्म अनेन स्तुतम् ॥ २ ॥

षड्भिरिति।

ईश्वरस्य षडङ्गानि पुराणोक्तानि 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अचिन्त्यशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ॥' इति। अव्ययानि वायुपुराणे पठ्यन्ते – 'ज्ञानं विरागतैश्वर्यं तपः सत्यं क्षमा धृतिः। स्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च। अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे ॥' इति। वेदस्य षडङ्गानि निरुक्तादीनि। अव्ययानि च चादयः॥३॥

तिलकप्रियः स्वामी

तिलकस्वामी।

सर्वसिद्धिविधायित्वं स्मृतिसिद्धम्। आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा। महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥' (याज्ञ. अ. १ श्लो. २९४) इति ॥ ४ ॥

वेधसे

विधात्रे ईश्वराय। हरेः ज्ञानशक्तेरवतारः प्राप्तिर्यस्मिन् स तथा। तथा चाह श्रीपराशरः – 'द्वापरे द्वापरे विष्णुर्व्यासरूपी महामुने। वेदमेकं सुबहुधा कुरुते जगतो हितम् ॥' इति ॥ ५ ॥

इह भगवता सूत्रकारेण साधन चतुष्टयसंपत्त्यनन्तरं ब्रह्मजिज्ञासामुपदिशता जिज्ञास्यस्य ब्रह्मणः संदिग्धत्वसप्रयोजनत्वे समसूचिषाताम्। तदाक्षेपसमाधानपरताम् 'आह कोय'मित्यतः प्राक्तनस्य भाष्यस्य दर्शयति –

अथेत्यादिपरिहरतीत्यन्तेन।

अथशब्दः प्रतिग्रन्थं व्याख्यानप्रारम्भार्थः। इह अहंप्रत्ययगम्यमात्मानमुपनिषतत्प्रतिपाद्यमापाद्य जिज्ञास्यत्वाक्षेपः,

तत्पुनर्ब्रह्मेत्यादौ तु

तदतिरिक्तं ब्रह्म उररीकृत्य तस्य वेदान्तेभ्य एव सिद्धेः विचारविषयत्वाक्षेप इति भेदः। जिज्ञास्यत्वव्यापके संदिग्धत्व – सप्रयोजनत्वे, तद्विरुद्धे च असंदिग्धत्व – निष्प्रयोजनत्वे, तयोरुपलब्धिः, ततश्च व्यापकाभावे व्याप्यजिज्ञास्यत्वाभाव इत्यर्थः।अत्र प्रयोगौ – मुमुक्षुणा ब्रह्म न विचार्यं, तं प्रत्यसंदिग्धत्वात्, तथाविधकुम्भवत्। तथा – अप्रयोजनत्वात्, काकदन्तवदिति। आद्यं हेतुं विवृणोति –

तथा हि

इत्यादिना। बृंहणत्वात् देहादीनां परिणमयितृत्वात्। ननु अहंप्रत्ययस्य देहादिमिश्रविषयत्वात् कथं विविक्तविषयत्वम्, अत आह

– न चाहमिति।

देहालम्बन इति। आत्मैक्याध्यस्तदेहालम्बन इत्यर्थः। देहादात्मनोऽहंप्रत्ययगम्यस्य भेदग्रहात् नाध्यास इत्याह –

तदालम्बनत्वे हीति।

बाल्यस्थविरदेहयोः परिमाणभेदात् न प्रत्यभिज्ञेत्युक्तम्। परिमाणभेदेऽपि देहैक्यं मन्वानं प्रत्याह –

स्वप्नान्त इति।

जाग्रत्यप्याह –

योगेति।

मनुष्यः सन् कृत्रिमं व्याघ्रशरीरमभिमन्यमानो योगव्याघ्रः। नाहंकारालम्बनं

देह इति।

। अत्रापि देहशब्द आत्मैक्याध्यस्तदेहपरः, अन्यथा हि जिज्ञास्यत्ववादिनापि तन्मात्रालम्बनत्वानङ्गीकारात् अनुक्त्तोपालम्भः स्यादिति। अथवा लोकायतमतं प्रसङ्गादाशङ्क्य निरस्यते। प्रख्यानं शब्दः। असत्यप्यारोपिते अभेदे इत्यर्थः, वास्तवाभेदस्याध्यासवादिनोऽप्यनिष्टेः। लोकायतनिरासे तु यथाश्रुतोऽर्थः। द्वितीयं हेतुं विभजते – अप्रयोजनत्वाच्चेत्यादिना। ननु किमिति नास्त्यन्यदात्मयाथात्म्यज्ञानं ब्रह्मात्मभावस्य उपनिषद्भिः अवबोधनात्, अत आह – न

चाहमितीति।

युक्तमिति निर्देशात्पूर्वस्यैव सिद्धान्तत्वं व्यावर्तयति –

अत्र चेति।

ननु पुरुषान्तरवचनो युष्मच्छब्दः कथमचेतने देहादौ प्रयुक्तः, अत आह –

इदमस्मदिति।

नन्विदंकारप्रयोगेऽपि प्रत्यक्पराग्भावेन भवति भेदप्रतीतिः, एते वयमिति तु सामानाधिकरण्यं गौणं, तथा त्वङ्कारप्रयोगेऽपीति न विशेषः कश्चित्, अत आह –

इति बहुत्वं प्रयोगदर्शनादिति।

यद्यप्युभयत्र गौणत्वमविशिष्टं, तथापि विरलप्रयोगत्वात् स्फुटं त्वमहमिति सामानाधिकरण्ये गौणत्वं, ततस्तन्न भेदं तिरोदधीत इत्यत्यन्तभेदसिद्धिः। इमे वयमिति तु बहुलप्रयोगत्वेन निरूढमिति तिरोदधीत भेदम्, अतो नात्यन्तभेदसिद्धिः। दृश्येते च लाक्षणिकत्वाविशेषेऽपि प्रयोगबाहुल्याबाहुल्याभ्यां निरूढसांप्रतिकते – यथा पटः शुक्लो रथाङ्गनामा चक्रवाक इति। प्रयुञ्जते बहुत्वं वेदाश्च कवयश्च, 'अयममस्मीति' 'एते वयमिमे दाराः कन्येयं कुलजीवित'मित्यादि। न सहानवस्थानं दृष्टान्ते विवक्षितं दार्ष्टान्तिके तदभावात्, किंत्वन्योन्यात्मनाऽस्फुरणमित्यभिप्रेत्याह

– परस्परेति।

ननु उलूकादेः प्रकाशेऽप्यस्ति तमस्त्वारोपस्तत्राह –

नहीति।

समुदाचरन्त्यौ भेदेन भासमाने वृत्ती वर्तने ययोस्ते तथा। उलूकादेरविवेकादारोप इत्यर्थः। इतरेतरभावानुपपत्तिः नाम इतरेतरभावप्रतीत्यनुपपत्तिः विवक्षिता, तन्मात्रानुपपत्तिसाधनेऽध्यासवादिनं प्रति सिद्धसाधनत्वात्, इत्यभिप्रेत्य दृष्टान्ते स्थित्वा वक्ति –

परस्परात्मतया प्रतिपत्तुमिति।

इतरस्येतरत्र भावः इति योजने धर्मिणोरपि संसर्गाध्यासनिषेधः स्यात्, तथा च सिद्धसाधनम्, तादात्म्याध्यासाभ्युपगमात्, तनिवृत्त्यर्थमाह –

इतरेतरत्वमिति।

विनिमयो व्यत्यासः।

रूपवत इति।

गगनस्य तु स्वगतसवितृकरादिप्रतिबिम्बनद्वारा सलिले प्रतिबिम्बितत्वविभ्रमः। ततश्च रूपवत एवं प्रतिबिम्बभाव इति व्याप्तेः न व्यभिचारः, आत्मनस्तु नास्ति प्रतिबिम्बितत्वभ्रमकरं किंचिदित्यर्थः। धर्माध्यासो हि धर्मिणोः ऐक्यारोपेण प्रतिबिम्बभावेन वा दृष्टः, इह प्रतिबिम्बभावे निरस्ते आरोपः शिष्यत इत्याह

– पारिशेष्यादिति।

अध्यासानुपपत्तिमुक्त्वा तदभावोपसंहारार्थम्, अतोऽस्मत्प्रत्ययेत्यादि भाष्यम्।

अथवा अहं मनुष्य इत्यादिप्रतीतौ अतस्मिंस्तत्प्रतीतित्वस्य अध्यासलक्षणस्याभावे उक्ते लक्ष्याध्यासरूपत्वस्य अभावप्रदर्शनार्थं

विषयविपर्ययेणेति।

विषयोऽचेतनः तस्य विपर्ययः चैतन्यम्। इत्थंभावे तृतीया, चिदात्मन ऐक्यारोपे हि विषयस्य चेतनत्वमिव भवतीति। तथापीति भाष्यसूचिताम् अध्यासाभावहेतोः विवेकग्रहस्य असिद्धिमाह

– इदमत्राकृतमित्यादिना।

यथा श्रुत्यादिष्वात्मतत्त्वं गीयते तथाहमित्यनुभवे यदि प्रकाशेत, नत्वेतदस्तीति योजना। परामर्शो मध्ये निर्देशः। क्रियासमभिहारः पौनःपुन्यम्। दर्शनीया सुन्दरी। नत्वेतदस्तीति यदुक्तं तत्प्रपञ्चयति

– अहमनुभवस्त्विति।

उपप्लवो विपर्यासः अस्य नास्तीत्यनुपप्लवः, अहमनुभवः कथं विपर्यासशून्य इत्यर्थः। कथमात्मतत्त्वगोचर इत्यज्ञानं सूचितम्। प्रक्रमादिना तात्पर्यसिद्धावपि उपजीव्यविरोधादप्रामाण्यमाशङ्क्य आह –

न चेत्यादिना।

ज्येष्ठस्यापि पौर्वापर्यन्यायेन (जै० अ. ६ पा. ५ सू. ५४) बाधमाशङ्क्य आह –

तदपेक्षस्येति।

आगमस्य किं स्वजन्यज्ञानगतप्रमितित्वे प्रत्यक्षापेक्षा, उत तदुत्पत्तौ। आद्ये, किं विपर्यासशङ्कानिरासाय, संवादाय वा। एतद्वयं निरस्य, द्वितीयं शङ्कते –

प्रमिताविति।

आगमस्य किं प्रत्यक्षगतव्यावहारिकप्रामाण्येन विरोधः, उत तत्त्वावेदकत्वेन। नाद्य इत्याह –

नहीति।

द्वितीयं प्रत्याह –

न च तदिति।

एवमप्रामाण्यं निराकृत्य उपचरितार्थत्वं निरस्यति –

न चानन्यपरमिति।

पूर्वं भेदाग्रहसिद्ध्यर्थमिदमुक्तम्, इदानीमुपजीव्यविरोधाभावाय। विधायके शब्दे परो लक्ष्यः शब्दार्थो न भवतीति शबरस्वामिनोक्तं तत्तुल्यं वेदान्तेष्वपि, अनधिगतार्थबोधित्वेन तत्परत्वसाम्यादिति। एवं तावदुपजीव्यत्वं प्रत्यक्षस्य निराकृत्य मुख्यत्वमात्रस्य प्राबल्यहेतुतां निराकरोति –

ज्येष्ठत्वं चेति।

पौर्वापर्य इति। षष्ठे स्थितम् (जै. अ.६ पा. ५ सू. ५४) ज्योतिष्टोमेऽन्योन्यं संबध्य यज्ञशालातो निर्गच्छतामृत्विजां विच्छेदनिमित्तं प्रायश्चित्तं श्रूयते – यद्युद्गाता विच्छिन्द्याददक्षिणेन यजेत, यदि प्रतिहर्ता सर्वस्वदक्षिणेनेति। तत्रोद्गातृप्रतिहर्त्रोः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुच्चयासंभवात्, किं पूर्वं कार्यमुत परमिति विशयेऽनुपजातविरोधित्वात् पूर्वमिति पूर्वपक्षे, राद्धान्तः – पौर्वापर्ये सति निमित्तयोः, पूर्वस्य नैमित्तिकस्य, दौर्बल्यंम्, उत्तरस्य निरपेक्षस्य तद्बाधकतयोदितत्वात्, पूर्वोदयकाले उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात्। उक्तं हि – 'पूर्वं परमजातत्वात् अबाधित्वैव जायते। परस्यानन्यथोत्पादात् न त्वबाधेन संभवः॥ इति। प्रकृतिवत्, यथा हि प्रकृतौ क्लृप्तोपकाराः कुशाः प्रथममतिदेशेन विकृतावुपकाराकाङ्क्षिण्यां प्राप्ताः, कल्प्योपकारतया चरमभाविभिरपि शनैः निरपेक्षैः बाध्यन्ते, तद्वदिदमिति। एवं तावच्छ्रुत्यादिगम्यात्मतत्त्वस्य अहंप्रत्ययेऽनवभासात् अविविक्तविषयत्वमुक्तम्। संप्रति वादिनिरूपितस्य आत्मनोऽनवभासादपि तदाह –

अपि चेति।

सर्वगतात्मवादिनं प्रत्याह -सर्वगतात्मवादिनं प्रत्याह –

अहमिहेति |

न हि तदैवमिति।

तव मते अहंप्रत्ययस्य विविक्तात्मविषयलादित्यर्थः। ननु तत्र आत्मवचनोऽहंशब्दो देहे उपचर्यते, अत आह –

गौणत्वे वेति।

भवतीत्यनुषङ्गः। उपचरितात्मभावस्य देहस्य ज्ञातृत्वानुपपत्तेः जानान इति प्रतीतिः न हि भवतीत्यर्थः। न च ज्ञातृत्वमपि देहे उपचर्यत इति वाच्यम्। वक्तुः स्वज्ञानप्रकाशनपरे वाक्ये तद्विरोधात्। अथ अहमालम्बने आत्मनि देहगतप्रादेशिकत्वमेव उपचर्यते, तर्हि देहात्मनोर्भेदो ग्रहीतव्यः, न च गृह्यते इत्याह –

अपि चेत्यादिना।

अत्र गौणवादी प्रष्टव्यः, किं सिंहशब्दस्येव माणवके सांप्रतिकं देहादावहंशब्दस्य गौणत्वम्, उत सार्षपरसादौ तैलशब्दस्येव निरूढम्। नाद्यः इत्याह –

परेति।

प्रमाणलक्षणे स्थितम् – 'तत्प्रख्यं चान्यशास्त्रम्' (जै. अ. १ पा. ४ सू. ४)। अग्निहोत्रं जुहोतीति श्रूयते, तत्र संशयः, किमग्निहोत्रशब्दः अग्निदेवतागुणविधिः, उत कर्मनामेति। तत्राग्नये होत्रं हविरस्मिन्निति समासान्तवर्तिन्या चतुर्थ्या अग्नेः होमदेवतास्वप्रतीतेर्गुणविधिरिति प्राप्ते, राद्धान्तः – 'यदग्नये च प्रजापतये च सायं जुहोती'त्यग्नेः होमे देवतात्वप्रख्यापनात् प्राप्ते च विधिवैयार्थ्यात् नामधेयम्। न चात्र चतुर्थीसमाससंभवः, तादर्थ्यप्रकृतिविकारयोरभावात् – इति। एवं नित्याग्निहोत्रवाचिनः अग्निहोत्रशब्दस्य गुणादन्यत्र वृत्तिं वक्तुं मुख्यार्थात् गृहीतभेदं कर्मोदाहरति –

प्रकरणान्तरेति।

भेदलक्षणे स्थितम् – 'प्रकरणान्तरे प्रयोजनान्यत्वम्' (जै. अ.२ पा. ३ सू. २४)। कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीति श्रूयते। अत्र किं नित्याग्निहोत्रे मासगुणो विधीयते, उत कर्मान्तरमिति। तत्र सत्यपि प्रदेशभेदे नाम्ना नित्याग्निहोत्रस्य बुद्धौ संनिधापनात् तत्समभिव्याहृतस्य जुहोतीत्याख्यातस्य तत्संनिधापितार्थपरत्वात् नित्याग्निहोत्रानुवादेन मासो विधीयते इति प्राप्ते, राद्धान्तः – न तावदत्र आख्यातेन होमानुवादेन मासः शक्यो विधातुम्, कात्वस्य पुरुषानिष्पाद्यत्वेन अनुपादेयत्वात्। नापि मासोद्देशेन नित्याग्निहोत्रविधिः, तस्यासन्निधेः। न च नाम तत्संनिधापयति, अन्यत्र जुहोतीत्याख्यातेन पूर्वापरीभूततयोक्तस्य सिद्धार्थबोधिना नाम्नाऽनुपस्थापनात्। तस्मात्प्रयोजनान्यत्वं विधेयभावनान्यत्वमिति। ननु अग्निहोत्रशब्दस्य कौण्डपायिने कर्मणि प्रयोगे किं प्रयोजनम्, न तावत् नित्याग्निहोत्रेण सह क्रियात्वादिसादृश्यबोधः, तस्य वैयर्थ्यात्, अत आह –

साध्येति।

सप्तमे स्थितम् – 'उक्तं क्रियाभिधानं तच्छुतावन्यत्र विधिप्रदेशः स्यात् (जै. अ. ७ पा. ३ सू. १)। मासमग्निहोत्रमित्यत्रान्या चिन्ता, किमग्निहोत्रशब्दः नित्याग्निहोत्रधर्मानिह अतिदिशेत्, न वेति। तत्र यद्ययं गौणः स्यात्, तदा अग्निहोत्रवज्जुहोतीत्यतिदिशेत् तद्धर्मान्, न त्वयं गौणः, जुहोतिसामानाधिकरण्यस्य अत्रापि तुल्यत्वेन नामधेयत्वात्, अग्निदेवताविधानार्थत्वाद्वा, अतो नातिदिशेदिति प्राप्ते, सिद्धान्तः – न तावदत्र अग्निदेवता विधातुं शक्या, चतुर्थीसमासासंभवस्योक्तत्वात्। तत्र सिद्धे कर्मभेदे अनेकार्थस्य अन्याय्यत्वात्, एकत्र अग्निहोत्रशब्दः मुख्यः अपरत्र गौणः, नित्याग्निहोत्रे च नामप्रवृत्तिनिमित्तस्य अग्निदेवतासंबन्धस्य भावात् तत्रैव मुख्यता, अतः परशब्दः परत्र सादृश्यमुपादाय प्रवर्तते, तच्च सादृश्यं कर्तव्यार्थबोधकाख्यातसमभिव्याहृतनाम्ना अग्निहोत्रवज्जुहोतीति साध्यत्वेन विधेयमिति तत्सिद्ध्यर्थं नित्यधर्मानतिदिशेदिति। अतश्च नित्याग्निहोत्रधर्माणां द्रव्यदेवतादीनामतिदेशः गौणप्रयोगफलमित्यर्थः। क्रियाया नित्याग्निहोत्रस्य, अभिधानं नामधेयमग्निहोत्रपदमुक्तं तत्प्रख्याधिकरणे (जै. अ. १ पा. ४ सू. ४), तस्य अन्यत्र श्रवणे, विधिप्रदेशः विधेयधर्मातिदेशः स्यादिति सूत्रार्थः। लोकसिद्धसादृश्यां गौणीं वृत्तिमाह – माणवके इति। प्रकृते भेदग्रहाभावमाह –

न त्विति।

निष्कृष्य लुठितः प्रतिभासितो गर्भोऽसाधारणाकारो यस्य स तथा, तत्तया नानुभूयते, अनुभवे वा वादिविवादो न स्यादित्यर्थः। एवं सांप्रतिकीं गौणतां निरस्य निरूढां निराचष्टे –

न चात्यन्तेति।

निरूढत्वं नाम प्रयोगप्राचुर्यात् मुख्यवद्भानम्। निरूढेऽपि गौणप्रयोगे नार्थयोस्तादात्म्यं प्रतीयते, प्रतीयते तु प्रकृते इति वैषम्यमित्यर्थः। तत् तस्माद्गौणत्वव्यापकं विवेकज्ञानमिह व्यावर्तमानं गौणतामपि व्यावर्तयति इत्येतत्सिद्धमित्यन्वयः। अभिज्ञारूपाहंप्रत्ययाद्विवेकासिद्धावपि प्रत्यभिज्ञारूपात् तत्सिद्धिमाशङ्क्याह –

न च बालस्थविरेति।

आत्मैक्यं प्रत्यभिज्ञार्थः। भिन्नाभ्यामेकस्य भेदस्तु अनुमानात्, तच्च शास्त्रादृते न ज्ञेयमित्यर्थः। तर्हि परीक्षकाणां देहादौ अहंशब्दो गौणः, नेत्याह –

परीक्षका अपीति।

अपरोक्षभ्रमो न यौक्तिकबाधादुच्छिद्यत इत्यर्थः। देहपरिमाणात्मपक्षे किमारब्ध आत्मा, उत अवयवसमुदायः। नाद्यः इत्याह – अनित्यत्वेति। द्वितीये आत्मावयवानां चैतन्यं, समुदायस्य वा। नाद्यः इत्याह –

प्रत्येकमिति।

द्वितीयेऽपि समुदायापत्तिः शरीरौपाधिकी वा, स्वत एव वा, काकतालीया वा। आद्यं निरस्य, द्वितीयं निरस्यति –

न च बहूनामिति।

न तृतीय इत्याह –

य एवेति।

यादृच्छिकसंश्लेष इव यादृच्छिकविश्लेषोऽपि स्यादिति स्वस्थानामेव अकस्मादचैतन्यापत्तिरित्यर्थः। यत् – गौणवादिना विवेकग्रहमुपपाद्य, कृशोऽहमित्यादिप्रत्ययानां गौणत्वमुक्तं, तदविवेकसिद्धौ निरस्तमित्याह –

एतेनेति।

अहंप्रत्ययस्य अविविक्तविषयत्वे शास्त्रीयविषयसिद्धिमभिधाय प्रयोजनसिद्धिमप्याह –

तदेवमुक्तेति।

पूति दुर्गन्धि कूष्माण्डफलमिव कृतस्तथोक्तः।

तात्पर्यमुपवर्ण्य भाष्यं योजयति –

तदेवं सर्वप्रवादीत्यादिना।

स्वरूपं अन्योन्यात्मकतान्योन्यधर्माध्यासौ। निमित्तं इतरेतराविवेकः। फलं व्यवहारः। अहमिदं शरीरमिति प्रतीत्यभावाद् भाष्यायोगमाशङ्क्याह – वस्तुत इति। अहमिति प्रतीतेऽपि वास्तवमनात्मत्वमस्तीति इदंशब्दप्रयोग इत्यर्थः। धर्म्यध्यासाभावादुक्तं धर्माध्यासाभावं परिहरति –

अध्यस्तदेहादिभावे इति।

धर्मिणोः तादात्म्याध्यासकार्यम् अहमिदमिति व्यवहारं प्रदर्श्य, धर्माध्यासकार्यं प्रदर्शयति –

ममेदमिति।

ननु अध्यस्य व्यवहार इत्यनुपपन्नम्, भुक्त्वा व्रजतीतिवत् एकस्य क्रियाद्वये कर्तृत्वानभिधानात्, अत आह –

अत्र चेति।

व्यवहारक्रियाक्षिप्तस्य कर्तुरध्यासेऽपि कर्तृत्वात् क्त्वाप्रत्ययः स्यादित्यर्थः॥

ननु – उपसंहारभाष्ये नैसर्गिकोऽध्यास इत्यभिधानाध्यवहारोऽपि नैसर्गिकत्वविशिष्टोऽध्यास एव तत्कथं क्रियाभेदः – उच्यते, इह कार्यभूतव्यवहारनैसर्गिकत्वेन सामर्थ्यसिद्धाध्यासनैसर्गिकत्वोपसंहारादविरोधः॥ अध्यासाभिधानक्रिययोः पूर्वापरीभावो न युक्तः, चितो बुद्ध्यादितादात्म्यं विना क्रियान्वयायोगात्, अध्यस्य व्यवहार इत्यनेन अध्यासस्य व्यवहारहेतुतोक्तौ मिथ्याज्ञाननिमित्त इत्यनेन पौनरुक्त्यं चेति – केचित्। तन्न, पूर्वपूर्वभ्रमसंस्कृताऽविद्यया चितः संप्रतितनाध्यासक्रियाश्रयत्वात् पुनरुक्तिं परिहरति –

पूर्वकालत्वेति।

सुप्त्वोत्तिष्ठतीतिवद् अहेतुत्वभ्रमं व्यावर्त्य स्फुटयतीत्यर्थः।

जातिव्यक्त्योरिवार्थगतं तादात्म्यमविवेक इति भ्रमं व्यावर्तयति –

विवेकाग्रहेणेति।

भाष्ये – मिथुनीकरणस्य व्यवहारहेतुत्वमानन्तर्याद्भाति, न तु मिथ्याभूतप्रतियोगिसंपादनेन विवेकाग्रहहेतुतेति शङ्कां व्युदस्यन् योजयति –

सत्यानृते इति।

मिथुनीकरणात् विवेकाग्रहः, ततोऽध्यास इत्यर्थः। युगलीकरणं नाम अधिष्ठानारोप्ययोः स्वरूपेण बुद्धौ भानम्। ननु मिथुनं कृत्वेति किमिति नोक्तम्, अत आह –

न च संवृतीति।

'अभूततद्धावे कृभ्वस्तियोगे संपद्यमानकर्तरि च्विः'। यस्य यो भावो न भूतः स तद्भावं चेत्संपद्यते तस्मिन्नभूततद्भावे वर्तमानात्, प्रातिपदिकात्, कृभ्वस्तीनां धातूनां योगे च्विप्रत्ययो भवति। 'अस्य च्वौ' (पा ० ७।४।३२) इतीकारः। ततश्च मिथुनभावोऽपि अवास्तव इत्यर्थः। समारोपप्रतीत्योः इतरेतराश्रयत्वे शङ्किते व्यवहारानादित्वम् असांप्रतमित्याशङ्क्याह –

व्यवहारानादितयेति।

अथातो ब्रह्मजिज्ञासा ॥१॥ वृत्तिव्यक्तस्वरूपज्ञानमभिप्रेत्याह –

तत्र साक्षादिति।

इष्यमाणत्वेन ज्ञानस्य प्रयोजनसूचनमुपपाद्य संशयसूचनमुपपादयति –

जिज्ञासात्विति।

सा हीति।

सा न्यायात्मिका मीमांसा अनेन ग्रन्थेन शिष्यत इत्यर्थः। विषयप्रयोजनब्रह्मस्वरूपप्रमाणयुक्तिसाधनफलविचाराणां च प्रतिज्ञानात् बह्वर्थसूचनता।

लघूनि

असंदिग्धार्थानि। सांशयिकं हि नानार्थस्फोरकत्वेन गुरु। सूचितार्थत्वे हि मुख्यार्थस्यापि अवश्यंभावित्वात् बह्वर्थसिद्धिः। बहूनामप्रकृतत्वात्तत्रेति निर्धारणायोगमाशङ्क्याह –

तेष्विति।

अथैष ज्योतिरित्यत्रापूर्वसंज्ञायोगिविधास्यमानकर्मप्रारंभार्थोऽथशब्दः। अधिकरणं तु (जै. अ.२ पा.२ सू. २२) गुणोपसंहारेऽनुक्रमिष्यते। प्रधानस्य जिज्ञासायाः शास्त्रेणाप्रतिपाद्यमानत्वात् तत्प्रतिपादनप्रारंभार्थो मा भूत्, ब्रह्मतज्ज्ञानप्रारंभार्थो भवत्वित्याशङ्क्याह –

न चेति।

'दण्डी प्रैषानि"त्यत्र हि 'मैत्रावरुणः प्रेष्यति चान्वाहेति' मैत्रावरुणस्य प्रैषानुवचने प्राप्तत्वादविवक्षा, इह तु जिज्ञासाया नाविवक्षा कारणम्, प्रत्युत तदविवक्षायां विषयप्रयोजनसूचनं न स्यादित्यर्थः।। ननु किं संशयसूचनेन? निर्दिष्टे ब्रह्मतज्ज्ञाने एव विषयप्रयोजने सिद्ध्यतस्तत्राह

– न हीति।

अप्रस्तूयमानत्वात् प्रत्यधिकरणमप्रतिपाद्यमानत्वात्। 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्ये'ति सूत्रे 'माङ्माने' इत्यस्य ङानुबन्धस्य धातोर्नान्तत्वं निपातितम्। अस्य च पूजितविचारार्थत्वं प्रसिद्धिबलात्वात् स्वतो, नान्तस्य तु तदर्थत्वम् स्मृतिसिद्धमिति । मानित्यादिधातुभ्यः सन् भवत्यभ्यासस्य च दीर्घ इत्यर्थः। धातोः कर्मण इत्युत्तरसूत्रे इच्छार्थे सविधानादयमनिच्छार्थ इति गम्यते। लक्षितविचारनारंभार्थोऽथशब्दोऽस्तु नेत्याह –

न च स्वार्थपरस्येति

वाच्याया जिज्ञासायाः संशयसूचनेन वाक्यार्थान्वयोपपत्तौ न लक्षणा, अधिगतविषयप्रयोजनस्तु स्वत एव विचारे प्रवर्त्यतीत्यर्थः। अथाधिकारार्थ इत्यत्र अथशब्दस्यानन्तर्यार्थत्वं वदन् प्रष्टव्यः, किं पूर्वप्रकृतादथशब्दात् आनन्तर्यम् उत निरन्तरादानन्तर्यपक्षात्, नाद्य इत्याह –

पूर्वप्रकृतस्येति।

द्वितीये, पूर्वप्रकृतमथशब्दमपेक्ष्य किं निरन्तरानन्तर्यार्थत्वपक्षात् आनन्तर्यं ब्रूयाद्, द्वितीयोऽथशब्दोऽधिकारार्थत्वपक्षस्य, उत अनपेक्ष्यैव। नाद्यः, अवश्यापेक्षणीयत्वात् पूर्वप्रकृतापेक्षाया अथशब्दस्य तादर्थे सति अर्थान्तरकल्पनानवकाशात्। न द्वितीयः इत्याह –

न च प्रकृतानपेक्षेति।

एकधर्म्यपेक्षणे हि तन्निरूपकयोः पक्षयोः तुल्यार्थत्वेन विकल्पः कल्प्यत इत्यर्थः। नानेन भाष्येण पूर्वप्रकृतापेक्षाया आनन्तर्यरूपत्वमुच्यते, आनन्तर्यरूपत्वपक्षे विकल्पाप्रतिभानात्, किंतूभयत्रापि ब्रह्मजिज्ञासाहेतुभूतप्रकृतसिद्धिरस्ति प्रयोजनम् अतः फलद्वारेणाव्यतिरेक इत्युच्यते, इत्याह –

अस्यायमर्थ इति।

ननु उभयथा फलाभेदे किमित्यानन्तर्याग्रहः, तत्राह –

परमार्थतस्त्विति।

अन्यदप्यदृष्टादिकमपेक्ष्य भवन्ती जिज्ञासा यस्मिन् सति भवत्येव इत्यर्थः।

ब्रह्मेति।

स्वाध्यायाध्ययनानन्तरं ब्रह्मजिज्ञासाया भवितुं योग्यत्वात् तदानन्तर्यमथशब्देन वक्तुं युक्तमित्यर्थः। योग्यत्वे कारणमाह –

ब्रह्मणोऽपीति।

अत्र चेति।

स्वाध्यायस्य नित्यत्वात् तदानन्तर्यमयुक्तमिति तद्विषयमध्ययनं लक्षयतीत्यर्थः। ननु धर्मजिज्ञासासूत्रे ब्रह्मानुपादानात् कथं तेन गतार्थता, तत्राह –

धर्मशब्दस्येति।

ननु इच्छायां विनियोगो न ज्ञाने इति, तत्राह –

ज्ञानस्यैवेति।

अर्थतः प्राधान्याद् ज्ञानस्य तत्रैव विनियोग इत्यर्थः। साक्षात्कारोपयोग यज्ञादीनामाह –

तत्रापीत्यादिना।

विशेषहेत्वभावोऽसिद्ध इत्याह –

तत्त्वमसीति।

योग्यतावधारणे कर्म किमप्रमाणतयोपयुज्यते, उत प्रमाणतया। नाद्यः, अप्रमाणात् प्रमाणकार्योत्पादव्याघातादित्याह –

तत्किमिति।

प्रमाणं कारणं यस्य तत्तथा। न द्वितीयः, कर्मणः प्रमाणत्वप्रसिद्ध्यभावादित्याह –

प्रत्यक्षादीति।

पातजलसूत्रे स इति चित्तवृत्तिनिरोध उक्तः। दृढभूमिः तत्त्वप्रतिपत्तौ दृढ उपायः इत्यर्थः। नित्यानामेव संस्कारद्वारा भावनाङ्गत्वमुक्त्वा सर्वकर्मणामुत्पत्तिविधिविहितरूपमुपादाय भावनाङ्गतां विनियोगवचन – वशेनाह

– अन्ये त्विति।

संयोगः शेषत्वबोधनं चतुर्थे चिन्तितम्।

एकस्य त्विति।

'खादिरे पशुं बध्नाति', 'खादिरं वीर्यकामस्य यूपं कुर्वीतेति च श्रूयते। तत्र संशयः, किं काम्ये इव खादिरता नित्येपि स्यादुत नेति, तत्र फलार्थत्वेन अनित्यायाः नित्यप्रयोगाङ्गता न युक्ता। यत्तु नित्येऽपि खादिरत्वश्रवणं, तत्काम्यस्यैव पशुबन्धनयुक्तयूपरूपाश्रयदानार्थं, ततो न नित्ये खादिरतेति प्राप्ते – राद्धान्तः, एकस्य खादिरत्वस्य उभयत्वे क्रत्वर्थ – पुरुषार्थलरूपोभयात्मकत्वे वचनद्वयेन क्रतुशेषत्वफलशेषवत्वक्षणसंयोगभेदावगमात् न नित्यानित्यसंयोगविधिविरोधः। न चाश्रयदानाय नित्यवाक्यम्, सन्निधानादेवाश्रयलाभात्। तत उभयार्था खादिरतेति (जै. अ. ४ पा. ३ सू. ५)।

विशेषणत्रयवतीति।

आदरनैरन्तर्यदीर्घकालत्ववतीत्यर्थः। कर्मापेक्षत्वेन ब्रह्मभावनायाः तदवबोधापेक्षाम् उपपादयन् कर्मावबोधानन्तर्यमिति भाष्यं घटयति –

न चेति।

दृष्ट उपकारः तुषविमोकादिः, अदृष्टः प्रोक्षणादिजः प्रयाजादिजश्च। स चासौ यथायोगं सामवायिकः क्रतुस्वरूपसमवायी, आराद् दूरे फलापूर्वसिद्धौ उपकारश्च, तस्य हेतुभूतानि औपदेशिकानि प्रत्यक्षविहितानि आतिदेशिकानि प्रकृतेः विकृतावतिदेशप्राप्तानि क्रमपर्यन्तानि क्रमेणापि अवच्छिन्नान्यङ्गानि तेषां ग्रामः समूहः, तत्सहितं परस्परविभिन्नं कर्मस्वरूपं, तदपेक्षिताधिकारिविशेषश्च, तयोः परिज्ञानं विना कर्माणि न शक्यानि अनुष्ठातुमित्यन्वयः। औपदेशिकातिदेशिकेति शेषलक्षणादारभ्य उपरितनतन्त्रस्य अपेक्षोक्ता।

क्रमपर्यन्तेति

पञ्चमनयस्य। अङ्गग्रामेति तार्तीयस्य।

सहितेति

चातुर्थिकस्य प्रयोज्यप्रयोजकविचारस्य।

परस्परविभिन्नस्येति

द्वितीयलक्षणार्थस्य।

तदधिकारीति

षष्ठाध्यायार्थस्य।

दृष्टादृष्टेति

संस्कारकर्मवगुणकर्म स्वप्नधानकर्मत्वादिचिन्तायाश्च द्वितीयाध्यायगताया अपेक्षेत्युक्तम्।

द्विरवत्तेति।

आग्नेययागः स्वोत्पत्तये 'द्व्यवदानं जुहोतीति वचनाद् द्विर्हविषोऽवद्यतीति विहितं द्विरवत्तपुरोडाशमपेक्षत इति। भावनासाध्ये साक्षात्कारे यदि कमापेक्षा, तर्हि स ब्रह्मस्वरूपम्, अन्यो वा। स्वरूपत्वे न कर्मापेक्षेत्याह – स चेत्यादिना। पिष्टं संयौतीति विहितमिश्रणस्य पिण्ड उत्पाद्यः, गां दोग्धीति विहितदोहनेन प्राप्यं पयः। साक्षात्कारस्य ब्रह्मस्वरूपाद्भेदे ब्रह्म जडं स्यात्, तच्चेन्द्रियाद्यगोचरः शब्दश्च परोक्षप्रमाहेतुरिति केवलभावनाभूः साक्षात्कारः अप्रमा स्यादित्याह –

ततो भिन्नस्य चेति।

मन्थरः स्तिमितः। स्फुरन्त्यो ज्वाला जटाकारा अस्य सन्तीति जटिलः। न च कूटस्थेति। कूटस्थनित्यतया पूर्वरूपापायलक्षणो विकारः अभिनवगुणोदयरूपसंस्कारश्च न स्तः, सर्वव्यापितया न प्राप्तिः। कूटस्थनित्यत्वाविरुद्धं दोषविघातसंस्कारमाह – अनिर्वचनीयेति। प्रतिसीरा तिरस्करिणी। रङ्गव्यावृतो नटः। आरोह उच्छ्रयः। विस्तारपरिमाणं परिणाहः। उपासना किमापातज्ञानाभ्यासः, निश्चयाभ्यासो वा। आद्यं भङ्क्त्वा द्वितीयं शङ्कते –

नन्विति।

ननु उपासनैव अविद्यां निवर्तयतु, किं साक्षात्कारेण, यत्र कर्मोपयोगस्तत्राह – न चेति। ननु रज्जुसर्पादिभ्रमा अपरोक्षा अपि आप्तवचनादिजनितपरोक्षज्ञानैः निवर्तन्ते – सत्यं, ते निरुपाधिकाः, कर्तृवादिस्तु सोपाधिक इत्यभिप्रेत्य तथाविधमुदाहरति –

दिङ्मोहेति।

नौस्थस्य तटगततरुषु चलद्वृक्षभ्रमः। अपरोक्षे ब्रह्मणि शब्द एव अपरोक्षज्ञानहेतुः, अन्यथा तु तत्र परोक्षज्ञानस्य भ्रमत्वापातादिति, तत्राह –

न चैष इति।

अयमभिसन्धिः – स्वतोऽपरोक्षस्यापि ब्रह्मणः पारोक्ष्यं भ्रमगृहीतम्। तत्रापरोक्षप्रमाकरणादेव तत्साक्षात्कारः। अन्तःकरणं च सोपाधिके आत्मनि जनयत्यहंवृत्तिम् इति सिद्धम् अस्य आत्मनि अपरोक्षधीहेतुत्वम्। तत्तु शब्दजनितब्रह्मात्मैक्यधीसन्ततिवासितं तत्पदलक्ष्यब्रह्मात्मतां जीवस्य साक्षात्कारयति, अक्षमिव पूर्वानुभवसंस्कारवासितं तत्तेदन्तोपलक्षितैक्यविषयप्रत्यभिज्ञाहेतुः, शब्दस्तु नापरोक्षप्रमाहेतुः क्लृप्तः, प्रमेयापरोक्ष्ययोग्यत्वेन प्रमायाः साक्षात्कारत्वे देहात्मभेदविषयानुमितेरपि तदापत्तिः, दशमस्वमसीत्यत्रापि तत्सचिवादक्षादेव साक्षात्कारः, अन्धादेस्तु परोक्षधीरेव। अपिच – वेदान्तवाक्यजज्ञानभावनाजाऽपरोक्षधीः। मूलप्र माणदायन न भ्रमत्वं प्रपद्यते। 'न च प्रामाण्यपरतस्वापातः अपवादनिरासाय मूलशुद्ध्यनुरोधात्। दृश्यते त्वग्रया बुद्ध्यत्यादेर्नयबृंहितवचनादित्थमुररीकारः। साक्षादपरोक्षादित्येवमाकारैव धीः शब्दादुदेति, नतु परोक्षं ब्रह्मति, सा तु करण स्वभावात्परोक्षाऽवतिष्ठते न भ्रम इति सर्वमवदातम् ॥स्वरूपप्रकाशस्याभिव्यक्तिसंस्कारमुपपाद्य व्यञ्जकान्तःकरणवृत्तेरुत्पाद्य तामाह –

नचेति।

वृत्तिविषयत्वे ब्रह्मणोऽस्वप्रकाशत्वमाशङ्क्यासमुच्चयमतेन कर्मोपयोगाय साम्यमाह –

न चैतावतेति।

स्वप्रकाशस्यैव शाब्दज्ञानविषयत्वं त्वयाऽपीष्टमित्यर्थः। परिहारसाम्यमाह –

सर्वेति।

ननु निरुपाधिब्रह्मसाक्षात्कारगोचरे कथमुपहिततेति, तत्राह –

नचान्तःकरणेति।

निरुपाधि ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयते; स्वस्या अप्युपाधेर्निवर्तकान्तरापेक्षेति भावः। ननु – वृत्तिविशिष्टस्य शबलतया न तत्त्वसाक्षात्कारगोचरता; वृत्त्यवच्छिन्नात्मविषयत्वे च वृत्तेः स्वविषयत्वापातः, विशेषणाग्रहे विशिष्टाग्रहात्, उपलक्षितस्य तु न वृत्त्युपाधिकता – इति। उच्यते; वृत्त्युपरागोऽत्र सत्तयोपयुज्यते न प्रतिभास्यतयाऽतो वृत्तिसंसर्गे सत्यात्मा विषयो भवति, न तु स्वत इति न दोषः। ननूपाधिसंबन्धाद्विषयत्वं, विषयत्वे चोपाधिसंबन्धो विषयविषयित्वलक्षण इतीतरेतराश्रयमत आह –

अन्यथेति।

न ब्रह्मसाक्षात्कारस्य ब्रह्मविषयत्वप्रयुक्तं चैतन्यप्रतिबिम्बितत्वं, किं तु स्वतः, घटादिवृत्तिष्वपि साम्यात्। चैतन्यं च ब्रह्मेति स्वभाविको वृत्तेस्तत्संबन्ध इत्यर्थः। यच्च स्वरूपव्यतिरिक्तसाक्षात्कारस्य भ्रमत्वमिति तत्राह –

नचेति।

विषयविसंवादाभावात् प्रमात्वमित्यर्थः। जीवचैतन्यमात्रापरोक्षेपि शुद्धानन्दात्मत्वादेः पारोक्ष्यान्न तदाकारसाक्षात्कारो यथार्थ इत्याशङ्क्याह –

न हीति।

शुद्धादीनां स्वभावत्वेऽप्युपाधितिरोधानादविभावनम्। वेदान्तजज्ञानेन तत्तदुपाध्यपगमे यथावदभिव्यक्तो जीवो ब्रह्मेति गीयते, स चेदुपाध्यभावस्तर्हि तदतिरिक्तः परोक्षः कथं साक्षात्कारे भायादत आह –

नचेति।

यथा परैरन्योन्याभावो न भवति घट इति व्यपदिश्यमानोपि घटतदन्योन्याभावव्यतिरिक्तो नाभाव उपेयते, न च घटतदन्योन्याभावयोरेकता, एवमस्माकं निरुपाधिकं ब्रह्म, न चोपध्यभावस्ततोऽन्य इत्यर्थः। ननु चैतन्याभिन्नाश्चेदानन्दादयस्तद्वदविद्यादशायां विभाव्येरन्, उपाधिरुद्धाश्चेच्चैतन्येऽपि निरोधस्तुल्यस्तदभेदादिति शङ्कामुपसंहारव्याजेन परिहरति –

तस्मादिति।

यथा षडजादयो गन्धर्वशास्त्राभ्यासात् प्रागपि स्फुरन्तस्तद्रूपेणानुल्लिखिता न श्रोत्रेण व्यज्यन्ते, व्यज्यन्ते तु शास्त्रवासितेन तेन; एवं वेदान्तवाक्यजन्यब्रह्मात्मैकताकारज्ञानवासितान्तःकरणेन तद्भावाभिव्यक्तिर्न प्रागिति। निषादर्षभगान्धारषड्जमध्यमधैवतपञ्चमाः स्वराः। एषां समुदायो ग्रामः। मूर्च्छना तु तेषामारोहावरोहौ । समुच्चयपक्षमिदानीं निराकरोति –

नेति।

तत्र किमिह वा जन्मान्तरे वाऽनुष्ठितं कर्म संस्कारद्वारा ज्ञानोत्पत्तावुपयुज्यते, उतेहैवावगते ब्रह्मणि कृतकर्मणां भावनया समुच्चय इति। द्वितीये किं भावनाफलसाक्षात्कारे कर्मोपयोगः, उत भावनास्वरूपे इति। न तावत्कार्य इत्याह –

तस्या इत्यादिना।

तदुच्छेदकस्य कर्मण इति समानाधिकरणे षष्ठ्यौ।

सजातीयेति। सजातीयाश्च ते स्वयं च परे च तेषां विरोधिनस्तथोक्ताः। अवगते तत्त्वे विपर्यासदर्शनेन कर्मानुष्ठानसंभवात् समुच्चय इति प्रत्यवस्थानं दूषयति –

अत्रोच्यत इति।

विदुष इति। क्रियाकर्त्रादिर्वास्तव इति निश्चयवत इत्यर्थः। ननु विदुषश्चेदधिकारस्तर्हि क्रियाकर्त्रादेर्वास्तवत्वमित्याशङ्क्याह –

क्रियाकर्त्रादीति।

विद्वस्यमानः अविद्वानेव विद्वान्भवन्विद्वदाभास इत्यर्थः। लोहितादिडाज्भ्यः क्यषिति क्यषन्तस्य रूपम्। अतएवाविद्वान्कर्मकाण्डेऽधिकार्यभिमत इति। अविद्वद्विषयत्वं शास्त्रस्य वर्णयांबभूवेति। प्राक् चेत्यादिभाष्येणेत्यर्थः। यदि प्रतीयमानाधिकारनिमित्तस्य ब्राह्मण्यादेः शास्त्रनिमित्तमिथ्यात्वप्रत्ययादश्रद्दधानो विध्यनधिकारी, तर्ह्यतिप्रसङ्ग इति शङ्कते –

स्यादेतदिति।

भिन्नमुल्लङ्गितं शास्त्रनिषिद्धं कर्म येन स तथा तस्य भावस्तता अतिक्रान्तनिषेधतेत्यर्थः। अवगतमिथ्याभावस्याप्यधिकारनिमित्तस्य प्रतीयमानत्वान्निषेधाधिकारहेतुता। न च श्रद्धधानता; इहाधिकारहेतुरतत्त्वविदोऽपि नास्तिकत्वेनाश्रद्धधतो निषेधाधिकारात्, इतरथा निषेधलङ्गिनस्तस्य प्रत्यवायाभावापाताद्विधिषु तु श्रद्धाप्यधिकारहेतुरिति। ब्रह्मविदो नाधिकार इत्याह –

मैवमित्यादिना।

यद्यपि यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति श्रद्धारहितमपि कर्म वीर्यवदिति स्थास्यति; तथापि सा श्रद्धा भक्तिरूपा, इयं तु प्रमाणद्वारा विश्वासात्मिकैव तदभावेऽनधिकार एवेति।

न श्रद्धधान

इति। नकारोऽयं प्रतिषेधवाची। यत एवावगतब्रह्मभावो विधिषु नाधिकार्यत एव। ज्ञानानन्तरं कर्मानुष्ठानासंभवान्नोपासनोत्पत्तौ कर्मापेक्षेति द्वितीयकल्पानवकाश इत्याह –

अतएवेति।

एतद्विभजते –

निर्विचिकित्सेति।

पितृमनुष्यदेवलोकाप्तिहेतुभिः कर्मप्रजाधनशब्दवाच्यापरविद्याभिर्नामृतत्वमाप्तवन्तः, किंतु त्यागसाध्यज्ञानेनेत्यर्थः। तथा हि श्रुत्यन्तरम् – ‘पुत्रेणैवायं लोको जय्यो विद्यया देवलोकः कर्मणा पितृलोक’ इति। इह भवान्तरे वाऽनुष्ठितं कर्म सत्त्वशुद्धिद्वारेण ज्ञानोत्पत्तिहेतुरिति पक्षमङ्गीकर्तुं शङ्कते –

तत्किमिति।

आरात् दूरे। इमं पक्षमुपपादयति –

तथा हीति।

प्रधानेन प्रत्ययार्थेनेच्छयाऽऽख्यातोपात्तभावनायाः कार्यस्य संप्रत्ययात्समन्वयादिति। अनेन कर्मणा इदं ममाङ्गमन्तःकरणं संस्क्रियते पुण्येन चोपधीयत उपचीयत इति यो विदित्वा चरति कर्म, स आत्मशुद्ध्यर्थं यजन्नात्मयाजी, स च देवयाजिनः काम्यकर्तुः श्रेयानिति शातपथश्रुत्यर्थः। स यदेव यजेतेत्यत्र प्रकृतं यज्ञादि। श्रुत्यन्तरमाह –

नित्येति।

नित्यानां संस्कारद्वारा ज्ञानोत्पादकतोक्ता, इदानीं यदुक्तं समुच्चयवादिना सर्वेषां कर्मणां ज्ञानकार्ये मोक्षे समुच्चय इति तत्राह –

क्लृप्तेनैवेति।

नित्यानां फलं पापक्षयं ज्ञानमाकाङ्क्षते, न स्वर्गादि। तत्र यथा प्रकृतौ क्लृप्तोपकाराणाम् अङ्गानामतिदेशेन न प्राकृतोपकारातिरिक्तोपकारकल्पनमेवं ज्ञाने विनियुक्तयज्ञादीनां क्लृप्तनित्यफलपापक्षयातिरेकेण न नित्यकाम्यकर्मसाधारणमोक्षोपयोग्युपकारः कल्प्यः। पापक्षयस्य च ज्ञानोत्पत्तिद्वारत्वं ततस्तु तमित्यादिशास्त्रसिद्धम्। न च वाच्यं – नित्येभ्यः पापक्षयस्य तस्माच्च ज्ञानोत्पत्तेरन्यतः सिद्धौ किं

यज्ञेनेत्यादिना –

इति; नित्यानां ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिबर्हकत्वस्य विशेषतः शास्त्रान्तरादसिद्धेः। अस्मिंश्च विनियोगे सति ज्ञानोद्देशेन नित्यान्यनुतिष्ठतोऽवश्यं ज्ञानं भवति, इतरथा शुद्धिमात्रमनियता च ज्ञानोत्पत्तिरिति विनियोगोपयोगः। ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण’ इत्यादिस्मृतेरियं श्रुतिर्मूलम्। श्रुतिस्त्वेतादृशी तुल्यत्वे नैतामनुवादयति। न संयोगपृथक्त्वेन साक्षादङ्गभाव इत्यनेन साक्षादङ्गभावो निषिध्यते, न संयोगपृथक्त्वम्; सर्वापेक्षाधिकरणे (ब्र.अ.३.पा.४.सू.२६.) संयोगभेदस्याश्रयिष्यमाणत्वात्। तस्मादयमर्थः – संयोगपृथक्त्वमस्तीत्येतावता न साक्षादङ्गभावसिद्धिरारादङ्गभावेऽपि तदुपपत्तेरिति। नित्यानां दुरितक्षयफलत्वे नित्यकाम्यवैषम्यायोगमाशङ्क्य –

नित्येहितेनेयुक्तम्।

चित्तसत्त्वं चित्तगतः सत्त्वगुणः। प्रत्यक्षोपपत्तीति। संसारस्यासारत्वं दृष्टिविषये प्रत्यक्षग्राह्यमदृष्टे तूपपत्त्या। प्रत्यक्षोपपत्त्योश्च प्रवृत्तिद्वारं चित्तगतसत्त्वं, तस्य पापकपाटनिवृत्त्यपावरणे उद्धाटने सतीत्यर्थः। धर्मब्रह्मावबोधयोर्हेतुमद्भावाभावेऽपि क्त्वाश्रुत्या पौर्वापर्यमाशङ्कते –

स्यादेतदिति।

अग्निहोत्रयवागूपाकवदिति। पञ्चमे स्थितम् – ‘अर्थाच्च’ (जै.अ.५.पा.१. सू.२) अग्निहोत्रं जुहोति यवागूं पचतीत्यत्र किं होमपाकयोर्यथापाठं क्रमः, उत पाक एव प्रथम इति संशये, नियामकश्रुत्यभावाद्धोमनिर्वृतेश्च द्रव्यान्तरेण संभवाद्यवागूपाकस्य चारादुपकारकत्वाद्धोमप्राथम्ये प्राप्ते – राद्धान्तः; पदार्थः प्रयोजनापेक्षोऽनुष्ठानविधिरेव प्रयोजनोपयोगिनं क्रमविशेषं नियच्छतीति पक्त्वैव होतव्यम्। न च द्रव्यान्तरानयनं; श्रुतद्रव्यवैयर्थ्यप्रसङ्गात्। न च दृष्टार्थत्वे सत्यारादुपकारकत्वं पाकस्येति।

पाठस्थानेति।

क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् (जै.अ.५.पा.१.सू.४) समिधो यजतीत्यादिषु क्रमपठितप्रयाजेषु चिन्ता – किं यथापाठमनुष्ठानक्रमः, उत न। तत्र वाक्यानां स्वार्थमात्रावसितत्वान्न क्रमपरतेत्यनियमप्राप्तौ सिद्धान्तः; यथैतानि वाक्यानि स्वार्थविधायीनि, तथानुष्ठानापेक्षितस्मृत्युपयोगीन्यपि। तानि च क्रमवन्ति स्वाध्यायविध्यध्यापितानि क्रमवन्त्येव स्मरणानि जनयन्ति, स्मृतस्य चानुष्ठानमिति स्मरणक्रमेणानुष्ठानं नियम्यते, एवं क्रमपाठोऽपि दृष्टार्थो भविष्यति। तस्मात् पाठक्रमेण नियम इति। सूत्रार्थस्तु एकस्मिन् क्रतौ श्रूयमाणानां प्रयाजादीनां पाठक्रमेण प्रयोगक्रमो नियम्येत; तस्य पाठक्रमस्यानुष्ठाने लोके गुणत्वावगमात्, तद्यथा स्नायादनुलिम्पेत भुञ्जीतेति॥ ‘स्थानाच्चोत्पत्तिसंयोगात्’ (जै.अ.५.पा१.सू.१३) । ज्योतिष्टोमविकारे साद्यस्कसंज्ञेऽतिदेशप्राप्तेष्वग्निषोमीयादिपशुषु सहत्वगुणविधानार्थं वचनं श्रूयते ‘सह पशूनालभत’ इति। तद्विधानाच्च प्राकृतः प्रथममग्नीषोमीयस्ततः सवनीयः ततोऽनुबन्ध्य इत्येवंरूपः क्रमो निवर्तते। सहत्वं चेदं सवनीयस्थाने; तथा सति हीतरयोस्तुल्यवत् स्थान चलनं भवति। सवनीयश्चाश्विनग्रहग्रहणानन्तरकालः प्रकृतावाम्नायते; आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोतीति। तत्रैक कालत्वलक्षणसहत्वासंभवादवश्यंभाविनि क्रमे कः प्रथमं प्रयुज्यतामित्यपेक्षाया किमनियमेनैषां प्राथम्यमुत सवनीयस्येति संशयः। तत्र नियामकश्रुत्याद्यभावादनियमे प्राप्ते – राद्धान्तः; स्थानात्सवनीयप्राथम्यं नियम्येत, कुतः? उत्पत्तिसंयोगात्, प्रकृतौ सवनीयस्याश्विनग्रहणानन्तर्यमुत्पत्ताववगतं विकृतौ च तेनैव कालेन स उपस्थापितः, अग्नीषोमीयस्तु सहत्ववचनेन स्वस्थानाच्चालितस्ततः प्रथमं सवनीयस्यैवोपाकरणादिप्रयोगः। इतरयोस्तु तत्साहित्यवचनात् तदानन्तर्यं, मिथस्त्वनियमः। अथवा प्रकृतिदृष्टपौर्वापर्यस्यासति बाधके त्यागायोगात् प्रथममग्नीषोमीयमुपाकृत्यानुबन्ध्य उपाकर्तव्य इति॥ मुख्यक्रमेण चाङ्गानां तदर्थत्वात्’ (जै.अ.५.पा.१.सू.१४) ‘सारस्वतौ भवत एतद्वै दैव्यं मिथुनं यत्सरस्वती सरस्वांश्चेति’ सरस्वतीदैवतं सरस्वद्दैवतं च युगपत्कर्मद्वयं श्रूयते। तत्र च सरस्वतीदैवतस्य याज्यानुवाक्यायुगलं प्रथममाम्नायते, तदनन्तरं पुंदैवतस्य । तत्र मन्त्राणां प्रयोगशेषत्वाद्याज्यानुवाक्यापाठक्रमेण प्रधानक्रमोऽवगतः। अङ्गविशेषे निर्वापादौ संशयः, किमनियतोऽस्य क्रम; उत प्रधानक्रमेण नियत इति। तत्र याज्यानुवाक्यापाठक्रमस्य प्रधानमात्रगोचरत्वादङ्गानामनुष्ठानक्रमे श्रुत्याद्यभावान्मुख्यक्रमस्य च प्रमेयत्वेन प्रमाणत्वानुपपत्तेरनियमे प्राप्ते – सिद्धान्तः; मुख्यक्रमेणाङ्गानां क्रमो नियम्येत, तदर्थत्वात्, प्रधानार्थत्वादङ्गानाम्। यद्यपि मुख्यक्रमस्य याज्यानुवाक्यापाठक्रमापेक्षया प्रमेयत्वं; तथापि प्रमितस्यास्य धूमादेरिवान्यत्र प्रमाणत्वमविरुद्धम्। प्रधानस्य हि प्रयोगविधिना साङ्गस्यैव प्रयोगश्चोदितः, स चावर्जनीयाद्व्यवधानादधिकव्यवधिमङ्गानां न सहते। यदि तु प्रधानान्तरसन्निधा वन्याङ्गानुष्ठानं, तदा तेनैव स्वप्रधानादङ्गानि विप्रकृष्येरन् ; अतो मुख्यक्रमादङ्गक्रमनियम इति॥ ‘प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात्’ (जै.अ.५.पा.१.सू.८) वाजपेये – ‘सप्तदश प्राजापत्यान्पशूनालभत’ इति सप्तदश यागा अङ्गत्वेन श्रूयन्ते ; तेषां च वैश्वदेवीं कृत्वा सह प्रचरन्तीति प्रयोगसाहित्यश्रवणादेकोपक्रमोपसंहार एक एवावान्तरप्रयोगः। तेनैषामतिदेशप्राप्ताः प्रोक्षणादिधर्मा न एकैकत्र समापनीयाः , किं तर्हि , पशुष्वेक एव पदार्थः परिसमापनीयस्ततोऽन्यस्ततोऽन्यः; इतरथा ह्येकस्मिन्पशौ सर्वाङ्गानुष्ठाने प्रधानस्याङ्गैर्विप्रकर्षः स्यात्। तत्र प्रथममेकपदार्थानुष्ठाने विशेषतो वेदाभ्यनुज्ञाभावादिच्छैव नियामिका। तदेवं स्थिते द्वितीयादिपदार्थप्रयोगे संशयः; किं प्रथम एव द्वितीयादावपीच्छैव कारणमुत प्रथमप्रवृत्त्यैव नियम इति। तत्र पूर्वपक्षः – न तावत् श्रुत्याद्यस्ति नियामकम्; प्रथमाङ्गप्रवृत्तिश्च पौरुषेयी वेदेन नाभ्यनुज्ञायत इति न तद्वशादुक्तरनियमः। तेन प्रथमतराङ्गाश्रितपुरुषेच्छैव चरमतराङ्गनियामिका। प्रयोगसौकर्यं चैवं लभ्यते; इतरथा हि प्रथमं प्रयोगानुसंधानव्यग्रमनस उपरितनं च प्रयोगं तद्वशेन तन्वानस्य मतिक्लेशः स्यात्। तस्मादनियम इति प्राप्ते – राद्धान्तः; एकप्रयोगतया तुल्यकालानां प्रोक्षणाद्यङ्गानां प्रवृत्त्या क्रमनियमः ; कुतः? तदुपक्रमात् तेन प्रधानेनाङ्गानामुपक्रमात्, तदेकप्रयोगत्वादित्यर्थः। सप्तदश यागाङ्गानि सह प्रयोज्यानि प्रथमाङ्गानुष्ठाने सति द्वितीयादौ षोडशभिर्व्यवधानमभ्यनुजानन्ति न ततोऽधिकम्; प्रावृत्तिकक्रमाश्रयणे च सप्तदशसु प्रथमाङ्गानुष्ठाने द्वितीयो धर्मः प्रथमादिपशुषु क्रियमाणः षोडशभिरेव व्यवधीयते, क्रमानन्तराश्रयणेऽधिकैरपि व्यवधानं स्यात्; अतः प्रयोगवचनकोपपरिहाराय प्रवृत्त्या नियम इति। शेषाणां शेषिणां च क्रमापेक्षायां हेतुमाह – युगपदिति। युगपदनुष्ठानप्राप्तौ क्रमः स्यात्तदेव कुतस्तत्राह –

एकपौर्णमासीति।

षण्णां मध्ये त्रयः पूर्णमास्या संबद्धास्त्रयोऽमावास्यया। कालैक्येऽपि यदि कर्तृभेदः स्यात्, तदा न क्रमोऽपेक्ष्येत तन्माभूदित्याह –

एकाधिकारीति।

स्वामित्वेनाधिकारित्वं तस्यैवानुष्ठातृत्वेन कर्तृत्वम्। एकाधिकारिकर्तृकत्वे हेतुमाह –

एकप्रयोगवचनेति।

यजेतेत्याख्याते कर्त्रैक्यस्य विवक्षितत्वात्प्रयोगवचने कर्त्रैक्यं सिद्धम्। एकप्रयोगवचनपरिग्रहे हेतुमाह –

एकफलवदिति।

एकश्चासौ फलवतः प्रधानस्य उपकारश्च तस्मिन् समुच्चित्य साधनत्वेन उपनिबद्धाः शेषाः; एकेन फलेनावच्छिन्नाः शेषिणोऽत एकप्रयोगवचनोपगृहीता इति। सौर्यार्यमणेति। एकादशे स्थितम् – ‘अङ्गवत्क्रतूनामानुपूर्व्यम्’ (जै.अ.५.पा.३.सू.३२) सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः’ ‘आर्यमणं चरुं निर्वपेत्स्वर्गकामः’ ‘प्राजापत्यं चरुं निर्वपेच्छतकृष्णालमायुष्कामः’ इत्यादिषु क्रमपठितक्रतुषु चिन्ता। किं पाठक्रमेण प्रयोज्या, उतानियमेनेति। तत्र यथाङ्गानां समिदादीनामेकेन युगपत्करणाशक्तेः क्रमाकाङ्क्षायां पाठात् क्रमनियमः, एवं क्रतूनामपीति प्राप्ते – राद्धान्तः; ‘न वाऽसंबन्धात्’(जै.अ.५.पा.३ सू.३३) अङ्गेष्वेकप्रयोगवचनपरिग्रहादस्ति क्रमाकाङ्क्षा, क्रतुषु नानाफलेषु नैकः प्रयोगवचनोऽस्ति, न च सर्वे मिलित्वा प्रयोजयन्ति, तेनैषामेकप्रयोगवचनसंबन्धाभावान्नास्ति क्रमाकाङ्क्षा, कितु पुरुषस्य । न च तदाकाङ्क्षितं विधिप्रतिपाद्यमिति तदिच्छयैव क्रमः, पाठक्रमस्त्वध्ययनार्थ इति। युगपत्पाठासंभवेनावर्जनीयतया पाठक्रमस्यागतत्वात्तन्नियमस्य चाध्ययनार्थत्वादित्यर्थः। गोदोहनस्य पुरुषार्थत्वं चतुर्थे चिन्तितम् – यस्मिन्प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणाऽविभक्तत्वात् (जै.अ.४.पा.१.सू.२) दर्शपूर्णमासयोर्गोदोहनेन पशुकामस्य प्रणयेदिति श्रूयते। तत्र गोदोहने क्रत्वर्थत्वपुरुषार्थत्वसंदेहे पशुकामस्येति समभिव्याहाराद्वाक्येन क्रतूपकारकत्वेन चोभयार्थमिति प्राप्ते – सिद्धान्तः; नोपकारकत्वं शेषत्वं, किंतु तादर्थ्यम्; तथाच गोदोहनस्य पशुशेषत्वान्न क्रत्वङ्गत्वम्, अङ्गापेक्षा च क्रतोरुपकाराय; अन्यार्थस्यापि क्रतूपकारकत्वमविरुद्धम्, तेन वाक्यात्पुरुषार्थमेवेति । यस्मिन्निर्वृत्ते पुंसः प्रीतिः फलं भवति, तस्य लिप्सा फलप्रयुक्ता, न विधितः; कुतः? तस्य फलसाधनस्य प्रीत्या विभागाभावादिति सूत्रार्थः। अस्य चाप्प्रणयनाश्रितत्वात्तत्क्रम एव क्रम इति गोदोहनस्य प्रणयनाश्रितत्वमुपपादयति –

नो खल्विति।

कल्प्यतां तर्हि व्यापारान्तरावेशस्तत्राह –

अप्प्रणयनाश्रितमिति।

प्रणयनान्तरविशिष्टविधिमाशङ्क्य प्रतीयत इत्युक्तम्। सन्निहितलाभेन विशिष्टविधिरित्यर्थः। सामर्थ्यरूपाद् लिङ्गाच्चाप्प्रणयनाश्रितत्वमाह –

योग्यत्वाच्चेति।

यथा वा दर्शपूर्णमासाभ्यामिति। चतुर्थे चिन्तितम् – उत्पत्तिकालाङ्गविशये कालः स्याद्वाक्यस्य तत्प्रधानत्वात् (जै.अ.४.पा.३.सू.३७) दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति श्रूयते। तत्र संदेह, किमिदमङ्गस्य विधायकमुत कालस्येति। तत्र क्त्वाश्रुतेरङ्गस्य, तच्चाङ्गत्वं यजेतेति विधिप्रत्यासत्तेः सोमस्यैव। ननु द्रव्यद्वारेणान्यत्र विहितसोमयागस्य प्रत्याभिज्ञानात्कथं तद्विधिः। उच्यते; तत्कार्यस्येहाप्रत्यभिज्ञानाद्वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेतिवत्। नह्यत्र ब्रह्मवर्चसं बृहस्पतिसवकार्य प्रतीतम्, अतोऽङ्गं बृहस्पतिसवो वाजपेयस्य । एवंच सोमयागोऽपि दर्शपूर्णमासेष्टिं प्रत्यङ्गत्वेन विधीयत इति प्राप्ते – उच्यते ; अस्मिन्कालाङ्गविधिसंशये कालो विधेयः स्यात् । कुतः , अस्य वाक्यस्य कालप्रधानत्वात् । यदि कर्मविधिरेव स्यात् , तर्हि रूपेण द्रव्यदेवतेन भाव्यम् ; नचेह देवतारूपमस्ति। अथाव्यक्तत्वेनोद्भिदादिष्विव सौमिकी देवताऽतिदेशेन प्राप्येत, तर्हि सोमोऽपि प्राप्येतेति सोमेनेति व्यर्थं स्यादतः सोमयागप्रत्यभिज्ञार्थमेव तत्। प्रत्यभिज्ञाने च न विधिसम्भवः ; बृहस्पतिसवस्तु वाजपेयप्रकरणे श्रुतस्तत्र प्रकरणान्तरन्यायात्कर्मान्तरमेव विधीयते। नामधेयमपि यजिपरतन्त्रतया न प्रत्यभिज्ञापकं, किंतु तत्रैव धर्मलक्षणया वर्तते। अतो नाम्नैव प्रसिद्धबृहस्पतिसवधर्माणां प्रापितत्वाद्युक्तं कर्मविधानमिति।

यथाग्नेयादीनामिति।

एकादशे चिन्तितम् – प्रयोजनाभिसंबन्धात् पृथक्त्वं ततः स्यादैककर्म्यमेकशब्दाभिसंयोगात् (जै.अ.११,पा.१,सू.१) । आग्नेयादिषु संशयः किं तन्त्रमेषां फलमुत भेदेनेति। तत्र परस्परनिरपेक्षैरुत्पत्तिविधिभिर्विहितानां प्रधानानां पृथक्फलाकाङ्क्षत्वात्तत्संनिधौ श्रूयमाणं फलं भेदेनाभिसंबध्यते; ततः प्रतिप्रधानं फलभेदे इति प्राप्ते राद्धान्तः। यद्यप्येषां पृथक्त्वं पृथगुत्पत्तिविहितता; तथाप्यैककर्म्यम्, क्रियत इति व्युत्पत्त्या फलं कर्म, एककर्म्यमेकफलत्वमित्यर्थः। कुतः , प्रयोजनेन समुच्चितानां सबन्धाद्धेतोः। स एव कुतः, एकशब्दाभिसंयोगात्। दर्शपूर्णमासशब्देन हि समुदायवाचिना निर्देश्य फले विधीयन्ते आग्नेयादय, यथा ग्रामेणोदपान खेय इति समुदायशब्दनिर्देशात्समुदितैः पुंभिरुदपानः खन्यते, न प्रतिपुरुषं कूपभेदः एवमिहापि। ननु गणायानुलेपनमित्यादौ समुदायशब्दनिर्दिष्टमप्यनुलेपनादि प्रतिपुरुषमावर्तते तद्वत् किं न स्यात्। नेति वदामः; युक्तमनुलेपनादेः संस्कारत्वाद्दृष्टार्थत्वाच्च प्रतिसंस्कार्यमावृत्तिरिह फलमुद्दिश्य विधीयमानानामुपादीयमानानामेवाग्नेयादीनां विवक्षितं

साहित्यमिति

फलतन्त्रतेति।

संग्रहे जिज्ञासयोः फलादिभेदं निर्दिश्य विभजने ज्ञानयोस्तत्कथनमयुक्तमित्याशङ्क्याह –

जिज्ञासाया इति। इच्छाया ज्ञानपराधीनतया ज्ञानफलमेव तत्फलमित्यर्थः। फलभेदे वक्तव्ये कारणभेदकथनं भाष्ये अनुपयोगीत्याशङ्क्याह –

केवलमिति। विधेयाविधेयक्रियाज्ञानफलयोरुत्पाद्यता। व्यङ्ग्यता च भेद इत्यर्थः। अनुष्ठानान्तरेत्यत्रान्तरशब्दार्थमाह

शाब्दज्ञानेति।

– शाब्दज्ञानेति। क्वचित् ‘ब्रह्मविदाप्नोति पर’मित्यादौ ज्ञानफलं साध्यत्वेन प्रतीतमपि न्यायबलाद्वचनान्तरवशाच्चाभिव्यक्तिपरत्वेन व्याख्याय फलभेद उक्तः, जिज्ञास्यभेदस्तु प्रतीतिसमय एव स्फुट इत्याह –

जिज्ञास्यभेदमिति।

ननु भवतेरकर्मकत्वाद्भावार्थत्वे च नंपुसकत्वप्रसङ्गाद्भव्यशब्देन कथं जिज्ञास्यभेदसिद्धिरत आह –

भवितेति।

ननु ‘तयोरेव कृत्यक्तखलार्थाः’ इति कृत्यानां भावकर्मणोः स्मरणात् ‘अचो यदि’ ति सूत्रविहितयत्प्रत्ययान्तस्य भव्यशब्दस्य कर्तृवाचित्वमयुक्तमित्याशङ्क्याह –

कर्तरि

कृत्य इति। ‘भव्यगेये’त्यादिना हि सूत्रेण भावकर्मवाचितानियममपोद्य कृत्यप्रत्ययान्ता एव भव्यादिशब्दा विकल्पेन कर्तरि निपात्यन्ते। अतो भवतीति व्युत्पत्त्या भव्यशब्दः कर्तृवाची। पक्षे च ‘भावकर्मणोः’ । अस्य च भवतेरनुपसर्गत्वात्प्राप्तिवाचित्वाभावाच्च कर्माप्राप्तिः। भावे तु भव्यमनेनेति स्याद् नेह स; पुंल्लिङ्गनिर्देशात्, उत्पाद्यधर्मापेक्षणाच्च। अतः कर्तरि कृत्य इति। ननु भवितुः कथं ज्ञानकाले सत्त्वाभाव इत्याशङ्क्य ज्ञानोत्तरभाविप्रयोजकव्यापारापेक्षणादित्याह –

भविता

चेति। भवतिर्ह्यसिद्धकर्तृकक्रियावाची न पच्यादिवत्सिद्धकर्तृकक्रियस्ततो भविता स्वतोऽसिद्धः सन्भावकव्यापारापक्षनिष्पत्तिरर्थात्साध्यो भातीति। अत एवाहुः – ‘करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः। भविता तमपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते॥‘ इति। भाष्ये भूतशब्दस्यातीतवाचित्वभ्रमं निरस्यति –

भूतमिति।

नन्वाज्ञाभ्यर्थनानुज्ञानां लोके चोदनात्वात्कथं वेदे चोदना? अत आह –

आज्ञादीनामिति।

उत्कृष्टपुंस स्वाभिलषितोपायकार्यत्वाभिधानमाज्ञा, यथा गामानयेति। एतदेव हीनस्याभ्यर्थना, यथा माणवक्रमध्यापयेति। प्रवृत्तस्य प्रयोज्यस्य तद्धितोपायोक्तिरनुज्ञा, तथा कुरु यथा हितमिति। नैतासां संभवो वेदे इत्युपदेशश्चोदना। उपदेशो ह्यप्रवृत्तनियोज्यस्य प्रयोजनोपायबोधको लोकेऽवगतो, यथा गोपालवचसि सुपथकथनपरेऽनेन पथा याहीति। नहीहाज्ञा; प्रयोक्तुर्निकर्षात्। नाभ्यर्थना; स्वप्रयोजनाभावात्। नाप्यनुज्ञा; प्रयोज्यस्याप्रवृत्तत्वात्तदिह नियोज्यस्याप्रवृत्तस्य हितोपायकर्तव्यतोक्तिरपौरुषेयेऽपि वेदे भवत्येवेति। तस्य धर्मस्य, ज्ञायतेऽनेनेति ज्ञानं, प्रमाणमुपदेशो विधिरिति जैमिनीयसूत्रावयवार्थः। स्वविषय इति भाष्ये स्वशब्देन चोदनाभिधीयत इति मत्वाह –

स्वसाध्ये

इति।स्वस्याः प्रतिपाद्ये विषये भावनायामित्यर्थः। धर्मस्येत्युक्त्या भावनोपसर्जनभूताऽपि शब्दतोऽर्थतः प्राधान्यात् स्वशब्दार्थ इति गृहीत्वाऽऽह –

तद्विषये

इति। ननु भावनाधात्वर्थयोर्विधिशब्देन पुरुषप्रवर्तनमशक्यं; प्रमाणस्य वाय्वादिवत्प्रेरकत्वायोगादित्याशङ्क्याह –

भावनाया

इति। साक्षाद्भावनायास्तदवच्छेदकत्वद्वारेण चार्थाद्धात्वर्थस्येष्टोपायतां बोधयति, विधिर्बोधयित्वा च तत्रेच्छामुपाहरति, इच्छंश्च पुरुषः प्रवर्तते, तदनेन क्रमेण नियुञ्जाना चोदना धर्ममवबोधयतीत्यर्थः। ब्रह्मचोदना ब्रह्मवाक्यम्। यथा धर्मचोदना प्रवृत्तिहेतुं बोधं जनयति, नैवं ब्रह्मचोदनेत्याह –

अवबोधस्येति।

ब्रह्मचोदनया सिद्धवस्तुविषयस्य प्रवृत्त्यहेत्वर्थमात्रावबोधस्य जन्यत्वादिति भाष्यार्थः। ननु – मा नाम जनिधर्मबोधवद्ब्रह्मबोधाद्विषये प्रवृत्तिः, स एव तु विधितः किं न स्यादिति शङ्कते –

नन्विति।

विध्येकवाक्यत्वेन वस्तुबोधनाद्वेदान्तानां न सिद्धबोधमात्रपर्यवसानमित्यर्थः॥ भाष्येऽवबोधनिर्देश एव विध्यविषयत्वे हेतुगर्भ इति व्याचष्टे –

अयमभिसंधिरिति।

यथा विशिष्टविधौ विशेषणविधिरर्थात्, न विशेषणे तात्पर्यं , वाक्यभेदादेवं विषयविशिष्टप्रतिपत्तिविधिसामर्थ्याद्ब्रह्मनिश्चय इत्याशङ्क्याह –

च बोधस्येति। विशिष्टक्रियाविधानाद्युक्ता विशेषणस्य प्रमा; वैशिष्ठ्यस्य वास्तवत्वात्, प्रतिपत्तिविधिस्तु न विशेषणसत्तामाक्षिपति; वाचं धेनुमुपासीतेत्यादावारोप्यस्यापि विधेयधीविषयत्वादित्यर्थः। एवं क्रमप्रमाणाभावसिद्धौ – ‘ब्रह्मधीर्न नियोगेन धर्मबुद्धेरनन्तरा। तत्क्रमे मानहीनत्वात्स्नानभुज्यादिधीरिव॥‘ नित्यानित्यवस्तुविवेक इति भाष्यमाक्षिपति –

तद्विषयश्चेदिति।

अनित्यादब्रह्मणो विवेकः किं निश्चयः, उत ज्ञानमात्रम्। आद्यं दूषयति –

कृतमिति।

द्वितीये विपर्ययः, संशयो वा। नाद्यः; ततः शास्त्रश्रवणे प्रवृत्त्ययोगात्। न द्वितीयः; प्रपञ्चानित्यत्वानिश्चये तद्वैराग्यायोगादित्याह –

तथाचेति।

समाधत्ते –

तस्मादिति।

निश्चय एव विवेकः। न च शास्त्रानारम्भः; इदं नित्यमिदमनित्यमित्यनिश्चयात्। आत्मानात्मसमुदाये नित्यत्वमनित्यत्वं च स्तो धर्मा तयोश्च धर्मिभ्यां भवितव्यमित्येतावन्मात्रं निश्चितम्। यद्यपि घटादेरनित्यतावधारिता; तथापि सकलानात्मसु नावधारितेति। नित्यत्वस्य व्याख्या –

ऋतमिति।

उक्तविवेकस्य प्रयोजनमाह –

तथाचेति।

सत्यासत्ययोरुपादेयानुपादेयत्वे हेतुमाह –

तदेतेष्विति।

सुखत्वान्नित्यमुपादेयं दुःखत्वादनित्यं त्याज्यमित्यर्थः। दृष्टेऽनुभवः, उपपत्तिस्त्वदृष्टे। विगीतं, सदधिष्ठानम्, असत्यत्वाद्गन्धर्वपुरीवदित्यादिव्याप्त्यसिद्धिमाशङ्क्याह –

खल्विति। न चेयतो विवेकस्य स्वरसत उदये शास्त्रविफलत; सगुणनिर्गुणविवेकाखण्डसमन्वयादेरसिद्धेरिति। न नित्यादिविवेकमात्रं वैराग्यहेतुः, किंतु तदभ्यास इत्याह –

अथास्येति।

अस्य पुरुषश्रेष्ठस्य संसारसमूहेऽ नित्यत्वादिविषयं प्रसंख्यानं धीसन्ततिरुपावर्तते इत्यन्वयः। अवीचिः नरकविशेषः।

जायस्व म्नियस्वेति।

पुनः पुनर्जायते म्रियते चेत्यर्थः। क्रियासमभिहारे लोडिति पौनःपुन्ये सर्वलकारापवादेन लोटः स्वादेशस्य च विधानात्। आरभ्य ब्रह्मलोकमवीचिपर्यन्तं जननमरणाभ्यामावर्तमानं क्षणाद्यवान्तरसर्गपर्यन्तैः कालैः संसारसागरस्योर्मिभूतैरनिशमुह्यमानमितस्ततो नीयमानमात्मानमन्यं च जीवसमूहमवलोक्येति योजना। उक्तपरिभावनाया इहामुत्रार्थभोगविरागहेतुतामाह –

ततोऽस्येति।

अनित्यसंसारस्य किंचिदधिष्ठानमस्तीति इयान् विवेको न तु ब्रह्मेति। तदुक्तम् –

ईदृशादिति।

आभोगो मनस्कारः। आदर इति यावत्। अतदात्मिका। वैराग्यस्य शमादिहेतुतामाह –

तत

इति। ज्वाला जटाकारा अस्य सन्तीति तथोक्तः। श्रद्धैव तत्त्वविषया वित्तमस्य न गवादीति तथाऽभिहितः। मोक्षेच्छा भवतु, कुतस्तावता ब्रह्मजिज्ञासा? अत आह –

तस्य

चेति। नित्याऽ नित्यविवेकादिहेतुत्वस्याथशब्दादवगतेः किमतःशब्देनेत्याशङ्क्य नानेन जिज्ञासां प्रति साधनकलापस्य हेतुतोच्यते, किंतु तत्स्वरूपाऽसिद्धिपरिहारहेतुरभिधीयते इत्याह –

अत्रैवमित्यादिता।

शल्कं शकलम्। शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्क्षवदित्यस्य ‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशे’दित्यागमविरोधः। कृतकत्वानुमानानुगृहीतात्तद्यथेति वाक्याद् न्यायहीनम् अपामेत्यादिवाक्यमापेक्षिकामृतत्वादिपरं व्याख्येयमित्याह –

क्षयितेति।

यत्त्वभिहितं भास्करेण नित्यानित्यविवेकादेरप्रकृतत्वान्न तदानन्तर्यमथशब्दार्थोऽत एव कर्मणां क्षयिष्णुफलत्वं ब्रह्मज्ञानस्य च मोक्षहेतुत्वमतःशब्देन न पराम्रष्टुं युक्तमिति तं भाष्यभावव्याख्ययाऽनुकम्पते। अत्र चेति। तर्हि सकला वेदान्ताः परामृश्येरन् नेत्याह

– योग्यत्वादिति।

अथशब्दोक्तहेतुत्वसमर्थनयोग्यत्वादित्यर्थः। हेतुमद्ब्रह्मजिज्ञासाया हेतूनां नित्यानित्यविवेकादीनां सूत्रकारस्य बुद्धिस्थत्वात्तदानन्तर्यार्थत्वमथशब्दस्य युक्तमेव। चतुर्थीसमासाभावे हेतुमाह –

तादर्थ्येति।

पाणिनिः किल ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितै’रिति तादर्थ्यसमासं सस्मार। चतुर्थ्यन्तः शब्दस्तदर्थवचनादिभिः शब्दैः समस्यते। चतुर्थ्यन्तशब्दार्थस्तच्छब्देन परामृश्यते। तस्मै इदं तदर्थम्। यथा कुण्डलाय हिरण्यमित्यत्र कुण्डलं चतुर्थ्यन्तशब्दार्थस्तच्छेषो हिरण्यं, तत्र कुण्डलशब्दश्चतुर्थ्यन्तः, कुण्डलशेषवाचिना हिरण्यशब्देन समस्यते, कुण्डलहिरण्यमिति। तथाऽर्थशब्दादिनापि, ब्राह्मणार्थं पयः इत्यादि द्रष्टव्यम्। कात्यायनेन त्वयं समासः प्रकृतिविकृत्योर्नियमितः – ‘चतुर्थी तदर्थमात्रेणेति चेत्तर्हि सर्वत्र प्रसङ्गोऽविशेषात्, ‘प्रकृतिविकृत्योरिति चेदश्वघासादीनामुपसंख्यानम्’ इति। एवं चार्थात्प्रस्तुते तन्निषेधसिद्धिरित्याह –

प्रकृतीति।

इत्येवमादौ ब्रह्मजिज्ञासेत्येवमादावित्यर्थः। नन्वश्वार्थो घासोऽ श्वघास इत्यादावप्रकृतिविकारेऽपि तादर्थ्यसमासो दृष्ट इत्याशङ्क्य कात्यायनेनैव समासान्तरमुपसंख्यातमित्याह –

अश्वघासादय

इति। ननु षष्ठीसमासाभ्युपगमे ब्रह्मणो जिज्ञासाऽव्यावर्तकत्वेन गुणत्वात्प्रधानपरिग्रह इति भाष्यस्थप्राधान्यभङ्गस्तत्राह – षष्ठीसमासेऽपीति। ब्रह्मोज्झं वेदत्यागः। प्रतिपत्तौ विशेषणत्वेनानुबध्यत इत्यनुबन्धः। स्वरूपेण निरूपितायां जिज्ञासायां पश्चात्संबन्धिन्यपेक्षा, ब्रह्म च ज्ञानद्वारा जिज्ञासारूपनिरूपकमिति प्रथमोदिताकाङ्क्षावशेन ब्रह्म जिज्ञासायाः कर्मत्वेन संबध्यते, ननु संबन्धिमात्रतयेत्यर्थः। जिज्ञासाज्ञानयोर्विषयाधीननिरूपणं वैधर्म्यदृष्टान्तेन प्रपञ्चयति

–न हीति।

ननु – प्रमाणयुक्त्यादि जिज्ञासायाः कर्म भविष्यति, ब्रह्म तु संबन्धित्वेन निर्दिश्यताम्। न; निर्दिष्टकर्मलाभे कल्पनानुपपत्तेरित्याह –

नन्वित्यादिना।

संभन्त्स्यते संबद्धं भविष्यति। ननु श्रुतकर्मत्यागायोगे स्थिते कथं शेषषष्ठी शङ्क्यत इत्यत आह –

निगूढाभिप्राय इति।

प्रमाणादिबहुप्रतिज्ञानां श्रौतत्वसिद्धिरित्यभिप्रायस्य निगूढता। ननु ब्रह्मसंबन्धिनी जिज्ञासेत्युक्ते कर्मानिर्देशादनिरूपितरूपा जिज्ञासा स्याद्, नेत्याह –

सामान्येति।

बहुप्रतिज्ञानां श्रौतत्वलाभात्कथं प्रयासवैयर्थ्येन परिहारस्तत्राह –

निगूढेति।

एकस्यापि प्रधानस्य श्रौतत्वं वरं, नतु गुणानां बहुनामपीति।

वाच्यस्येति।

शब्दोपात्तत्वेन साक्षात्संनिधिः। प्रथमापेक्षितस्येत्याकाङ्क्षा। प्रथमसंबन्धार्हस्येति योग्यता। एतैर्युक्तस्य कर्मत्वस्य संबन्धः प्रथमः सन्नपि जघन्यः। एतैः रहितस्य संबन्धिमात्रस्य संबन्धो जघन्यः सन् प्रथम इति कल्पनं व्याहतमित्यर्थः। ‘कर्तृकर्मणोः कृती’ति कृद्योगे कर्मणि षष्ठीस्मरणाद्वाच्यं कर्मत्वम्। जिज्ञासापदस्य चाकारप्रत्ययान्तत्वात् कृद्योगः। यस्तु ‘कर्मणिचे’ति कर्मणि षष्ठ्या समासप्रतिषेधः, स च ‘उभयप्राप्तौ कर्मणी’ति या कर्तृकर्मणोरुभयोरपि सामर्थ्यादुपादानप्राप्तौ कर्मण्येवेति नियमिता षष्ठी तद्विषयः। यथाऽऽश्चर्यो गवां दोहोऽगोपालकेनेति। एवं ह्यत्राश्चर्यं व्यज्येत यदि दुर्दोहानां गवां दोहे कर्मत्वमकुशलस्य चोगोपालस्य कर्तृत्वम्, प्रस्तुते तु ब्रह्मकर्मत्वमेवोपादीयते, न कर्तृगतोऽ तिशय इत्युभयप्राप्त्यभावात् ‘कर्तृकर्मणोः कृती’त्येव षष्ठी; तेन ब्रह्मजिज्ञासेत्युपपन्नः समासः इति। भाष्ये प्रत्यक्षनिर्देशो न युक्त शाब्दत्वात्कर्मत्वस्य, तत्राह –

प्रत्यक्षेति।

अविरुद्धमपि परोक्षत्वं व्याख्येयप्रत्यक्षत्वस्य प्रतियोगित्वाद्व्याख्यातम्। परमते कर्मत्वस्य लाक्षणिकत्वं चरमान्वयप्रसञ्जनार्थम्। नन्वयुक्तमपि ज्ञानस्येच्छाविषयत्वं सौत्रजिज्ञासापदात्प्रमीयताम्? न; न्यायसूत्रे उपदेशमात्रेणाऽविश्वासादित्याह –

नेति।

साक्षात्कारसाधनं ज्ञानमिच्छाविषय इति प्रतिज्ञाय फलविषयत्वादिच्छाया इति हेतुरयुक्तो व्यधिकरणत्वात्तत्राह –

तदुपायमिति।

फलेच्छाया एवोपायपर्यन्तं प्रसारादविरोध इत्यर्थः। भवतु ब्रह्मविषयावगतिरिति। स्वरूपावगतिः स्वविषयव्यवहारहेतुत्वेन तद्विषयोक्ता। ब्रह्मणोऽपि धर्मवदसुखत्वान्न तदवगतिः पुमर्थ इत्याह –

एवमपीति।

श्रुतिस्वानुभवावगतनिर्दुःखानन्दमभिप्रेत्य परिहारः – ब्रह्मावगतिर्हीति। प्रतिभान् प्रतिभासमानः। अर्थ्यमानत्वात् प्रार्थ्यमानत्वात्। अविद्यानिवृत्तिर्न स्वरूपावगत्या; नित्यनिवृत्त्यापातात्, अपि तु वृत्तित इत्याह –

अविद्येति।

विगलित(निखिल?) दुःखेति वृत्तिव्यक्तस्वरूपाभिप्रायम्।पदार्थान्व्याख्याय सूत्रतात्पर्यमाह – तस्मादित्यादिना। सूत्रस्यानुवादत्वव्यावृत्तये तव्यप्रत्ययमध्याहरति – एषितव्यमिति। किमिति ज्ञानमेषितव्यं वेदान्तेभ्य एव तत्सिद्धेरिति। न; संदेहादिना प्रतिबन्धादित्याह –

तच्चेति।

नन्विच्छाया विषयसौन्दर्यलभ्यत्वात्किं तत्कर्तव्यतोपदेशेन? तत्राह –

। ज्ञातुमिच्छा

हि संदिग्धे विषये निर्णयाय भवति, निर्णयश्च विचारसाध्य इति तत्कर्तव्यताऽर्थाद्गम्यत इत्यर्थः। आर्थिके चास्मिन्नर्थे कर्तव्यपदाध्याहारः। श्रौतस्तु मुमुक्षानन्तरं ब्रह्मज्ञानेच्छा भवितुं युक्ता इत्येष एव। तथा चाधिकारार्थत्वमथशब्दस्य निषेद्धुं ज्ञानेच्छा जिज्ञासाशब्दार्थ इत्युपपादनेन न विरोध इति। ननु धर्मग्रहणाद्विधीनामर्थविवक्षा तत्र कृता, न वेदान्तानाम्, नेत्याह –

धर्मग्रहणस्येति।

उपलक्षणतया वेदान्तानामर्थविवक्षाप्रतिज्ञावद्विचारप्रतिज्ञापि तत्रैवास्त्वित्याशङ्क्योपरि प्रतिपादनादर्शनान्नेत्याह –

यद्यपीति।

ब्रह्मविचारप्रतिज्ञायास्तत्र संभवमङ्गीकृत्य परिहार उक्तः, इदानीं संभव एव नास्तीत्याह –

नापीति।

अविरक्तस्य ब्रह्मविचारे प्रवृत्त्ययोगादित्यर्थः। ब्रह्ममीमांसारम्भायेति प्राचा तन्त्रेणागततोक्ता। नित्यादिविवेकानन्तर्यायेति। तत्रत्यप्रथमसूत्रेणेहत्यप्रथमसूत्रस्य। युष्मदस्मदित्यादिना ह्यहंप्रत्यये जीवस्य प्रसिद्धेरसंसारिब्रह्मात्मत्वस्य चाभावाद् विषयमाचिक्षिपे। अत्र तूपेत्य ब्रह्मात्मभावं वेदान्तेभ्यस्तत्सिध्यसिद्धिभ्यामाक्षेप इति विभागमाह –

वेदान्तेभ्य

इति। संदिग्धप्रसिद्धस्य जिज्ञास्यत्वसंभवादाक्षेपायोगमाशङ्क्याह – निश्चयज्ञानेनेति। अनिश्चायकत्वं तु वेदान्तानामयुक्तं निर्दोषत्वादित्याह –

अपौरुषेयतेति।

निष्पादिता प्रमितिलक्षणा क्रिया यस्य कर्मणो विषयस्य स इह तथोक्तः। यद्यपि निर्दोषो वेदः ; तथापि सामान्यतो दृष्टनिबन्धनवचनव्यक्त्याभासप्रतिबद्धः संदिग्धार्थः स्यादतो विचारात्प्रागापातप्रसिद्धिं दर्शयन्नप्रसिद्धत्वपक्षोक्तं दोषमुद्धरति –

प्रागपि

ब्रह्ममीमांसाया इति। भाष्ये ब्रह्मास्तित्वप्रतिज्ञा भाति, कथं प्रतीतिपरत्वव्याख्येत्याशङ्क्य प्रत्याय्येन प्रत्ययलक्षणामाह –

अत्रचेति।

मुख्यार्थपरिग्रहे बाधमाह –

तदस्तित्वस्येति।

विमर्शे संशये। देहाद्यभेदेनेति भेदाभेदमतेन शङ्का। तत्त्वमसिवाक्यनिर्दिष्टतत्पदलक्ष्यप्रसिद्धिमुक्त्वा वाच्यप्रसिद्धिमाह –

अविद्योपाधिकमिति।

अविद्याविषयीकृतमित्यर्थः।

शक्तीति।

शक्तिज्ञानाभ्यां कारणं लक्ष्यते। यो हि जानाति शक्नोति च स करोति, नेतर इत्यनुविधानादित्यर्थः। सदेवेत्यादिवाक्यात्प्रसिद्धिमुक्त्वा पदादपि सोच्यत इति वक्तुं पृच्छति –

कुतः

पुनरिति। वाक्यात्प्रसिद्धस्यैव पुनरपि कुतो हेत्वन्तरात्प्रसिद्धिरित्यर्थः। ननु बृहतिधातुरतिशायने वर्ततामापेक्षिकं तु तद्, बृहत् कुम्भ इतिवद् , नेत्याह –

अनवच्छिन्नमिति।

प्रकरणादिप्रसङ्कोचकाभावादित्यर्थः। पदान्तरं साक्षान्नित्यत्वादिबोधकं नित्यादिपदम्। उक्तविशेषणानामन्यतमेनापि रहितस्य न महत्त्वसिद्धिरतो ब्रह्मपदादुक्तवस्तुसिद्धिरिति। तत्पदार्थस्य शुद्धत्वादेरिति सामानाधिकरणे षष्ठ्यौ। जीवस्य हि विशुद्धत्वाद्येव तत्पदेन समर्प्यते, न पदार्थान्तरमिति। प्रसिद्धिर्हि ज्ञानं ज्ञातारमाकाङ्क्षति, तेन व्यवहितमपि सर्वस्येत्येतदस्तित्वप्रसिद्धिरित्यनेन संबन्धनीयम्। तथा सति प्रतिज्ञाविशेषणं सत्कैमुतिकन्यायं द्योतयिष्यति, नतु सर्वस्यात्मत्वादिति हेतुविशेषणं, वैयर्थ्यादित्यभिप्रेत्याह – सर्वस्येति। पांसुमन्तौ पादौ यस्य स तथा। हलं वहतीति हालिकः। सर्वस्य ब्रह्मास्तित्वप्रसिद्धिः, सर्वो हि तत्प्रत्येतीति साध्यहेत्वोरविशेषमाशङ्क्याह –

प्रतीतिमेवेति।

अहं न नास्मीति प्रत्येतीति योजनायाम् अस्तीत्वं न सिध्द्येत्; असत्त्वनिषेधेऽप्यनिर्वाच्यत्वस्यानिवारणात्, अतोऽहमस्मीति न प्रत्येतीति योजनैव साध्वीति। अहमिति प्रतीतेरहंकारमात्रविषयत्वान्नात्मप्रसिद्धिः सिध्येदिति शङ्कते –

नन्वहमिति।

ऋजुयोजनायां ह्यव्याप्यादव्यापकप्रसञ्जनं स्यात्, नहि प्रसिद्ध्यभावो नास्तित्वप्रतीत्या व्याप्तः; सुषुप्तौ विश्वाभावप्रतीतिप्रसङ्गात्, तन्मा भूदिति व्यवहितेन संबन्धयति –

अहमस्मीति

न प्रतीयादिति। शङ्कितुरनुशयमपाकरोति –

अहंकारास्पदमिति।

अहमिति प्रतिभासस्य चिदचित्संवलितविषयत्वमध्यासभाष्ये समर्थितम्। तथाचाहमिति प्रतीतिरात्मविषयापि, अत आत्मप्रसिद्ध्यभावेऽहमिति प्रतीतिर्न स्यादित्यर्थः। तदस्त्वमेति। ‘तत्त्वमसि’ वाक्ये तत्पदस्य प्रकृतसच्छब्दवाच्यब्रह्मपरामर्शिनस्त्वंपदेन समानाधिकरण्यादित्यर्थः। ननु ब्रह्मात्मैकत्वस्य वाक्यार्थस्याप्रसिद्धत्वेनाप्रतिपाद्यत्वाक्षेपे पदार्थप्रसिद्धिप्रदर्शनमनुपयोगीत्याशङ्क्याह –

तस्मादिति।

पदार्थयोरवधृतयोस्ताभ्यां गृहीतसंबन्धपदद्वयसमभिव्याहारादपूर्वो वाक्यार्थः सुज्ञान इत्यर्थः। एवं तावदापाततो वाक्यात्पदतश्च प्रसिद्धेर्ब्रह्मणः शास्त्रेण शक्यप्रतिपादनत्वसंबन्धं सामर्थ्यासाधारणरूपविषयत्वं समाधातुमाक्षिपतीत्याह –

आक्षेप्तेति।

ब्रह्मण आत्मत्वेन लोकप्रसिद्ध्यभावाद्वाक्यीयप्रसिद्धिरनूद्यत इत्याह –

तत्त्वमसीति।

ननु तृतीयाया इत्थंभावार्थत्वं विहायात्मत्वेन हेतुना ब्रह्म यदि लोके प्रसिद्धमात्मा च ब्रह्मेति त्वयैवोक्तत्वादिति व्याख्यायतां, तदा हि लोकशब्दो रूढार्थः स्यात्, उच्यते; तत्पदार्थमात्रस्य प्रसिद्धिस्तदानूदिता स्यात्, तस्याश्चाजिज्ञास्यत्वं प्रति न हेतुत्वम्; ज्ञातेऽपि पदार्थे वाक्यार्थस्य जिज्ञासोपपत्तेरिति। स्यादेतद्यदि ब्रह्मात्मत्वेन प्रसिद्धमिति भाष्यमनुपपन्नम्; नहि महावाक्ये ब्रह्मानुवादेनात्मत्वं विधीयते, किंतु लोकसिद्धजीवानुवादेनागममात्रसिद्धब्रह्मत्वम्, अत आह –

अभेदविवक्षयेति।

अन्यत्र हि वाक्यार्थबोधोत्तरकालं पदार्थानामुद्देश्योपादेयभावो न व्यावर्तते, अत्र त्वखण्डवाक्यार्थसाक्षात्कारे स बाध्यत इति द्योतयितुमात्मपदे प्रयोज्ये ब्रह्मपदं ब्रह्मपदे चात्मपदं प्रयुक्तमित्यर्थः। ननु विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः, सा च वस्त्वभावसाधिकेति कथं विषयलाभः, तत्राह –

तदनेनेति।

न विरुद्धप्रतिपत्तिमात्रेणाभावावगमः, किंतु प्रमाणमूलतया; अतः साधकबाधकप्रमाणभावे विप्रतिपत्तिः संशयबीजमित्यर्थः। ननु साधारणाकारदृष्टौ संशयो, नत्विह क्षणिकविज्ञानस्थिरभोक्त्रादावस्ति साधारणो धर्मी इत्याशङ्क्य विप्रतिपत्त्यन्यथानुपपत्त्या तं साधयति –

विवादाधिकरणमिति।

देह आत्मा इत्यादिविवादाश्रयो धर्मी पराग्व्यावृत्तोऽहमास्पदं सर्वतन्त्रेष्वभ्युपगत इति मन्तव्यम्। तत्र हेतुमाह –

अन्यथेति ।

आश्रयशब्दो विषयवाची। भिन्नविषया विप्रतिपत्तयो न स्युरतो विवदमानानामप्येकमालम्बनमविगीतम्। अत्रोपपत्तिमाह –

विरुद्धा

हीति। विप्रतिपत्तिशब्दावयवप्रतिपत्तिशब्दार्थस्य ज्ञानस्य सालम्बनत्वात् यत्किंचिदालम्बनं सिद्धम्; वीत्युपसर्गप्रतीतविरोधवशाच्च तदेकमिति सिद्ध्यति। एकार्थोपनिपाते हि धियां विरोधः; अत्र वैधर्म्योदाहरणमाह –

न हीति।

साधारणधर्मिस्फुरणेऽपि न शास्त्रार्थस्य बुद्धि समारोहः, नहि साधारणः शास्त्रार्थस्तत्राह –

तस्मादिति।

यस्माद्विप्रतिपत्तिरेकालम्बना, यत्तश्चैकस्मिन्नालम्बने पूर्वधीविषयनिषेधेन विरुद्धधीरुदेति; तस्मात्प्रतियोगितया विप्रतिपत्त्येकस्कन्धत्वेन तत्त्वंपदार्थतदेकत्वप्रतीतिर्लोकशास्त्राभ्यां सर्वैरेष्टव्येति। तर्हि क्व विगानमत आह –

तदाभासत्वेति।

लौकायतिकादीनां सा प्रतीतिराभासः। आस्तिकानां तत्पदार्थप्रतीतेस्तत्त्वमर्थैकत्वप्रतीतेश्च गौणतायां तथा त्वंपदार्थधियोऽ सङ्गसाक्ष्यालम्बनत्वे च विगानमिति। त्वंपदार्थविप्रतिपत्तिप्रदर्शनस्य वाक्यार्थविप्रतिपत्तौ पर्यवसानमाह –

अत्रेति।

देहादिक्षणिकविज्ञानपर्यन्तानाम् चैतन्यं चेतनत्वमात्मत्वमित्यर्थः।

भोक्तैवात्मेति –

पक्षे भोक्तृत्वं किं विक्रिया, उत चिदात्मत्वम्। नाद्यः। कर्तृत्वपक्षादविशेषादित्याह –

कर्तृत्वेऽपीति।

द्वितीयं प्रत्याह –

अभोक्तृत्वेऽपीति।

सक्रियत्वरूपभोक्तृत्वाभावेऽपीत्यर्थः। संख्या हि जननमरणादिनियमान्निर्विशेषा अपि चेतनाः प्रतिदेहं भिन्ना इति मेनिरे। भिन्नानां च कुम्भवद्विनाशजाड्यापत्तिरतो न नित्यतत्पदार्थैकतेति। अथवा मैवानुमायि भेदादनित्यता, आत्मभेदाभ्युपगम एव ब्रह्मात्मैकत्वविरोधीत्याह –

अद्वैतेति।

लौकायतिकादिनिरीश्वरमतानुभाषणेनैव तत्पदार्थं ईश्वरेऽपि विप्रतिपत्तिः सूचिता, अतस्तादृशब्रह्मात्मैक्यवाक्यार्थेऽपि विप्रतिपत्तिरर्थाद्युक्तेत्याह –

त्वंपदार्थेति।

वेदप्रामाण्यवादिनो मीमांसकादयः। शरीरादिभ्य इति=शरीरादिशून्यपर्यन्तेभ्य इति। जीवात्मभ्य इति= कर्तृभोक्तृभ्यः। केवलभोक्तृभ्य इति। स्वाभाविकमस्येति = नैयायिकादिमतेनेत्यर्थः। युक्तिवाक्येति भाष्यस्थतच्छब्दस्य प्रत्येकं युक्तिवाक्याभ्यां संबन्धं करोति –

युक्तीति।

आत्मा स भोक्तुरिति पक्षे मूलं युक्तिवाक्ये, अन्यत्र तदाभासाविति। अनर्थं चेयादिति भाष्यार्थमाह –

अपिचेति।

भाष्ये तर्कस्य पृथगुक्तेर्वेदान्तमीमांसा किं न तर्कः, नेत्याह –

वेदान्तमीमांसेति।

अर्थापत्तिरनुमानं चात्र तर्कोभिमतः, तद्रूपा वेदान्तमीमांसा, तस्या अविरोधिनः श्रुतिलिङ्गादयस्तार्तीयाः पाञ्चमिकाश्च श्रुत्यर्थादयो वेदप्रामाण्यपरिशोधकाः कर्ममीमांसायां विचारिताः। वेदस्य प्रत्यक्षादीनां तदर्थादीनां च लक्षणादीनि न्यायशास्त्रैर्विचारितानि। स्मृत्यादिभिश्च वेदानुमानेऽनुमानचिन्तोपयोगः। तेन विहितजातिव्यक्तिपदार्थविवेके वेदस्वरूपग्रहणे च न्यायशास्त्रस्योपयोगः। सर्वे चैते प्रमाणानुग्राहकत्वेन तर्का उच्यन्त इति॥ इति जिज्ञासाधिकरणम्॥१॥

जन्माद्यस्य यतः ॥२॥ अनन्तराधिकरणेन प्रारिप्सितसमस्त विचारस्य संबन्धमाह - तदेवमिति । सकलशास्त्रं प्रतीकेन संगृहीतम् । विषयादिसद्भावात् समर्थिते विचारारम्मे तमुपजीव्योत्तरविचारप्रवृत्तेर्हेतुहेतुमल्लक्षणः संबन्ध इत्यर्थः । प्रथमसूत्रेण द्वितीयसूत्रस्याक्षेपलक्षणां सङ्गतिमाह —एतस्येति । मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति प्रतिज्ञायां ब्रह्मखरूपविचारवत्प्रमाणयुक्तिसाधनफलविचाराणामर्थात् प्रतिभाने कथं प्रथमं ब्रह्मैव विचार्यतेऽत आह—अत्रेति । अत्र यतो वेत्यादिवाक्यं

ब्रह्म लक्षयति, उत नेति लक्षणस्य लोकप्रसिद्ध्यप्रसिद्धिभ्यां विशये पूर्वपक्षमाह –

तत्र यद्यावदिति।

पूर्वाधिकरणाक्षेपपरिहारत्वादस्य तत्रत्यब्रह्मलक्षणनिरूपकत्वाच्च तदीयमेव मुमुक्ष्वभिलषितमोक्षलाभः प्रयोजनमिति न पृथग्वक्तव्यम्। यदाहाचार्यः शबरस्वामी आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि। प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते॥‘ इति। यत्र पूर्वाधिकरणसिद्धान्ताक्षेपेण पूर्वःपक्षः तत्राक्षेपिकी, यत्र तु पूर्वाधिकरणसिद्धान्तेन पूर्वपक्षः तत्रापवादिकी सङ्गतिः। प्राप्तिः तदर्थचिन्ता, कृत्वा प्रवर्तनं कृत्वाचिन्ता, सा चाभ्युपगमवाद इति। सजातीयविजातीयव्यावृत्तिप्रयोजनो धर्मो लक्षणं नाम। तदिह परिदृश्यमानं जगदेव लक्षणं ब्रह्मणः, उत नित्यशुद्धत्वादिस्वरूपमिति विकल्प्य नाद्य इत्युक्ते द्वितीयमाशङ्क्याह –

नचेति।

ननु लोकासिद्धमपि वेदेन ज्ञाप्यतामत आह –

ऐवं चेति।

न जगद् ब्रह्मलक्षणं, किंतु तत्प्रति कारणत्वं , तच्च जीवाविद्याविषयीकृतस्य धर्म इत्युपलक्षणमुपपादयति –

माभूदिति।

तादात्म्येनेति। ऐक्येन । ततो भेदेन

तद्धर्मतयेति।

तदुत्पत्त्या

त्विति। तदुत्पन्नत्वेन जगत् स्वकारणं लक्षयति ज्ञापयति, कारणत्वं तु ब्रह्मलक्षणमित्यर्थः। व्रज्याया गतेः। जन्म आदिर्ययोः स्थितिभङ्गयोस्तौ जन्मादी इत्यन्यपदार्थो यदि विशेषरूपेण विवक्ष्यते, तर्हि जन्मादी अस्येति निर्देशे गौरवं स्यात्तन्मा भूदिति सामान्यविवक्षया नपुंसकप्रयोगः सूत्रे कृतः। तत्र नपुंसकैकवचनप्रयोगार्हं समाहारमाहेत्याह –

लाघवायेति।

‘श्रुतीरविशदाः काश्चिद्भाष्याणि विषमाणि च। वाचस्पत्युक्तभावानि पदशो विभजामहे’॥ तद्गुणसंविज्ञान इति। तच्छब्देन बहुव्रीह्यर्थोन्यपदार्थ उच्यते। तस्य गुणत्वेन संविज्ञानं यस्मिन्समासे सः तथोक्तः। सर्वस्य विशेषणत्वे समासाऽसंभवात् समासार्थैकदेशो विशेषणमिति लभ्यते। अनादौ संसारे कथं जन्मादिस्तत्राह –

जन्मन इति।

श्रुत्या वा कथमयुक्तं निर्दिष्टमत आह –

वस्त्विति।

नानादेः संसारस्यादिर्जन्मोच्यते, किं तर्हि प्रतिवस्तु। घटस्य हि जन्मैवादिरति। इदमः सन्निहितवचनत्वात्प्रत्यक्षमात्रपरामर्शित्वमाशङ्क्य प्रतीतिमात्रं सन्निधिरित्याह –

अस्येतीति।

सर्वस्य जगतो न जन्म; आकाशादेरनादित्वात्, तत्राह –

षष्ठीति। वियदधिकरण (ब्र.अ.२.पा.३.सू.१) न्यायात्तस्याप्यस्ति जन्मादिसंबन्ध इत्यर्थः। जगतो जन्मादेर्वा ब्रह्मासंबन्धान्न लक्षणत्वमित्याशङ्क्याह –

यत

इति। व्याख्यातमेतदधस्तात्। एवं सूत्रपदानि व्याख्याय प्रथमसूत्राद् ब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च वाक्यार्थमाह –

अस्य

जगत इत्यादिना भाष्येण। तद्गतैर्विशेषणैर्लक्षणेऽतिव्याप्तिः परिह्रियत इत्याह –

स्यादेतदित्यादिना।

स्वभाव एव नियन्तेति स्वभावपक्षः, यदृच्छापक्षस्तु न किंचिन्नियामकमस्तीति। व्यासेधति=प्रतिषेधति।

उत्पत्तेः प्रगसतः कथं बुद्धावालेखनमत आह –

अत एवेति।

यदसदिति प्रसिद्धं तद्, बुध्द्यारूढरूपेण सदेव; अन्यथा तुरङ्गशृङ्गवत्कर्मत्वनिर्देशायोगादिति सत्कार्यवादिन आहुः।

वैश्वानरीयेष्ट्यादिष्विति।

चतुर्थे स्थितम् – फलसंयोगस्त्वचोदितेन स्यादशेषभूतत्वात्(जै.अ.४.पा.३.सू.३८) “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’’ इत्युपक्रम्य ‘‘यस्मिन् जात एताभिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवती’’ति श्रूयते। तत्र किं पूतत्वादि पितुः फलं, उत पुत्रस्येति संदेहे, फलस्य कर्तृगामित्वनियमादितरथा प्रेरणानुपपत्तेः पितुरिति प्राप्ते – राद्धान्तः; यस्मिन् जाते एतामिष्टिं निर्वपति स पूत इति जातगामित्वेन फलाम्नानात् फलभोक्तृत्वेनाचोदिते पितरि फलसंयोगो न स्याद्वचनस्य तं प्रत्यशेषभूतत्वात्। यत्त्वफलभागिनो न प्रेरणेति। तन्न; पूतत्वादिगुणवत्पुत्रवत्तयैव पितुः प्रीत्युत्पत्तेः प्रेरणावकल्पनात्। अतः पुत्रगामि फलमिति। अत्रानेककर्तृभोक्तृजीवानां सृज्यत्वेन निर्देशाज्जगत्कर्तृत्वायोग्यतोक्ता। मनसापीति। जगतस्तान्प्रति कार्यत्वायोग्यतेति विशेषणद्वयेन जीवकर्तृकत्वनिषेधः। व्याकृतस्य इत्यनेनानभिव्यक्तबीजावस्थजगतोभिव्यक्त्यभिधानादणवः प्रागसद् द्व्यणुकाद्यारभन्त इति मतव्युदासः। शेषं विशदं टीकायाम्। तदेव लिलक्षयिषितजगद्योनिब्रह्मसजातीयया परभ्रमपरिकल्पितप्रधानादेरुक्तविधजगत्प्रकृतित्वं ब्रह्म व्यवच्छिनत्ति। विजातीयात्पुनः कार्यात्कारणत्वादेव । तथा च सजातीयविजातीयव्यवच्छेदकत्वेन जगत्प्रकृतित्वस्य सिद्धं लक्षणत्वम्। धर्मलक्षणेति। धर्म इति लक्षणमिति अवस्थेति त्रीणि लक्षणानि यस्य परिणामस्य स तथोक्तः। स चोत्पत्तावन्तर्भवतीति। धर्मपरिणामं विवृणोति –

धर्मिणो हीति।

कनकादेर्धर्मिणो धर्मरूपपरिमाणो नाम मुकुटकटकादिरिति सांख्यप्रक्रिया। तत्र निरूप्यमाणे परिणामशब्दालम्बने तस्य कटकादेर्हेमादित उत्पत्तिरित्यर्थः। लक्षणपरिणाममुदाहरति

– एवमिति।

प्रत्युत्पन्नत्वं वर्तमानत्वं कटकादिकार्यस्य वर्तमानत्वातीतत्वभविष्यत्वरूपो लक्षणपरिणामः सोऽप्युत्पत्तिरित्यर्थः। अवस्थापरिणाममुदाहरति –

एवमवस्थेति।

अतीतादेरेवातीतत्वातीततरत्वातीततमत्वादिरूपो नवपुराणत्वाद्यापत्तिरवस्थापरिणामो नाम, स चोत्पत्तिरेवेत्यर्थः। अपक्षयस्य विनाशान्तर्भावमाह –

अपक्षयस्त्विति।

तच्च न मूलकारणेति।

पुरुषाणां श्रुतिमन्तरेणातीन्द्रियार्थे दर्शनसामर्थ्याभावादित्यर्थः। न च वृध्द्यादिविकारकथनादेव मूलकारणे द्रष्टृत्वमनुमेयं अन्यथाप्युपपत्तेरित्याह –

महासर्गादिति।

परमकारणादुत्पत्त्यादयो न गृहीता इति शङ्कापनुत्तये योत्पत्तिर्ब्रह्मणो ‘यतो वेति’ वाक्ये जायन्त इत्युत्पत्तिरभिहिता या च तत्रैव स्थितिजीवन्तीत्युक्ता, यश्च तत्रैव प्रलयोऽभिसंविशन्तीत्युक्तस्त उत्पत्त्यादयः सूत्रे गृह्यन्त इति भाष्यार्थः। तत्रोत्पत्तिमात्रादेव लक्षणस्यालक्ष्यव्यावृत्तिसिद्धौ स्थितिलयोपादानमाशङ्कानिवृत्त्यर्थमित्याह –

उत्पत्तिमात्रमिति।

उत्पादकत्वं निमित्तेऽपि दृष्टमित्युपादानत्वसिद्ध्यर्थं लयाश्रयत्वमुक्तमित्यर्थः। नन्वेवमपि लयाधारत्वादेवोपादानत्वं लभ्यते, नहि दण्डादिषु कुम्भादयो लीयन्तेऽत इतरवैयर्थ्यम् – इतिचेत्, मैवम्; उपादानत्वमेव न कुलधर्मतयोक्तं, किंतु प्रकृतिविकाराभेदन्यायेनाद्वैतसिद्धये। एवं च भवतु ब्रह्म जगत उपादानम्, अधिष्ठाता तु उत्पत्तिस्थित्योरन्यः स्यात् कुम्भकार इव कुम्भस्योत्पत्तौ राजेव च राजस्थेम्नीति मा शङ्कीत्युत्पत्तिस्थितिग्रहणमिति । लक्षणाख्यकेवलव्यतिरेक्यनुमानादेव प्रतिज्ञातब्रह्मप्रमितेः शास्त्रयोनित्व (ब्र.अ.१.पा.१.सू.३) समन्वयाधिकरण (ब्र.अ.१.पा.१.सू.४) योर्वैयर्थ्येत्याशङ्क्याह –

तदनेनेति।

ब्रह्मज्ञानाय वेदान्तविचार आरभ्य इति प्रतिज्ञायां विशेषणत्वेन ब्रह्मविषय इति प्रतिज्ञाविषयस्येत्युक्तम्। लक्षणं हि सिद्धस्य वस्तुतो भेदमवगमयति, ईदृशं तदिति तत्स्वरूपं वा, न सत्ताम्। कार्येण च कारणं किंचिदस्तीति मितम्। तत्त्वेकमनेकं वेति संदिग्धम्। तस्य यदैकत्वं सेत्स्यति, तदा भवति तत्सर्वज्ञं सर्वशक्ति च, नेतरथा। अयमेव संशयः कल्पनालाघवसंज्ञकतर्केणोत्कटैककोटिकतां नीतः संभावना समभवन्न निर्णयः। विचित्रप्रासादादीनां बहुकर्तृकत्वस्य प्रायेण दृष्टत्वात्तदिदमुक्तं –

संभावनोक्तेति।

एवंच वक्ष्यमाणाधिकरणद्वयेन प्रमाणं वाच्यमित्यर्थः। एतदेवेति भाष्येण युक्तीनामासां संभावनाहेतुत्वं दृढीक्रियत इत्याह –

इत्थं नामेति।

नैय्यायिकैरपि प्रमाणादमूषां भेदो नाज्ञायि युक्तीनाम्। ततः स्तोकैवासां प्रमाणादूनतैवं च संभावयन्तितरामित्यर्थः।

सुहृद्भावेनेति।

उत्तराधिकरणारंभात्प्राक् क्षणमपि शिष्याणामनुपपत्तिशङ्का मा भूदिति कृपयेत्यर्थः। अत्र ‘‘नावेदविन्मनुते तं बृहन्तं’’ ‘‘नैषा तर्केण मतिरापनेये’’ त्यादिशास्त्रात्प्रागुक्तयुक्त्या च वेदैकगम्यं ब्रह्मेति समाधत्त इत्याह –

परिहरतीति।

वाक्यार्थविचारणाशब्देन शाब्दबोध उपासनासहित उक्तः, परस्तादवगतिरेवेति मध्येऽध्यवसानशब्दो न युक्त इत्याशङ्क्य नायं ज्ञानवचनः कितु संस्कारसहितलयविक्षेपाविद्यासमाप्तिवचन इत्याह –

सवासनेति।

वृत्तिरूपसाक्षात्कारस्याविद्याध्वंसिनो मध्ये विद्यामानत्वेऽपि न सोऽध्यवसानशब्देन गृहीत अविद्यानिवृत्त्या स्वरूपाभिव्यक्तिं प्रति व्यवधानादिति। विमतं, चेतनपूर्वकं, कार्यत्वादित्यादियुक्तिः शब्दाविरोधिनी वस्तुविशेषनिर्धारणे तदुपजीविनीति वक्तव्यम्, ब्रह्मात्मत्वस्य केवलयुक्त्यगोचरत्वस्वाभाव्यादित्याह –

तदुपजीवि चेत्यपीति।

यथाहि किल गन्धारदेशेभ्य आनीय चौरैररण्ये कश्चिद्बद्धचक्षुर्निहित आप्तोपदेशतस्तदुपदिष्टस्य साकल्येन न गृहीतत्वात्पण्डितः स्वयमूहापोहक्षमतया च मेधावी गन्धारान्प्राप्नोति, एवं परब्रह्मण आच्छिद्य विवेकदृष्टिं निरुध्याविद्यादिभिः संसारारण्ये निहितो जन्तुः परमकारुणिकगुरूपदेशतः स्वस्वभावं प्रतिपद्यत इति भाष्यस्थश्रुत्यर्थः। यदुक्तं ब्रह्मणो मानान्तराविषयत्वे कुतो मननमिति, तत्राह – शब्दाविरोधिन्येति। कारणस्य सर्वज्ञत्वादिसिद्धौ युक्तिः शब्दमुपजीवति, न स्वतन्त्रा; कारणमात्रं तु संभावयन्तीतिकर्तव्यता न मानान्तरमित्यर्थः। भाष्यस्थानुभवशब्दार्थमाह –

अन्तःकरणेति।

ननु कथं वृत्तिः प्रमाणमिति भाष्ये उक्तं? निष्फलत्वादित्याशङ्क्य तत्कृताविद्यानिवृत्तिद्वारा स्वरूपाभिव्यक्तिः, उपचारात्फलमस्तीत्याह –

तस्येति।

धर्मजिज्ञासायां श्रुत्यादय एव प्रमाणमित्ययुक्तं, वेदविषयश्रोत्रप्रत्यक्षाद्यपेक्षणादित्याशङ्क्य ज्ञातव्ये धर्मे न साक्षात्कारतदुपयोगियुक्त्यादीनां संभवो, ब्रह्मजिज्ञासा तु साक्षात्कारपर्यन्तेत्याह –

यद्यपीत्यादिना।

न केवलं ब्रह्मजिज्ञासायामनुभवादीनां संभवः, किंतु तत्त्वसाक्षात्कारमन्तरेणापरोक्षसंसारभ्रमनिवृत्त्ययोगात्तेन विना न पर्यवसानं चेत्याह –

अनुभवार्थेति।

ब्रह्मजिज्ञासायामिति सप्तम्यन्तं पदं षष्ठ्यन्तत्वेन विपरिणमय्यानुभवावसानत्वाद्ब्रह्मजिज्ञासाया इति भाष्यं योज्यम्। अनुभवोऽवसाने समाप्तौ फलत्वेन यस्याः सा तथोक्ता। धर्मजिज्ञासायां त्वनुभवः कारणत्वेनोपक्रमे उपयुक्त इत्यर्थः। इहानुभवः स्वरूपाभिव्यक्तिर्न वृत्तिः, तत्र हेतुमाह –

परेति।

न वृत्तिरनित्यत्वाद्विचारस्य पुष्कलं फलमित्यर्थः। तदनुभव एव त्वित्यत्र वृत्तिरुक्ता, एवकारेण तु तत्कृताविद्यानिवृत्तिद्वारेण स्वरूपाभिव्यक्तिरशक्यतरेति सूचितम्। भाष्ये – भूतशब्दः परमार्थवचनः, चशब्दः शङ्कानिवृत्त्यर्थः, व्यतिरेकः प्रपञ्चाभावोपलक्षितस्वरूपं, तद्विषयसाक्षात्कारस्य विकल्परूपो ब्रह्मणा सह विषयविषयिभावरूपः संबन्धोऽस्ति, नतु तत्त्वतः। उक्तं हीदं प्रथमसूत्रे – वृत्तिविषयत्वमपि तयैवोपहितस्य न निरुपाधेरिति, तत्र प्रस्मर्तव्यमित्यर्थः। अन्यथाकर्तुमित्यत्र कर्तुमित्यस्यानुषङ्गो भाष्ये कार्यः; करणापेक्षत्वादन्यथाकरणस्य। उदितहोमः कर्तुं शक्योऽनुदिते त्वन्यथेति तदाह –

कर्तुमिति।

भाष्यस्थविध्यादिशब्दानुदाहृतवाक्येषु योजयति –

गृह्णातीत्यादिना।

‘‘नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशेदि’’ति नारास्थिस्पर्शनिषेधः। ‘‘शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन्। ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात्’’ (याज्ञ० अ.३ श्लो.२४३) इति ब्रह्मघ्नः शवशिरसो नारास्थो ध्वजत्वेन धारणविधिः॥ भाष्ये प्रतिज्ञैव भाति, न हेतुरत आह –

एतदुक्तमिति।

स्वातन्त्र्येण कर्तुं समर्थोऽपि हिताहितोपायत्वमजानन्, तद्बोधकविधिनिषेधापेक्ष इत्यर्थः। अन्तःकरणजकल्पनाद्वैविध्यमाह –

सवासनेति।

जाग्रद्वासनावासितं मन एव स्वप्नकारणं, जाग्रत्संशयविपर्ययाः संस्कारसहितान्तर्बहिःकरणजा इत्यर्थः। यथावस्तुत्वं वस्त्वनुसारित्वं यासां नास्ति तास्तथोक्ताः।

न वस्त्विति।

संशया न विकल्पयन्ति, विपर्यया नान्यथयन्तीत्यर्थः। खानि=इन्द्रियाणि, व्यतृणत्=हिंसितवान्, पराङ् पश्यति लोकः

प्रत्यगात्मनस्त्वविषयत्वमिति –

अपरोक्षत्वात् प्रत्यगात्मप्रसिद्धेरित्यत्रेति। उपरिष्टात् तर्कपादे (अ.२.पा.२) उपपादितं चेति। विमतं, धीमत्कृतं, कार्यत्वादित्यनुमानान्नेश्वरसिद्धिः; जीवजत्वेन सिद्धसाधनत्वात्, उपकरणाद्यभिज्ञकर्तृकत्वसाधने कतिपयतदभिज्ञतायां सर्वज्ञासिद्धेः, सर्वतदभिज्ञकर्तृकत्वे सपक्षस्य साध्यहीनत्वात्, कुम्भं निर्मितवतः कुम्भकारस्य चैत्रक्रय्योऽयमित्यनवबोधात्, साधारणेऽपि सिद्धसाधनत्वात्, मनःसंयोगहीनस्य चोपलब्धेरभावादमनस्कस्याप्यैश्वर्यादुपलब्धिसंभवे तत एव विनैवोपलब्ध्या जगन्निर्माणसंभवेनोपलब्धिमत्कर्तृकत्वस्यैव विलोपेन वृद्धिगृह्णतो मूलच्छेदादित्यादि न्यायकणिकायां व्युदपादिति। उपरिष्टात् समन्वयसूत्रे। जन्मादिसूत्रेण यतो वेत्यादिवाक्यं लक्ष्यमिति भाष्ये उक्तं, तदर्थं श्रुतिसूत्रयोरर्थप्रत्यभिज्ञां दर्शयति –

श्रुतिरिति।

अत्र स्वरूपलक्षणपरत्वं सूत्रस्य दर्शयितुं तस्य चेति भाष्यं। तद्व्याचष्टे –

अत्र चेति।

जगद्विशेषणैः पूर्वनिर्णयेऽपि श्रुतित इह निर्णीयते। कारणं ब्रह्माऽनूद्य वाक्येनानन्दत्वविधानात्स्वरूपलक्षणसिद्धिः। आनन्दः सत्यादेरुपलक्षणम् ननु – आनन्दादेर्भेदे न ब्रह्मलक्षणत्वम्, अभेदे वाक्यार्थासिद्धिः, गुणभूतपदार्थविशिष्टः प्रधानपदार्थो हि वाक्यार्थः – अत्रोच्यते; यत्र पदार्थः प्रमितः तत्र स एवेतरपदार्थविशिष्टः प्रतिपाद्यः। यस्त्वज्ञातः स नान्यैः शक्यो विशेष्टुमिति स एव वाक्येन प्रमेयः। प्रमिते चैतस्मिन् वाक्यस्य समाप्तेर्न विशिष्टपरत्वम्। यथा प्रकृष्टप्रकाशश्चन्द्र इति प्रकर्षप्रकाशद्वारा चन्द्रलक्षणान्न तद्वैशिष्ट्यं ; मानान्तरादेव तत्सिद्धेः, उपायस्तु वैशिष्ट्यम् अखण्डचन्द्रसिद्धौ। तच्चाविरोधाच्चन्द्रेऽनुज्ञायते, सत्यादिवाक्ये त्वनन्तादिपदैर्बाध्यते वैशिष्ट्यम्। एवंच अविशिष्टमपर्यायानेकशब्दप्रकाशितम्। एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे॥ ननु – चन्द्रलक्षणमिदं; ततश्चन्द्रः, इतरस्माद्भिद्यते, चन्द्रशब्देन व्यवहर्तव्यो वा, प्रकृष्टप्रकाशत्वात्, व्यतिरेकेण तमोवदिति व्यावृत्तिविशिष्टस्य वाच्यत्वविशिष्टस्य च वाक्येन प्रतिपाद्यत्वं – इति। तन्न; अप्रमिते चन्द्रे व्यावृत्तेरनवबोधात्, प्रमितेऽपि प्रमाणान्तरात् प्रमितिर्लक्षणवाक्याद्वा। प्रथमे सामान्यत; प्रमितिर्विशेषतो वा। नाग्रिमः; सामान्यस्यैव व्यावृत्तिसिद्धौ चन्द्रस्य तदसिद्धिप्रसङ्गात्, न चरमः; विशेषग्राहिप्रमाणादेव व्यावृत्तिसिद्धौ लक्षणवैफल्यात्। न द्वितीयः; लक्षणवाक्याच्चन्द्रप्रमितौ तस्य तत्रैव पर्यवसाने व्यावृत्तिपरत्वानुपपत्तेः। न च चन्द्रशब्दवाच्यत्वं साध्यते; अचन्द्रे चन्द्रशब्दवाच्यत्वसाधने व्याघातात्। अथ चन्द्रत्वमप्यभिप्रेत्य चन्द्रशब्दवाच्यत्वं साध्यते, तर्हि चन्द्रत्वमेव साध्यतामवश्यापेक्षितत्वात्कृतमश्रुतवाच्यत्वकल्पनया। तस्मात्प्रकृष्टत्वे सति प्रकाशत्वमज्ञातचन्द्रज्ञापकम्; अर्थाद्व्यावृत्त्यादिसिद्धिः। एवंचैतदपास्तत् – एकेन पदेन यावदुक्तं तावतोऽपरेणाभिधाने पर्यायत्वम्, अधिकाभिधाने विशिष्टवाक्यार्थत्वापत्तिः – इति; वाच्यार्थनानात्वस्येष्टत्वाल्लक्ष्यस्य चैकत्वात्। नहि चन्द्रद्वयमस्ति, न च लक्षणस्य विशिष्टत्वाल्लक्ष्यं विशिष्टं स्यात्। मा भूत् सामान्यवत्त्वे सत्यस्मद्बाह्येन्द्रियग्राह्यत्वं विशिष्टमित्यनित्यत्वमपि विशिष्टं, तर्हि अनित्यत्वस्येव लक्षणानात्मकत्वाल्लक्ष्यस्य ब्रह्मणः सत्याद्यात्मकत्वं न स्यादिति चेत्, नैतदस्ति; यतः; ‘सत्तादीनां हि जातीनां व्यक्तितादात्म्यदर्शनात्। लक्ष्यव्यक्तिरपि ब्रह्म सत्त्वादि न जहाति नः॥’‘ इह हि कल्पितभेदव्यक्त्याश्रितैः सामान्यैर्या व्यक्तयो लक्ष्यन्ते, तास्तद्रूपत्वं न जहति; तरङ्गचन्द्रानुगतचन्द्रत्वेन लक्ष्यचन्द्रव्यक्तिरिव चन्द्रात्मत्वम्, एवं ब्रह्मापि मायाकार्यकुम्भादिकल्पितव्यक्तयनुगतं सत्तया लक्ष्यमाणं सत्त्वं न हास्यति। तथा ज्ञानत्वानन्दत्वाभ्यामप्यन्तःकरणवृत्त्युपधानलब्धभेदचिदानन्दविशेषानुगताभ्यां लक्ष्यमाणचिदानन्दव्यक्तयोरपि योज्यम्। यथा च सद्भेद औपाधिकः, एवं सज्ज्ञानानन्दभेदोऽपि, सत्त्वरहितज्ञानानन्दयोः शून्यत्वप्रसङ्गात्, बोधात्मत्वरहितसतश्च भानाभावप्रसङ्गाद्, दृश्यत्वे कल्पितत्वेन सत्त्वायोगात्सद्बोधात्मकसाक्षिणश्च परप्रेमास्पदत्वेनानन्दस्वाभाव्यावगमादिति। तथाच कल्पितभेदसामान्यतदपेक्षव्यक्त्याकारबाधेन सत्यज्ञानानन्दात्मकं ब्रह्म निश्चीयते। प्रयोगोऽपि सत्यादिवाक्यं, विशिष्टार्थपरत्वरहितं, लक्षणवाक्यत्वात्प्रकृष्टप्रकाशादिवाक्यवदिति। तथा – उपाधिभेदभिन्नोऽर्थो येनैकः प्रतिपाद्यते। तदपि स्यादखण्डार्थे महत्खं कुम्भकं यथा॥ निरंशस्य हि जीवस्याणुत्वमनन्तत्वं वा स्यात्। तत्र नाणुत्वं; सकलदेहव्यापि ह्लादानुपलम्भप्रसङ्गाद्, विभोश्च नभोवद् द्रव्यत्वावान्तरजात्यनाधारस्येश्वराद्भेदायोगात्। तस्मादनन्तब्रह्मात्मनोऽस्य परिच्छेद औपाधिकः। श्रूयते च जीवस्य परस्मादौपाधिको भेदः – यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा॥इति। नन्वेवं भूतब्रह्मणः कथं जगद्योनित्वमत आह –

एतदिति॥

इति द्वितीयं जन्माद्यधिकरणम्॥

शास्त्रयोनित्वात् ॥३॥ अत्र हेतुमात्रं प्रतिभाति, नैतज्जगद्योनित्वे, साध्याविशेषादित्यसङ्गतिमाशङ्क्यार्थिकप्रतिज्ञया सङ्गतिमाह—सूत्रान्तरमिति । अथ वा वेदनित्यत्वाद् ब्रह्मणो विश्वयोनिता । नेति शङ्कामपाकर्तुं शास्त्रयोनित्वमुच्यते ॥

अस्मिन्पक्षे श्रौतप्रतिज्ञयैव सङ्गतिः । अभ्युच्चयार्थत्वेन हेतुपौनरुक्त्यं परिहरति –

न केवलमिति।

हेत्वन्तरसमर्थनाच्चाधिकरणान्तरत्वम्। ‘अस्य महत’ इत्यादिवाक्यं ब्रह्मणो वेदकर्तृत्वेन सर्वज्ञत्वं न साधयत्युत साधयतीति वेदस्य सापेक्षत्वप्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वपक्षामाशङ्क्य निराकरिष्यते। सिद्धान्तोपक्रमभाष्यं व्याचष्टे –

चातुर्वर्ण्येत्यादिना।

पुराणन्यायमीमांसा धर्मशास्त्रं षडङ्गानि दश विद्यास्थानानि। तया तया द्वारेति। सृष्टिवाक्यापेक्षितसर्गादिप्रपञ्चनद्वारा पुराणमद्वैतपरं, जातिव्यक्तिलक्षणनिरूपणेन न्यायो वैदिकपदार्थशुद्ध्यर्थः; शेषोपयोगस्तु व्यक्तः। उक्तमर्थं प्रमाणयतीति। अत्रायं भाष्यविभागः – महत इत्यारभ्य ब्रह्मेत्यन्तेन निःश्वसितश्रुत्या विभक्तत्वहेतूपकृतया ब्रह्मकार्यं वेद इत्युक्तम्। नहीदृशस्येत्यारभ्यास्तीत्यन्तेन व्यतिरेकमुखेन सर्वज्ञत्वप्रतिज्ञा । यदित्यादिना लोके इत्यन्तेन व्याप्तिरुक्तेति। विस्तरत्वं शास्त्रविशेषणं व्याप्त्यनुपयोगाद् व्यर्थमित्याशङ्क्य महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यविषयत्वभ्रमनिवृत्तिः प्रयोजनमित्याह –

विस्तरार्थमिति ।

यस्मादित्यस्य तस्येत्यनेन व्यवहितेन संबन्धमाह –

वेदस्येति।

इदमिहानुमानम् – ब्रह्म वेदविषयादधिकविषयज्ञं तत्कर्तृत्वात्, यो यद्वाक्यप्रमाणकर्ता स तद्विषयादधिकविषयज्ञः, यथा पाणिनिरिति। सर्वावभासकवेदकर्तृत्वेन पक्षधर्मताबलात्सर्वज्ञत्वसिद्धिरिति। यद्वा – अयं घटः, एतदन्यासर्ववित्कर्तृकत्वानधिकरणैतदन्यावेदत्वानधिकरणसकर्तृकान्यः, घटत्वाद्, घटान्तरवदिति। ईक्षणादिप्रयत्नापेक्षणादप्रयत्नशब्दः सौकर्यापेक्ष इत्याह –

ईषदिति।

अधुना पूर्वपक्षमाशङ्क्य निराक्रियते। कर्तृमत्त्वेन वेदस्य सापेक्षत्वं वदन् प्रष्टव्यः – सापेक्षता किं पुरुषनिर्वर्त्यत्वमात्रात्, अभिनवानुपूर्वीविरचनाद्वा, मानान्तरोपलब्धार्थविषयवचनरचनाद्वा, कतिपयकालविरचितसर्वसंप्रदायस्य वेदस्यैकपुरुषान्निःसरणाद्वा। नाद्यः, तत्रापि संमतत्वादित्याह –

येऽपि

तावदिति। व्यक्तिरभिव्यक्तिः। द्वितीये क्रमान्यत्वमात्रमभिनवत्वं, विसदृशक्रमत्वं वा। आद्यो भवद्भिरप्यङ्गीकृतः। चरमस्तु नास्माभिरपि स्वीकृत इत्याह –

तस्मान्नित्येति।

तृतीयस्त्वनभ्युपगमनिरस्त इत्याह –

वैयासिकं

त्विति। अनुवर्तमाना आचक्षत इत्यनुषङ्गः। ननु विवर्तत्वे वेदान्तानां यादृच्छिकत्वापातान्न क्रमनियम स्यात्तत्राह –

यथाहीति।

सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो नोपाध्यायवत्क्रमानुरोधो युक्त इति, तत्राह –

यथात्रेति।

‘‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् (पाणि ० शिक्षा ०)॥‘ इति श्रूयते। चतुर्थं निराकरोति

– नचैकस्येति।

सर्वदासंप्रदायाविच्छेदमिच्छद्भिरपि संप्रदायप्रवर्तकेष्वाष्वास आस्थेयः, स वरमेकस्मिन्नेव ब्रह्मण्यवगतसार्वज्ञ्ये कृत इति भावः। ननु न वयमीश्वरं पश्यामः , कथं तत्कर्तृके वेदे विश्वासस्तत्राह –

सर्गादिभुवामिति।

इति तृतीयं शास्त्रयोनित्वाधिकरणम्।

तत्तु समन्वयात्॥४॥ वेदान्ता ब्रह्मणि प्रमाणं न वेति सिद्धवस्तुबोधात्फलभावाभावाभ्यां सिद्धं रूपादिहीनं वस्तु बोधयतो वाक्यस्य मानान्तरसापेक्षत्वानपेक्षत्वाभ्यां वा संशये पूर्वाधिकरणद्वितीयवर्णकेनाक्षेपिकीं सङ्गतिमुक्त्वा पूर्वपक्षभाष्यं व्याचष्टे – किमाक्षेप इत्यादिना। कथमिति थमुप्रत्ययान्तः किंशब्द आक्षेपे। जैमिनिसूत्रोपन्यासो न व्युत्थितसिद्धान्तिविश्रम्भायापि तु दृढपूर्वपक्षनिरासार्थं सिद्धान्तावश्यारम्भायेत्याह –

पारामर्षेति।

अभिधेयाभावोऽनुभवविरोधान्न युक्तो वक्तुमित्याह –

आनर्थक्यं

चेति। भाष्ये पौनरुक्त्यमाशङ्क्य संग्रहविवरणत्वमाह –

अत

इत्यादीति।

वाऽन्तमिति।

उपासनादिक्रियान्तरविधानार्थत्वं वेत्येतदन्तमित्यर्थः। ननु किमिति वेदान्तानामर्थवादवद्विधिपदैकवाक्यता? मन्त्रवत्पार्थगर्थ्यमस्त्वित्याशङ्क्य तर्हि तद्वद्विधिभिर्वाक्यैकवाक्यता स्यादित्याह भाष्यकारः –

मन्त्राणां

चेति। इषे त्वेत्यत्र छिनद्मीत्यध्याहाराच्छाखाच्छेदः क्रिया भाति, क्वचिच्चाग्निर्मूर्धेत्यादौ तत्साधनं देवतादीति। मन्त्राश्च श्रुत्यादिभिः क्रतौ विनियुक्ताः। ते किम् – उच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्त्युत दृष्टेनैवार्थप्रकाशनेनेति संदेहः। तत्र न तावद् दृष्टार्थत्वमेव मन्त्राणां शक्यं वक्तुम्; उपायान्तरेणापि मन्त्रार्थस्य स्वाध्यायकालावगतस्य चिन्तादिना प्रयोगसमये स्मृतिसंभवात्तावन्मात्रार्थत्वे मन्त्राणां नित्यवदाम्नानवैयर्थ्यात्। अथ तु मन्त्रैरेवार्थप्रत्यायननियमाददृष्टं कल्प्येत, तदुच्चारणादेव कल्प्यतां; तस्य पुंव्यापारगोचरत्वात्स्वव्यापारे च पुरुषस्य नियोगात्तत्र च फलाकाङ्क्षणादिति प्रापय्य प्रमाणलक्षणे राद्धान्तितम् – ‘यस्य दृष्टं न लभ्येत तस्यादृष्टप्रकल्पना। लभ्यतेऽर्थस्मृतिर्दृष्टा मन्त्रोच्चारणतस्त्विह॥ अर्थस्मृतिः प्रयोगार्था प्रयोगाच्च फलोदयः। इति दृष्टार्थसंपत्तौ नादृष्टमिह कल्प्यते॥‘ यस्तु मन्त्रैरेव स्मर्तव्यमिति नियमस्तस्य न किंचिद्दृष्टमस्तीत्यदृष्टं कल्प्यते। तस्माद्दृष्टादृष्टार्था मन्त्र इति।

उत्पत्तिविधेरिति।

अधिकारविधितः प्रवृत्तिलाभादुत्पत्तिविधिरज्ञातकर्मस्वरूपबोधपर इत्यर्थः। अनागतेति। भावो भावना, तद्विषयः सर्वो विधिः। यतः स उत्पाद्यः, उत्पाद्यत्वे हेतुरनागतत्वम्। अधिकारः फलसंबन्धबोधनम्। विनियोगोऽत्र क्रियायाः फलशेषत्वज्ञापनम्। प्रयोगः अनुष्ठापनम्। कर्मस्वरूपज्ञानमुत्पत्तिः। फलसंबन्धः क्रियाया न शेषत्वमन्तरेण, तच्च नानुष्ठानं विना, अनुष्ठानं च नाज्ञाते इत्यविनाभावः। सिद्धं चेत्पुंव्यापारानपेक्षं फलमारभेत, सदाऽऽरभेतेति नाधिकारादिसंभव इत्यर्थः। सर्वेषामविनाभावे सर्वत्र चातूरूप्यमस्तीति कथमवान्तरभेदस्तत्राह –

तद्वाक्यानां

त्विति। उदाहरति –

यथेति।

सर्वविधिषूत्पत्त्यादयः प्रतीयन्ते, अग्निहोत्रं जुहुयादित्यत्राप्यग्निहोत्रेणेष्टं भावयेदित्यर्थः, नत्वग्निहोत्रस्य भाव्यत्वम्। अफलत्वात्। न चाग्निहोत्रस्वरूपसत्ता बोध्या; अभूद्भवति भविष्यतीत्यापत्तौ विध्युत्खातापातात्। तस्मादधिकारविधितः प्राप्तविनियोगाद्यनुवादेनोत्पत्तिर्विधिः स्वरूपपरो भवति, ब्रह्मणि तु भावनाभावादनुवाद्यस्यापि विनियोगादेरभावान्नोत्पत्तिविधिरित्याह –

तस्मादिति।

विधिपरत्वे वेदान्तानां न केवलमनुवादत्वाभावः, अपि तु विपरीतार्थत्वं च न स्यात्, पक्षान्तरे तु स्यादित्याह –

एवंचेति।

यादृशमिति।

जीवाद्भिन्नमित्यर्थः। जीवे ब्रह्मदृष्ट्यारोपान्न भेदग्राहिप्रमाणविरोध इत्यर्थः।

तदिति।

सूत्रपदोक्तां सिद्धान्तपक्षप्रतिज्ञामित्यर्थः।

सम्यगन्वय

इति। तात्पर्यं सम्यक्त्वम्। ननु शास्त्रयोनित्वद्वितीयवर्णकाक्षेपसमाधानरूपमिदमधिकरणं , तत्र च ‘यतो वेति’ वाक्यमुदाहृतमिह किमिति तदुपेक्षितमत आह –

यतो

वेति। तद्ब्रह्म सर्वज्ञमित्यादिभाष्ये यत इत्यादिवाक्यप्रमेयकीर्तनात्तत्प्रमाणं बुद्धिस्थं भवतीति नोदाहृतमित्यर्थः। वेदान्तानां ब्रह्मात्मैकत्वे उपक्रमोपसंहारैक्यं तात्पर्यलिङ्गं सदृष्टान्तमाह –

येनेति।

भेदलक्षणे चिन्तितम् – ‘‘पौर्णमासीवदुपांशुयाजः स्यात्’’ । ‘‘जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशुयाजमन्तरा यजति, विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽजामित्वायाग्निषोमावुपांशु यष्टव्यावजामित्वायेति’’ श्रूयते। तत्रोपांशुयाजमन्तरा यजतीति किं समुदायानुवादः, उतापूर्वयागविधिरिति विशये यथाग्नेयादियागानां ‘य एवं विद्वान्पौर्णमासी यजते’ ‘य एवं विद्वानमावास्यां यजत’ इति समुदायानुवादौ। एवमिदमपि विष्ण्वादिवाक्यविहितयागानां समुदायानुवादः। तत्र हि विष्ण्वाद्या देवताः श्रूयन्ते। ‘‘सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्य’’ मिति ध्रौवाज्यद्रव्यसिद्धिः। तव्यप्रत्ययाश्च विधायकाः श्रूयन्ते। नत्वन्तरावाक्येऽस्ति द्रव्यदैवतं रूपम्। यजतीति च वर्तमानापदेशः। तदुक्तम् – ‘यागान्विष्ण्वादिसंयुक्तान्विहितान्रूपवत्तया। अरूपमन्तरावाक्यमगत्यैवावलम्बते॥‘ इति पूर्वपक्षः। एतदधिकरणसिद्धान्तमाह –

अनूचोरिति।

निरन्तरयोराग्नेयाग्नीषोमीययोः पुरोडाशयोः करणे आलस्यं स्यादिति दोषं संकीर्त्य तदपनयार्थमुपांशुयाजमाज्यद्रव्यकं विधायानन्तरमजामित्वायेति तद्विधानलब्धं जामिता दोषसमाधानमुपसंहरति। अतः सार्थवादोपक्रमोपसंहारैकरूप्यादेकमिदं वाक्यम्। एकवाक्यता चोपांशुयाजविधौ लभ्यते नेतरत्रानेकयागविधाविति। ननु तव्यविहितयागानां समुदायानुवादोऽयमिति, तत्राह –

अपूर्वेति।

तथाहि – यष्टव्य इति कर्मप्राधान्यं विष्ण्वादिवाक्ये प्रतीयते, यागस्तूपसर्जनम्। तत्र कर्मत्वमप्रधानीकृत्य यागप्राधान्यं लक्षणीयं, कर्मतया च देवतात्वं ततो गुरुतरा कल्पना। अन्तरावाक्ये तु श्रुतं यागप्राधान्यं विधिश्च पञ्चमलकाररूपः। यत्तु रूपाभाव इति तन्न; ध्रौवाज्यलाभात्। आग्नेयादीन्यागान्क्रमेणाम्नाय मन्त्रकाण्डे तत्क्रमेणैव याज्यानुवाक्या आम्नाताः, तत्रोपांशुयाजस्थाने वैष्णवप्राजापत्याग्नीषोमीयास्तिस्र ऋचः पठ्यन्ते; ताभिस्तुल्यार्थत्वेन विकल्प्यमानाभिर्विष्ण्वादिदैवतानां समर्पितत्वात्। तस्मादपूर्व उपांशुयाजो विधेयः। विष्ण्वादिवाक्यानि त्वर्थवादा। इत्थं महीयानुपांशुयाजो यदस्मिन्विष्ण्वादयो यष्टव्या इति।

एवं

वाक्यान्तराणामिति । ऎतरेयके – ‘‘आत्मा वा इदमेक एवे’’ त्युपक्रम्य ‘‘स एतमेव पुरुषं ब्रह्म ततमपश्य’’दिति ‘‘तमेव ब्रह्मात्मान’’मभिधाय समाप्तौ ‘‘प्रज्ञानं ब्रह्मे’’ त्युपसंहृतम्। वाजसनेयकेऽपि – ‘‘अहं ब्रह्मास्मीत्युपक्रम्य ‘‘ , ‘‘ अयमात्मा ब्रह्मे’’त्युपसंहृतम्। आथर्वणे – ‘‘ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति’’ सर्वात्मकं ब्रह्मोपक्रम्य ‘‘ब्रह्मैवेदममृतं पुरस्तादिति’’ तदेव निगमितम्॥ वेदान्ता यदि सिद्धवस्तुपरास्तर्हि मानान्तर सापेक्षाः स्युः पुंवाक्यवदिति पूर्ववाद्यभिमतस्य प्रसङ्गे हेतोः पौरुषेयत्वेन सोपाधिकत्वं भाष्यगतापिशब्देन द्योत्यत इत्याह –

अयमभिसंधिरिति।

तस्यैवानैकान्तिकत्वमाह –

प्रत्यक्षादीनामपीति।

वाक्यस्य सतः सिद्धवस्तुपरत्वे पौरुषेयत्वापत्तिरिति साधनव्याप्तिमुपाधेः शङ्कते –

यद्युच्येतेति।

वाक्यत्वादि लिङ्गं यस्य तत्तथा। कार्यपरतायां हि वेदान्तानां न वाक्यत्वादिना सापेक्षत्वमनुमेयं, पौरुषेयत्वस्योपाधित्वात् एवं न च साधनव्याप्तिरित्याह –

कार्यार्थत्व

इति। तत्त्वेन= याथात्म्येन। कार्ये मानान्तरायोग्यत्वस्यासिद्धत्वात्तत्परत्वेऽपि वेदान्तानां पौरुषेयत्वं संभवतीति समा साधनव्याप्तिः, तश्च दुरपवादं वाक्यत्वादिलिङ्गकं पौरुषेयत्वमित्याशयेनाह – अत्र ब्रूम इत्यादिना।

किं

पुनरिति। कृतियोग्यस्य कार्यत्वे भावार्थस्यापि तत्त्वेन मानान्तरयोग्यत्वमित्यर्थः। तर्ह्यलौकिकं कार्यमिति शङ्कते –

अपूर्वमिति।

तर्हि मानान्तरानवगते संगतिग्रहायोगाल्लिङ्गादीनामबोधकत्वापात इत्याह –

हन्तेति।

ननु यजेतेति श्रुतेः कार्यता भात्यतोऽपूर्वसिद्धिरिति, तत्राह –

लोकानुसारत

इति। स्वर्गकामपदसमभिव्याहारसंज्ञकतर्कानुगृहीतवेदादेव क्रियाविलक्षणापूर्वे लिङ्गादीनां संबन्धग्रह इति शङ्कते –

स्वर्गकाम

इति। अयं तर्कोऽतिप्रसङ्गीत्याह –

चैत्येति।

कर्तृस्मरणात्स्पृष्टदृष्टपौरुषेयत्वेन बुद्धादेवचैषामकार्यार्थत्वे वेदानामपि पौरुषेयत्वस्य वाक्यत्वादिनाऽनुमितत्वादकार्यार्थत्वं समानमित्यर्थः। स्मर्यमाणकर्तृकत्वेन वाक्यत्वादि सोपाधिकमित्याशङ्क्य सिद्धार्थवेदान्तेष्वपि तत्सममतः कार्यार्थत्वमनपेक्षतायामप्रयोजकमित्याह –

अन्यतस्त्विति।

वर्तमानसंप्रयोगजप्रत्यक्षस्य कार्यरूपधर्मगोचरत्वानुपपत्तेर्योगसामर्थ्यस्यापीन्द्रियविषयेष्वेवातिशयकारित्वान्न धर्मस्य प्रत्यक्षता, लिङ्गाद्यभावाच्च नानुमेयत्वादि, नचाज्ञाते पुंसां वचनरचना संभविनीति वैदिकी रचना न पौरुषेयीति न्यायकणिकायां व्युत्पादितम्। नन्वपौरुषेयतयाऽनपेक्षत्वेप्यग्निर्हिमस्य भेषजमितिवन्मानान्तरगृहीतग्राहित्वमित्याशङ्क्य तत्त्वमसीति, ब्रह्मात्मभावस्येति भाष्यशेषेण परिहृतमित्याह –

चानधिगतेति। सर्वस्मिन्नुपपादितेऽर्थे भाष्यं संवादयति –

तदिदमिति।

सिद्धार्थत्वे सत्यपुरुषार्थनिष्ठत्वं स्यादिति द्वितीयपूर्वपक्षबीजम्। सर्वक्लेशप्रहाणादिति भाष्यस्थप्रशब्दार्थमाह – सोऽ यमस्येति। बाह्यानुष्ठानानपेक्षमज्ञाननिवृत्त्यानन्दाविर्भावफलमन्वयव्यतिरेकिनिदर्शनयुगलद्वयप्रदर्शनपुरःसरं ब्रह्मज्ञानस्य दर्शयति –

एतदुक्तमित्यादिना।

ग्रैवेयकं ग्रीवालङ्कारः। समूलघातमिति। कषादित्वादनुप्रयोगः। सह मूलेनोपहन्तीत्यर्थः। समारोपितनिबन्धन इति। समारोपिताऽविद्या निबन्धनं यस्य जीवभावस्य स तथोक्तः। आत्मानमेव

लोकं

=चैतन्यम्।

देवता

=सगुणं ब्रह्म। आदिशब्दात् प्राणविशुध्द्यादि गृह्यते। उपासनावाक्यैकदेशमुपास्यसमर्थकं विविनक्ति –

आत्मेतीति।

यदवादि पूर्वपक्षिणा न क्वचिदपि वेदवाक्यानां विधिमन्तरेणार्थवत्तेति, तत्र किं यदि वेदान्ता विधिमन्तरेण प्रमाणं, तर्ह्यर्थवादाः किं न स्युरिति प्रतिबन्दी मता, अथवा वेदवाक्यस्य सिद्धपरस्यान्यत्रादर्शनाद्व्याप्त्यभावेन न वेदान्तानां सिद्धवस्तुपरत्वमिति। आद्यमर्थवादाधिकरणपूर्वपक्षं संगृह्णन्नाशङ्कते –

स्यादेतदित्यादिना।

रुदतो यदश्रु अशीर्यत तद्रजतमभवत्तस्माद्रजतमदक्षिण्यमिति निन्दा। बर्हिषि बर्हिःसाध्ये यागे, रजतं न देयमिति निषेधशेष इति सिद्धान्तं दर्शयन्नर्थवादानां नोपेक्षाफलत्वमिति तावदाह –

स्वाध्यायेति।

प्रयोजनपर्यवसायिबोधजनकत्वतदभावाभ्यां विशेषं दर्शयन्प्रतिबन्दीं परिहरति –

च वेदान्तेभ्य इति। ननु निषेध एव स्वनिषेधस्यानर्थहेतुत्वान्यथानुपपत्त्या निन्दां कल्पयिष्यति, नेत्याह –

तद्यदीति।

अर्थवादादेव निन्दालाभे निषेधकस्य निषेधे निन्दायां च तात्पर्तं न कल्प्यमित्यर्थः। ननु ‘सोऽरोदीदिति’ वाक्ये निन्दा न भाति, कितु भूतानुवाद इत्याशङ्क्य मुख्यार्थे प्रयोजनाभावान्निन्दा लक्ष्यत इत्याह –

लक्ष्यमाणेति।

द्वितीयमुद्भाव्य निषेधति –

ननु

विध्यसंस्पर्शिन इत्यादिना। तच्च स्वत इत्युपपादितं न्यायकणिकायामित्यर्थः। ननु प्रमायाः कार्येण प्रमाणानां तज्जनकत्वमनुमेयं, कथं नानुमानगम्यमिति भाष्यमित्याशङ्क्याह – यद्यपीति। कार्यार्थापत्त्यपरपर्यायानुमानेन मानान्तरेण वा प्रमा नोत्पद्यते, किंतूदितायां तस्यामनुमानं प्रवर्तत इत्यर्थः। प्रमाणान्तरं तावदपेक्ष्यमाणं न दृश्यते। एतदर्थापत्त्यपेक्षणे दूषणमाह –

नापीति।

अपेक्षत इत्यनुषङ्गः। उत्पन्नायां प्रमायां प्रमाणानां प्रमाजनकत्वस्यानुमानं, ततश्च प्रमोत्पत्तिरिति परस्पराश्रयप्रसङ्गः। शास्त्रप्रामाण्यमनुमानगम्यत्वेन न भवतीति च भाष्यार्थो न पुनरनुमानेन ज्ञेयमिति। कार्यविरहिवेदान्तेभ्यः प्रमा यद्युत्पद्यते, तदा स्वतः परतो वेति चिन्ता, ननूत्पद्यत इत्यत आह –

ईदृगिति।

सिद्धे ब्रह्मणि वेदान्तेभ्यः प्रमोत्पत्तिरनुभवसिद्धेत्यर्थः। यद्यनुभवसिद्धाप्यन्यत्र सिद्धार्थार्थवादादावदर्शनादपहूयत, तदाऽतिप्रसङ्ग इत्याह –

अन्यथेति।

एवं तावत्सिद्धेर्थेऽपि प्रमाणान्तरपरतन्त्राणां पौरुषेयवाक्यानामङ्गीकृत्य प्रामाण्यं वेदान्तेषु क्रियाविषयतामन्तरेण नैरपेक्ष्यपुरुषार्थपर्यवसाने न लभ्येते इति मतं, ब्रह्मात्मैक्यस्य प्रमाणान्तरागम्यत्वेन तदवगममात्रायत्तप्रयोजनलाभेन च पराणुदत्। इदानीं कार्यान्वितपदार्थे पदसङ्गतिग्रहेण सिद्धं वस्तु न शब्दप्रमेयमिति वेदान्तानुपासननियोगपरान् ये मन्यन्ते, तन्मतेन पूर्वपक्षमाह –

अज्ञातेति।

अथवा आरोपितब्रह्मभावस्य जीवस्योपास्तिपरा वेदान्ता न ब्रह्मात्मत्वे प्रमाणमिति पूर्वः पक्षः ॥ ‘अयं तु – सन्तु वेदान्ता मानं ब्रह्मात्मवस्तुनि। किंतु ज्ञानविधिद्वारेत्येष भेदः प्रतीयताम्॥‘ अतएव भाष्यं यद्यपि शास्त्रप्रमाणकं ब्रह्मेति। तत्र कार्यविषयाद्वाक्याद् ब्रह्मनिश्चय इति प्रतिज्ञासामर्थ्यादेव, न सिद्धार्थादिति लभ्यते। तत्र हेतुः –

सिद्धे

वस्तुन्यज्ञातसङ्गतित्वेनेति । यत्र वृद्धप्रयुक्तशब्दविषयत्वं तत्र सङ्गतिः शब्दस्य गृह्यते, सिद्धेतु तद्व्यावर्तमानं स्वव्याप्यं सङ्गतिग्रहं व्यावर्तयतीत्यभिप्रेत्याह –

यत्र

हीति। लोकेनेति। वृद्धेः प्रयोगव्यापकवक्तृविवक्षाश्रोतृप्रतिपत्तीच्छयोरभावात्सिद्धे प्रयोगाभावमाह –

नचेति।

रूपमात्रं= वस्तुमात्रम्। सर्वपदानां कार्यार्थत्वे सति पर्यायत्वमाशङ्क्य –

तत्र

किंचिदिति।

कार्यार्थः

=कार्यशेषः। अत्र प्रयोगः – गोपदं न कार्यानन्विते गोत्वे गृहीतसंबन्धं, तत्र वृद्धैरप्रयुक्तत्वात्, तुरगपदवत्। एवं सर्वत्र सिद्धे वस्तुन्युत्तमवृद्धस्य शब्दप्रयोगाभावमुक्त्वा मध्यमवृद्धप्रवृत्तेर्व्युत्पत्तिलिङ्गभूतायास्तत्राभावाच्च तत्र न व्युत्पत्तिरित्याह –

अपिचेति।

शास्त्रत्वेनेत्यादिहेतून्व्याचष्टे –

अपिचेत्यादिना।

न च रज्जुरिति। नकारोऽयं ‘सांसारिकधर्माणां न च निवृत्तिः’ इति उपरि सबन्धनीयः।

यथाकथंचिदिति।

सिद्धपदार्थसंसर्गस्य नियोगाविनाभावादिहापि मा भैषीरिति नियोगं कल्पयित्वाऽन्यपरादेव वाक्यात्सिद्धरूपार्थनिश्चय इत्यर्थः।

किंत्विति।

आत्मप्रतिपत्तिर्विषयोऽवच्छेदको यस्य तत्तथा। ननु नियोगोऽपूर्वमिति प्राभाकरैर्वाक्यार्थो वर्ण्यते, स किमन्य एव कार्यो नेत्याह –

तच्चेति।

कार्यपरेभ्यो वेदान्तेभ्यः कथं वस्तुसिद्धिरित्याशङ्क्य विध्याक्षेपलक्षणोपादानप्रमाणादित्याह –

नचेति।

स्वप्रतीत्युपाधित्वेन विषयस्य, स्वनिर्वर्तकत्वेन करणस्य, कार्यं स्वावच्छेदकज्ञाननिरूपणाय ज्ञायमानमात्मानमपेक्षते चेत्तर्हि न श्रौतत्वमात्मन इत्याशङ्क्य विध्याक्षिप्तस्य श्रौतत्वे गुरुसंमतिमाह –

यथाहुरिति।

तत्सिद्ध्यर्थं

= विधेयसिद्ध्यर्थम्।

उपादीयते

इत्यस्य व्याख्यानम् – आक्षिप्यते इति। ज्ञानस्य प्रमात्वात्प्रत्यक्षवन्न विधेयता, आत्मनश्च नित्यत्वात्तदयोग इत्याशङ्क्याह –

विधेयता

चेति। ज्ञानमिहोपासनं तच्च क्रियेत्यनुष्ठेयम्। आत्मनस्तु स्वरूपसत्ताविनिश्चितिरज्ञातज्ञाप्तिर्विधेयतेति न विरोध इत्यर्थः। ननु वाग्धेनूपास्त्यादाविचारोप्यस्य विधेयधीविषयत्वं किं न स्यादत आह –

आरोपितेति।

ब्रह्मास्मीति ज्ञाने यादृगर्थो भाति तद्भाव आरोपितो यस्य स तथा। तस्यान्यस्य ज्ञाननिरूपकत्वे तेन प्रतिभासमानार्थेन तज्ज्ञानं निरूपितं न स्यात्। न च सत्यां गतौ युक्त आरोप इति। इयचं प्रतिपत्तिविधिविषयतयेति भाष्यस्य व्याख्या। प्रतिपत्तिविधेर्नियोगस्य विषयभूतप्रतिपत्तिं प्रत्यवच्छेदकत्वेन विषयतयेति भाष्यार्थः। एवमाहवनीयादयोऽ पीति। ‘यदाहवनीये जुह्वती’ति विहिते क आहवनीय इति वीक्षायां ‘वसन्ते ब्राह्मणोऽग्नीनादधीते’त्यादिविधिभिः संस्कारविशिष्टोऽग्निराहवनीयो गम्यते, तथाऽपूर्वदेवतास्वर्गादिकं विधिपरेणैव शास्त्रेण समर्थ्यते। श्लोकोक्तहेतुद्वयं भाष्येण सङ्गमयति –

प्रवृत्तिनिवृत्तिपरस्येति।

‘तद्भूतानाम्’ (जै.अ.१.पा.१.सू,२५) इति सूत्रोदाहरणेन कार्यान्वितेऽर्थे शब्दसङ्गतिर्न सिद्ध इत्युक्तम्। ‘आम्नायस्य’ (जै.अ.१.पा.२.सू.१५) इत्येतद्विहायेतरवाक्यैः प्रवृत्त्यादिपरस्य शास्त्रत्वमुक्तम् ।तेन तु सिद्धरूपपरस्य न शास्त्रत्वमुक्तम्। तस्य वेदस्य, कर्मावबोधो नियोगज्ञानं दृष्टं प्रयोजनं। चोदनासूत्रे (जै.अ.१.पा.१.सू.२) चोदनेति शब्देन क्रियाया नियोगस्यानुष्ठापकं वचनमाहुरिति। तत्तेश्च पदार्थेषु भूतानां वर्तमानानां क्रिया कार्यं, तदर्थत्वेन समाम्नायः समुच्चारणमित्यर्थः।

नचेति।

नियोगस्य स्वकीयत्वेन बोद्धारं नियोज्यम् अधिकारणं कर्मणि स्वामिनं, तत्रैव कर्तारम् अनुष्ठातारम् इति ।

नियोज्यभेदो

नियोज्यविशेषः। अमृतत्वकाम इति अश्रवणान्नियोज्यसिद्धिमाशङ्क्याह –

ब्रह्मवेदेति।

भवतीति सिद्धरूपेणावगतस्य फलस्य साध्यत्वाभिव्यक्त्यर्थम्, एवंकामशब्दवाच्यनियोज्यविशेषाकाङ्क्षायां विपरिणामेन ब्रह्म बुभूषुर्विद्यादिति वाक्यार्थः स्यादित्यर्थः॥

रात्रिसत्रेति।

चतुर्थे चिन्तितम् – ‘क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनिः’ (जै.अ.४.पा.३.सू.१७) । प्रतितिष्ठन्ति ह वा ए एता रात्रीरुपयन्ती’ति श्रूयते। तत्र रात्रशब्देनायुर्ज्योतिरित्यादिवाव्यविहिताः सोमयागविशेषा उच्यन्ते। किमत्र स्वर्ग एवाधिकारिविशेषणमुत प्रतिष्ठेति संशयः। तत्रैवंकाम इत्यश्रवणाद्विधिशक्तिलभ्यः स्वर्ग एव विशेषणं, संदेहे हि वाक्यशेषस्वीकारः, न निश्चये। निश्चितश्चेह सर्वाभिलषितः स्वर्गो विधिसामर्थ्यान्नियोज्यविशेषणम्। या तु प्रतिष्ठाविषया श्रुतिः साऽपि लक्षणया स्वर्गपरैव कल्प्यत इति प्राप्तं। क्रतौ रात्रिसत्रादौ न प्रतिष्ठादि विवक्षितमित्येतावन्मात्रेणाङ्गवदिति सूत्रे प्रायाजाद्यङ्गफलार्थवादोदाहरणं, ननु तद्वत्पदार्थत्वमस्ति रात्रिसत्राणाम्। एवं प्राप्ते – उच्यते; ‘फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्’ (जै.अ.४.पा.३.सू.१८) प्रतिष्ठाफलस्य निर्देशात्तदेवाधिकारिविशेषणम्। यत्तु विधिशक्त्या स्वर्ग इति। तन्न; मुख्यार्थश्रुतिपदानुगुण्येन विधिशक्तौ पर्यवसितायामानुमानिकस्वर्गकल्पनाऽनवकाशात्।

तस्माद्वाक्यशेषस्थमेव

फलमिति। विश्वजिन्न्यायेनेति वक्तव्ये विश्वजिति नैमित्तिकाधिकारे फलकल्पना कृत्वाचिन्तयेति पिण्डपितृयज्ञः स्थिरोदाहरणत्वेनोदाहृतः।

असमवेतार्थतयेति।

अश्रूयमाणत्वेन ब्रह्मभवनशब्देनासमवेतः स्वर्गोऽ र्थस्तत्परतयेत्यर्थः। यद्यपि ब्रह्मभवनस्य फलत्वेऽप्येवंकाम इति लक्षणाऽस्तीति परोक्षवृत्तिता तुल्या; तथापि श्रुतं ब्रह्मभवनं न हीयते, हीयते तु पूर्वपक्षे। तदिदमुक्तम् –

अत्यन्तेति।

पिण्डपितृयज्ञन्यायो ऽनुक्रम्यते। चतुर्थे एवं निरणायि – “पितृयज्ञः स्वकालत्वादनङ्गं स्यात्’। (जै.अ.४.पा.४.सू.१९) ‘अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती’त्यत्रानारभ्याधीतवाक्ये श्रुतः पिण्डपितृयज्ञः क्रत्वर्थः पुरुषार्था वेति संशये कर्मवाच्यमावास्याशब्दसमभिव्याहारात्तदङ्गत्वम्। यद्यपि कालस्यापि साधारणोऽयं शब्दः; तथापि फलकल्पनापरिहाराय कर्मवाच्येव अतः क्रत्वर्थ इति प्राप्ते – सिद्धान्तः; कालकर्मसाधारणोऽप्यमावास्याशब्दोऽपराह्णशब्दसमानाधिकृत इह कालपर एव। न च साधारण्यम्; काले रूढत्वात्कर्मणि च तत्संबन्धेन लाक्षणिकत्वात्। तस्मात्कर्मसमभिव्याहाराभावाद्विश्वजिन्न्यायेन (जै.अ.४.पा.३ सू.१५) स्वर्गकामनियोज्यकल्पनया स्वर्गफलः पिण्डपितृयज्ञ इति। ननु ज्ञानविधिर्यदि ब्रह्मभावफलः, कथं तर्हि भाष्येऽमृतत्वकामस्येत्युक्तं? तत्राह –

ब्रह्मभावश्चेति।

अमृतत्वशब्देन ब्रह्मभावनिर्देशस्य प्रयोजनमाह – अमृतत्वं चेति। अत्र भाष्यकारेण ब्रह्मज्ञानं विधेयमिति निर्देशाद्, द्रष्टव्य इति विध्युदाहृतेश्च प्रमाणज्ञानविध्यङ्गीकारेण पूर्वपक्ष इति भ्रमः स्यात्, तन्निवर्तयति –

अत्रचेत्यादिना।

दृशेरिति।

द्रष्टव्य इति वाक्योपात्तदृशिधातोरुपलब्धिवचनत्वेनोपासनाऽ नभिधायकत्वादित्यर्थः। स्वाध्यायविधेरर्थावबोधपर्यन्तत्वात्तेनैव श्रवणजन्यज्ञानस्य प्रापितत्वादित्यर्थः। भावनया विधेयं जन्यं वैशद्यं यस्य तत्प्रत्यक्षं तथा।

वाजिनवदिति।

यथाऽमिक्षार्थविहितदध्यानयनाद्वाजिनमप्रयोजकमानुषङ्गीकतया जायते, एवमदृष्टरूपामृतत्वाय विहितादुपासनात्साक्षात्कारो नान्तरीयकतया जायत इति तदुत्पादनं न विधेयमित्यर्थः। चतुर्थे स्थितम् – ‘एकनिष्पत्तेः सर्वं समं स्यात्’ (जै.अ.४.पा.१.सू.२२) ‘‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति’’ श्रूयते। तत्र संशयः। किमामिक्षैव दध्यानयनं प्रयुञ्जीतेति वाजिनमपीति। तत्रैकस्माद्दध्यानयनात्पयसः सकाशादामिक्षावाजिनयोर्निष्पत्तेः सर्वमामिक्षादि प्रयोजकं स्यादिति प्राप्ते – सिद्धान्तः, ‘संसर्गरसनिष्पत्तेरामिक्षा वा प्रधानं स्यात्’(जै.अ.४.पा.१.सू.२३) । अत्र हि दधिसंसृष्टं पय एव प्रकृतं देवतासबन्धि निर्दिश्यते सा वैश्वदेवीति, न पुनस्ततो निष्पन्नं किंचित्, तत्र नयतेर्द्विकर्मकत्वाद्यत्प्रति दध्यानीयते तत्पयआनयनस्य संस्कार्यम्। संस्कार्यमेव प्रयोजकम् । संस्कृतस्य च पयस आमिक्षात्वात् तस्याश्च स्त्रीत्वास्त्रीलिङ्गमविरुद्धम्। ननु यदि दधिसंस्कृतं पय एव रूपभेदेऽप्यामिक्षा भूत्वा दध्यानयनं प्रयुञ्जीत, तर्हि वाजिनमपि दधिसंयुक्तं पय एवेति किं न प्रयुञ्जीत। नेत्युच्यते, संसर्गरसनिष्पत्तेः; दधिसंसृष्टस्य पयसो यो रसः तस्यामिक्षायामुपलम्भात्, रूपभेदेऽपि तस्यामस्ति संसृष्टं पय इत्यनुमीयते; रूपाभेदेऽपि तक्रपयसोरिव रसभेदोपलम्भात् न वाजिनेन ; तस्य कटुतिक्तरसत्वादिति । हेतुद्वयविवरणेन पूर्वकृतेनोत्तरग्रन्थस्य व्याख्यातत्वमाह – अर्थवत्तयेति। ‘वेदान्ता यद्युपासां विदधति, विधिसंशोधिमीमांसयैव प्राच्या तर्हीरितार्था इति विफलमिदं ब्रह्मजिज्ञासनं स्यात्। अप्यत्युच्चातिनीचो जनिमृतिभयभाग्वैधधीसाध्यमोक्षः कर्मोत्थैः स्वर्गपश्वाद्यतिमधुरफलैः कोऽपराधः कृतो नः॥‘ वेदान्ता यद्युपासनाविधिपराः, तर्हि विहितोपासनायाः पक्षमासादिकालमिततया तत्साध्यफलमपि सातिशयमनित्यं च स्यादतो न विधिपरत्वं वेदान्तानामिति तात्पर्यम् अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्यन्तस्य भाष्यस्य दर्शयति –

पुण्यापुण्येत्यादिना।

भाष्ये यद्विषया जिज्ञासेति धर्मस्य प्राचि तन्त्रे विचारितत्वोक्तिरुपास्तेरपि विहिताया धर्मत्वेन पुनरविचार्यत्वाय। अधर्मोऽपीत्यदर्मोक्तिः पुण्यफलभोगावसान इवोपास्तिफलभोगसमाप्तावधर्मफलं भोक्तव्यमिति दर्शनाय। चोदनालक्षणत्वोक्तिर्यागवद्विहितोपास्तेर्धर्मत्वार्थम्। एवं शरीरवागित्यादिविशेषणानि कर्मफलवदुपास्तिफलस्य शरीरोपभोग्यत्वादि प्रसञ्जयितुम्। संपत्त्यनेनास्माल्लोकादमुं लोकमिति संपातः कर्म।

इष्टं

श्रौतम्।

पूर्तं

स्मार्तं

वाप्यादि।

दत्तं

दानमिति।

आत्यन्तिकमिति ।

देवदत्तस्यात्यन्तिकमशरीरत्वं देवदत्तशरीरप्रागभावासमानकालीनो देवदत्तशरीरध्वंसः, सर्वोपाधिप्रत्यस्तमयोपलक्षितं स्वरूपमिति यावत्। विधेयोपास्तिवादिनं प्रति तत्फलस्य मोक्षस्यानित्यत्वादिप्रसञ्जनमिष्टप्रसङ्ग इत्याशङ्क्याह –

एतदुक्तमिति।

उपास्तिविधेः फलं ब्रह्मात्मत्वमुताविद्यानिवृत्तिर्विद्योदयो वेति विकल्प्य क्रमेण निराकरोति –

त्वयापीत्यादिना।

उपासनाऽपूर्वमपि चेतःसहकार्यतश्च विध्यवकाश इत्यर्थः। ऎहिकस्य मर्दनसुखवन्न विधिफलत्वमित्याशङ्क्याह –

दृष्टं

चेति। कारीर्यादिनियोगा इह जन्मनि नियतसस्यर्ध्द्यादिफलाः, चित्रादिनियोगफलं पश्वादि भुवि भोग्यमपीह वा जन्मान्तरे वा भवति।

तत्कार्यमिति।

तदपूर्वकर्तव्यत्वेनावबोद्धं नार्हतीत्यर्थः। अपूर्वं चेन्न साक्षात्कारोपयोगि, तर्ह्युपासनक्रियैव तदर्थं विधीयतां, नेत्याह –

च तत्काम इति। नन्ववघातवदुपास्तावप्यस्तु नियमापूर्वं, नेत्याह –

च ब्रह्मभूयादिति। नेह परमापूर्ववन्नियमापूर्वसाध्यमस्ति; ब्रह्मभावस्य नित्यत्वादित्यर्थः।

विश्वजिन्न्यायेनेति।

‘विश्वजिता यजेते’त्याद्यश्रुताधिकारं लिङ्गप्रकरणालब्धाधिकारं चोदाहरणम्। निषेधे हि सामर्थ्यात्प्रवृत्तिक्रियोऽधिकारी लभ्यते, अङ्गविधिषु तु प्रकरणादिति न चिन्त्योऽधिकारः। एवं सतीह संदेहः किं नियोज्योऽध्याह्रियतां न वेति। तत्र लोके द्वारं द्वारमित्यादौ क्रियया विना कारकाभिधानापर्यवसानाद्युक्तोऽध्याहारः। इह तु विषयेण कार्यस्यान्विताभिधानपर्यवसानादनध्याहारे प्राप्ते, उच्यते; अत्राप्यभिधेयापर्यवसानद्वाराभिधानापर्यवसानमेव । कार्यं हि साध्यत्वेन कृतिनिरूप्यम्। नरव्यापाररूपा च कृतिः, सा च यथा स्वसाध्यधात्वर्थनिरूप्यैवं स्वाश्रयनरनिरूप्या। तदेवं कृतेः कर्तापि कार्ये कृतिद्वारा संबन्धित्वेन निरूपक इति तमन्तर्भाव्यैव नियोगधीः। नचासावबुद्ध्वाऽऽत्मनः कार्येण संबन्धं स्वतस्तेन संबध्यते। स्वसंबन्धिकार्यबोद्धा च नियोज्य इति सोऽध्याहार्य इति स्थिते चिन्ता – किं सर्वेषामध्याहारः, उत एकस्येति। तत्राविशेषात्सर्वेषामिति प्राप्ते – उच्यते; एकेनाकाङ्क्षाशान्तेरेकस्येति। एवं स्थिते विचारः किं यस्य कस्यचिन्नियोज्यस्याध्याहारः, उत स्वर्गकामस्येति। तत्राविशेषादनियम इति प्राप्ते – उच्यते; ‘स स्वर्गः स्यात्सर्वात्प्रत्यविशिष्टत्वात्’। (जै.अ.४.पा.३. सू.१५) स्वर्गकाम एवाध्याहार्यः। विशेषो हि गम्यते, पुरुषाणां सुखाभिलाषित्वात् ।दुःखनिवृत्तेरपि तत्रैवान्तर्भावात्। दुःखनिवृत्तिस्तु न सुखाविनाभूता। सुषुप्ते सत्यामपि तस्यां सुखजन्मादर्शनात्, अनवच्छिन्नस्य सुखस्य स्वर्गत्वात्तस्य च सर्वसुखविशेषात् प्रत्यविशिष्टत्वाद्विशेषे च मानाभावात्स्वर्ग एव नियोज्यविशेषणं स्यादिति। कृत्वाचिन्तेयम्। यः सत्रायावगुरेत्स विश्वजिता यजेतेति सत्रप्रवृत्तस्यावगुरणोपरमे निमित्ते प्रायश्चित्ततया विहितत्वेन साधिकारत्वादिति।

यत्किलेति।

स्वाभाविकनित्यचैतन्यात्मकस्य ब्रह्मात्मत्वस्य साध्यत्वं व्याहतमित्यर्थः। भाष्ये कूटस्थनित्यमिति विशेषणं न परिणामिव्यवच्छेदाय, सिद्धान्ते तन्नित्यत्वासंमते; अतो वैयर्थ्यमित्याशङ्क्याह –

परे

हीति। परभ्रान्तिर्व्यवच्छेद्येत्यर्थः । इदं तु पारमार्थिकमिति भाष्ये कूटस्थनित्यत्वे पारमार्थिकत्वं हेतूकृतं, तत्तदा घटेत, यदि यत्पारमार्थिकं तदविकृतमिति व्याप्तिः स्यात्, तदर्थं परिणामिनित्यस्य भ्रमसिद्धत्वमाह –

परिणामीति।

परिणामो हि पूर्वरूपत्यागेन रूपान्तरापत्तिः । तत्र पूर्वरूपस्य सर्वात्मना त्यागेन रूपान्तरोत्पत्तौ जातस्य प्राक्तनरूपत्वं व्याहृतमतोऽनित्यत्वमित्युक्ते शङ्कते –

एकदेशेति।

य एकदेशो नश्यति स धर्मिणः सकाशाद्भिन्न इति पक्षे न धर्मिणः परिणामः, किंत्वेकदेशस्य स चानित्य इति न परिणामिनित्यत्वसिद्दिरित्याह – भिन्नश्चेदिति। नश्यतश्चैकदेशस्य धर्म्यभेदे सर्वात्मना वस्त्वपगमान्न नित्यत्वमित्याह –

अभेदे

इति। पक्षद्वयोक्तदोषपरिहारायैकमेव कार्यकारणात्मकं वस्तु तस्य कार्याकारेण परिणामित्वं, तानि च कार्याणि भिन्नानि, कारणाकारेण च नित्यत्वं तच्चाभिन्नमिति शङ्कते –

भिन्नाभिन्नमिति।

यत्प्रामाणविपर्ययेण विरोधेन वर्तते तत्र विरुद्धमिति संप्रत्यय इत्यनुषङ्गः। एकस्य कार्यकारणरूपेण द्व्यात्मकत्वे प्रमाणमाह –

कुण्डलमिति।

द्विरवभासेति।

हेम हेमेति वा कुण्डलं कुण्डलमिति वेत्यर्थः। अपार्यायानेकशब्दवाच्यत्वेन हेमकुण्डलयोर्भेदः सामानाधिकरण्याच्चाभेद इत्युक्ते हेमत्वस्य कुण्डलव्यक्त्यायाश्रितत्वाद्वा कुण्डलाकारसंस्थानस्य कनकत्वस्य चैकद्रव्याश्रितत्वेन वा सामानाधिकरण्यं नाभेदादित्याशङ्क्य व्यभिचारयति –

आधारेति।

आधारेति दृष्टान्ते सिद्धौ भेदाभेदौ दार्ष्टान्तिके योजयति –

तथाचेति।

लोके कार्यस्य कुण्डलादेः कारणात्मकत्वात्परमकारणस्य च सतः सर्वत्र हेमवदनुगमात् सन् घट इत्यादिसामानाधिकरण्यवशेन जगतः कार्यस्य सत्ता कारणरूपेणाभेदो व्यावृत्तकार्यरूपेण च भेद इत्यर्थः।

भेद

इति। किं रूपादिवद्भावरूपो धर्मः , उतैक्याभावः। नाद्यः; ऎकान्तिकाभेदानिषेधात्। द्वितीयमाशङ्क्याह –

किमयं

कार्येति।

तत्त्वेनेति।

कटकत्ववर्धमानकत्वरूपेण तयोरितरेतराभेदप्रसङ्ग इत्यर्थः। कार्यस्य कारणाभेदे च सर्वकार्याणामेककार्यात्मकत्वप्रसङ्गः ; एककार्यस्य सर्वकार्याभिन्नेन कारणेनाभेदादित्याह –

अपिचेति

एवमेककार्यात्मकत्वादितरकार्याणां तस्य च कारणादभेदाद्भेदासिद्दावैकान्तिकाद्वैतापात इत्याह – तथाच हाटकत्वमेवेति। कटकस्य हि द्वे रूपे स्तो हाटकत्वं कटकत्वं च। तत्र हाटकरूपेणास्य कुण्डलादिभिरभेद इष्ट एव, न कटकरूपेण; व्यावृत्तत्वात्तस्येति प्रस्मृतपराभिसंधिः स्वप्रक्रियया शङ्कते –

अथेति।

सिद्धान्ती तु कटकहाटकयोरभेदाद्धाटकस्य कुण्डलादिष्वनुवृत्तेरभेदे कटकस्यापि तैरभेदः स्यादिति पूर्वोक्तमेव परिहारं स्मारयति –

यदि हाटकादिति।

कटकस्य कुण्डलादिष्वनुवृत्त्यनभ्युपगमे तेष्वनुवृत्तहाटकादभेदभावः स्यादिति प्रतिजानीते

नानुवर्तते

चेदिति। अनुवृत्ताद्व्यावृत्तस्य भेदे व्याप्तिमाह

येहीति।

उपनयमाह –

नानुवर्तन्ते

इति। अर्थाद्धेतुसिद्धिर्द्रष्टव्या। निगमयति –

तस्मादिति।

कुण्डलादिषु हेमानुवृत्त्या यदि तदभेदात्कटकादीनामनुगमः; तदा सत्तानुवृत्त्या सर्ववस्तूनामितरेतराभेदापत्तेर्व्यवहारपरिप्लव इत्याह –

सत्तेति।

इति विभागो न स्याद् इत्यस्य प्रत्येकं संबन्धः। इह क्षीरे इदं दधि नेदं तैलमिति संसर्गतदभावव्यवस्था न स्यात्। इदं पटादिकमस्मात्कुड्याद्भिद्यते इदं कुड्यमस्मात्कुड्यान्न भिद्यते इत्यसंकरो न स्यात्। इदानीं वसन्ते काले इदं कोकिलरुतमस्ति इदमम्बुदध्वानं नेति व्यवस्था न स्यात्। इदं कुम्भादि एवं कम्बुग्रीवत्वादिप्रकारमिदं पटादि नैवमिति प्रकारासङ्करो न स्यादित्यर्थः। उक्तास्ववस्थासु हेतुमाह –

कस्यचिदिति।

कुतश्चिदित्यपि द्रष्टव्यम्। इतश्च कार्यस्य कारणेन न वास्तवमैक्यमित्याह –

अपिचेति।

निश्चितकनकादभेदान्न कुण्डलादिषु संशय इत्युक्ते संशयसंभवं भेदप्रयुक्त्या शङ्कते –

अथेति।

सिद्धान्त्यविनिगममाह –

नन्विति।

हेमनिर्णयेन कटकादीनां निर्णये तदभेदः कारणं, तदभावाद्भेदरूपान्निर्णयकार्याभाव औत्सर्गिकः प्राप्तः, स कारणस्याभेदस्य भावादपोद्यते, घटसामग्रीत इव तत्प्रागभावस्ततः कनकनिश्चये कटकादिनिश्चयादविनिगम एव न, किंतु वैपरीत्यनिश्चय इत्याह –

प्रत्युतेति।

तेषां कुण्डलादीनां जिज्ञासा तद्विषयज्ञानानि चेत्यर्थः। वस्तुतः कार्यकारणयोरभेदाभावं सप्रमाणकमुपसंहरति। तेनेति। यदि हेमकुण्डलयोर्न भेदाभेदौ, तर्हि सामानाधिकरण्यं न स्यात्, नह्यत्यन्तभेदे तद्भवति; कुण्डलकटकयोरदर्शनात्। नाप्यत्यन्ताभेदे; हेम हेमेत्यनुपलंभादिति पूर्ववाद्युक्तमनुवदति –

कथं

तर्हीति। यदि हेम्नः सकाशात् कुण्डलादीनां भेदाभेदौ, तर्हि तेषामनुवृत्तहेम्नः सकाशाद् अभेदादितरेतरव्यावृत्तिर्न स्यान्न हेम्नि निर्णीते संशय इति प्रतितर्केण मिथो विरोधाख्येन सामानाधिकरण्यानुपपत्तितर्कं दूषयति –

अथेति।

अत्यन्ताभेदे मा नामोपपादि हेमादेरनुवृत्तिव्यावृत्तिव्यवस्था, माच घटिष्ट हेम्नि ज्ञाते कुण्डलादिजिज्ञासा, भेदाभेदमते ते किं न स्याताम् , इत्याशङ्क्य पूर्वोक्तमविनिगममुत्सर्गापवादं च स्मारयति –

अनैकान्तिके

चेति। एवं निरुद्धे ऽनेकान्तवादिनि स्वमतेन सामानाधिकरण्यमुपपादयति –

तस्मादिति।

विरोधादन्यतरबाधेऽप्यभेदो बाध्य इति सौगतमतमाशङ्क्याह –

अभेदोपादानेति।

भेदः किं धर्मिप्रत्तियोगिनोर्व्यासज्य वर्तते, उत प्रतियोगिनमपेक्ष्य धर्मिण्येव। आद्ये धर्मिप्रतियोगिनोः प्रत्येकवर्त्येकत्वापेक्षेत्युक्त्वा द्वितीये धर्म्यैक्यापेक्षेत्याह –

एकाभावे

चेति। ततः स्वसत्तायामभेदापेक्षत्वाद्भेदस्य स एवाभेदेऽध्यस्त इत्यर्थः। प्रतीतावपि भेदस्यैवाभेदापेक्षेत्याह –

नायमिति।

‘मृत्तिकेति’ श्रुतिः, कारणमेव सत्यमित्याह अतः –

अत्यन्ता

भेदपरेति। अनंशत्वमाकारभेदराहित्यम्। नित्यतृप्तत्वादीनि श्रुत्युक्तान्येन भाष्येऽनूदितानीति नासिद्धानि; कार्यविलक्षणानधिगतविषयलाभात् स्वमते शास्त्रपृथक्त्वसिद्धिः अतस्तद्ब्रह्मेति भाष्ये उक्ता। प्राग्विमोक्षनित्यत्वान्नियोगायोग उक्तः, इदानीं तत्साधनज्ञानस्य केवलदृष्टार्थत्वाच्च स उच्यत इत्याह –

तदेवमित्यादिना।

उपपाद्य इत्यस्य निवारिका इत्याह इत्यनेन संबन्धः। एवं फलस्वभावेन नियोगाभावमुक्त्वा फलिज्ञानस्वभावेनाप्युच्यत इत्याह –

अविद्याद्वयेति।

स्वत इति। विहितक्रियारूपेणेत्यर्थः। न्यायसूत्रे – दोषो रागादिः। प्रवृत्तिः कर्म। आरोप्यत्वसाम्येऽप्यध्यासात्सम्पदो भेदमाह –

मन

इति। आरोप्यप्रधाना संपत्, अधिष्ठानप्रधानोऽध्यासः। अरोपितस्तद्भावो ब्रह्मादिभावो यस्य तन्मनआदि तथा।

वह्नादीनि।

इत्यादिशब्दात्सूर्यचन्द्रादयो गृह्यन्ते। वागादीनिति। चक्षुःश्रोत्रमनांसि संवृज्य उद्यम्य लयं गमयितुं चालयित्वेत्यर्थः।

संवरणादिति।

उद्यमनादित्यर्थः। यो हि यदुद्यच्छति तत्स्ववशतया संवृणोतीति।

सात्मीभावादिति।

साम्येन कारणात्मत्वोपगमनादित्यर्थः। यद्यपि श्रुतौ स्वापे प्राणः संवर्ग उक्तः; तथापि न्यायसाम्याल्लयस्य चात्र प्रकटत्वात्प्रायणमुदाहृतम्। अग्न्यादेरुपलक्षणत्वात्सर्वाश्रयत्वं वायुप्राणयोरुपास्यमित्याह –

सेयमिति।

दशाशागतं दशदिग्गतम्। संवर्गदृष्टान्तं निगमयति –

यथेति।

दार्ष्टान्तिकमाह –

एवमिति।

बृंहणक्रियया देहादिपरिणमनक्रियया।

आत्मदर्शनोपासनादय

इति।

दर्शनं

प्रमितिः। एतच्च प्रमाणज्ञानं विधेयमिति मतमवलम्ब्योक्तम् आदिशब्दो दृष्टान्तभूतमन आद्युपास्त्यर्थः।

स्तुतशस्त्रवदिति।

भेदलक्षणेऽभिदधे – स्तुतशस्त्रयोस्तु संस्कारो वाज्यावद्देवताभिधानत्वात् (जै.अ.२.पा.१.सू.१३) ‘आज्यैः स्तुवते’ ‘प्रउगं शंसतीति’ स्तुतशस्त्रे समाम्नाते। आज्यप्रउगशब्दौ स्तोत्रशस्त्रविशेषनामनी। प्रगीतमन्त्रसाध्यं देवतादिगुणसंबन्धाभिधानं स्तोत्रम्।

शस्त्रमप्रगीतमन्त्रसाध्यम्।

ते किं देवताप्रकाशनाख्यसंस्कारार्थत्वेन गुणकर्मणी, उतापूर्वार्थत्वेन प्रधानकर्मणी इति संदेहे, गुणसंबन्धाभिधानाद्गुणिन्या देवताया अभिधानेन याज्यावत्क्रतूपयोगिदेवतास्मरणस्य दृष्टत्वाद्गुणकर्मत्वे प्राप्ते – सिद्धान्तः; ‘अपि वा स्तुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम्‘ (जै.अ.२.पा.१.सू.२४) स्तुतिरिह विहिता श्रूयते ‘स्तौति’ ‘संसतीति’। स्तुतिश्च गुणाभिधानेन स्वरूपप्रकाशनम्। यथा विशालवक्षाः क्षत्रिययुवेति। यत्राभिधानविवक्षा न तत्र स्तुतिं प्रतीमो, यथा यो विशालवक्षास्तमानयेति। तस्मात् स्तौतिशंसती श्रौतार्थलाभाय प्रकरणे अपूर्वोत्पत्तिं प्रति स्तोत्रशस्त्रे विदध्यातामिति। एवमिहात्मोपासनं प्रधानकर्म आत्मा भूतो भव्यशेष इति। अवेक्षितमिति निष्ठया आज्ये कर्मण्यवेक्षणं गुणीकृतम्। भाव्युपयोगमाज्यस्याह –

दर्शपूर्णमासेति।

पूषानुमन्त्रणमन्त्रवदुत्कर्षं वारयति –

प्रकरणिना

चेति। ग्रहणे हेतुमाह –

उपांश्विति।

‘सर्वस्मै वेति’ वाक्यात्सर्वार्थमप्याज्यमुत्पत्तावविहितद्रव्यकोपांशुयागाङ्गम्; आग्नेयादीनामुत्पत्तिशिष्टपुरोडाशाद्यवरोधात्। सत्यप्यत्राज्यभागाद्यङ्गेष्वाज्यनिवेशे न प्रधानहविष्ट्वमिति। द्रव्यसंस्कारकस्य गुणकर्मत्वे जैमिनीयसूत्रमुदाहरति –

यैस्त्विति।

(जै.अ.२. पा.१ सू.८) यैरवघातादिभिर्द्रव्यं चिकीर्ष्यते, संस्कार्तुमिष्यते गुणस्तत्र प्रतीयेत, द्रव्ये गुणभूतं कर्म प्रतीयेतेत्यर्थः। आत्मोपास्त्यादेः संस्कारकर्मत्वं प्रकरणाद्वाक्याद्वा भवद्भवेत्, नाद्य इत्याह दृष्टान्तवैषम्यपूर्वकं –

दर्शपूर्णमासेति।

न द्वितीय इत्याह –

चानारभ्येति।

यद्ययमिति।

विधित्वाभावो हि पूर्वपक्षोपन्यासे वर्णित इति। सुवर्णं भार्यमितिवदिति। शेषलक्षणेऽभिहितम् – ‘अद्रव्यत्वात्तु शेषः स्यात्’ (जै.अ.३.पा.४.सू.२७) ‘तस्मात्सुवर्णं हिरण्यं भार्यं दुर्वर्णोऽस्य भ्रातृव्यो भवती’त्यनारभ्याधीते संशयः – किं शोभनवर्णहिरण्यधारणं क्रत्वङ्गमुत पुरुषधर्मः इति। तत्र फलकल्पनाभयात्क्रतुनिवेशः, दुर्वर्ण इत्यादि त्वेवंकामशब्दविरहान्न फलपरम्। न च सत्रवद्विपरिणामः; क्रत्वङ्गत्वेन गतिसंभवात्॥ तथाच वैदिककर्मत्वसाम्यादग्निहोत्रादिप्रकरणनिवेश इति प्राप्ते – अद्रव्यत्वाद् द्रव्यदेवतासंबन्धराहित्यान्न स्वतन्त्रं कर्म, किंतु क्रतुशेष इति सूत्रार्थः। सिद्धान्तस्तु – ‘अप्रकरणे तु तद्धर्मस्ततो विशेषात्’ (जै.अ.३.पा.४.सू.२६) । तद्धर्मः पुरुषधर्म एवं जातीयकः। यतोऽप्रकरणेऽयमाम्नातः प्रकरणाधीताद्धर्माद्विशिष्यते। नचाहवनीये जुह्वतीति होमानुवादेनाहवनीयविधानवत्क्रत्वनुवादेन धारणं विहितं, येन साक्षाद्वाक्येन क्रतुसंबन्धि भवेत्। नाप्यव्यभिचारिक्रतुसंबन्धाश्रयद्वारा वाक्यात्पर्णमयी तावत्क्रतुमुपनिपतेत्; सुवर्णधारणस्य लोकेऽपि विद्यमानत्वेन क्रत्वव्यभिचाराभावात्। तस्माद्विनियोगभङ्गेन हिरण्यसाधनकं धारणं वाक्यशेषगतफलाय विधीयते इति पुरुषधर्म इति। एवमिहाप्यात्मसाधनकदर्शनेनामृतत्वं भावयेदिति विधानात् प्रधानकर्मतैवेति। अपूर्वं विषयो जन्यमस्येत्यपूर्वविषयम्। न केवलम् इक्षुक्षीरादिरसविशेष एवानभिधेयः प्रतीयते, अपि तु सर्ववाक्यार्थोपि । तथा सति ब्रह्माप्यनभिधेयमेव वेदान्ततात्पर्यगम्यमित्याह –

एवमन्यत्रापीति।

गामानयेति हि वाक्ये गवानयनकर्तव्यतार्थः, सोऽपि साधारण इति न विवक्षितगवानयनं वक्ति वाक्यं, प्रकरणादिवशेन त्वर्थात्तत्सिद्धिरिति। अदूरविप्रकर्षेणेति। साक्षादनभिधानादस्ति विप्रकर्षः। स चादूरे वस्तुगतधर्मपरामर्शद्वारा वस्तुविशेषस्य लक्षणया प्रतिपादनादिति प्रत्यगात्मत्वेनाविषयतया प्रतिपादयति। भाष्यं व्याचक्षाणो वेदान्तानामदूरविप्रकर्षेण वस्तुबोधकत्वमुपपादयति – त्वंपदार्थोहीति। व्याप्नोतीति। यत्तदविद्याविलसितमित्यर्थः। तत् तत्र सतीत्यर्थः। अविषयीभूतोदासीनतत्पदार्थस्य प्रत्यगात्मनश्च तत्त्वमसीति सामानाधिकरण्येनास्य संसारिणः प्रमातृत्वाभावात्तन्निवृत्तो प्रमित्या प्रमेयं व्याप्नोतीत्येवंभावस्य निवृत्तौ त्रयः प्रकारा निवर्तन्त इत्यर्थः।

विगलितेति।

विगलिता पराक्त्वेन वृत्तिर्वर्तनं यस्य स विगलितपराग्वृत्तिस्तादृशः प्रत्यक्त्वमापन्नो ऽर्थो यस्य तद्विगलितपराग्वृत्त्यर्थं तस्य भावस्तत्त्वमेतत्।

तदः

=तत्पदस्य। तदा काले भवति ।कदेत्यत आह –

त्वमिति

हीति।

तदा

तत्पदेन । एकार्थस्यैव व्याख्या विशुद्धेति । आन्तरश्लोकः– मध्यश्लोकः। परपक्षे इति। साध्यश्चेन्मोक्षोऽ भ्युपगम्येतानित्य एव स्यादिति भाष्येणापादितैवानित्यताऽनूद्यते, नित्येऽपि मोक्षेऽविद्यानिवृत्तिसंस्कारः कर्मसाध्य इति पक्षप्रतिक्षेपेणानित्यत्वं स्थापयितुमित्यर्थः। उपवेलं वेलायाः समीपे, विकृतः। तत्र हेतुः –

अतिबहुलेति।

समुल्लसन्तः फेनपुञ्जस्तबका यस्य तस्य भावस्तत्ता। पोतेन दीव्यति व्यवहरतीति पौतिकः। अशुद्धिर्ब्रह्मणि सती, उतासती। प्रथमस्तु भिन्नाभिन्नविकल्पनाभ्यां निरसनीयः। चरमं निरस्यति –

त्विति।

अनाद्यविद्यामलेति।

शङ्कितुर्वास्तव्यविद्याऽभिमतेति। ननु नित्यशुद्धत्वादात्मनि न हेयत्वसंभव इत्युक्ते कथं शङ्काऽत आह –

एतदुक्तमिति।

ब्रह्मणि नाविद्या, किंतु जीवे; सा चानिर्वाच्येत्युक्तमध्यासभाष्ये । तथाविधा च ज्ञाननिरस्येत्युपास्तिर्विफलेत्यर्थः। निघर्षणव्याख्यानम् –

इष्टकेति।

एतच्च धात्वर्थः संयोगविभागावेवेति मतमाश्रित्य।

अन्याश्रयात्विति ।

यद्यपि स्पन्दरूपा भावना चैत्राश्रिता दर्पणस्योपकरोति; तथापि संयोगविभागाख्यधात्वर्थद्वारा तौ च नात्मनीत्यर्थः। संयोगविभागातिरिक्तधात्वर्तपक्षेऽपि समानं, धात्वर्थस्य संयोगविभागद्वारातिशयजनकत्वात्। नचात्मनि क्रियाजन्यातिशयसंभव इति। तदा तच्छब्देन, बाध्येरन्नित्युक्तं बाधनं परामृशति, तद् अव्यवहितम्। अनित्यत्वमात्मनः प्रसज्येतेत्युक्तं त्वनित्यत्वं व्यवहितमिति। ननु देहादावहंविभ्रमवत एव संस्कार्यत्वमिति कथम्, स्वत एव किं न स्यात्? अत आह –

अनाद्यनिर्वाच्येति।

ननु नाविद्यामात्रोपहिते सुषुप्तवद्व्यवहारसिद्धिरत आह –

स्थूलेति।

स्थूलसूक्ष्माणि च तानि यथाक्रमं शरीरेन्द्रियाणि । आदिशब्दात्प्राणादयः। संहतत्वमपि न तटस्थत्वेन तत्संयोगित्वं, किंतु तत्र प्रविष्टत्वमित्याह – तत्संघातेति। प्रवेशोऽपि न भेदेन प्रतिभासमानत्वेन, किंतु ऎक्याध्यासेनेत्याह –

तदभेदेनिति।

अङ्गरागश्चन्दनादिः। फलितमाह –

तेनेति।

देहादावैक्येनाध्यस्ते आत्मनि क्रियाऽरोप्यते, तज्जन्यसंस्कारश्च अतो नान्याश्रितक्रियाफलभाक्त्वमन्यस्येति न व्यभिचार इत्यर्थः। आरोपितसंस्कारान्न फलभाक्त्वमिति शङ्कामहम्प्रत्ययस्य रूप्याद्यध्यासवैलक्षण्येन परिहरति –

सांव्यवहारिकेति।

स्रु प्रस्रवणे इति धातुमभिप्रेत्याह –

अविगलितमिति ।

क्रियानुप्रवेशद्वारान्तरं मोक्षे भवत्विति शङ्कायां भाष्ये तदभावप्रतिज्ञैव भाति, न हेतुरित्याशङ्क्याह –

एतदुक्तमिति।

न च विदिक्रियाविषयत्वेनेति भाष्ये ज्ञानाविषयत्वस्योक्तत्वात्पुनः शङ्कोत्तरे व्यर्थे इत्याशङ्क्य परिहारान्तराभिप्रायतामाह –

अयमर्थ

इत्यादिना। यदवादि पूर्वपक्षे ज्ञानस्य भावार्थत्वाद् विधेयत्वमिति तत्र क्रियात्वमभ्युपेत्य विधेयत्वं निराक्रियत इत्याह –

सत्यमिति।

वस्तुतो विदिक्रियायाः कर्मभावानुपपत्तेरित्यर्थः। औपाधिकं तु कर्मत्वमनिष्टं नियोगवादिनाम्। यदा तु ज्ञानं क्रियैव न भवतीत्येवंपरतया भाष्यं व्याख्यायते, तदा पचतीतिवज्जानातीति पूर्वापरीभावप्रसिद्धिर्दुश्चिकित्सा स्यादिति। वैलक्षण्यान्तरमिति। ज्ञेयवैलक्षण्यं प्रागुक्तमिदानीं ज्ञानस्याविधेयत्वं वैलक्षण्यमुच्यत इति। यत्र विषये या वस्त्वनपेक्षा चोद्यते तत्र सा क्रियेति तच्छब्दाध्याहारेण योजयितुं यत्रशब्दार्थमाह –

यत्र

विषये इति। ध्यानयस्य वस्त्वनपेक्षामुक्त्वा पुरुषेच्छाधीनत्वमुपपादयति –

नहि

यस्यै इति। वषट् करिष्यन् – होता। विध्यर्थानुष्ठानात्प्राक् प्रमाणवशाध्द्याने न सिद्ध्यति, ततः पुरुषेच्छावशवर्तीति। शब्दज्ञानाभ्यासो वा तस्यैव साक्षात्कारपर्यन्तता पुरुषेच्छाधीनेत्याशङ्क्याह

– नचेति।

उपासनायाः साक्षात्कारेऽ नुभवपर्यन्तताशब्दोक्तसाक्षात्कारस्याविद्यापनये प्राप्तत्वादित्यर्थः। क्रियायाः क्वचिद्वस्तुस्वरूपविरोधित्वं प्रमाणज्ञानाद्वैलक्षण्यमाह—क्वचिद्वस्तुस्वरूपविरोधिनीति।

वस्तुतन्त्रत्वमपाकरोतीति।

अनेन ‘ज्ञानमेव तन्न क्रिया’ इति भाष्ये क्रियाशब्देन क्रियागतमवस्तुतन्त्रत्वं लक्षयित्वा प्रतिषिध्यत इति व्याख्यातम्। अतएव हि भाष्यकारो ब्रह्मज्ञानं न चोदनातन्त्रमिति दार्ष्टान्तिके चोदनातन्त्रत्वं प्रतिषेधति, न ब्रवीति न क्रियेति। अतः क्रियात्वमभ्युपेत्य ज्ञाने विधेयत्वं न मृष्यत इति गम्यते।

सांप्रदायिकं

= गुरुमुखाद्ध्ययनादि।

विधिः–

कार्यं विषयो येषां ते विधिविषयाः। यः समर्थः शक्तः स कर्ता, यः कर्ता स कर्मण्यधिकृतः स्वामी, योऽ धिकृतः स नियोगं स्वकीयतया बुद्ध्यमानो नियोज्यः, स च तत्रैव वर्णितरूपे विषये भवति, तस्मिन्नसति न भवतीत्यर्थः। उक्तविषयत्वस्य श्रवणादावभावमाह –

नचैवमिति।

श्रवणं हि ब्रह्मात्मनि तत्त्वमसिवाक्यस्य तच्छब्दश्रुत्यादिपर्यालोचनया तात्पर्यावगमः; अस्य च विषयविशेषावच्छिन्नप्रत्ययस्यानवगमे तत्कर्तव्यत्वबोधायोगात्, अवगमे च श्रवणस्यैव जातत्वात्पुनः कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वात्। एवं मननस्यापि विषयविशेषनियतयुक्त्यालोचनस्यानवगतस्य कर्तुमशक्यत्वादिति। उपासनस्यापि यथाश्रवणमननं प्रत्ययावृत्तेरवगमे द्वित्रिवारावृत्तेरवश्यंभावाद्विधित्सितार्थस्य ज्ञातस्य न पुनः कर्तव्यत्वं, दर्शनस्य त्वशक्यत्वं स्फुटमिति। अन्यतः प्राप्ता इति। दर्शनार्थं कर्तव्यत्वेनान्वयव्यतिरेकावगतान् श्रवणादीननुवदन्ति वचांसि तद्गतप्राशस्त्यलक्षणया तेषु रुचिमुत्पाद्यानात्मचिन्तायामरुचिं कुर्वन्ति, प्रवृत्त्यतिशयं जनयन्तीत्यर्थः।

प्रकृतसिद्ध्यर्थं

=सिद्धे वस्तुनि वेदान्तप्रामाण्यसिद्ध्यर्थं। सिद्धे वस्तुनि सङ्गतिग्रहविरहादि दूषयितुमित्यर्थः। उपनिषदां सिद्धबोधकत्वे आक्षिप्ते पुरुषस्योपनिषद्गम्यत्वसिद्धवत्कारो भाष्येऽनुपपन्न इत्याशङ्क्य तदुपयोगिन्यायः सामर्थ्याद्दपोतित इत्याह –

इदमत्रेति।

परनरवर्तिशब्दार्थावबोधलिङ्गस्य प्रवृत्तेः सिद्धवस्तुन्यसंभवान्न व्युत्पत्तिरित्युक्तम् –

अज्ञातसङ्गतित्वेनेति।

तत्राह –

कार्यबोधे

इति । यदुक्तमर्थवत्तयेति तत्सिद्धपुत्रजन्मादिबोधेऽपि हर्षादिप्रयोजनलाभान्न शब्दानां कार्यपरत्वं नियच्छतीत्याह –

अर्थवत्तैवमिति।

आखण्डलादीनाम्

इन्द्रादीनाम्।

चक्रवालं

समूहः।

धौतानि

शोधितानि।

कलधौतमयानि

सौवर्णानि

शिलातलानि यस्य स तथा।

प्रमदवनानि

प्रमदाभिः सह नृपाणां क्रीडावनानि, तेषु विहारिणां संचरणशीलानां ।

मणिमयशकुन्तानां

रत्नमयपक्षिणां।

निनदः

शब्दः। अभ्यर्णं निकटम्। प्रतिपन्नं जनकस्य पितुरानन्दनिबन्धनं पुत्रजन्म येन स ततोक्तः। सिन्दूररञ्जितपुत्रपदाङ्कितः पटः पटवासः स एवोपायनमुपहारो लाटानां प्रसिद्धः। महोत्पलं पद्मम्। अर्थवेत्तैवमिति श्लोकभागं व्याचष्टे –

तथाचेति।

अनेन सिद्धस्याप्यप्रतिपित्सितत्वाप्रतिपिपादयिषितत्वे प्रयुक्ते। शास्त्रत्वं हितशासनाद् इत्येतव्द्याचष्टे –

एवंचेति।

प्रवृत्तिनिवृत्त्याश्रवणं हि शास्त्रे पुरुषार्थाय, तं तु वेदान्तान्तरेणाप्यायासं ज्ञानादेवानयन्तीति भवन्तितरां शास्त्राणीत्यर्थः।

तत्सिद्धमिति।

तच्छब्देन तस्मादर्थेन सिद्धशब्दव्युत्पत्त्यादि परामृशता वक्ष्यमाणहेतोरसिद्धिरुद्धृता। ज्योतिष्टोमादिवाक्ये बाधं परिहरति –

विवादेति।

भूतार्थविषयाणीति। न कार्यविषयाणीत्यर्थः; इतरथा भूतार्थप्रतीतिमात्रजनकत्वसाधने सिद्धसाधनात्, प्रमितिजनकत्वस्य साधने हेतोः साध्यसमतापातात्। यत्तच्छब्दावपि प्रस्तुतभूतार्थं परामृशतः। उपोपसर्गः सामीप्यार्थमाह। नीत्ययं निश्चयार्थः। सदेरर्थमाह –

सवासनामिति।

वस्त्वक्रियाशेषं वेदान्तविषयं दर्शयितुं भाष्ये विशेषणानि प्रयुक्तानि व्याचष्टे –

अहंप्रत्ययेत्यादिना।

भाष्ये ‘असंसारि’ इति त्वंपदलक्ष्यनिर्देशः, ब्रह्मेति तस्य ब्रह्मत्वमुक्तम्।

क्रियारहितत्वसंसारित्वं ।

व्यवहितमप्यनन्यशेषत्वमुत्पाद्याद्यभावे हेतुत्वेन संबन्धयति –

अतश्चेति।

उत्पत्त्यादिभिराप्यं साध्यम्। सक्तवो हि प्राड् न विनियुक्ताः। न च होमेन भस्मशेषा उपयोक्ष्यन्ते, अतो न संस्कार्या इति विनियोगभङ्गेन होमप्राधान्यमिति। अनन्यशेषत्वे स्वप्रकरणस्थत्वं हेतुत्वेन योजयति –

कस्मादिति।

एवं सिद्धार्थव्युत्पत्तिसमर्थनेनोपनिषदां ब्रह्मात्मैक्ये प्रामाण्यमुक्तम्, इदानीं भवत्वन्यत्र सिद्धे पुत्रजन्मादौ सङ्गतिग्रहः, न ब्रह्माणि; अविषयत्वात्; अतो न तत्रोपनिषत्प्रामाण्यमित्याशङ्क्य तत्परिहारपरत्वेन भाष्यमवतारयति –

स्यादेतदित्यादिना।

स्वयंप्रकाशत्वेन स्फुरत्यात्मनि समारोपितदृश्यनिषेधेन लक्षणया शक्यं शास्त्रेण निरूपणमिति भाष्याभिप्रायमाह –

यद्यपीत्यादिना।

ननु प्रमाणान्तरमिति तथाविधस्य निषेधात्कथमात्मन्युपाधिनिषेधद्वारा लक्षणाऽत आह –

नहि

प्रकाश इति। भासमाने भासमानं निषेध्यमित्येतावत्, नतु मानेन भासमाने इति, वैयर्थ्यात्, तदिह स्वतो भात्यात्मनि तत्साक्षिक उपाधिः शक्यनिषेध इति तदवच्छेदकोऽपि न न भासत इत्यन्वयः। न केवलं निषेधमुखेनैवाविषयनिरूपणम्, अपि त्वात्मादिपदैरपि व्याप्त्याद्यभिधानमुखेन परिच्छेदाभावोपलक्षितस्वप्रभ अत्मा लक्षणीयः, स चात्मपदयुक्तात् ‘‘नेति’’ वाक्यादात्मेति निरूप्यते, ब्रह्मपदयुक्ताच्चायमात्मा ब्रह्मेत्यादेर्ब्रह्मेति निरूप्यत इत्याह –

तेनेति।

इतिरिदमर्थे, य आत्मा इदं न इदं नेति चतुर्थे व्याख्यातः। स एष पञ्चमाध्याये निरूप्यत इत्यर्थः। न केवलमधिष्ठानत्वेन प्रपञ्चसत्ताप्रदत्वादात्मसत्यता, अपि तु तत्स्फुरणप्रदत्वाच्चेत्याह –

अपिचेति।

संस्कार्यत्वनिरासप्रस्तावे ‘साक्षी चेता’ इति मन्त्रोदाहरणेन प्रत्युक्तत्वादिति भाष्यार्थः। नह्यहंप्रत्ययविषयेत्यादिभाष्यमात्मनोऽनधिगतत्वेनौपनिषदत्वोपपादनार्थं, तदवतारयति –

एतदेवेति।

भाष्ये तत्साक्षीति विधिकाण्डानधिगतत्वमुक्तम्। सर्वभूतस्थत्वेन बौद्धसमयानधिगतिः। विनश्यत्सु सर्वेषु भूतेषु स्थितो न विनश्यतीत्यर्थः। सावयव आत्मेति विवसनसमयानधिगतिः। समत्वेन जीवोत्पत्तिवादिपञ्चरात्रतन्त्रानधिगतिः। कूटस्थनित्यत्वेन काणादादितर्कानधिगतिः। एकः सर्वस्यात्मेति वर्णितः, अन्यतोऽनधिगतिमुक्त्वा बाधाभाव उक्तः। अत इति। अधिगते हि बाधो नानधिगत इत्यर्थः। अथवा सर्वस्यात्मत्वेन प्रत्याख्यातुं न शक्यं , औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति भाष्यं ‘तद्योसावुपनिषत्स्वित्यादिना विवृतं । पुनरभिहितविशेषणस्यात्मनोऽहंप्रत्ययविरोधमाशङ्क्य तन्मिथ्यात्वेनौपनिषदत्वं विवृतम्। अनन्यशेषत्वविवरणाय विधिशेषत्वं वेति भाष्यं तदनुषङ्गेण व्याचष्टे –

शक्य इति। विध्यशेषत्वे आत्मत्वादिति हेतुं व्याचष्टे –

कुत

इत्यादिना । मा भूद्विधेयकर्मशेषत्वेन विधिविषयत्वमात्मनः, स्वत एव विधीयतां निषिध्यतां चेत्याशङ्कामपनेतुं न हेय इति भाष्यम्, तत्रापि हेतुत्वेनात्मत्वादित्येतद्योजयति –

अपिचेति।

अनन्यशेषत्वे स्वतो विधेयत्वाभावे चात्मत्वं हेतुरिति ‘अपिच’ शब्दार्थः।

अत

इति। भाष्येक्तादेव हेतोरित्यर्थः। तमेवाह –

सर्वेषामिति।

ननु घटादिविनाशस्य मृदादौ दर्शनात्कथं पुरुषावधिः सर्वस्य लयोऽत आह –

पुरुषो

हीति। कल्पितस्याधिष्ठानत्वायोगादात्मतत्त्वमेव तत्तदवच्छिन्नमनिर्वाच्यविश्वोदयाप्ययहेतुरित्यर्थः। ननु पुरुषोऽप्यनिर्वाच्य इति नेत्याह –

पुरुषस्त्विति।

अनन्तोऽनवधिः।

विकारो नास्तीत्युक्तं भेदाभेदविचारे। धर्मान्यथात्वविक्रियाया अभावमुक्त्वा तद्धेत्वभावमप्याह –

अपिचेति।

भाष्ये – यत एव धर्मान्यथात्वाभावोऽतएव नित्यशुद्धादिस्वभावः। पुरुषावधिः सर्वस्य लय इत्यत्र श्रुतिमाह –

तस्मात्पुरुषादिति।

कल्पितस्याकल्पितमधिष्ठानमित्युक्तयुक्तिपरामर्शी तस्माच्छब्दः। निरतिशयस्वतन्त्रतया विधिशेषत्वाभावे श्रुतिमुदाहृत्य मानान्तरागम्यतया वेदान्तैकवेद्यत्वे श्रुतिमुदाहरति –

तं

त्वेति। तस्य वेदस्येत्यर्थः। ननु तर्हि धर्मावबोधनमिति वक्तव्यं, तत्राह –

धर्मस्य

चेति। ननु प्रतिषेधानामनुष्ठेयाबोधकत्वात्कथं कर्मावबोधप्रयोजनताऽत आह –

प्रतिषिध्यमानेति।

शाबरवचनवदाम्नायस्येति( जै.अ.१.पा.२.सू.१) सूत्रे आम्नायशब्दो विधिनिषेधपर इति सिध्यति। विकल्पमुखेन परिहारान्तरं चाह –

अपिचेति।

द्रव्यगुणकर्मणां तच्छब्दानामित्यर्थः। क्रियार्थत्वादित्यत्रानर्थक्यमित्यत्र चार्थशब्दोऽभिधेयपरः, प्रयोजनपरो वेति विकल्प्याद्यं निरस्य द्वितीयं निरस्यति –

यद्युच्येतेत्यादिना।

ननु चोदना हि भूतं भवन्तं भविष्यन्तमित्येवंजातीयकं शक्नोत्यवगमयितुमिति शाबरवचसि विधिवाक्यस्य भूतादिबोधिता भाति, न द्रव्यादिशब्दानां क्रियाप्रयोजनताऽ त आह –

कार्यमर्थमिति।

कार्यान्वितभूतबोधित्वे विधिवाक्यस्य कथं तन्न्यायेन ब्रह्मवाक्येष्वक्रियाशेषभूतवस्तुबोधित्वसिद्धिरत आह –

अयमभिसंधिरिति।

कार्यान्वितबोधित्वनियमः शब्दानां किं व्युत्पत्तिबलादुत प्रयोजनार्थम्। तत्र केवलभूतवस्त्ववगमादपि प्रयोजनसिद्धिमुत्तरत्र वक्ष्यति। न तावद्व्युत्पत्तिबलादित्याह –

तावदिति। कार्यार्थे कार्यशेषे। ननु कार्यान्वितपरत्वनियमाभावे पदानामतिलाघवायान्वितपरत्वमपि त्यज्यतामत आह –

नापीति।

तत्किमिदानीं विशिष्टे पदशक्तिर्नेत्याह –

स्वार्थमिति।

अयमभिसंधिः – पदैः पदार्था एवाभिधीयन्ते अर्थान्तरान्विततया उपलक्ष्यन्ते; अन्यथा स्वरूपमात्रातिरेकिविशिष्टाभिधाने गौरवं स्यात्। ननु –अभिहितार्थस्वरूपाणां विशिष्टैरनविनाभावात्कथं लक्षणा? नहि गवार्थस्यानयत्यन्वयाविनाभावः, चारयतिनाप्यन्वयात्, नचार्थान्तरमात्रान्वयो लक्ष्यः; तस्य व्यवहारानुपयोगात् इति – चेन्न; अनविनाभाविभिरपि मञ्चैः पुरुषलक्षणात्। ननु – मा भूदनविनाभावनियमः, तथापि वाच्यस्य लक्ष्येण संबन्धो वाक्यार्थे चानन्वयो वाच्यः, मञ्चा हि संबद्धाः पुंभिर्न च वाक्यार्थेऽन्वीयन्ते, यथाह शालिकनाथः – ‘वाच्यार्थस्य च वाक्यार्थे संसर्गानुपपत्तितः। तत्संबन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते॥‘ इति। तदिह गामानयेत्यादौ न श्रौतार्थस्य वाक्यार्थेनानन्वयः , नाप्यन्वितस्य लक्ष्यस्यास्त्यभिधेयेन संबन्धः अन्वितस्यान्वयान्तराभावात्, तत इह न लक्षणा इति। अत्रोच्यते; मुख्यार्थपरिग्रहेऽनुपपत्तिस्तावल्लक्षणाया निदानं, तत्र यथा पदेन पदार्थलक्षणायां वाच्यार्थस्य वाक्यार्थे संबन्धानुपपत्तिः, एवं वाक्यार्थप्रत्ययोद्देशेन प्रत्युक्तस्य पदवृन्दस्य येऽभिधेया अनन्वितपदार्थास्तेषां वाक्यार्थीभावानुपपत्तिरेवान्विलक्षणाया निदानम्। नचान्वितरूपस्याभिधेयस्वरूपेण संबन्धानुपपत्तिः; विशिष्टस्वरूपयोस्तादात्म्यस्य कस्यापि स्वीकारात्। नन्वेवमपि – अभिहितार्थैरर्थान्तरान्वितलक्षणायां कथं नियमः? अर्थान्तराणामानन्त्यात्, तदुच्यते –

‘आकाङ्क्षासत्तियोग्यत्वसहितार्थान्तरान्वितान्।

पदानि लक्षयन्त्यर्थानिति नातिप्रसङ्गिता॥‘ प्रयोगस्तु गोपदं, गामानयेति वाक्येनानयत्यन्वितगोत्ववाचकम्, पदत्वात्, तुरगपदवदिति। एतत्सर्वमाह –

एकेति।

एकप्रयोजनसिध्द्युपयोगित्वं हि पदार्थानामितरेतरवैशिष्ट्यमन्तरेण न घटतेऽतः प्रयोजनवत्त्वायैकवाक्यत्वाय च लक्षणयाऽन्वितपरत्वं पदानां वाच्यमित्यर्थः। ननु विशिष्टानामप्यर्थानां भेदात्कथमेकवाक्यता? अत आह –

तथाचेति।

गुणभूतनानापदार्थविशिष्टप्रधानार्थस्यैक्यादेकवाक्यत्वमित्यर्थः। पदानामनन्वितार्थपर्यवसानेऽ न्वितपर्यवसाने च भट्टसंमतिमाह –

यथाहुरिति।

यदा लक्षणया योग्येतरान्वितपरत्वं पदानां, पदार्थानां च लक्षणायां द्वारत्वेन तत्परत्वं, तदा वेदान्तानां कार्यानन्वितब्रह्मपरत्वोपपत्तिरित्याह –

एवचं

सतीति। भाव्यार्थत्वेनेतिभाष्ये भव्यशब्दो भवनकर्तृवचनत्वादुत्पाद्यमात्रपरो मा भूदित्याह – भव्यमिति। भाष्ये भूतस्य क्रियात्वप्रतिषेधस्य प्रसक्तिमाह –

नन्विति।

भव्यसंसर्गिणा रूपेण भूतमपि भव्यमित्यत्र किं कार्यं भव्यं? उत क्रिया? उभाभ्यामपि भूतार्थस्य नैक्यमित्याह –

न तादात्म्येति।

कार्यं हि साध्यतया प्रयोजनं, भूतं साधकतया प्रयोजनीति। प्रवृत्तिनिवृत्तिव्यतिरेकेणेत्यादिभाष्येण कार्यान्वयनियमभङ्गेन कूटस्थनित्यवस्तूपदेशस्य समर्थितत्वेऽपि कार्यान्विते व्युत्पत्तिनियममभ्युपेत्यापि परिहारान्तरं वक्तुमुक्तशङ्कामनुवदतीत्याह –

शङ्कत

इति। अङ्गीकृते कार्यान्वितव्युत्पत्तिनियमे कूटस्थनित्योपदेशानुपपत्तिरित्याह – एवंचेति। भवतु कार्यान्विते भूते सङ्गतिग्रहः, तथापि स्वरूपं तत्र प्रतीयत एव; विशिष्टेऽपि स्वरूपसद्भावात्, ततः किमत आह –

तथाचेति।

स्वनिष्ठभूतविषया इति। कार्यानन्वितभूतविषया इत्यर्थः, नत्वनन्वितविषयत्वमेव; अन्विते पदातात्पर्यस्य समर्थितत्वात्। ते च वक्ष्यमाणोदाहरणेषु दृश्यमाना नाध्याहारादिभिः क्लेशेनान्यथयितव्या इत्यर्थः। स्यादेतत् – कार्यान्विते गृहीतसङ्गतेः पदस्य कथं शुद्धसिद्धाभिधायिता? नहि गोत्वे गृहीतशक्ति गोपदमभिदधाति तुरगत्वमत आह –

हीति। एवं मन्मते कार्यान्वयो न शब्दार्थः, किंतूपाधिः। तथाहि – कर्तव्यतातदभावावगमाधीनत्वात् प्रवृत्तिनिवृत्त्योः, प्रवृत्तिनिवृत्तिसाध्यत्वात्प्रयोजनस्य, तदधीनत्वाच्च विवक्षाप्रयोगयोः, प्रयोगाधीनत्वाच्च वाक्यार्थप्रतिपत्तिव्युत्पत्त्योः, विवक्षादिवत्कार्यान्वयस्यापि शब्दार्थावगत्युपायतावगम्यते, अतो विरहय्यापि कार्यान्वयं प्रयोगभेदे भवति भूतं वस्तु पदवाच्यम्; कथमपरथा भवतां प्रमाणान्तरगृहीतकार्यान्वितगृहीतसङ्गतिकपदवृन्दस्य वेदेऽपूर्वान्विताभिधायिता? तदिदमुक्तम् – ‘‘उपहितं शतशो दृष्टमपि तदेव क्वचिदनुपहितं यदि दृष्टं भवति, तदा तददृष्टं नहि भवति, किंतु दृष्टमेव भवतीति’’। अटवीवर्णकादय इति। तद्यथा – अस्ति किल ब्रह्मगिरिनामा गिरिवरः। ‘त्रैयम्बकजटाजूटकलनाय विनिर्मिता। पाण्डुरेव पटी भाति यत्र गोदावरी नदी॥‘ यस्य च – ‘सकुसुमफलचूतरुद्धघर्मद्युतिकरपातवनालिषूपजाते। तमसि हरकिरीटचन्द्रनुन्ने धवमनिशा इव भान्ति वासराणि॥‘ इत्यादय इति। क्रियानिष्ठा इति। अकारप्रश्लेषः । अभ्युपेत्य कार्यान्वयनियमं पर्यहार्षीत्, इदानीमभ्युपगमं त्यजति – उपपादिता चेति। एवं तावद्व्युत्पत्तिविरोधं परिहृत्य निष्प्रयोजनत्वचोद्यमुद्भाव्य परिहरति – यदि नामेत्यादिना। समुच्चयासंभवादप्यर्थश्चकारः शङ्काद्योती, तामेवाह – यद्यपीति। एवं तावद्द्रव्यगुणादिशब्दानां विधिवाक्यगतानां केवलभूतार्थतामापाद्य तद्वद्ब्रह्मापि शब्दगोचर इत्युक्तम्, इदानीं तु निषेधवाक्यवद्वेदान्ताः सिद्धपरा इत्याह – अपिचेत्यादिना। यत्र कृतिस्तत्रैव कार्यम्, निषेधेषु कृतिनिवृत्तौ तद्व्याप्तं कार्यं निवर्तत इत्युक्त्वा कृतेरपि तद्व्यापकधात्वर्थनिवृत्त्या निवृत्तिमाह – कृतिर्हीत्यादिना। न घटवत्प्रतिक्षणं समाप्तः, किंतु पचतीतिवत्पूर्वापरीभूतः। सच भवत्यादाविव नात्मलाभः, किंतु कर्तुरन्यस्योत्पाद्यस्यौदनादेरुत्पादनायामनुकूलः प्रयत्नविषयः। तत्र हेतुमाह – साध्येति। न द्रव्यगुणौ कृतिविषयावित्यत्र हेतुः –

साक्ष्यादिति।

तत्रापि तदुत्पादनानुकूलो व्यापारः कृतिविषय इत्यर्थः। भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते (जै.अ.२.पा.१.सू.१) इति द्वितीयगतमधिकरणम्। अत्र गुरुमतेनार्थं संकलयति – द्रव्येति। अत्रावमर्शेऽपीत्यन्तः पूर्वः पक्षः। अयमर्थः – पदस्मारितानन्वितार्थेषु निमित्तेषु भावान्वितावस्था नैमित्तिकी, तस्यामस्ति सिद्धयोरपि द्रव्यगुणयोः क्रियान्वयेन साध्यता, अतो द्रव्यगुणभावार्थवाचकशब्दानामविशेषेण साध्यार्थवाचकत्वात्साध्यार्थविषयत्वाच्च नियोगस्याविशेषेण नियोगविषयसमर्पकत्वमिति॥ राद्धान्तमाह –

भावस्येति।

भावशब्दस्येत्यर्थः। कार्यावमर्श इत्यनुषङ्गः। भावशब्दो हि स्वत एव साध्यरूपां क्रियामवमृशति, द्रव्यादिशब्दास्तु क्रियायोगद्वारा द्रव्यादीन्साध्यतयाऽवमृशन्ति। किमित्यत आह –

भावार्थेभ्य

इति। नियोगो हि साक्षात्कृतेरविषयः संस्ताद्विषयत्वाय स्वावच्छेदकत्वेन साक्षात्साध्यस्वभावं भावार्थमाकाङ्क्षति। तल्लाभे च न क्रियायोगद्वारा साध्यस्य द्रव्यादेस्तद्विषयता युक्ता। अतो भावार्थशब्देभ्य एव यजतीत्यादिभ्यो विषयविशिष्टाऽपूर्वाधिगतिरिति भावनावाचिभ्योऽ पि भावो भावनेत्यादिभ्यो नापूर्वाधिगतिरिति कर्मशब्दा इत्युक्तम्। क्रत्वर्थवाचिभ्यः कर्मशब्देभ्योऽपि याग इत्यादिभ्यो नैवापूर्वाधिगतिरिति भावार्था इत्युक्तम्। अतो धात्वर्थोपरक्ताभावना येषु भाति यजेतेत्यादिषु तेभ्योऽपूर्वं प्रतीयेतैष हि भावनासाध्योऽपूर्वलक्षणोऽ र्थो विधीयत इति सूत्रार्थः। ननु द्रव्यगुणौ विधीयेते दधिसान्तत्ये, तत्र तयोरेव कार्यावच्छेदकता, अत आह –

चदध्नेति। आघारः क्षारणम्। सान्तत्यमविच्छिन्नत्वम्। यदि दध्यादावपि भावार्थो विधेयः, तर्हि न्यायविरोध इत्याशङ्क्याह –

नचैतावतेति।

ज्योतिष्टोमे श्रूयते – ‘सोमेन यजेते’ति। तथा ‘ऎन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णाती’ति। तत्र संशयः – किमैन्द्रवायवादिवाक्ये विहितानां सोमरसानां यागानां च यथाक्रमं सोमेन यजेतेति सोमयागशब्दावनुवदितारौ, उत द्रव्ययुक्तस्य कर्मणो विधाताराविति॥ तत्रैन्द्रवायवादिवाक्येषु द्रव्यदेवताख्यरूपप्रतीतेर्यागानुमानादितरत्र रूपाप्रतीतेः समुदायानुवाद इति प्राप्ते – द्वितीये (जै.अ.२.पा.२.सू.१७ – २०) राद्धान्तितम्, नानुवादत्वं अप्रत्यभिज्ञानात्। लतावचनो हि सोमशब्दो न रसवचनः, ऐन्द्रवायवादिशब्दास्तु रसानभिदधतीति न तदनुवादी सोमशब्दः। न च यजेतेति प्रत्यक्षे यागे तदनुमा, अतः प्राप्त्यभावान्न यजिरप्यनुवादी। तस्मात्सोमवाक्ये यागविधिरितरत्र रसानमिन्द्रादिदेवताभ्यो ग्रहणान्युपकल्पनानि विधीयन्त इति।। एवं यथा सोमेनेति वाक्ये विशिष्टविधिः, एवं दधिसान्तत्यादिवाक्यानि यदि द्रव्यगुणविशिष्टहोमाघारविधायीनि, तर्हि अग्निहोत्राघारवाक्ये तद्विहितहोमानामाघाराणां च समुदायावनुवदेतां, तथाचाधिकरणान्तरविरोध इति शङ्का॥ तथाहि द्वितीये स्थितम् – आघाराग्निहोत्रमरूपत्वात्(जै.अ.२.पा.२.सू.१३)। ‘आघारमाघारयत्यूर्ध्वमाघारयति’ ‘सन्ततमाघारयति’ । तथा ‘अग्निहोत्रं जुहोति’ ‘दध्ना जुहोति’ ‘पयसा जुहोतीति’ श्रूयते। तत्र संशयः – किं सन्ततदध्यादिवाक्यविहितानामाघारहोमानामाघाराग्निहोत्रवाक्ये सुमुदायानुवादिनी, उतापूर्वयोराघारहोमयोर्विधातृणी इति॥ तत्रानुवादिनी; अरूपत्वात्, नह्यत्र दधिसान्तत्यादिवाक्यविहितहोमाघारेभ्यो विशिष्टं रूपमस्ति, होमाघारमात्रं तु प्रकृतमुपलभ्यते, अतोऽनुवादत्वे प्राप्ते राद्धान्तः; विधी इमौ स्याताम् ; आधारयतिजुहोतिशब्दाभ्यामनुष्ठेयार्थप्रतीतेः, तत्संनिधौ श्रुतस्य सान्तत्यवाक्यस्य दध्यादिवाक्यस्य च विशिष्टविधित्वे गौरवप्रसङ्गेन तद्विहितभावार्थानुवादेन गुणविधानार्थत्वादिति॥ हन्त नैतेन विरुध्यते सान्तत्यदध्यादिवाक्ये भावार्थविषयं कार्यमित्यभ्युपगमः। अत्र हेतुमाह –

यद्यपीति।

यद्यपि सन्ततादिवाक्ये साक्षात्कृतिविषयत्वाद्भावार्थस्य तदवच्छिन्नमेव कार्यं; यद्यपि च कार्यं प्रति साक्षादविषयावनवच्छेदकौ द्रव्यगुणौ; तथापि भावार्थं प्रत्यनुबन्धतयावच्छेदकतया विधीयेते। तत्र हेतुमाह –

भावार्थो

हीति। तत्किं भावार्थो द्रव्यादिश्च विधेयः, तर्हि वाक्यभेदः, नेत्याह –

तथाचेति।

। तर्हि सन्ततादिवाक्यानि विशिष्टविधयः स्युः, स्याच्चाग्निहोत्रादिवाक्यमनुवादः, तत्राह –

एवंचेति।

यद्यप्यत्र विशिष्टविषयो विधिः प्रतीयते; तथापि भावार्थद्वारा द्रव्यादिकमपि विषयीकरोति। तत्र संक्रान्तो यदि भावार्थमन्यतो विहितं न लभेत, तर्हि गौरवमप्युररीकृत्य विशिष्टं विदधीत; अथ लभेत, तत उपपदाकृष्टशक्तिर्द्रव्यादिपरो भवत्यनुवदति तु भावार्थम्। तदाहुः – ‘सर्वत्राख्यातसंबद्धे श्रूयमाणे पदान्तरे। विधिशक्तियुपसंस्क्रान्तेः स्याद्धातोरनुवादता॥‘ इति। तदिहाग्निहोत्रादिवाक्यत एव भावार्थलाभाद्द्रव्यादिपरता। मीमांसकैकदेशिनः आग्नेय इत्यादौ द्रव्यदेवतासंबन्धो विधेय इत्याहुः। तत्रापि सिद्धस्य न विधेयत्वमित्युक्तमतिदिशति –

एतेनेति।

एकदेशी संबन्धस्य भावनाऽवच्छेदकत्वेन विधेयत्वं शङ्कते – नन्वित्यादिना। ननु यथाश्रुतभवत्यर्थ एव विधीयतां, किं संबन्धविधिनेत्याशङ्क्य भवत्यर्थस्य कर्ता सिद्धोऽसिद्धो वा। प्रथमे विधिवैयर्थ्यं, चरमे नियोज्याभावाद्विध्यभाव इत्युक्त्वा किं तर्हि विधेयमिति वीक्षायामाह –

तस्मादिति।

प्रयोज्यः

उत्पाद्यः। तद्व्यापारो हि भवनम्। तस्य हि व्यापारं भवतिधातुर्विशिनष्टि –

भवतीति।

भवनं च नोत्पादकव्यापारमन्तरेणेति भवनाविनाभूतो भावकव्यापारो विधेय इत्यर्थः। नन्वित्यादिना चोद्यच्छलेन सिद्धान्ती मीमांसकैकदेशिनं दूषयति। भवतु लक्षितभावनाया विधानं, तस्यास्तु न संबन्धो विषयः, तस्य दध्यादिवत्साक्षात्कृतिविषयत्वायोगादित्यर्थः। नन्वव्यापारोऽपि घटादिः करोत्यर्थरूपभावनाविषयो दृश्यते, अत आह –

हीति। यदि दण्डादिविषयो हस्तादिव्यापारः कृतिविषयः, तर्हि कथं घटं कुर्विति घटस्य कृतिकर्मता भात्यत आह –

घटार्थामिति।

घटविषयव्यापार एव कृतिसाध्यो घटस्तूद्देश्यतया प्रयोजनमिति कर्मत्वनिर्देश इत्यर्थः। यदि संबन्धो न विधेयस्तर्ह्याग्नेयवाक्ये किं विधेयमत आह सिद्धान्त्येव –

अतएवेति।

अत्यक्तस्य हविषो देवतासंबन्धासंभवाद्यागः संबन्धाक्षिप्तः। ननु यजेरप्यपुमर्थत्वात्कथं विधेयता? अत आह –

आग्नेयेनेति।

यागेनेत्याग्नेयपदस्य लक्ष्यनिर्देशः, भावयेदिति भवतिपदस्य। यत एवाग्नेयवाक्ये यागविधिरत एवानुवादे यजेतेति श्रुतम्; अन्यथा संबन्ध एव श्रूयेतेत्यर्थः। उक्तं द्वितीये – प्रकरणं तु पौर्णमास्यां रूपावचनात् (जै.अ.२.पा.२.सू.३)। एवं समामनन्ति ‘‘यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति’’ ‘‘उपांशुयाजमन्तरा भवति’’ ‘‘ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छत्’’ ‘‘ऐन्द्रं दध्यमावास्यायाम्’’ ‘‘ऎन्द्र पयोऽमावास्यायामि’’ति। तथा ‘‘य एवं विद्वान् पौर्णमासीं यजते’’ ‘‘य एवं विद्वानमावास्यां यजते’’ इति। तत्र संदेहः – किमिमौ यजती कर्मणोरपूर्वयोर्विधातारावुत प्रकृताग्नेयादियागानां समुदायस्यानुवदिताराविति॥ तत्राभ्यासात्कर्मान्तरविधी। न च द्रव्यदेवते न स्तः; ध्रौवाज्यस्य साधारण्यान्मान्त्रवर्णिकदेवतालाभाच्च। आज्यभागक्रमे हि चतस्त्रोऽनुवाक्याः सन्ति। द्वे आग्नेय्यौ, द्वे सौम्ये। ते च क्रमाद्बलीयसा वाक्येनाज्यभागाभ्यामपच्छिद्यानयोः कर्मणोर्विधास्येते। एवंहि समामनन्ति। ‘‘वार्त्रघ्नी पौर्णमास्यामनूच्येते’’ “वृधन्वती अमावास्यायामिति’’। वृत्रघ्नीपदवत्यौ वार्त्रघ्नी। वृधन्वत्पदवत्यौ वृधन्वती। तस्मात्कर्मान्तरविधिः; इत्येवं प्राप्ते – अभिधीयते । प्रक्रियत इति प्रकरणं प्रकृतानि कर्माणि पौर्णमास्यमावास्यासंयुक्तवाक्ययोरालम्बनम्। कुतः? रूपावचनात्। ध्रौवाज्यलाभेऽपि देवता न लभ्यते। न च मन्त्रवर्णेभ्यस्तल्लाभः; तेषां क्रमादाज्यभागशेषत्वात्। यत्तु वाक्यं बलीय इति, सत्यं; बलवदपि न क्रमस्य बाधकमविरोधात्। क्रमावगताज्यभागाङ्गभावस्यानुवाक्यायुगलद्वयस्य पौर्णमास्यमावास्याकालयोर्विभागेन प्रयोगव्यवस्थापकत्वात्। काले हीमौ शब्दौ रूढौ, न कर्मणि। कालद्वयोपहितकर्मसमुदायद्वायानुवादस्य च प्रयोजनं दर्शपूर्णमासाभ्यामित्यधिकारवाक्यगतद्वित्वोपपादनम्। तस्मात्समुदायानुवादाविति। उत्पत्त्यधिकारयोरविसंवादार्थमप्याग्नेयादिवाक्ये यागविधिरभ्युपेय इत्याह –

अतएवेति।

अत्राप्यधिकारविधौ यजेत इति दर्शनात्प्रागपि यागविधिरित्यर्थः। कृतिनिर्वर्त्यस्य धात्वर्थस्यैव नियोगावच्छेदकतेत्युपसंहरति – तस्मादिति। विधिर्नियोगः। एवं नियोगकृतिभावार्थानां व्याप्यव्यापकतामुक्त्वा व्यापकनिवृत्त्या व्याप्यनिवृत्तिनिषेधेष्वाह –

तथाचेत्यादिना।

निषेधेषु भावार्थापादनमिष्टप्रसङ्ग इत्याशङ्क्याभ्युपगमे बाधकमाह –

एवंचेति।

नामधात्वर्थयोगे हि नञः पर्युदासकता, न हन्यादित्यादौ त्वाख्यातयोगात्प्रतिषेधो भाति। तत्रानीक्षणवल्लक्ष्यः पर्युदास इत्येको दोषोऽपरश्च विधिनिषेधविभागलोप इत्यर्थः। प्रजापतिव्रतन्यायं (जै.अ.४.पा.१.सू.३ – ९) विभजते निषेधेषु तदभावाय –

नेक्षेतेति।

तत्र हि तस्य ब्रह्मचारिणो व्रतमित्यनुष्ठेयवाचिव्रतशब्दोपक्रमादेकस्मिंश्च वाक्ये प्रक्रमाधीनत्वादुपसंहारस्याख्यातयोगिना नञ प्रतीतोऽपि प्रतिषेधोऽननुष्ठेयत्वादुपेक्ष्यते। धात्वर्थयोगेन च पर्युदासो लक्षणीयः। तथा चेक्षणविरोधिनी क्रिया सामान्येन प्राप्ता तद्विशेषबुभुत्सायां च सर्वक्रियाप्रत्यासन्नः संकल्प इत्यवगतम्। ईक्ष इति तु संकल्पः ईक्षणापर्युदासेन नाद्रियते; ततोऽनीक्षणसङ्कल्पलक्षणा युक्ता, नैवं निषेधेषु संकोचकमस्तीत्यर्थः। एवं निषेधेषु भवार्थाभावमभिधाय तद्व्याप्तकृतिनियोगयोरभावमाह –

तस्मादिति।

तदयं प्रयोगः – विमतं न नियोगावच्छेदकं, अभावत्वात्संमतवदिति। क्रियाशब्द इति। विभागभाष्येऽक्रियार्थानामानर्थक्याभिधानादिह क्रियाशब्दः कार्यवचनः। अकार्यार्थानां ह्यानर्थक्यं नियोगवादिनो मतं, न भावार्थाविषयाणाम्; नियोगस्याप्यभावार्थत्वादिति। निषेधेषु भावार्थाभावान्न कार्यमित्युक्तं, तत्र हेत्वसिद्धिं शङ्कते –

स्यादेतदिति।

विधिश्रुतिसिद्धो नियोगो विषयं भावार्थमाक्षिपतु, स एव कः? न तावद्धननादिः; तस्य रागप्राप्तेः, अनुपात्तक्रियाविधौ च लक्षणाप्रसङ्गात्, अत आह –

च रागत इति। लक्षणया हननविरोधी यत्नो विधेयः, प्रयोजनलाभे च लक्षणा न दोषायेत्यर्थः। इत्याहेति। अस्यां शङ्कायामाहेत्यर्थः। व्यवहितान्वयेन व्याकुर्वन् भाष्यमुदाहरति –

नचेति।

भाष्ये नञ इति पदम् अनुरागेणेत्यधस्तनेनाप्राप्तक्रियार्थत्वमित्युपरितनेन च संबध्यते। स्वभावप्राप्तहन्त्यर्थानुरागेणेति। नेदमनुवादस्थं; तथा सति हि सर्वमेव भाष्यं प्रतिज्ञापरं स्यात् – ‘स्वभावप्राप्तहन्त्यर्थानुरागेण यन्नञोऽप्राप्तक्रियार्थत्वं तन्नेति’। तच्च न युक्तम्; नञश्चेत्युत्तरभाष्यस्य चशब्दयोगेन शङ्कानिरासित्वाद्धेत्वदर्शनात्, तन्मा भूदिति पृथक्कृत्य हेतुभागमाकाङ्क्षापूर्वकं योजयति – केनेति। किमिह विधेयं हननादि वा नञर्थो वा विधारकप्रयत्नो वेति विकल्प्य क्रमेण दूषयति – हननेत्यादिना। अत्र विधारप्रयत्नविधिराशङ्कितः, स एव च निराकर्तव्यः, इतरत्तु पक्षद्वयं परस्य शाखाचंद्रमनिरासार्थं दूषितम्। ननु नञर्थश्चेन्न विधीयते, तर्हि हननं नास्तीत्यादाविव सिद्धतया प्रतीयेतेत्याशङ्क्याह –

अभावश्चेति।

रागप्राप्तकर्तव्यताकहननलक्षणप्रतियोगिगतं साध्यत्वमभावे समारोप्यत इत्यर्थः। कर्तव्यत्वाभावबोधस्य निवर्तकत्वमयुक्तं; सत्यपि तस्मिन्हननगतदृष्टेष्टसाधनत्वप्रयुक्तकर्तव्यताया अनपायादित्युत्तरभाष्यस्य शङ्कामाह –

ननु

बोधयन्विति। औदासीन्यस्य प्रागभावतया कारणानपेक्षत्वादध्याहरति –

पालनेति।

निषेधेषु नञ् समभिव्याहृतविधिप्रयत्नेन प्रकृत्यर्थभूतहननादिगतक्षुद्रेष्टोपायतामनपबाध्य तद्गतगुरुतरादृष्टानिष्टोपायता ज्ञाप्यतेऽतो निवृत्त्युपपत्तिरिति वक्तुं लोके विधिनिषेधयोरिष्टानिष्टोपायत्वबोधकत्वं व्युत्पत्तिबलेन दर्शयति – अयमभिप्राय इत्यादिना – प्रवर्तकेषु वाक्येषु इत्यतः प्राक्तनेन ग्रन्थेन। इन्दूदयगतहितसाधनतायां न प्रवृत्तिहेतुता, प्राक्कृतभुजङ्गाङ्गुलिदाने च नाधुना निवृत्तिहेतुत्वं, ततो विशिनष्टि –

कर्तव्यतेति।

कर्तव्यतया सहैकस्मिन् धात्वर्थे समवेताविष्टानिष्टसाधनभावौ तौ तथोक्तौ । फलेच्छाद्वेषयोरुक्तविधसाधनभावावगमपूर्वकत्वाभावादनैकान्तिकत्वमाशङ्क्याह –

प्रवृत्तिनिवृत्तिहेतुभूतेति।

दृष्टान्ते साध्यविकलतामाशङ्क्याह –

जात्विति। शब्दादीनामपूर्वपर्यन्तानां ये प्रत्ययास्तत्पूर्वाविच्छाद्वेषौ बालस्य मा भूतां, प्रत्यक्षव्यवहारे सर्वेषामभावादित्यर्थः। पचतीत्यादौ प्रतीतापि भावना न प्रवर्तिकेति त्रैकाल्यानवच्छिन्नेत्युक्तम्। इत्यानुपूर्व्या सिद्धः कार्यकारणभाव इत्यन्वयव्यतिरेकप्रदर्शनपरम्। इष्टेत्यादि सिद्धमित्यन्तमिष्टानिष्टोपायतावगमस्य प्रवृत्तिनिवृत्ती प्रति हेतुत्वप्रदर्शनपरम् इति विवेक्तव्यम्। ननु कर्तव्यतेष्टासाधनत्वविशिष्टव्यापारपरः शब्दोऽस्तु, किं धर्ममात्रपरत्वेनात आह –

अनन्यलभ्यत्वादिति।

व्यापारो लोकसिद्ध इति न शब्दार्थ इत्यर्थः । ननु हननादिषु प्रत्यक्षदृष्टेष्टसाधनत्वकर्तव्यत्वयोर्निषेद्धुमशक्यत्वात्कथमभावबुद्धिरिति भाष्यमत आह –

निषेध्यानां

चेति। दृश्यमानमपीष्टं बह्वदृष्टानिष्टोदयावहत्वादनिष्टमित्यनर्थहेतुत्वज्ञापनपरं वाक्यम्। एवंच पर्युदासपक्षादस्य पक्षस्य न विशेष इति न शङ्क्यं; श्रुतेष्टसाधनत्वाभावोपपत्तयेऽनिष्टसाधनत्वकल्पनात्, त्वन्मते श्रुतं परित्यज्याश्रुतविधारकप्रयत्नविधिकल्पनादिति। आयतिर्भाविफलम्। प्रवृत्त्यभावमित्यस्य व्याख्या –

निवृत्तिमिति।

उद्यमक्रियाया मयोपरन्तव्यमिति बुद्ध्या निवर्तते, नतु प्रवृत्तिप्रागभावमात्रमित्यर्थः। यथोक्ताभावबुद्धेरौदासीन्यस्थापकत्वेऽपि क्षणिकत्वात्तद्द्वंसे हननोद्यमः स्याच्छश्वत्तत्संततौ च विषयान्तरज्ञानानुदयप्रसङ्ग इति शङ्कते –

स्यादेतदिति।

यथाग्निः पुनर्ज्वालोपजनननिदानमिन्धनं दहन्नुशान्तोऽपि भवति भाविनीनां ज्वालानामुदयविरोधी, एवमभावबुद्धिः क्षणिकतया स्वयमेव शाम्यत्यपि हननाद्यहितोपायतानवबोधं दग्ध्वा तन्निदाना उपरितनीः प्रवृत्ती रुणद्धीति। भाष्यार्थमाह –

तावदेवेति।

नह्यभावबुद्धिरौदासीन्यस्यानादिनः स्थापनकारणं, येन तदभावे कारणाभावादिदं न भवेत्, अपित्वपवादनिरासिकेत्याह –

एतदुक्तमिति।

अनादित्वादौत्सर्गिकमौदासीन्यं, तत्रापवादनिवर्तकारान्निधावप्यौत्सर्गिकस्थेम्नि दृष्टान्तमाह –

यथेति।

कमठः कूर्मः। यदौदासीन्यं तत्प्रागभावरूपत्वादुक्तमपि न निवृत्तिहेतुः; ततः कर्तव्यत्वेन प्रसक्तक्रियाप्रतियोगिकनिवृत्तिरूपेण विशिष्टं निवृत्त्युपयोगि, यद्धन्यात्तन्नेति प्रसक्तक्रियानिवृत्तिरूपता चौदासीन्यस्य न; सर्वदा क्रियाप्रसङ्गाभावात्, अतः काकवदुपलक्षणम्, तादृश्या निवृत्त्योपलक्ष्यौदासीन्यं विशिनष्टि भाष्यकार इत्याह –

औदासीन्यमिति।

ननु केयं प्रसक्तक्रियानिवृत्तिः? न तावद्धननादिप्रागभावः, अनादित्वादेव तद्बोधनस्यानुपयोगात्। नापि तद्ध्वंसः; प्रसक्तक्रियाया अनुदयेन ध्वंसायोगात्, उच्यते, ‘हननोद्यतखङ्गादेः परावर्तनमुच्यते। निवृत्तिरिति तस्मिन्हि हननं न भविष्यति’॥ एषा च निवृत्तिः नञर्थबोधफला, नञर्थस्तु हननगतेष्टसाधनत्वाभाव एवेति। भाष्ये जैमिनीयमानर्थक्याभिधानं क्रियासन्निधिस्यार्थवादादिविषयमित्युक्तम्, तदाम्नायस्य क्रियार्थत्वादिति हेतोस्तद्बलेनाक्रियार्थानामप्रामाण्यमिति पूर्वपक्षस्य विध्येकवाक्यत्वेन प्रामाण्यमिति सिद्धान्तस्य च तद्विषयत्वोपलक्षणार्थमित्याह –

पुरुषार्थानुपयोगीति।

स्वयं पुमर्थब्रह्मावगमपरत्वमुपनिषदामसिद्धमित्याशङ्क्य भाष्यव्याख्याया परिहरति –

यदपीत्यादिना।

अवगतब्रह्मात्मभावस्येति भाष्येऽवगतिशब्दाभिप्रायमाह –

सत्यमिति।

साक्षात्कारस्य स्वरूपत्वान्न निवर्तकतेति, तत्राह –

ब्रह्मसाक्षात्कारश्चेति।

आत्मानमपि स्वं साक्षात्कारमिति। श्रवणादिसंस्कृतमनोजन्यश्चेत्साक्षात्कारः कथं तर्हि वेदप्रमाणजनितेनि भाष्यमत आह –

अत्रचेति।

अशरीरत्वं देहपातोत्तरकालमिति शङ्कायां सशरीरत्वस्य निमित्तवर्णनमयुक्तमित्याशङ्क्याह –

यदीति।

सशरीरत्वं मिथ्यात्वाज्जीवत एव ज्ञानेन निवर्त्यं, तर्ह्यशरीरत्वमप्यभावत्वात्तथेत्याशङ्क्य न तत्त्वतः शरीरसंबन्धाभावोपलक्षितस्यातथात्त्वादित्याह –

यत्पुनरिति।

भाष्ये तच्छब्देन नह्यात्मन इति प्रस्तुतात्मपरामर्श इत्याह –

तदितीति।

शरीरसंबन्धस्येत्याद्यसिद्धेरित्यन्तं भाष्यं व्याचष्टे –

तावदिति।‘शरीरसंबन्धस्य धर्माधर्मयोरि’त्यादि ‘प्रसङ्गा’दित्यन्तं भाष्यं विवृणोति –

ताभ्यां

त्विति। आत्मनि स्वतोऽ सिद्धाभ्यां धर्माधर्माभ्यां जन्यशरीरसंबन्धं प्रति प्रीयमाणे वादिनी सिद्धे शरीरसंबन्धे धर्मादिसंबन्धः तत्सिद्धौ शरीरादिसंबन्ध इति परस्पराश्रयं स्वपक्षे प्रापयतीत्यर्थः। धर्माधर्मव्यक्त्योः शरीरसंबन्धव्यक्तेश्चेतरेतरहेतुत्वे यद्यपीतरेतराश्रयः, तथापि न दोषोऽनादित्वादिति सत्कार्यवादी शङ्कते –

यद्युच्येतेति।

तत्र नित्यसत्योर्व्यक्त्योर्न हेतुहेतुमत्ता, अभिव्यक्त्योस्तु कादाचित्क्योरितरेतराधीनत्वे एकस्या अप्यसिद्धेरन्धपरम्परातुल्यानादित्वकल्पना स्यादित्याह –

अन्धपरम्परेति।

असत्कार्यवादी व्यक्तिभेदेनेतरेतराश्रयं परिहरतीत्याह –

यस्त्विति।

किं त्वेष इति। इदानीन्तनशरीरसंबन्धहेतुरित्यर्थः। पूर्व एवात्मशरीरसंबन्धो विशेष्यते – पूर्वधर्माधर्मभेदजन्मन इति। पूर्वाभ्यां धर्माधर्मविशेषाभ्यां जन्म यस्य स तथोक्तः। एष त्विति। वर्तमान इत्यर्थः। आत्मन्यध्यासप्रस्तावोक्तयुक्तिभिर्नैकोपि क्रियासंबन्धः, कथमनन्तव्यक्तिसंभव इति परिहरतीत्याह –

तं

प्रत्याहेति। देहात्मसंबन्धहेतुर्मिथ्याभिमानः प्रत्यक्ष इत्युक्तम्, तदाक्षिप्य समाधत्ते –

ये

त्विति। अप्रसिद्धवस्तुभेदस्यान्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्ताविति प्रतिज्ञाय संशयनिमित्तशब्दप्रत्ययोदाहरणं भाष्येऽनुपपन्नमित्याशङ्क्य भ्रान्तिशब्देन समारोप उक्तः। अस्ति च संशयस्यापि समारोपत्वमित्याह –

तत्र

हि पुरुषत्वमिति। भ्रान्तेरप्युचितनिमित्तापेक्षणादकस्मादित्ययुक्तमित्याशङ्क्याह –

शुक्लभास्वरस्येति।

साधारणधर्मिणी दृष्टे किं तन्मात्रं विपर्ययकारणमुत सादृश्यादिदोषमिलितम्। नाद्यः; धवलभास्वररूपस्य शुक्तिरजतसाधारण्ये सति व्यवहितरजतनिश्चयात् प्रागेव सन्निहितशुक्तिनिश्चयप्रसङ्गादित्यभिधाय द्वितीयं दूषयति –

संशयो

वेति । समानो धर्मो यस्य स तथोक्तः। दृष्टेऽपि साधारणे धर्मिणि निश्चयः स्याद्यद्यन्यतरकोटिनिर्णायकं प्रमाणं स्यात्, स्थाणुत्व इव शाखादिदर्शनं, बाधकं वा प्रमाणं कोठ्यन्तरमुपलभ्येत, यथा तत्रैव पुरुषत्वविपरीते निश्चेष्टत्वादि, नैवमिहेत्याह –

उपलब्धीति।

उपलब्धिः साधकं प्रमाणम्, अनुपलब्धिर्बाधकं, तयोरभावोऽत्राव्यवस्था। ततः संशयो वा युक्त इत्यधस्तनेनान्वयः। ननु विशेषद्वयस्मृतौ संशयः, इह तु रजतमेव स्मृतमिति विपर्यय एवेति, तत्राह –

विशेषद्वयेति।

अत्र हेतुमाह –

संस्कारेति।

इतिशब्दो हेतौ। उद्बुद्धः संस्कारो हि स्मृतिहेतुः तदुद्बोधहेतुश्च सादृश्यम्, तस्य द्विष्टत्वेन शुक्तिरजतोभयनिष्ठत्वेन हेतुनोभयत्रैतत्सादृश्यं तुल्यमिति यतोऽतः संशय एव युक्तः। न च रागाद्विपर्ययः; विरक्तस्यापि शुक्तौ रजतभ्रमादिति। एषात्र संशयसामग्र्यक्षपादेन वर्णिता – ‘‘समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशय’’ इति। समानधर्मः साधारणधर्मः। अनेकस्माद्व्यावृत्तो साधारणोऽनेकधर्मः। एवमिह विपर्ययनियामकं दृष्टं नास्तीत्युपपाद्याकस्माच्छब्द एवमभिप्राय इत्याह –

अत

इति। कथं तर्हि दृश्यमानविपर्ययनियमः ? तत्राह –

अनेनेति।

दृष्टं हेतुं प्रतिषिध्य कार्यनियमं प्रतिजानता भाष्यकारेणादृष्टं कर्म हेतुत्वेनार्थादुक्तमिति। ननु तदपि समं किं न स्यात्? तत्राह –

तच्चेति।

श्रुतिस्मृतीरिति। श्रुतिं स्मृतिं चेत्यर्थः। साक्षात्कारो हि दृष्टं फलं, तादर्थ्यं मननादेर्वदन्भाष्यकारो विधिं न मृष्यत इत्याह –

तदिदमिति।

अत्रैके वदन्ति – न दृष्टा श्रवणादेरवगत्युपायता; कृतश्रवणादीनामपि केषांचिदिह साक्षात्कारासमुन्मेषात्, तात्कालिकश्रवणादिविधुरवामदेवादेरप्यपरोक्षज्ञानसमुदयाच्च, जन्मान्तरकृतस्य च विधिमन्तरेण साधनभावानवकल्पनात्, श्रवणादिविध्यनभ्युपगमे च तद्विध्युररीकारप्रवृत्तप्रथमसूत्रतद्भाष्यकदर्थनादयुक्तस्तदनभ्युपगमः – इति।। तत्र न तावदनुष्ठितसाधनस्येह फलादर्शनं तद्विधिव्याप्तम्; अनवरतं वैशेषिकाद्यसच्छास्त्रश्राविणामप्यपटुमतीनां केषांचित्तच्छास्त्रार्थानवबोधदर्शनेऽपि तच्छ्रवणविध्यभावात्। नापि भवान्तरकृतकर्मण इह फलजनकता तद्विधिव्याप्ता; जातिस्मरस्य प्राचि भवे धनमुपार्ज्य भुवि निखन्य प्रमीतस्येह जन्मनि तदादाय भोगान्भुञ्जानस्यापि प्राग्भवीयधनोपार्जनायाः संप्रतितनफलार्थमविहिताया अपि हेतुभावोपलम्भात्। प्रथमसूत्रं तु शास्त्रीयविषयफलनिरूपकं न विधिविचारपरमिति । किंच – प्राधान्यं श्रवणादेर्न भवतामपि संमतम्। गुणकर्मत्वमत्रैव भाष्यकृद्भिर्निजुह्वुवे॥ ‘यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येतेत्यादिनेति’। इत्युक्तमधस्तादिति। गान्धर्वशास्त्राभ्यासवदपूर्वानपेक्षया साक्षात्कारहेतुतोक्तेत्यर्थः। गुणकर्म ह्युपयोक्ष्यमाणशेषः; यथाऽवघातादि, उपयुक्तशेषो वा; यथा कृतप्रयोजनप्रयाजशेषाज्यस्य हविष्षु क्षारणं ‘प्रयाजशेषेण हवींष्यभिघारयेदिति’ विहितम्। तदिहात्मन उपयुक्तोपयोक्ष्यमाणत्वाभावान्न तद्विषयं मननादि गुणकर्मेत्याह –

तदपीति।

न च श्रवणादिसंस्कृतस्यात्मनः साक्षात्कारजन्मन्यस्तूपयोग इति श्रवणादिगुणकर्मत्वसिद्धिः; अपूर्वोपयोगिन एव गुणकर्मत्वाद्, दृष्टे तु साक्षात्कारेऽपूर्वाभावेन तदयोगादिति। ननु बाह्यक्रियाविधिः प्रथमकाण्डे गतो मानसज्ञानविधिविचाराय पृथगारंभ इति शङ्कापोहार्थमारभ्यमाणं चेति भाष्यम्॥ अहं ब्रह्मास्मीति वाक्यस्य तदर्थस्य चेतरप्रमाणावसानत्वमयुक्तं, नित्यनिवृत्तिप्रसङ्गादित्याशङ्क्य ज्ञानपर इतिशब्द इत्याह –

इतिकरणेनेति।

विधीनामद्वैतज्ञानविरोधं दर्शयति –

विधयो

हीति। त्र्यंशा भावना हि धर्मः। तद्विषया विधयः साध्यादिभेदाधिष्ठानास्तद्विषयाः। अपि चैतेऽनुष्ठेयं धर्ममुपदिशन्तस्तदुत्पादिनः पुरुषेण तमनुष्ठापयन्तीति साध्यधर्माधिष्ठानास्तत्प्रमाणानीति यावत्, अतो नित्यसिद्धाद्वैतब्रह्मावगमे तेषां विरोध इत्याह –

धर्मोत्पादिन

इति। नहीति । हेतुभाष्यस्य प्रतीकोपादानम्। नहीत्यादिनिर्विषयाणीत्यन्तं भाष्यं व्याख्याति –

अद्वैते

हीति। विषयनिषेधो वाक्यार्थभेदः साध्यसाधनादिपदार्थभेदस्तम्भाद्यर्थभेदश्चाद्वैतावगतौ न भवतीति भाष्यार्थः। अप्रमातृकाणीत्येतद्व्याचष्टे –

च कर्तृत्वमिति। ज्ञानकर्तृत्वमित्यर्थः। निर्विषयाण्यप्रमातृकाणीति बहुव्रीही विशेषणपरौ। तथा सति हि विषयप्रमातृनिषेधयोर्हेतुत्वसिद्धिः। भाष्ये चकारः करणनिषेधार्थ इत्याह – तदिदमिति। भाष्यस्थप्रमाणशब्दो भावसाधनत्वेन ज्ञानवाची ततश्चकारेण करणनिषेधः। पुत्रादावहमित्यभिमानो गौणात्मा चेत्तर्हि मुख्यात्मना किं गुणसाम्यमत आह – यथेति। वाहीको नाम देशविशेषस्तन्निवासी तच्छब्दोक्तः। पुत्रादेरुपकारकत्वारोपाद्य आत्माभिमानस्तस्मिन्निवृत्ते ममत्वबाधनेत्याह – गौणात्मन इति। श्रवणादिप्रमाणबाधमुक्त्वा प्रमित्यभावमाह –

केवलमिति। बोधीतीनन्तपाठो व्याख्यातः। सप्तम्यन्तस्तु निगदव्याख्यातः। नियतप्राक्सत्त्वं हि कारणत्वं, प्रमात्रादिश्च ज्ञानकारणं, तस्मिन् सकृदुदिततत्त्वसाक्षात्कारान्निवृत्ते नोर्ध्वं ज्ञानानुवृत्तिरित्यर्थपरत्वेन प्रथमार्धं व्याख्याय प्रमातृलये फलिनोऽभावाद् मोक्षस्यापुमर्थतेति शङ्कां द्वितीयार्धव्याख्यया निरस्यति –

च प्रमातुरिति। अन्वेष्टव्यः परमात्माऽन्वेष्टुः प्रमातृत्वोपलक्षिताच्चिदेकरसान्न भिन्नस्ततोऽध्यस्तप्रमातृत्वबाधेऽप्युपलक्षित आत्मैव पापदोषादिरहितोऽन्विष्टो विदितः स्यादतो नोक्तदोष इत्यर्थः। ननु यद्यन्वेष्टुरात्मभूतं ब्रह्म, किमिति तर्हि संसारे न चकास्ति? तत्राह –

उक्तमिति।

प्रमात्रादेस्तत्त्वज्ञानहेतुतां सिद्धवत्कृत्य ज्ञानात्तन्निवृत्तौ हेत्वभावात्फलाभाव उक्तः। स न, बाध्यस्य प्रमात्रादेः प्रमानुत्पादकत्वापाताद् इति शङ्कोत्तरत्वेन तृतीयश्लोकं व्याख्याति –

स्यादेतदिति।

यदलीकं तन्न प्रमाहेतुरिति व्याप्तिं प्रशिथिलयति –

एतदुक्तमिति।

य उत्पद्यतेऽनुभवो न स पारमार्थिको यः पारमार्थिको न स उत्पद्यतेऽतश्चाप्रमाणात्कथं पारमार्थिकानुभवोत्पत्तिरित्ययमिष्टप्रसङ्ग इत्याह –

नचायमिति।

वृत्तावपि प्रतिबिम्बितचिदंशः सत्यो ऽस्ति, तत उक्तम् –

एकान्तत

इति। ननु वृत्तिरूपसाक्षात्कारोऽलीकत्वादविद्यात्मकः कथमविद्यामुच्छिन्द्यादविद्या वा कथं स्वविरोधिनं तं जनयेदत आह –

अविद्या

त्विति। अलीकस्यापि सत्यविषयत्वादविद्यानिवर्तकत्वोपपत्तिः, दृष्टं च स्वप्नोपलब्धव्याघ्नादीनां स्वोपादानाविद्यानिवर्तकत्वमिति भावः। अविद्यामयी वृत्तिर्यद्यविद्यामुच्छिन्द्यात्तामेव स्वनिवर्तिकामविद्यां जनयेद्वोभयथाप्युक्तमार्गेण न काचिदनुपपत्तिरित्यर्थः। विद्यां वृत्तिमविद्यां च कार्यकारणभावेन सहिते यो वेद सोऽविद्योपादानत्वेन तन्मय्या वृत्त्या तदुपादानं मृत्युमविद्यां तीर्त्वा स्वरूपभूतविद्योपलक्षितममृतमनुत इति श्रुतेरर्थः॥ भाष्योदाहृतश्रुतयो व्याख्यायन्ते। उत्तरत्रापि तत्तदधिकरणसमाप्तौ श्रुतयो व्याख्यास्यन्ते।

सदेवेति।

सदित्यस्तितामात्रमुक्तम्। एवशब्दोऽवधारणार्थः। किं तदवध्रियत इत्यत आह –

इदमिति।

यदिदं व्याकृतं जगदुपलभ्यते तत्, अग्रे प्रागुत्पत्तेः विकृतरूपपरित्यागेन सदेवासीत्, हे सौम्य प्रियदर्शनेति श्वेतकेतुः पित्रा संबोध्यते। मा भूत्स्थूलं पृथिवीगोलकादीदम्बुद्धिग्राह्यं प्रागुत्पत्तेः, अन्यत्तु महदादिकं किमासीत्? नेत्याह –

एकमेवेति।

स्वकार्यपतितमन्यन्नासीदित्यर्थः। मृदो घटाकारेण परिणमयितृकुम्भकारवत् किं सतोऽन्यन्निमित्तकारणमासीत्? नेत्याह –

अद्वितीयमिति।

आप्नोतीत्यात्मा परमकारणं, वै इति जगतः प्रागवस्थां स्मारयति। इदमित्यादिपदव्याख्या पूर्ववत्। तदिति प्रकृत आत्मा परामृश्यते, य इन्द्रो मायाभिः पुरुरूप ईयत इत्युक्तः। नपुंसकप्रयोगस्तु विधेयब्रह्मापेक्षः। तदेतदेव यद्ब्रह्म तद्वा किंलक्षणमित्यत आह –

अपूर्वमिति।

नास्य पूर्वं कारणं विद्यत इत्यपूर्वम्, अकार्यमित्यर्थः। तथा नास्यापरं कार्यं वास्तवं विद्यत इत्यनपरम्, अकारणमिति यावत्। नास्यान्तरं जात्यन्तरम् अन्तराले विद्यत इत्यनन्तरम्, दाडिमादिवत्स्वगतरसान्तरविधुरमित्यर्थः। एवंविधमन्यदपि कूटस्थमेतदनात्मकतया बाह्यमस्य न विद्यत इत्यबाह्यमिति। यत्पुरस्ताद् दृश्यमविद्यादृष्टीनामब्रह्मेव प्रतिभासते, तत्सर्वमिदममृतं ब्रह्मैव वस्तुत इत्यर्थः। तथा पश्चाद्दक्षिणतः इत्यादिमन्त्रशेषेण सर्वात्मत्वमवगन्तव्यम्॥ संपतत्यस्मादमुं लोकं फलभोगायेति संपातः कर्म, तद्यावत्तावदुषित्वा आवर्तत इति। इष्टं श्रौतम्। पूर्तं स्मार्तम्। दत्तं दानम्॥ परमार्थतः शरीरसंबन्धरहितं वाव एव सन्तं भवन्तम् तमात्मानं वैषयिके प्रियाप्रिये न स्पृशतः।। एवं परमार्थतोऽशरीरं शरीरेष्वनवस्थेष्वनित्येष्ववस्थितं नित्यं, महान्तम्। महत्त्वामापेक्षिकमित्याशङ्क्याह –

विभुम्॥

मन्तृमन्तव्यभेदनिषेधार्थमाह –

आत्मानमिति।

ईदृशमात्मानं मत्वा धीरो धीमान्न शोचति॥ प्राणः क्रियाशक्तिः परमार्थतो न विद्यते यस्य सोऽप्राणः। तथा ज्ञानशक्तिमन्मनो यस्य नास्ति सोऽमनाः। क्रियाशक्तिमत्प्राणनिषेधेन तत्प्रधानानि कर्मेन्द्रियाणि, ज्ञानशक्तिमन्मनोनिषेधेन तत्प्रधानानि ज्ञानेन्द्रियाणि च सविषयाणि निषिद्धानि। यस्मादेवं तस्माच्छुभ्रः शुद्ध इति। स्वप्नाद्यवस्थाकृतकर्मस्वकर्तात्मेत्युक्तं स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्ये। तत्र हेतुरुच्यते –

असङ्गो

हीति। मूर्तं हि मूर्तान्तरेण संसृज्यमानं सृज्यते। आत्मा स्वयं पुरुषो न मूर्तः। अतो न केनचित्सृज्यत इत्यसङ्गः। अतो

कर्तेति॥ धर्मादधर्मात्तत्फलसुखदुःखाच्च कृतात् कार्यप्रपञ्चाद् अकृतात्कारणाद् अन्यत्र पृथक् भूतं भूतादेः कालादन्यत्र तेनानवच्छेद्यं, चेत्पश्यसि तद्वदेति मृत्युं प्रति नचिकेतसः प्रश्नः॥ अस्य विदुषोऽप्रवृत्तफलानि कर्माणि, तस्मिन् परावरे ब्रह्मणि आत्मत्वेन दृष्टे क्षीयन्ते। परं कारणम्। अवरं कार्यम्। तद्रूपे तदधिष्ठाने ॥ ब्रह्मणः स्वभावमानन्दं विद्वान्। यदस्मिन्देहे जलसूर्यवत् प्रविष्टं ब्रह्म जीवाभिधं तदाचार्येण बोध्यमानमात्मानमेव विधूतकल्पनमवेद् विदितवत्। किं साङ्ख्यमत इव द्वैतमध्ये? न, अपि तु अहं ब्रह्माद्वितीयमस्मीति। तस्मादेव विज्ञानादविद्याकृतासर्वत्वनिवृत्त्या तद् ब्रह्म सर्वमभवत्॥ यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानत इति यः सर्वात्मभावो विद्याभिव्यक्त उक्तः, तत्रात्मनि तत्र चाज्ञानकाले आत्मैकत्वं पश्यतः को मोहः। तत्पदलक्ष्यं ब्रह्म एतदात्मभावेनावस्थितमहमस्मीति पश्यन्नेतस्मादेव दर्शनादृष्टिः वामदेवाख्यः परं ब्रह्म अविद्यानिवृत्तिद्वारा प्रतिपन्नवान् किलेति। हशब्दो व्यवधानेन संबन्धनीयः। स एतस्मिन्दर्शने स्थितः सर्वात्मभावप्रकाशकानहं मनुरित्यादीन्मन्त्रांश्च ददर्श॥ भारद्वाजादयः षडृषयः परं विद्याप्रदं पिप्पलादं गुरुं विद्यानिष्क्रयार्थमनुरूपमन्यदपश्यन्तः पादयोः प्रणम्य प्रोचुः। त्वं ह्यास्माकं पिता ब्रह्मशरीरस्याजरामरस्य विद्याया जनयितृत्वाद्, इतरौ तु शरीरमेव जनयतः। जनयितृत्वमपि सिद्धस्यैवाविद्यानिवृत्तिमुखेनेत्याह –

यस्त्वं

नः। अस्मानविद्यामहोदधेः परमपुनरावृत्तिलक्षणं पारं तारयसि विद्याबलेनेति प्रश्नोपनिषत्॥ श्रुतं ह्येव मे इत्यादिच्छन्दोगश्रुतिः सनत्कुमारनारदसंवादरूपा। तत्रापि तारयत्वित्यन्तमुपक्रमस्थं वाक्यं शेषमाख्यायिकोपसंहारस्थं वाक्यान्तरम्। मे मम भगवद्दृशेभ्यो भगवत्सदृशेभ्यः । इदं श्रुतम्। यत्तरति शोकं मनस्तापमकृतार्थबुद्धिमात्मविदिति। सोऽहमनात्मवित्त्वाच्छोचामि अतस्तं मां शोकसागरस्य पारमन्तं भगवांस्तारयतु आत्मज्ञानोडुपेनेति। वल्कलादिवच्चित्तरञ्जको रागादिकषायो मृदितः क्षालितो विनाशितो यस्य ज्ञानवैराग्याभ्यासक्षारजलेन तस्मै नारदाय तमसोऽविद्यालक्षणस्य पारं परमार्थतत्त्वं दर्शितवान्॥ संवर्गविद्यायां श्रूयते। वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति उपशाम्यति वायुमेवाप्येति प्रलीयते यदा सूर्योऽस्तमेति वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्येति। यदाऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्ते इत्याधिदैवतम्। अथाध्यात्मम् – प्राणोवाव संवर्गो यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मन इति। तद् ब्रह्मविदि तत्कार्यादन्यदेव । अथो अपि अविदितात्कारणात् अधि उपरि अन्यदित्यर्थः। येन प्रमात्रा इदं सर्वं वस्तु विजानाति लोकः, तं केन करणेन विजानीयात्? करणस्य ज्ञेयविषयत्वात्प्रमातरि वृत्त्यनुपपत्तेः। तस्मात्प्रमातापि न ज्ञेयः किन्तु तत्साक्षीत्यर्थः। यद्वाचा शब्देनानभ्युदितम् अप्रकाशितम्। येन ब्रह्मणा सा वागभ्युद्यते प्रकाश्यते इत्यविषयत्वम् उपन्यस्याह –

तदेवात्मभूतम्

प्रमातृत्वादिकल्पना अपोह्येत्येवकारार्थः। ब्रह्म महत्तममिति त्वं विद्धि, हे शिष्य यदुपाधिविशिष्टं देवतादीदमित्युपासते जनाः इदं त्वं ब्रह्म न विद्धीति। यस्य ब्रह्मामतमविषय इति निश्चयः, तस्य तद् ब्रह्म मतं सम्यग् ज्ञातं यस्य पुनर्मतं विषयतया मतं ब्रह्मेति मतिर्न, स वेद ब्रह्मभेदबुद्धित्वात्। एतौ विद्वदविद्वत्पक्षावनुवदति –

अनियमार्थम्।

अविज्ञातमिति

विषयत्वेनाविज्ञातमेव ब्रह्म सम्यग्विजानतां विज्ञातमेव विषयतया भवति यथावदविजानताम्। दृष्टेश्चक्षुर्जन्यायाः कर्मभूताया द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्ययाऽनया न पश्येः। विज्ञातेर्बुद्धिधर्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत्। तयोर्जीवपरयोर्मध्ये एको जीवः पिप्पलं कर्मफलम् अन्यः परमात्माऽभिचाकशीति पश्यत्येव नात्ति। आत्मीयं शरीरम् आत्मा शरीरादिसंयुक्तमात्मानमित्यर्थः। एको देवो गूढः। छन्नः। सर्वव्यापित्वं न गगनवत्, किंतु सर्वभूतान्तरात्मा, कर्माध्यक्षः कर्मफलप्रदाता, सर्वभूतानामधिवासोऽधिष्ठानम्। साक्षित्वे हेतुश्चेतेति। चैतन्यस्वभाव इत्यर्थः। केवलो दृश्यवर्जितः निर्गुणो ज्ञानादिगुणवान् न भवति॥ स आत्मा, परितः समन्तात् अगात्सर्वगतः शुक्रमित्यादयः शब्दाः पुल्लिङ्गत्वेन परिणेयाः; स इत्युपक्रमात्। अकायो लिङ्गशरीरवर्जितः। अव्रणोऽक्षतः। अस्नाविरः शिररहितः। अव्रणास्नाविरत्वाभ्यां स्थूलदेहराहित्यमुक्तम्। शुक्र इति । बाह्यशुद्धिविरहउक्तः। शुद्ध इत्यान्तररागाद्यभावः। अपापविद्धो धर्माऽधर्मरहितः। भाष्येऽनाधेयातिशयत्वनित्यशुद्धत्वयोः पूर्वसिद्धवदुक्तहेत्वोः सिद्धिमेतौ मन्त्रौ दर्शयत इति बोद्धव्यम्। आत्मानं साक्षिणमयं परमात्माऽस्मीत्यपरोक्षतया जानीयाच्चेत्, कश्चित्पुरुषः चेच्छब्दः आत्मसाक्षात्कारस्य दुर्लभत्वप्रदर्शनार्थः। स स्वव्यतिरिक्तमात्मनः किं फलमिच्छुः कस्य वा पुत्रादेः कामाय प्रयोजनाय, तदलाभनिमित्ततया शरीरं संतप्यमानमनु तदुपाधिः सन् संज्वरेत् संतप्येत। निरुपाध्यात्मदर्शिनो नान्यदस्ति प्रयोजनं नाप्यन्यः पुत्रादिरित्याक्षेपः। य आत्मा चतुर्थेऽथात आदेशो नेति नेतीति वाक्येन विश्वदृश्यनिषेधेन व्याख्यातः स एष पञ्चमेऽध्याये निरुप्यत इत्यर्थः। यथेन्द्रियादिभ्यः परं परमासीन्नैवं पुरुषादस्ति किंचित्परं सा पुरुषलक्षणा काष्ठावधिः सूक्ष्मत्वमहत्वादेः सैव गतिः परः पुरुषार्थः। यस्योदाहृतसविशेषब्रह्मणा। पृथिव्येव यस्यायतनमित्युपक्रम्योपन्यस्तानामधिष्ठानं तमौपनिषदमुपनिषद्भिरेव विज्ञेयम्। विशेषणस्य व्यावर्तकत्वादयमर्थो लभ्यते। पुरुषं त्वा त्वां पृच्छामि हे शाकल्येति याज्ञवल्क्यस्य प्रश्नः।

‘अत्र

ब्रह्म समश्नुत’ इति पूर्ववाक्ये जीवन्मुक्तिरुक्ता। तत्र देहे वर्तमानोऽपि पूर्ववन्न संसारीत्यत्र दृष्टान्तः। तत्तत्र यथाऽहिनिर्ल्वयिनी अहित्वग् वल्मीकादौ प्रत्यस्ता प्रक्षिप्ता मृता प्राग्वदहिनात्मत्वेनानभिमता शयीत वर्तेत एवमेवेदं विद्वच्छरीरं मुक्तेन पूर्ववदात्मत्वेनानभिमतं शेते। अथायं सर्पस्थानीयो जीवन्मुक्तः शरीरे वर्तमानोऽप्यशरीरः। अहिरपि हि त्यक्तत्वचा संयुक्तोऽपि तामहमिति नाभिमन्यते। अशरीरत्वादेवामृतः प्राणिति जीवतीति प्राणः निरुपाधिः सन्नित्यर्थः । एवंच ब्रह्मैव तच्च ब्रह्मतेज एव विज्ञानज्योतिः परमार्थविवेकतोऽचक्षुरपि बाधितानुवृत्त्या सचक्षुरिवेत्यादिश्रुत्यन्तरयोजना॥ इति वेदान्तकल्पतरौ चतुस्सूत्री समाप्ता॥

परमा परमानन्दबोधसल्लक्षणाञ्चितम्। यमाश्लिष्यति सर्वज्ञं तं वन्दे पुरुषोत्तमम्॥ कार्यान्वयमिति। श्लोकपूरणार्थ एवंकारः। स्वयं पुरुषार्थे इति संबन्धः। यदि सर्वज्ञे वेदान्तप्रामाण्यं सिद्धं, किमधिकरणान्तरेण? अत आह –

तच्चेति।

सर्वज्ञे जगत्कारणे समन्वयप्रदर्शनेन चेतनं तदित्युपक्षिप्तम्। तदाक्षिप्य समर्थ्यत इति सङ्गतिः। प्रयोजनं तु ‘तत्त्वमसीति’ तच्छब्दवाच्यप्रधानैक्यसंपत्तिः पूर्वपक्षे। सिद्धान्ते तु चेतनस्य ब्रह्मैक्यमिति।

जीवाणुव्यतिरिक्तेति

कारणस्य जीवव्यतिरेकेण जीवा एव स्वकर्मद्वारा कर्तार इति मतं निरस्तम्। अणुव्यतिरेकेणाणुसङ्घातवादः। चेतनग्रहणेन प्रधानवादः। परमाणव इति सिद्धान्ताद्भेद इति॥

आदिग्रहणेनेति।

सांख्यादय

इति भाष्ये इति।

अनुमानवाक्येति।

सिद्धान्ते अनुमानानि वाक्यानि च बीजम्, अन्यत्र तु तदाभासा इति।

ज्ञानेति।

सर्वजननशक्तिसर्वविषयज्ञाने ब्रह्मणो न स्तः कुतः? तस्य ज्ञानक्रियाशक्त्यभावात्, ज्ञानक्रिययोः शक्ती ज्ञानक्रियाशक्ती तयोरभावादित्यर्थः। यस्य हि किंचिन्मात्रजननशक्तिः किंचिन्मात्रज्ञानशक्तिर्वा न संभवति, कुतस्तस्य सर्वविषयजननशक्तिः सर्वविषयज्ञानं च भवेताम्? शक्तिद्वयाभावे हेतुमाह –

अपरिणामिन

इति। कार्योन्नेये हि शक्ती, कार्ये च ज्ञानक्रिये नास्य स्तोऽपरिणामित्वादित्यर्थः। प्रधाने तु परिणामित्वादस्ति संभव इत्यर्थः। नन्वपरिणामिन्यपि ज्ञानगुणः प्रयत्नगुणश्च किं न स्यातामत आह –

एकत्वाच्चेति।

एकरूपत्वान्निर्गुणत्वादित्यर्थः। अथवाऽपरिणामित्वं साधयति निरवयवत्वादिति यावत्। ननु चेतनत्वादपरिणाम्यपि सर्वज्ञमत आह –

स्वरूपेति।

अवृत्तिकं सर्वविषयपरिणामरहितम्। नन्वावृतज्ञाना जीवाः, ब्रह्म तु अनावृतं किं न सर्वज्ञमत आह –

च स्वरूपेति। ज्ञानकर्तृत्वं हि ज्ञातृत्वमित्यर्थः। अङ्गीकृत्यापि स्वरूपस्य कार्यतामाह –

कार्यत्वे

चेति। स्यादेतत् – कथमचेतनं चेतनानधिष्ठितं प्रवर्तेतात आह –

भोगेति।

पुरुषार्थेन प्रयुक्त आक्षिप्तश्चासावनादिः प्रधानपुरुषसंयोगः प्रधानस्य पुरुषं प्रति पारार्थ्यलक्षणः संबन्धस्तन्निमित्तः सर्ग इति॥ गौणश्चेत् (ब्र.अ.१.पा.१.सू.६) इत्यादिसूत्रनिरस्याः शङ्काः सौकर्यार्थमेकत्रलिखति – तदैक्षतेत्यादिना। वृद्धाः शबरस्वामिनः । यज्ञपुरुषस्य ‘‘शिरो ह वा आग्नेयो हृदयमुपांशुयाज’’ इति प्रधानाग्नेयप्रायवचनात् प्रधानकर्मोपांशुयाज इत्युक्त्वा लोकेऽप्युदाहरति –

यथाग्नेत्यादि।

अग्नयः श्रेष्ठः। कथं नित्यस्य जीवस्य प्रधाने लयोऽत आह –

प्रधानांशेति।

प्रधानस्यांशस्तमोगुणस्तस्योद्रेके जीवो निद्रां कुर्वंस्तत्र मग्न इव भवत्यतश्च विवेकाभावाल्लयोपचारः। प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (पातं.यो.अ.१.पा.१.सू.६) इति सूत्रोक्ता निद्रातोऽन्या वृत्तयोऽभावं प्रत्ययन्ते प्रतिगच्छन्त्यस्मिन्नित्यभावप्रत्ययस्तदालम्बना जीवस्य या वृत्तिः सा निद्रेति पातञ्जलसूत्रार्थः । सर्वज्ञं प्रस्तुत्येति। ‘ज्ञः कालकालो गुणी सर्वविद्य ‘ इति प्रधानकारणपक्षेऽपि योजयितुं शक्यत इति। सर्वशक्तित्वं तावत्प्रधानस्याप्युपपद्यते इति च भाष्येऽपिकारदर्शनादनवधारणेनात्र पूर्वपक्ष इति केचिद्व्याचक्षते, तद्व्यावर्तयति –

अपिकाराविति।

इह हि ‘गौणश्चे’दितीक्षणे गौणत्वशङ्का मुख्येक्षणवतो ब्रह्मणः कारणत्वासंभवनिश्चयवत एव। तथाच नानवधारणम्। तत्परतयैव वेदान्तवाक्यानि योजयतीति च भाष्यं विपर्ययेण पूर्वपक्षं द्योतयति। यदा योगैश्वर्यात् सत्त्वं निरतिशयोत्कर्षं भवति, तदा तत्सर्वज्ञत्वे बीजं भवतीति सूत्रार्थः। निरतिशयतां सत्त्वस्य तत्कार्यज्ञानस्य निरतिशयत्वसाधनेनोपपादयति – यत्खल्विति। कुवलं बदरम्। ज्ञानत्वं, निरतिशयकिंचिदाश्रितं, सातिशयवृत्तिजातित्वात्, परिमाणत्ववदिति समुदायार्थः। निरतिशयत्वे कथं सर्वविषयता? न हि नभः परिमाणं सर्वविषयमत आह –

इदमेवेति।

ज्ञेयभूम्ना हि ज्ञानभूमा, ततो निरतिशयत्वं , सर्वविषयत्वमानयतीत्यर्थः। अपिभ्याम् एवकारार्थत्वेन व्याख्याताभ्याम्। सिंहावलोकितेनेति पुनरुक्तिपरिहारः। चकारो विशेषवाची तुशब्दसमानार्थः॥ नन्वनुमानसिद्धानुवादिषु वेदान्तेषु कथमीक्षतिश्रवणाद् ब्रह्मनिर्णयस्तत्राह – नामरूपेति। प्रवेदयिष्यते तर्कपादे (ब्र.अ.२.पा.२) । पौर्वापर्येति। पौर्वापर्यमुपक्रमोपसंहारौ । परामर्शो मध्ये निर्देशः। एभिर्यदाम्नायो मुख्यवृत्त्या वदेत्तदेव जगद्बीजं, स चाम्नायश्चेतने मुख्यो न प्रधान इति। भवतु ब्रह्मणि प्रकृतिर्मुख्या, प्रत्ययः कथं मुख्य इति शङ्कते –

नन्विति।

अत एव नित्यज्ञानत्वादेव । यदवाद्यपरिणामित्वान्न ज्ञानं ब्रह्मण इति , तत्राह –

यद्यपि

चेति। उपाध्यपेक्षं ज्ञातृत्वं गौणमित्याशङ्क्य पारमार्थिकेक्षितृत्वासंभवादिदमेव मुख्यमित्याह –

परैरपीति।

चैतन्यसामानाधिकरण्येनेति। यत्रात्मनि स्वरूपभूतं चैतन्यं तत्रैव ज्ञातृत्वोपलब्धेस्तस्य च परिणामानभ्युपगमात्परैरित्यर्थः। ननु किं चितिशक्तेर्ज्ञातृत्वेन, प्रधानविकारा एव ज्ञास्यन्ति? नेत्याह –

हीति। भवतु कापिले मतेऽलीकं ज्ञातृत्वं, भाट्टे तु तात्त्विकं तदनभ्युपगच्छतस्तव गौणं स्यादत आह –

नित्यस्येति।

अस्तु तर्हि न्यायमते वास्तवमत आह –

कूटस्थेति।

अव्यापारवत इति च्छेदः। धर्मो गुणः। उपरिष्टात् ‘ज्ञोऽत एव’(ब्र.अ.२.पा.३.सू.१८) इत्यादौ। औपाधिकमीक्षणकर्तृत्वमित्यत्र श्रुती दर्शयति –

तथा

चेति। ज्ञानं साधनेनोपलक्षितं तद्विषयनामरूपव्याचिकीर्षावद्भवति। अयं धर्मद्वययोग उपचयः। ततोऽन्नमभिजायत इत्येतद्व्याचष्टे –

व्याचिकीर्षायां

चेति। उत्पन्नव्याचिकीर्षया नामरूपप्रपञ्चस्य व्याप्तिरभिजायत इत्युक्त्वाऽन्नशब्देन नामरूपमुच्यते, तत्र निमित्तं प्रसिद्धान्नगुणयोगमाह –

साधारणमिति।

अन्नादिति क्रमार्था पञ्चमी। व्याचिकीर्षितत्वानन्तरमित्यर्थः। हिरण्यगर्भसृष्टिः सूक्ष्मभूतसृष्ठ्यनन्तरमिति द्रष्टव्यम्। मणीनामिव सूत्रं जगतो सूत्रं विधारकः सूत्रात्मा। समुदाये सिसृक्षिते प्रथममेकदेशोत्पत्तौ निदर्शनमाह –

यथेति।

मन इत्यादावपि पूर्वपूर्वसर्गानन्तरमिति द्रष्टव्यमित्याह –

तस्माच्चेति।

मनआख्यमिति।

व्यष्टि मन इत्यर्थः। सङ्कल्पादिवृत्तिव्यक्तीकरणात्मकं तत्कारणमिति यावत्। सत्यमित्यस्यार्थमाह – आकाशादीनीति। स्थूलानीत्यर्थः। तेषु हि पृथिव्यादिभूतत्रयम् अपरोक्षत्वात्सत् वाय्वाकाशौ परोक्षत्वात्सत्यमिति तत्त्वशब्दप्रयोगः। कर्मसृष्टिं सिद्धवत्कृत्य श्रुत्या कर्मसु चेत्युक्तं, तामाह –

तेष्विति।

सप्तमी निमित्तार्था। ज्ञानमयम् इत्यौपाधिकमीक्षणमुक्तम्। अन्नात्प्राण इत्यत्र पञ्चम्याः क्रमार्थत्वस्वीकारादिहापि तत्प्रसङ्गमाशङ्क्याह –

पूर्वस्मादिति।

नियतपूर्वकालवर्तित्वं कारणत्वं तच्छब्दार्थ इत्यर्थः। नियतपूर्वसतः सर्वज्ञाज्जायमानस्य हिरण्यगर्भब्रह्मणः परकालवर्तित्वेन कार्यत्वमेतच्छब्दार्थ इत्याह –

एतदिति।

नाम

देवदत्त इत्यादि। रूपं शुक्लादि।

मुमुक्षोश्चेति।

‘तन्निष्ठस्य’ (ब्र.अ.१.पा.१.सू.७) इति सूत्रार्थानुकर्षः। अयथाभूतप्रधानात्मत्वोपदेशश्च मुक्तिविरोधी । यदवादि “यत्प्राये श्रूयत’’ इति, तत्राह –

संशये

चेति। द्वितीये स्थितम् – ‘विशये प्रायदर्शनात्’ (जै.अ.१.पा.३.सू.१६) । ‘‘वत्समालभेत वत्सनिकान्ता हि पशव’’ इत्यत्र किमालभतिर्यजिमत्कर्माभिधानः, उत स्पर्शमात्रवचन इति सशये ‘वायव्यं श्वेतमालभेते’त्यादावालभतिः प्राणिद्रव्यसंयुक्तो यजिमत्कर्माभिधानो दृष्ट इतीहापि तथात्वे प्राप्ते – राद्धान्तः, वायव्यादौ द्रव्यदेवतासंबन्धाद्यागप्रतीतेर्यजिमत्संज्ञपनाभिधाय्यालभतिः, इह तु न, द्रव्यदेवतासंबन्धाभावात्, किंतु गोदोहनादिसंस्कारकर्मसन्निधौ श्रवणात् स्पर्शमात्रसंस्कारकर्मवचन इति॥ प्रकृते वैषम्यामाह –

इहत्विति।

ब्राह्मण अयनमाश्रयो यस्य स्वयं त्वाभास इति। आरोपे सादृश्यनियमभङ्गाय मरीच्युदाहरणम्। चेतनभेदारोपे चन्द्रभेदः। पातञ्जलादिमतेऽप्याह –

नचेति।

तन्मते कार्याणामधिष्ठातुरुपादानाच्च भेदात् श्रुतौ च तदभावादित्यर्थः। चेतनं कारणमिति प्रतिपाद्ये तत्सत्त्वोक्तिरनर्थिकेत्याशङ्क्याह –

सदिति।

अधिकरणानुक्रमणे उक्तोऽर्थो भाष्यारूढः क्रियते –

तथापीक्षितेति।

सिद्धान्तेऽप्यनिर्वाच्या त्रिगुणास्ति माया, तत उक्तं –

पारमार्थिकेति।

तेनापीति।

चेतनकारणेनात्मन एव बहुभवनकथनेनेत्यर्थः। आकाशोपक्रमसृष्टिश्रुत्या तेजः प्राथम्यश्रुतेर्वियदधिकरण (ब्र.अ.२.पा.३.सू.१) सिद्धान्तो नास्तीति कृत्वाचिन्तयैव विरोधमाह –

यद्यपीति।

छन्दोग्ये हि – ‘‘तासां त्रिवृतं त्रिवृतमेकैकामकरोदि’’ति तिसृणां देवतानां तेजोबन्नानामेव त्रिवृत्करणमनन्तरं वक्ष्यति, न गगनपवनयोः, तत्र च तेजः प्रथममिति स्वरूपोत्पत्तावपि तदुपचार इति॥ संप्रदायाध्वना पञ्चोकरणं यद्यपि स्थितम्। तथापि युक्तियुक्तत्वाद्वाचस्पतिमतं शुभम्॥ पृथिव्यबनलात्मत्वं गगने पवने च चेत्। रूपवत्त्वमहत्वाभ्यां चाक्षुषत्वं प्रसज्यते॥ अर्धभूयस्त्वतः क्षित्याद्यविभावनकल्पने। व्यवहारपथा प्राप्ता मुधा पञ्चीकृतिर्भवेत्॥ अनपेक्ष्य फलं वेदसिद्धेत्येषेष्यते यदि। त्रिवृत्कृतिः श्रुता पञ्चीकृतिर्न क्वचन श्रुता॥ तस्मात्सुष्ठूच्यते तेजोऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वादिति। पञ्चीकरणमेवम् – पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते तत एकैकमर्धं चतुर्धा क्रियते। ते च चत्वारो भागा इतरभूतेषु चतुर्षु निक्षिप्यन्ते। तत्राकाशस्य स्वार्धेन भूतान्तरागतपादचतुष्केण च पञ्चीकरणम्। एवं भूतान्तरेषु योजना। त्रिवृत्करणे तु त्रीणि भूतानि द्विधा विदार्य प्रतिभूतमेकैकमर्धं द्विधा प्रस्फोष्ठ्येतरभूतद्वये योजनमिति। अभ्युच्चयाय श्रुत्यान्तरोदाहरणमित्याह –

एकमिति।

ब्रह्म

चतुष्पादिति। क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्येत्यस्य भाष्यस्य व्याख्यानम्। पशोः पादेषु हि पुरतः खुरौ पृष्ठतश्च द्वौ पार्ष्णिस्थानीयाववयवौ दृश्येते। तद्वत्परमात्मन्यपि चतुष्पात्त्वेन षोडशकलत्वेन च पशुरूपकल्पनयोपासनम्॥ इदमुदाहरणमत्र न संगच्छते; प्रश्नोपनिषदि हि – ‘‘इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति’’ प्रस्तुत्य ‘‘स ईक्षांचके कस्मिन्न्वहमुत्कान्ते उत्कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामिति स प्राणमसृजत्प्राणाच्छ्रद्धां स्वं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद्धीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम चेति’’ पठ्यते। छान्दोग्ये तु – दिगाद्यवयवः षोडशकल उपास्यो, न च तत्र स ईक्षांचके इति श्रवणमस्ति। तस्माद् न्यायनिष्ठं शास्त्रमिति द्योतयितुमनुदाहरणमप्युदाहृतम्। अथवा –एवं कथं चित्समर्थनीयम्। परब्रह्मप्रमित्यर्थां सृष्टिमाश्रित्य शासति। उपासनानि वेदान्तास्तत एतदुदाहृतम्॥ या हि कलाः प्रश्ने परमात्मप्रमितिप्रयोजनास्तत उत्पान्ना इत्युक्तास्तभिर्विशिष्टः छान्दोग्ये स एवोपास्य उक्तः। तत्र यद्यपि श्रद्धादयश्छान्दोग्ये न पठिताः नापि दिगादयः प्रश्ने, न च गुणॊपसंहारः, सगुणनिर्गुणत्वेन विद्याभेदादुपसंहारे चाधिकसंख्यापत्तौ षोडशकलत्वभङ्गात्; तथापि पृथिवीन्द्रियमनः प्राणादयः कियन्तः समा उभयत्रापि, दिगादयस्तु लोकेष्वन्तर्भवन्ति, न च यावत्सृष्टावुक्तं तावत्सर्वमुपास्तावुपसंह्रियते; येन संख्यातिरिच्यते, उपयोगि तु। तस्मात्प्रश्नच्छान्दोग्ययोरेकत्वात् षोडशकलस्य शक्यते वक्तुं दिगाद्यवयवं षोडशकलं प्रस्तुत्य स ईक्षांचक्रे इति श्रूयत इति। एवंच निर्गुणप्रकरणे कलाशब्दप्रयोगोऽन्यत्रोपास्यत्वाभिप्रायः सन् सोपयोग इति। कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च। श्रद्धा लोकास्तपो मनो वीर्यं शरीरकम्॥

प्रसिद्धेति।

लक्षणाया एव निरुढत्वार्थं प्रयोगानुगमो न वाचकत्वायेत्यर्थः। सप्तमे स्थितम् – इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् (जै.अ.७.पा.४.सू.१) सौर्यादिष्वनाम्नानादनितिकर्तव्यताकत्वे प्राप्ते – उच्यते; तथा लोके शाकादिषु सिद्धेषु वदत्योदनं पचेति, तथेह सिद्धवत्कृत्य सामान्येनेतिकर्तव्यतां करणं विहितम्। तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शादिप्रकृतिविहितपूर्वेतिकर्तव्यतावत्त्वमिति।। समुदाचरणं व्यक्तिः। तेषामपि हैरण्यगर्भाणां मते क्लेशैरविद्याऽस्मितारागद्वेषाभिनिवेशधर्माधर्मकर्मणां विपाकेन तत्फलेन आशयेन फलभोगवासनया अस्पृष्टस्य पुरुषस्यैव प्रकृष्टसत्त्वोपादानं सर्वज्ञत्वं, नाचेतनस्येत्यर्थः। नचैतदपिभेदमतं श्रद्धेयमित्याह – तदपि चेति। इदं तावदित्यादिदोषोऽस्तीत्यन्तं भाष्यं ब्रह्मणि प्रकृत्यर्थस्येक्षणस्याञ्जस्यप्रदर्शनपरम्। ज्ञाननित्यत्व इत्यादिना प्रत्ययार्थानुपपत्तिमाशङ्क्य परिह्रियते, तदभिप्रायमाह –

एतदपीति।

अनुपहितनित्यचैतन्ये कर्तृत्वाभावादित्यर्थः। सवितृप्रकाश्यस्य रूपादेर्भावादसत्यपीति भाष्यायोगमाशङ्क्य विकल्पमुखेनावतारयति किमिति। सवितरि कर्मास्ति, इह तु नेति वस्तुत एव कर्माभाव उदाहरणाद्वैषम्यमभिमतम्, उत दृष्टान्ते कर्म विद्यते विवक्षितं च, दार्ष्टान्तिके तु यद्यपि विद्यते, तथाप्यविवक्षितं; तव मतेऽध्यस्तत्वादृश्यस्येति मतम्। तत्र द्वितीये विकल्पे किं सविता प्रकाशयतीत्यस्मादैक्षतेत्यस्य दार्ष्टान्तिकस्य वैषम्यमुत प्रकाशत इत्यस्मात्। आद्यमभ्युपगमेन परिहरति – तदा प्रकाशयतीत्यनेनेति। न द्वितीय इत्याह –

प्रकाशते

इत्यनेनेति।

नह्यत्रेति।

अकर्मकत्वात्प्रकाशतेरित्यर्थः। एवंच सत्यैक्षतेत्येतदपीक्षणं करोतीत्येवंपरं, नत्वालोचयतीत्येवमर्थमिति । प्रकाशत इति कर्तृत्वव्यपदेशदर्शनादित्ययमेव भाष्यपाठः साधुर्न णिजन्तः। आद्यविकल्पयोर्मध्ये प्रथमं प्रत्याह –

अथेति।

ऐक्षतेत्यत्र कर्माविवक्षामुपेत्य प्रकाशत इतिवत्कर्तृत्वनिर्देश उपपादितः, इदानीमविवक्षाप्यसिद्धेत्याह –

विवक्षितत्वाच्चेति।

न खल्वस्माकं क्वचिद्वास्तवं दृश्यमस्त्यतोऽप्यस्ततयैव कर्मत्वस्य विवक्षेत्यर्थः। या तु प्रधानस्य सर्वज्ञत्वे साक्षिणी सत्त्वोत्कर्षे योगिसार्वज्ञप्रसिद्धिरुक्ता, सा समा ब्रह्मण्यपि; चेतनेश्वरप्रसादायत्तयोगिसर्वज्ञत्वस्य पातञ्जलतन्त्रे प्रसिद्धत्वाद्, इत्येवमर्थ यत्प्रसादादित्यादिभाष्यं, तद्व्याचष्टे –

यस्येति।

तत ईश्वरप्रणिधानात्प्रत्यगात्माधिगमोऽन्तरायस्य रागादेरप्यभाव इति सूत्रार्थः। वस्तुतो नित्यस्येति। औपाधिकत्वेनानित्यत्वस्योक्तत्वादिति। कारणानपेक्षामिति। कर्ममात्रमुपाधिमीक्षणमपेक्षते, न शरीरादीतिभावः। स्वरूपेणेति। अन्वयेनेत्यर्थः। ज्ञानाभिव्यक्तये कर्तव्यं नास्तीत्याह –

आवरणादीति।

ज्ञानमेव बलं सामर्थ्यमुपाध्यवच्छिन्नफलोत्पत्तौ, तेन बलेन फलभूतानुभवस्य करणं क्रिया, सा च न प्रधानस्येत्याह –

प्रधानस्य

त्विति। अभिनिवेशस्यैव मिथ्याबुद्धित्वात्कथं तस्यैव तं प्रति हेतुत्वमत आह –

पूर्वेणेति।

ननु लयलक्षणाऽविद्योपादानमस्ति कथं मात्रशब्दोऽत आह –

मात्रेति।

५।६। गौणश्चेदिति। (ब्र.अ.१.पा.१सू.६) सूत्रसंबन्धिभाष्यमनुक्रमणिकायां व्याख्यातमित्युपरितनभाष्यं व्याचष्टे –

शङ्कोत्तरत्वेनेत्यादिना॥

यः सदाख्यः। एषोऽणिमाऽणोर्भावः। भावभवित्रोरभेदादणुः॥ एतस्यात्मनो भाव ऐतदात्म्यम्। अयमपि प्रयोगो भवितृपरः। एतदात्मकं जगत्॥ सत्येन तप्तपरशुं गृह्वतो मोक्षवत्सत्यब्रह्मज्ञस्य मोक्ष उक्तः ‘तप्तं परशुं गृह्णाती’त्यत्र॥ उक्थं प्राणः। अर्थवादप्रकल्पितेनेति। ‘‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा’’ इति प्रकाशकत्वाज् ज्योतिष्ट्वेन रूपितत्रिवृदादिस्तुतिसमुदायवत्त्वात्क्रतौ ज्योतिः शब्दः॥७॥ हे श्वेतकेतो पुत्र तमप्यादेशम् आदिश्यते इति शास्त्राचार्योपदेशगम्यं वस्त्वप्राक्षीः पृष्टवानसित्वमाचार्यम्। येन श्रुतेन शास्त्रतोऽश्रुतमप्यन्यच्छ्रुतं भवति, अमतमन्यन्मतं तर्कतो एन मतेन , अविज्ञातमनिदिध्यासितं विज्ञातं भवति येन विज्ञातेनेति। अन्यज्ञानादन्यन्न ज्ञेयमिति पुत्रप्रश्नः –

कथं

न्विति। नान्यत्वं कार्यस्य कारणादित्याह –

यथा

सोम्येति। यो विकारः स वाचारम्भणं वागालम्बनम्, उच्यते परम्। नामधेयं नाममात्रं, नार्थ इति॥८॥ मनःशब्दवाच्यो भवतीति। लक्ष्यो भवति। ‘‘एवमेव खलु सोम्य तन्मन‘‘ इति स्वप्नोपन्यासवाक्ये अर्थवादस्यापि स्वपितिनामनिर्वचनस्य यथार्थत्वाय हृदयादिनिरुक्त्युदाहरणम्। तस्य हृदयशब्दस्य। एतन्निरुक्तं निर्वचनम्। ‘‘अशनायापिपासे सोम्य विजानीहि’’ इत्युपक्रम्याषितस्यान्नस्य द्रवीकरणेन नयनाज्जरणादापोऽशनाया। एकवचनं छान्दसम्। द्रावकोदकापनयताच्छोषणादुदन्यं तेजः। आकारश्छान्दसः॥१॥ प्राणाः चक्षुरादयः। यथायतनं यथागोलकम्। प्राणेभ्योऽनन्तरमादित्याद्या अनुग्राहका देवाः। लोक्यन्त इति

लोकाः

विषयाः॥१०॥ करणाधिपानां जीवनामधिपः॥११॥ इति पञ्चममीक्षत्यधिकरणम्॥

भाष्ये जन्मादिसूत्रमारभ्य वृत्तानुवादः प्रतिज्ञासूत्रसिद्धवत्कारेणेत्याह – ब्रह्म जिज्ञासितव्यमिति हीति। वेदान्तानां ब्रह्मपरत्वे सिद्धेऽपि प्रमाणान्तरैरविरोधार्थमुत्तरसूत्रारम्भमाशङ्क्य तेषां ब्रह्मण्यप्रवेशमाह –

तच्चेति।

अत्र भाष्यं –‘द्विरूपं ही’ति, तदयुक्तं; निरुपाधिन एव जिज्ञास्यत्वादित्याशङ्क्याह – यद्यपीति। यदि सोपाधिकरूपस्य निरुपाधिकोपदेशशेषता, कथं तर्हि उपास्तिरिति? तत्राह –

क्वचिदिति।

अवान्तरवाक्यभेदेनोपाधिविवक्षयोपासनविधिरित्यर्थः। उपास्तीनामपि मोक्षसाधनत्वव्यावृत्तये फलान्तराण्याह –

तदुपासनानीति।

अभ्युदयार्थानि

प्रतीकोपासनानि।

क्रममुक्त्यर्थानि

दहरादीनि। कर्मसमृद्ध्यर्थान्युद्गीथादीनि । एतानि विधेयत्वाद्यद्यपि कर्मकाण्डे वक्तव्यानि; तथापि मानसत्वेन विद्यासाम्यादिहाधीतानीत्यर्थः। गुणभेदेऽपि गुणिन एवकत्वादुपासनातत्फलभेदाभाव इति शङ्कते –

स्यादेतदिति।

न विशेषणमात्रमुपाधयः, किंत्वप्पात्रमिव सवितुरवच्छेदकाः। तत उपहितभेद इति भाष्याभिप्रायमाह – रूपाभेदे नोपासनविधिरर्थवान्निरतिशयेश्वरस्य प्रत्युपाध्यवस्थानेनोपासकस्यापि स्वत एवैश्वर्यादत औपाधिकानां मध्ये एक उपासकोऽपकृष्टोऽपरमुपास्यमुत्कृष्टमिति तारतम्यं सूचयन्त्य उपासनविधिश्रुतयः कथमित्यर्थः। वस्तुतः स्वतःसिद्धैश्वर्योऽप्युपासक उपाधिनिकर्षादनभिव्यक्तैश्वर्यस्तं प्रत्याविर्भूतैश्वर्यं विशुद्धोपाधिमद्ब्रह्मोपास्यमिति परिहाराभिप्रायमाह – यद्यपीति। स्थावरादिष्वसदिव ज्ञानादि तिर्यगादिषु सत्तत्रैवात्यन्तापकृष्टं मनुष्येष्वपकृष्टमात्रम्, गन्धर्वादिषु प्रकर्षवद्देवादिष्वत्यन्तप्रकर्षवदिति। अविशेषेण वेदान्तानां निर्विशेषे ब्रह्मणि समन्वयः साधितः, तस्य क्वचिद्धिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादावपवादाभासप्राप्तौ तदपवादश्च पतिपाद्य इत्यध्यायशेष आरभ्यते॥ आनन्दमयोऽभ्यासाइ ॥१२॥ ननु ‘‘ता आप ऐक्षन्त’’ इत्याद्यब्रह्मसन्निधिमपबाध्य मुख्येक्षितृ ब्रह्म निर्णीतम्, इह कथमन्नमयाद्यब्रह्मसन्निधिपाठादानन्दमयस्याब्रह्मत्वशङ्का? अत आह – गौणेति। अनादिगौणेक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यमीक्षणमिति युज्यते; मुख्यसंभवे गौणस्यानवकाशत्वात्। अतस्तत्र विशयानुदये प्रायपाठोऽकिंचित्करः। अत्र तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विकारार्थग्रहणे प्रायदृष्टिर्विशेषिका प्राचुर्यार्थत्वाद्व्यावर्तिकेत्यर्थः। एवचं पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोत्थानात् प्रत्युदाहरणलक्षणसंगतिरपि सूचिता। संशयबीजं च मयटो विकारप्राचुर्यसाधारण्यमुक्तम्। प्रयोजने च तत्तदुपास्तिः प्रमितिर्वेति सर्वत्र द्रष्टव्यम्।। भास्करोक्तमाशङ्क्याह – नचेति। विकारो हि द्विप्रकारः कश्चिच्छुक्तिरूप्यादिः स्वरूपेणाध्यस्तः, कश्चित्तु प्रतिबिम्बघटाकाशादिरूपाधितो विभक्तः, तत्र प्राणाद्युपाधिविभक्त आत्मा तद्विकारः। अथवा – भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिका अन्नमयादयः कोशा विकारा इति। विकारसन्निधेः सर्वान्तरत्वलिङ्गेन बाधमाशङ्क्याह – चतुष्कोशेति। आनन्दमयस्य सर्वान्तरत्वमन्नमयाद्यान्तरत्वमन्नमयाद्यान्तरत्वेनोक्तं तस्मादन्यस्यान्तरस्याश्रवणात्। प्रथमं निरस्य द्वितीयं निराचष्टे – नचास्मादिति। यथा ‘बलवान्देवदत्त’ इत्युक्ते यज्ञदत्ताद्यपेक्षमेव बलवत्त्वं, सिंहादीनां ततोऽपि बलवत्त्वमनुक्तमपि गम्यते; तथानन्दमयस्येतरकोशापेक्षमान्तरत्वं, ब्रह्म तु ततोऽऽप्यान्तरमनुक्तमपि गम्यत इत्यर्थः। ब्रह्मत्वे लिङ्गाभासं निरस्य जीवत्वे लिङ्गमाह – न च निष्कलस्येति। श्रुतिमप्याह – नापीति। सशरीरस्य प्रियादि दुर्वारमित्येतावता कथं मयटः प्राचुर्यार्थत्वे ब्रह्मत्वानुपपत्तिरुक्ता? तत्राह – अशरीरस्येति। एवमुक्ते ह्यशरीरे ब्रह्मणि नाप्रियमित्युक्तं भवति। तथाच दुःखगन्धाद्योती प्राचुर्यार्थो मयङ् न संभवतीत्युक्तं स्यादित्यर्थः। आनन्दप्रातिपदिकाभ्यासलिङ्गात्कथमानन्दमयस्य ब्रह्मत्वं? वैयधिकरण्यादिति शङ्कानिराकरणार्थं भाष्यं – आनन्दमयं प्रस्तुत्येति। तदिदमनुपपन्नं पुच्छब्रह्मणः प्राकरणिकत्वादत आह – आनन्दमयावयवस्येति। ननु ज्योतिषेति कर्मान्तरविधिर्नाभ्यासोऽत आह – कालेति। वसन्तकालगुणसंक्रान्तत्वान्न कर्मान्तरविधिरित्यर्थः। देवदत्तादपि बलवत्त्वं सिंहादेर्मानान्तरसिद्धम्। आनन्दमयादान्तरे वस्तुनि न मानान्तरं, नापि श्रुतिरित्यभिप्रेत्याह – न हीति। दृष्टान्तवैषम्यं शङ्कते – तादर्थ्यादिति। मुख्यारुन्धतीदर्शनाविरोधेनानुगुण्यं चेदत्रापि तुल्यमित्यर्थः। योऽपि पूर्वपक्षे प्राचुर्यार्थत्वमुपेत्य दुःखलवयोग आपादितः सोऽप्युपाधिवशादित्यर्थात्परिहृत इत्याह – प्रियादीति॥१२॥ एवंच विकारशब्दात् (ब्र.अ.१.पा.१.सू.१३) इति सूत्रं व्याख्यातम्। ‘तत्प्रकृतवचने मयट्’ तदिति प्रथमासमर्थात्प्राचुर्यविशिष्टप्रस्तुतवचनाभिधाने गम्यमाने मयडिति सूत्रार्थः। वचनग्रहणात्प्राचुर्यवैशिष्ट्यसिद्धिः। तादृशस्यैव लोके मयटाभिधानादिति॥१४॥ मान्त्रवर्णिकम् (ब्र.अ.१.पा.१.सू.१६) इति सूत्रं – भाष्यकृद्भिः सत्यं ज्ञानमनन्तमिति मन्त्रप्रस्तुतं ब्रह्म, आनन्दमयवाक्ये निर्दिश्यते, प्रकृतत्वादसंबद्धपदव्यवायाभावाच्चेति विवृतं। तत्रेतरेतरत्रार्थप्रत्यभिज्ञानाभावाद् मन्त्रब्राह्मणयोर्व्याख्यानव्याख्येयभावस्याविशदत्वात्प्रकारान्तरेण सूत्रं व्याचष्टे – अपिच मन्त्रेति। यथा मन्त्रः प्रयोगोपायः, एवं कोशचतुष्कवाक्यमानन्दमयब्रह्मप्रतिपत्त्युपायस्य देहादिव्यतिरेकस्य समर्पकत्वाद्गौण्या वृत्त्या मन्त्र उच्यते। आनन्दमयवाक्यमुपेयप्रयोगविधायिब्राह्मणवदुपेयब्रह्मप्रत्यायकत्वाद्ब्राह्मणं विवक्षितम्। तयोश्चेतरेतरत्रार्थप्रत्यभिज्ञानमाह – मन्त्रे हीति। परब्रह्मणीति। विज्ञानमयादिशब्दैरपि ब्रह्मैव तत्तदुपाधिभ्यः प्रविविच्य निर्दिष्टमित्यर्थः। नचैवं प्राणमयादान्तरात्मनो विज्ञानमयस्यात्मत्वापत्तिः; तस्मादान्तरोपदेशादिति भावः। सूत्रकारग्रहणं व्याख्येयभाष्यानपेक्षत्वसूचनार्थम्। भाष्येऽपि महाप्रकरणोपन्यासः सूत्रार्थो, न मन्त्रब्राह्मणतया व्याख्यानव्याख्येयभाव। अतएवाह – अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्यातामिति। मन्त्रब्राह्मणयोश्चेत्यपि भाष्यं प्रकरणप्रदर्शनपरमेवेत्यविरुद्धम्। सौत्रं तु मान्त्रवर्णिकपदं विवक्षितं कृतं टीकाकृता। ननु सर्वस्रष्टृत्वाद्यनेकहेतूपदेशे वाक्यभेदः स्यादत आह – सूत्रमिति। सूत्रस्य विश्वतोमुखत्वमलङ्कार इत्यर्थः॥ ननु जीवादन्यत्वान्नानन्दमयस्य ब्रह्मत्वं; घटादिष्वदर्शनात्, अत आह – तस्मादिति। आनन्दमयो ह्यात्मशब्दाच्चेतनस्तस्य च जीवत्वराहित्ये ब्रह्मत्वं सिद्धमित्यर्थः। एकत्वेऽपि परजीवयोरौपाधिकभेदाल्लब्धृलब्धव्यभावे जीवस्यापि स्वं प्रति स्यात्; तस्यापि स्थूलसूक्ष्माद्युपाधिभेदात्, अत आह – न त्विति। स्वतन्त्रोपाधिभेदे चेतनभेदः, परब्रह्मणस्तु जीवोऽविद्यायां विभक्तः सत्वविद्यावच्छिन्न एव स्थूलसूक्ष्मोपाधिभ्यामवच्छिद्यत इति न स्वस्मादौपाधिकोऽपि भेद इत्यर्थः। सूत्रारूढो हि स्वरूपेणापि मिथ्या, जीवे तु भेदमात्रं कल्पितं, न स्वरूपमतः कल्पितत्वमात्रे दृष्टान्त इत्याह – अत्रैवेति॥ ब्रह्मानन्दमयं प्रत्यवयवः, उत प्रधानमिति पुच्छब्रह्मशब्दाभ्यां संशये मुख्येक्षणाद् ब्रह्मनिर्णयेन गौणप्रायपाठो बाधितः, इह तु पुच्छशब्दस्यावयवमात्रत्वे आधारमात्रत्वे च लाक्षणिकत्वसाम्ये सत्यवयवप्रायदर्शनादवयव इति सङ्गतिः। यदुक्तं – आनन्दमयस्याङ्गं ब्रह्म – इति, तन्न, श्रुतिबाधप्रसङ्गादिति वदन् सिद्धान्तस्य बीजमावपति ब्रह्म पुच्छमिति। बल विवेकाय पूर्वोत्तरपक्षयुक्तीर्विभजते – तत्र किमिति। उपेक्ष्यापि प्रायपाठं कथंचित्प्रचुरानन्दवाचि चानन्दमयपदं कल्पितमपि ब्रह्मण्यप्रसिद्धं; स्तोकदुःखनुवृत्त्यापत्तेरित्यर्थः।

कयाचिद्वृत्त्येति।

अल्पत्वनिवृत्तिलक्षणयेत्यर्थः। ननु प्रचुरप्रकाशः सवितेतिवदल्पत्वनिवृत्तिपरः कि न स्याद्, उच्यते; यत्र प्राचुर्यविशिष्टपदार्थप्रतीतिस्तत्रैवं भवति। यत्र पुनः प्राचुर्यमेव पदार्थेन विशेष्यते तत्र विरोधिन ईषदनुवृत्तिः प्रतीयते, ब्राह्मणप्रचुरोऽयं ग्राम इत्यादौ । तथाच आनन्दमयपदेऽपि प्रधानं प्रत्ययार्थ प्राचुर्यं प्रति आनन्दस्य विशेषणत्वाद् दुर्निवारा दुःखानुवृत्तिरिति॥ ‘तत्रापिशब्दबलाद्विरोध्यनुवृत्तिः प्रतीयते, मानान्तरेण तु तदभावावगमे प्राचुर्यमल्पत्वनिवृत्तिपरं कल्प्यते। तस्मान्मयडर्थस्य मुख्यस्य त्यागः’। कृतबुद्धयः शिक्षितबुद्धयः। विदाङ्कुर्वन्तु विवेचयन्तु। विभागमात्रेणैव सिद्धान्तप्राबल्यमुन्मीलयन्वित्यर्थः। उक्तविवेकं स्फोरयति –

प्रायेति।

मयड्विकारे मुख्यः ब्रह्मशब्दः परब्रह्मणि मुख्यः अभ्यस्यमानानन्दशब्दश्च प्रकृत्यर्थएव मुख्यो न मयडर्थे। पूर्वपक्षे एतत्त्रितयलङ्घनम्, आनन्दमयपदस्यान्नमयादिविकारप्रायपाठपरित्यागश्च स्यात्। उत्तरे तु पक्षे पुच्छशब्दस्यावयवप्रायपाठस्यैव बाधनम्, अनुगुणं तु मुख्यत्रितयमित्यर्थः। ननु यथा पूर्वपक्षे मयट् च्छ्रुतिबाधः । एवं सिद्धान्ते पुच्छश्रुतिबाधस्तत्राह – पुच्छपदं हीति। लाङ्गूले मुख्यं पुच्छपदं , न करचरणाद्यवयवमात्रे; आनन्दमयस्य चात्मनो न मुख्यलाङ्गूलसंभव इति। अपिच पुच्छशब्देनाधारलक्षणा प्रतिष्ठेत्युपपदसामर्थ्याच्छ्रुत्यनुमथा, नावयवलक्षणेत्याह – आधारपरत्वे चेति। आनन्दमयस्यकोशस्यैवेतरकोशापेक्षयाऽन्तरत्वं चेत्, तर्हि ततोऽभ्यन्तरं ब्रह्म किमिति नो़क्तमत आह – ब्रह्मणस्त्विति। अर्थात्प्रतिष्ठात्वसामर्थ्यादित्यर्थः। यदुक्तमुपाधिवशात्प्रियादियोगः प्राचुर्यप्रयुक्तदुःखलेशान्वयश्चेति, तत्राह – वाङ्मानसेति॥ गुणे त्विति। यथा ह्यग्नीषोमीये पशावेकपाशके ‘‘अदितिः पाशान् प्रमुमोक्त्वेतान्‘‘ इति, ‘‘अदितिः पाशं प्रमुमोक्त्वेत’’मिति च मन्त्रौ श्रुतौ। तत्र बहुवचनवान्मन्त्रः किं प्रकरणादुत्क्रष्ठव्यो न वेति विशये बहुवचनस्यासमवेतार्थत्वादुत्कर्षे प्राप्ते विशेषप्रधानभूतपाशवाचिप्रातिपदिकस्याग्नीषोमीये समवेतार्थत्वात् तदनुरोधेन बहुवचनं पाशगुणत्वेन तद्विशेषणभूतबहुत्ववाचकमन्याय्यया लक्षणया पाशावयवाल्लक्षयतीति नवमे निर्धारितम् – विप्रतिपत्तौ विकल्पः स्यात्समत्वाद् गुणे त्वन्याय्यकल्पनैकदेशत्वात् (जै.अ.९.पा.३.सू.१५) इति। उत्कर्षोऽनुत्कर्षो वेत्यस्यां विप्रतिपत्तौ पाशं पाशानिति च मन्त्रयोर्विकल्पः स्यात्; पाशप्रातिपदिकस्योभयत्र समत्वात् गुणे प्रत्ययार्थे त्वन्याय्यकल्पना न तद्बलान्मन्त्रोत्कर्षः; प्रत्ययस्य पदैकदेशत्वात्प्रातिपदिकपारतन्त्र्येणोत्कर्षकत्वायोगादिति सूत्रार्थः। एवमिहापि प्रधानश्रुतिविरोधे गुणभूतसूत्राण्यध्याहारादिभिर्नेयानीति। तथाचाचार्यशबरस्वामी वर्णयांबभूव – लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति वेदाविरोधसंभवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यमिति॥

अपराण्यपीति भाष्ये येषु सूत्रेषु व्याख्याऽतिदिष्टा तान्यल्पवक्तव्यत्वात्प्रथमं योजयति – यत्सत्यमिति। तद्धेतुव्यपदेशाच्चेति (ब्र.अ.१.पा.१.सू.१४) सूत्रव्याख्यानपरमधिकरणसमाप्तिभाष्यं व्याख्याति –

विकारजातस्येति।

अवयवो यदीति शेषः। अवयवश्चेत् कथं कारणमुच्येत, तत्र हेतुमाह –

हीति। आनन्दमयस्तावद्विकारः, तदवयवो ब्रह्मापि विकारः स्यात्परिच्छिन्नत्वात् तथाभूतं सन्न विश्वहेतुरित्यर्थः। चिन्ताप्रयोजनमाह – तस्मादिति। आनन्दमयविकारस्यावयवो ब्रह्मेति कृत्वेत्यर्थः। तेन ब्रह्मणाऽवयवेन योगो यस्य स तथोक्तः॥

इति षष्ठं आनन्दमयाधिकरणम्॥( फुट् नोट्: तत्र सूत्राणि – आनन्दमयोऽभ्यासात्॥१२॥ विकारशब्दान्नेति चेन्न प्राचुर्यात्॥१३॥ तद्धेतुव्यपदेशाच्च॥१४॥ नेतरो ऽनुपपत्तेः॥१५॥ मान्त्रवर्णिकमेव गीयते॥१६॥ भेदव्यपदेशाच्च॥१७॥ कामाच्च नानुमानापेक्षा ॥१८॥ तस्मिन्नस्य च तद्योगं शास्ति॥१९॥

अन्तस्तद्धार्मोपदेशात्॥२०॥ निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः। ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः॥१॥ वशीकृते मनस्येषां सगुणब्रह्मशीलनात्। तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम्॥२॥ समन्वयस्य सविशेषपरत्वमपोद्यानन्दमयाधिकरण उत्सर्गः स्थापितः। इदानीमपवादचिन्तार्थत्वेनाधिकरणमवतारयन् प्रघट्टकसङ्गातिमाह –

पूर्वस्मिन्निति।

यद्यप्यपवादापवादत्वात् पुच्छब्रह्मचिन्ता प्रातर्दनविचारसन्निधौ कर्तुं युक्ता; तथाप्यवान्तरसङ्गतिमालोच्य कामाच्च नानुमानापेक्षे (ब्र.अ.१.पा.१.सू.१८) ति प्रधाननिरासस्येक्षत्यधिकरणा(ब्र.अ.१.पा१.सू.५) नन्तरं बुद्धिस्थतां चापेक्ष्य प्रथमं कृता। उतादित्यपदवेदनीयो जीव उपास्यत्वेन न तूपक्षिप्यत इत्यनुषङ्गः। इह रूपवत्वसर्वपाप्मविरहाभ्यां संशये पूर्वत्र मुख्यत्रितयाख्यबहुप्रमाणानुसारान्निर्विशेषनिर्णयवद् रूपवत्त्वादिबहुप्रमाणवशात्संसारी हिरण्मयः पुरुषः इत्यवान्तरसङ्गतिमभिप्रेत्य पूर्वपक्षं सङ्कलयति –

मर्यादेति।

सर्वपाप्मविरहस्यान्यथासिद्धिमाह –

कर्मेति।

इन्द्रस्य वृत्रवधेन ब्रह्महत्याश्रवणादस्ति देवानां कर्माधिकार इति भारतिविलासः । तन्न ; गवां सत्रासनश्रवणात् (तासां) तेषामप्यधिकारप्रसङ्गात्। असंभवस्तूभयत्र तुल्यः। नह्यैन्द्रे दधनि इन्द्रस्याधिकारसंभवः। न च निषेधाधिकारः; ‘‘न ह वै देवान् पापं गच्छती’’ ति श्रुतेः। अथ प्राकृतस्यैव (फुट् नोट् : ग – पुस्तके ‘प्रकृतस्यैव’ इति पाठः)। पापस्य फलानारम्भकत्वमेतच्छ्रुत्यर्थः, तर्हि तदेव पाप्मोदयस्यालम्बनमस्तु, कर्मानधिकृतत्वोक्तेः तत्प्रदर्शनार्थत्वादिति (फुट् नोट्: ग – पुस्तके ‘तत्’ इति नास्ति) अमुष्मादादित्यात्पराञ्चः। नह्यनाधारस्येति भाष्यं व्याचष्टे – अनाधारत्वे चेति। नित्यत्वमिति स्वमहिमप्रतिष्ठितत्वस्य व्याख्या। कथं नित्यत्वेनाऽनाधारत्वसिद्धिस्तत्राह –

अनित्यं

हीति। तर्हि तत एवानाधारत्वसिद्धौ किं सर्वगतत्वेनात आह –

नित्यमपीति।

नित्यमपि असर्वगतं चेत्तन्न भवत्याधाररहितं, यतो यद्वस्तु तस्मान्नित्यादधरभावेनावस्थितं, तदेव तस्य नित्यस्योपरिस्थितस्याधारो भवति। तस्मात्सर्वगतत्वमपि नित्यत्वविशेषणत्वेनानाधारत्वे हेतुर्वक्तव्य इत्यर्थः। सर्वात्मत्वसर्वदुरितविरहयोः रूपवत्त्वादिभ्यः किं बलमत आह –

अव्यभिचारिभ्यामिति।

न ब्रह्मणोऽन्यत्र तयोः संभव इत्यर्थः। ब्रह्मणि सर्वात्मत्वसंभवमाह –

सर्वेति।

रूपवत्त्वादेर्ब्रह्मण्यपि सम्भवद्व्यभिचारमाह –

विकारवदिति।

कार्योपहितमित्यर्थः। सर्वदुरितविरहमुदाहृतवाक्येनापि(फुट नोट्: ग – पुस्तके ‘अपिः’ नास्ति) प्रमिमीते – नामेति। पाप्मभ्य इति अपादाने पञ्चमी। ततः सर्वे पाप्मनोऽपादानां यस्योदयस्य तस्य भावस्तत्ता तद्रूपेणोदय उद्गम उच्यत इति। रूपवत्त्वं तादृशेन रूपविशेषेणोपदिश्यत इत्यन्वयः। ननु हिरण्मयत्वं कथं? तद्धि शरीरस्यात आह –

विकारस्य

चेति। नन्वविकारिब्रह्मणो मायामयं रूपं वक्तव्यं, तश्च मिथ्यार्थप्रकाशकतया शास्त्राप्रामाण्यमत आह –

नचेति।

यथा लोके मायाविदर्शितमायानुवादिवाक्यं प्रमाणमेवं शास्त्रमपि। अप्रामाण्यं तर्हि कदा स्यादत आह –

अपित्विति।

मायां मिथ्याबुद्धिं कुर्वदशास्त्रं स्याद्, नतु तां करोति; तस्याः प्रागेव सिद्धत्वादित्यर्थः। विभूतिमत्स्वेवेश्वरावस्थाने सार्वात्म्यविरोधमाशङ्क्याभिव्यक्तिमात्रं तत्र, सत्ता तु सर्वत्रेत्याह –

सर्वेति।

लोककामेशितृत्वश्रवणाद्देवमनुष्यैरीश्वराज्ञा विनाऽशितुमपि न शक्यमित्यन्तः पारार्थ्यन्यायः। सैवर्क् तत् सामेति तच्छब्दैश्चाक्षुषपुरुषपरामर्शः। ऋगादिविधेयापेक्षया स्त्रीलिङ्गनिर्देशः। उक्थं शस्त्रविशेषः। तत्साहचर्यात्सामस्तोत्रं ऋगुक्थादन्यच्छस्त्रं ब्रह्म त्रयो वेदाः पृथिव्यग्न्याद्यात्मके चेत्यादिभाष्यम्। तत्र ऋगाधिदैवं पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा साम चाग्निवाय्वादित्यचन्द्रम आदित्यगतपरकृष्णाख्यातिकृष्णरूपादिकमाम्नातमियमेवर्गग्निः(फुट् नोट्: घ – पुस्तके ‘गतपरः कृष्णाख्यमतिकृष्णरूपात्मकम्’ इति पाठः)

सामेत्यादिना।

अध्यात्मं च ऋग्वाक्चक्षुः श्रोत्रादिगतशुक्लभालक्षणा तावदुक्ता। साम च प्राणच्छायात्ममनोक्षिस्थकृष्णभारूपमाम्नातम् – वागेवर्क् प्राणः सामेत्यादिना। एवमात्मके ऋक्सामे तस्य गेष्ण्यौ पर्वणी॥

इति सप्तममन्तरधिकरणम्॥

आकाशस्तल्लिङ्गात्॥२२॥ लिङ्गाद् ब्रह्मनिर्णयस्य तुल्यत्वात्पुनरुक्तिमाशङ्क्याह –

पूर्वस्मिन्निति।

श्रुतिप्राप्तनभसो लिङ्गेन बाधार्थो न्यायोऽधिक इत्यर्थः। इदमुक्तं – न भूताकाश

उपास्यत्वेनेति।

यद्यप्यस्मिन्ग्रन्थे पूर्वत्र सोपाधिब्रह्मण उपास्तिचिन्ता, अत्र तु तस्योद्गीथे संपत्तिचिन्तेति विशेषप्रदर्शनपरं भाति, तथापि न तथार्थो ग्राह्यः, हिरण्मयवाक्येऽपि तस्मादुद्गीथ इत्युद्गीथसंपत्तेस्तुल्यत्वात्। तस्मादेतदपि असाधारणधर्मतुल्यमेवानूदितम्। आकाशशब्दो नभ पर, उत ब्रह्मपर इति रूढिनिरूढप्रयोगाभ्यां विशये पूर्वत्राव्यभिचारिलिङ्गादन्यथासिद्धरूपवत्त्वादि नीतम्, इयं तु श्रुतिर्लिङ्गान्नान्यथयितव्येति प्रत्युदाहरणलक्षणसंगतिः। प्रधानत्वहेतुं व्याचष्टे –

अस्येति।

तदानुगुण्येनेत्येतद्विवृणोति –

सर्वाणीति।

प्रथमत्वे हेतुं व्याख्याति –

अपिचेति।

ननु परबलीयस्त्वन्यायेन प्रथममाकाशं बाध्यताम्, अत आह –

एकवाक्यगतमिति।

निरपेक्षं परं पूर्वं बाधते, एकवाक्यनिविष्टशब्दानां तु पूर्वानुरोधेनोत्तरार्थप्रतीतिः, तद्विरुद्धार्थसमर्पणे वाक्यभेदापत्तेरित्यर्थः। ‘‘यदेष आकाश आनन्द’’ इत्यादौ ब्रह्मण्याकाशशब्दो गौणो दृष्टः, तद्वदिहापि स्यादित्याशङ्क्याह – न च

क्वचिदिति।

यादांसि जलचराः। यादांसीति प्रयोगे गङ्गापदाभिधेयस्य वाक्यार्थान्वयसंभवान्मुख्यत्वं, न त्विह नभसो वाक्यार्थान्वयः, आनन्त्याद्ययोगादत आह –

संभवश्चेति।

मुख्यानुगुण्येन गुणानां नयनस्योक्तत्वादित्यर्थः। अस्तु तर्हि ब्रह्मणि मुख्यः, तत्र वक्तव्यं किं ब्रह्मनभसोर्मुख्यः, उत ब्रह्मण्येवेति। नाद्य इत्याह –

अनेकार्थत्वस्येति।

नहि द्वितीय इत्याह –

भक्त्या

चेति। ननु नभसि गौणः, ब्रह्मणि रूढ किं न स्यात्तत्राह –

तत्पूर्वकत्वाच्चेति।

प्रश्नोत्तरयोरेकार्थपर्यवसानसामर्थ्यलक्षणं सूत्रगतलिङ्गशब्दार्थमभिप्रेत्य सिद्धन्तयति –

सामानाधिकरण्येनेति।

नन्वैकार्थेऽपि प्रश्नोत्तरयोः प्रतिवचनस्थाकाशशब्दानुरोधात्प्रश्नोऽपि मुख्याकाशपरोऽस्तु, तत्राह –

पौर्वापर्येति।

प्रश्नोत्तरयोरर्थतः शब्दतश्च पूर्वापरत्वेनानुसंधानादसंजातविरोधप्रश्नानुसारेण चरममुत्तरं नेयमित्यर्थः। अनेन प्रथमत्वहेतोरसिद्धिरुक्ता, प्राधान्यं तूपक्रमविरोधे सत्यकिंचित्करमित्युक्तम्। प्रधानत्वेऽपीति। आकाशपदस्य प्रधानार्थत्वेऽपि गौणता, अपिशब्दान्न नभसः प्रधानत्वमपि तु पृष्टस्य सर्वकारणस्यैवेत्यर्थः। प्रधानत्वेऽपीत्येतद्व्याचष्टे –यद्यपीति। सामानाधिकरण्येनेत्येतद्विभजते –

यत्पृष्टमिति।

अस्तु प्रश्नोत्तरयोरेकविषयत्वं प्रश्नविषयस्तु नभ इति नेत्याह –

तदिहेति॥

यत्तु कश्चिदाह – दाल्भ्येन स्वर्गलोकः सामप्रतिष्ठेत्युक्ते शालवत्योऽप्रतिष्ठत्वेन तद्दूषयित्वा पृथिवीलोकः सामाश्रय इत्यूचे। प्रवाहणस्तु तमन्तवत्त्वेनादूदुषत्। तर्ह्यस्य लोकस्य का गतिरिति शालावत्योऽपृच्छत्। तत्र पृथिवीकारणमात्रं पृष्टं, न सर्वलोकगतिः; तस्मात् – पूर्वापरपरामर्शरहितैः प्राज्ञमानिभिः। कल्पितेयं गतिर्नैषा विदुषामनुरञ्जिका॥ इति ॥ तच्छ्रुतिभावानवबोधविजृम्भितम्। तथा हि – पृथिवीमात्रकारणस्यापां प्रसिद्धत्वेन प्रश्नवैयर्थ्यात्, अस्येति च सर्वनामश्रुतेः प्रकरणद्बलीयस्याः सर्वकार्यविषयत्वोपपत्तेः । यस्तु प्रथमप्रश्ने दाल्भ्यकृतेऽस्यशब्दः, स पृथिवीपरोस्तु; न प्रतिष्ठा लोकमतिनयेदिति पृथिव्या एव तदुत्तरेऽभिधानात्। द्वितीये तु शालावत्यकृते न तथा किंचिदस्ति संकोचकम्। किंचाभिधत्तामयमप्यस्यशब्दः पृथिवीमेव; तथाप्यन्तवत्त्वदोषापनिनीषया प्रश्नप्रवृत्तेः पृथिवीमात्रकारणनिरूपणे तदसिद्धे काकेभ्यो रक्षतामन्नमितिवदयमस्यशब्दः सर्वकार्यपरः। तथाच पूर्वापरेत्यादिरुपालम्भ उष्ट्रलकुटन्यायमनुसरतीति॥ पौर्वापर्येत्येतच्छङ्कोत्तरत्वेन विवृणोति –

चोत्तरे इति। यद्यपि कारणविषयप्रश्नः ; तथापि तत्र विशेषणतया कार्यमप्युपात्तमिति कार्यमेव पृष्टमित्युक्तम्। कथं न युक्तमत आह –

प्रश्नस्येति।

यथा हि ‘‘उच्चैॠचा क्रियत‘‘ इत्यत्र विध्युद्धेशगता अप्यृगादिशब्दाः ‘‘त्रयो वेदा अजायन्ते’’ – त्युपक्रमगतमर्थवादस्थमपि वेदशब्दमेकवाक्यत्वसिद्ध्यर्थमनुरुन्धाना ऋगादिजातिवचनतां मुञ्चन्तो वेदलक्षणार्था इति निर्णीतं वेदो वा प्रायदर्शना(जै.अ.३.पा.३.सू.२) दित्यत्र, एवमत्राप्येकस्मिन्वाक्ये ‘‘अस्य लोकस्य का गतिरिति’’ सर्वाकारणत्वावरुद्धायां बुद्धौ तद्विरुद्धार्थस्य वाक्यैक्यविनाशिनो निवेशायोगादाकाशपदं परमकारणे गौणमित्यर्थः। ननु निर्णीतार्थ उपक्रम उपसंहारमन्यथयेत्, न प्रश्नोपक्रमः; संदिग्धार्थत्वादिति, तत्राह –

नचेति।

प्रश्नः स्वविषये व्यवस्थित एव न चेत् तत्र वक्तव्यं स निर्विषयः, पृष्टादन्यविषयो वा। नाद्य इत्याह –

अनालम्बनत्वेति।

न द्वितीय इत्याह –

वैयधिकरण्येति।

एवं तावत्प्रश्नप्रतिवचनवाक्यसामर्थ्यं तल्लिङ्गादिति सौत्रहेतुवचनार्थ इति व्याख्याय वाक्यशेषस्थलिङ्गपरतया व्याख्यान्तरमाह –

अपिचेत्यादिना॥

सर्वेषां लोकानामिति प्रश्नोपक्रमादिति। उत्तरे – सर्वाणीति दर्शनात् प्रश्नस्थः षष्ठ्यन्तलोकशब्दोऽस्येति सर्वनामसहपठितो व्याख्याय निर्दिष्ट इति। इदंच प्रश्नस्य सर्वकारणविषयत्वे लिङ्गम्, इतरथा ह्युत्तरे पृथिव्याकाशात् समुत्पद्यत इति स्यात्तन्मात्रकारणस्य पृष्टत्वादिति। ननु साम्ये विरोधिनां भूयसामनुग्रहो न्याय्यः, इह तु प्रधानमाकाशशब्दार्थो नाप्रधानैर्भूयोभिरपि बाध्येत। यदाह कश्चित् – त्यजेदेकं कुलस्यार्थे इति राद्धान्तयन्ति ये। शेषिवाधे न तैर्दृष्टमात्मार्थे पृथिवीमिति॥ इति, तत्राह –

नचाकाशस्य

प्रधान्यमिति। ननु शेष्यर्थत्वादाकाशपदं प्रधानार्थमत आह –

तथाचेति।

उपक्रान्तं प्रधानं ब्रह्म विशिषम्नाकाशशब्दः प्रधानार्थो नतु गगनमभिदधदित्यर्थः। अपि चेति भाष्योक्तान्तवत्त्वप्रतिपादिकं श्रुतिमाह –

अन्तवदिति।

आस्तां प्रश्नोपक्रमानुरोधः, प्रतिवचनेऽपि वाक्यशेषगताऽनन्यथासिद्धब्रह्मलिङ्गादाकाशपदं गौणार्थमिति भाष्यार्थमाह –

तत्रैव

चेति। ‘‘उद्गीथे कुशलास्त्रयः शालावत्यदाल्भ्यजैवलयः कथमारेभिरे। शालावत्या दाल्भ्यं पप्रच्छ का साम्नो गतिः; कारणमिति, इतर आह

स्वर

इति। स्वरस्य प्राणः, प्राणस्यान्नम्, अन्नस्याप, अपां स्वर्गः वृष्टेस्तत आगतेरिति’’ दाल्भ्ये प्रत्युक्तवति स्वर्गस्यापि मनुष्यकृतज्ञाद्यधीनस्थितिकत्वादप्रतिष्ठितं व किल ते दाल्भ्य सामेत्युक्त्वा अयं लोकः स्वर्गस्य गतिरिति शालावत्य प्रतिजज्ञे। तं राजा जैवलिराह ‘अन्तवद्धै किल ते शालावत्य साम कारणमिति’ ‘तर्ह्यस्य लोकस्य का गतिरिति’ पृष्टो राजा ‘आकाश’ इति होवाच। ज्यायान्महत्तर , परमयनमाश्रयः परायणं परोवरेभ्यः स्वरादिभ्योऽतिशयेन वरः परोवरीयान्। स चाकाश उद्गीथे संपाद्योपास्यत्वादुद्गीथः॥ इति अष्टममाकाशाधिकरणम्॥

अत एव प्राणः॥२३॥ अतिदेशत्वात्सैव सङ्गतिः। अथ वा अनन्तवस्तुपरत्वादुपक्रमोपसंहारयोरस्त्वाकाशवाक्यं ब्रह्मपरम्, अत्र तु ब्रह्मासाधारणधर्मपरोपक्रमोपसंहारादर्शनान्न ब्रह्मपरतेति सङ्गतिः । अथवा आकाशवाक्यानन्तर्यात्प्राणवाक्यस्येति सङ्गतयः। विषयप्रदर्शकभाष्य उद्गीथ इत्युक्तं तदुद्गीथप्रकरणे प्रासङ्गिकं प्रस्तावोपासनमिति कथयितुमित्याह –

उद्गीथेति।

पुरस्ताद्धि “परोवरीयासमुद्गीथमुपास्त’’ इत्युक्तं, ‘‘परस्ताच्चाथातः शौल्क उद्गीथ’’ इति , अतः प्रस्ताववाक्यं यद्यपि विषयः, तथापि प्रकरणशुद्ध्यर्थमुद्गीथग्रहणमित्यर्थः। श्लोकस्य पूर्वार्धं व्याचष्टे –

ब्रह्मणो

वेति। नह्याकाशाद्वायूदयः प्रत्यक्षादियोग्यः, अतो वाक्यशेषाद्व्यक्तो ब्रह्मनिर्णयः। उत्तरार्धं विवृणॊति –

इह

त्वित्यादिना। इह सर्वाणि ह वेति वाक्ये इत्यर्थः। भोगप्रत्यासत्तेरिन्द्रियाणां भूतसारत्वं ततः पधानेन सर्वभूतलक्षणया भूतोत्पत्तिलयौ वायाविति प्रत्यक्षानुगृहीतया श्रुत्योक्तं तस्याः संवादलब्धबलाया बलात्सर्वाणीति वाक्यं वायुविकारपरं व्याख्येयमिति। ‘‘कतमा देवतोद्गीथमन्वायत्तेत्यादित्य इति होवाच कतमा प्रतिहारमित्यन्नमिति‘‘ देवते अभिहिते। कार्यकारणसंघातरूपे इति। शरीरिण्यावित्यर्थः। अन्नमपि तदभिमानिदेवता। स्वत एव निश्चायकत्वात्स्वविषयज्ञानोत्पादे मानान्तरं नापेक्षते, निश्चयपूर्वकत्वाद्व्यवहारस्य स्वविषयव्यवहारे नापेक्षते, असंवादिनो वाक्यस्य स्वविषये नादार्ढ्यं रूप इव चक्षुषः त्वगिन्द्रिय संवादिनो न दार्ढ्यं चक्षुष इव द्रव्ये इति । येन प्रमाणानां संवादविसंवादावप्रयोजकौ तेन। यदा वै पुरुष इति वाक्यादिन्द्रियमात्रस्य सुप्तिसमये वायुविकारे संवेशनोद्गमने भवेताम्, नत्वेतावता सर्वभूतोत्पत्तिलयौ तदाश्रयौ योजयितुं शक्यौ; तयोस्तत्र वाक्ये प्रतीत्यभावात्। अथ पुनरिन्द्रियसारत्वात्सर्वभूतलक्षणा, तत्राह प्रतीतौ वेति। ननु कथं ब्रह्मैव भवेद्यावता सुप्तौ वायुविकारे लयः प्रमाणान्तरसिद्ध, तत्राह –

नचेति।

इन्द्रियमात्रलयः प्रमाणान्तरदृष्टो, न भूतलयस्तेनाकाशवाक्यवद् ‘यदा वै’ इति वाक्येऽपि यदि सर्वभूतलयः प्रतीयेत, तर्हि वाक्यशेषाद् ब्रह्मनिर्णय इत्यर्थः। एवं तावत्स्वापवाक्यस्य भूतलयपरत्वमाश्रित्य तदनुसारेण सर्वाणि ह वेति वाक्यं वायुविकारे सर्वभूतलयं वक्तीति शङ्का निरस्ता। इदानीं तस्य यथाश्रुतेन्द्रियलयमात्रपरत्वमाश्रित्य तदनुरोधेनेदमपीन्द्रियलयपरं व्याख्यायते , तथाच न ब्रह्मलिङ्गसिद्धिरित्याशङ्क्याह –

च मानान्तरेति। सर्वभूतसंवेशनस्य वाय्वाश्रयत्वयोजनायामुक्तं दूषणमिन्द्रियमात्रलयपरत्वयोजनायामपि संचारयति –

स्वतःसिद्धेति।

ननु वाक्यभेदमभ्युपेत्य संवादिवाक्यबलादितरसङ्कोचं न वदामोऽपि त्वेकवाक्यतामत आह – नचास्येति। ‘यदा वै पुरुष’ इत्यस्य संवर्गविद्यागतत्वात् सर्वाणि ह वेत्यस्योद्गीथविद्यागतत्वादित्यर्थः । अभ्युपेत्याह – एकवाक्यतायां वेति। नन्वेकवाक्यत्वे कुतो विनिगमना यतस्तद् ब्रह्मपरं, न पुनरिदमिन्द्रियमात्रलयपरमित्यत आह – इन्द्रियेति। अवयुत्यवादः – एकदेशस्य विभज्य कथनम्। सर्वोत्पत्तिलयौ हि सर्वाणि ह वेत्यत्र प्रतीतौ। तत्रत्यसर्वशब्दानुरोधेन इन्द्रियमात्रोत्पत्तिलयकथनमेकदेशानुवादत्वेन घटिष्यते॥ एकं वृणीत इत्यादावर्षेयवरणे सर्वत्रापूर्वत्वाद्विधिमाशङ्क्य वर्तमानापदेशत्वाद्विधिः कल्प्यः। सर्वत्र च तत्कल्पने सकृच्छ्रुतस्य ‘ न चतुरो वृणीत’ इत्याद्यर्थवादस्य प्रतिविध्यावृत्तिः स्यात्, सा मा भूदित्येकत्र विधिकल्पना तत्रापि त्रीन् वृणीत इत्यत्रेव। तथा सति हि शते पञ्चाशदितिवद् द्वौ वृणीत इत्याद्यन्तर्भावादनुवादः स्यादिति षष्ठे (जै.सू.अ.६.पा.१.सू.४३) राद्धान्तितमेवमत्रापीत्यर्थः। चिन्ताप्रयोजनमाह –

तस्मादिति।

भाष्ये –वाक्यशेषशब्दः एकवाक्यत्वपरः। इहहि स्ववाक्ये ब्रह्मलिङ्गं दृश्यते, अन्नादित्यसन्निधानं वाक्यान्तरसापेक्षमतः स्ववाक्यस्थलिङ्गं प्रबलमिति भाष्यार्थमाह –

वाक्यादिति।

वाक्यस्य सन्निधानादत्र प्राबल्यं निरूप्यत इति न भ्रमितव्यम्; अत्र ब्रह्मवाचिपदाभावेन वाक्यत्वाभावात्। ‘कतमा सा देवतेति’ चेतनवाचिदेवताशब्दोपक्रमात् सैषा देवतेत्युपसंहाराच्च चेतनपरं वाक्यं न वायुविकारपरम्। अथ प्राणाभिमानिनी देवता लक्ष्येत, तर्हि तवापि समः श्रुतित्यागः, मम तु वाक्यशेषः साक्षीत्यभ्युच्चयः॥ चाक्रायणः किल ऋषिर्धनाय राज्ञो यज्ञमभिगम्य ज्ञानवैभवमात्मनः प्रकटयितुकामः प्रस्तोतारमुवाच हे प्रस्तोत, या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् मम विदुषः सन्निधौ प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति। स भीतः पप्रच्छ कतमा सेति, प्रत्युक्तिः प्राण इति। प्राणमभिलक्ष्य संविशान्ति लयकाले , उत्पत्तिकाले उज्जिहते उद्गच्छन्ति। इति नवमं प्राणाधिकरणम्॥(फुट् नोट्) तत्र सूत्रम् १ – अत एव प्राणः॥ २३॥

ज्योतिश्चरणाभिधानात्॥२४॥ यदिदमित्यनुभूयमानत्वमुक्तं तद्व्याचष्टे –

त्वग्ग्राह्येणेति।

तस्यैषा दृष्टिर्यत्रैतदस्मि शरीरे स्पर्शेनोष्णिमानं विजानाति, तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिधाय निनदमिव शृणोतीति वाक्यं व्याचष्टे –

तत्र

शारीरस्येति। नन्वौष्ण्यघोषोपलब्ध्योः कथं तस्येति ज्योतिः संबन्धनिर्देशोऽत आह –

तल्लिङ्गेनेति।

औष्ण्यघोषलिङ्गेनेत्यर्थः। गमकसंबन्धिनोर्गम्यसंबन्दोपचार इत्यर्थः। श्लोकं पूरयति –

गौणेति।

नन्वौत्सर्गिकोऽपि मुख्यसंप्रत्यय आकाशप्राणशब्दवदपोद्यतामत आह –

वाक्यस्थेति।

तत्राहि वाक्यशेषस्य ब्रह्मलिङ्गाद्गौणता, अत्र तु वाक्ये ब्रह्मलिङ्गं नोपलभ्यते, प्रत्युत तेजोलिङ्गमेवोपलभ्यते, अत उत्सर्गोऽनपोदित इत्यर्थः। अनेन सङ्गतिरुक्ता। ननु पूर्वत्र गायत्रीवाक्ये तावानस्येति ब्रह्मलिङ्गमस्त्यत आह –

वाक्यान्तरेणेति।

नहि वाक्यान्तरस्थालिङ्गात्स्ववाक्यस्था श्रुतिर्मुख्यार्थात्प्रच्यावयितुं शक्येत्यर्थः। अभ्युपेत्य वाक्यान्तरेण नियममाह –

तदर्थेति।

दिवि दिव इति च सप्तमीपञ्चमीभ्यां प्रत्यभिज्ञानविच्छेदान्न वाक्यान्तरार्थ इह ग्राह्य इत्यर्थः। वाक्यस्थेत्येतद्व्याचष्टे –

बलवदिति।

तेजोलिङ्गमेव दर्शयति –

दीप्यत

इत्यादिना। किमुपोद्बलनाय

इह

तन्निरासेति। निरासकारणं हि प्राप्तिः। नचान्तस्तद्धर्मोपदेशात् (ब्र.अ.१.पा.१.सू.२०)

इति निरस्तस्यात्र प्राप्तिरित्यर्थः। भवत्वेकदेशस्य मर्यादा न समस्तस्येत्याशङ्क्याह –

तस्य

चेति। न समस्तं तेज उपास्यं, किं त्ववयव इत्यर्थः। वाक्यान्तरेणेत्येतद्व्याख्याति –

च पादोऽस्येति। तदर्थाप्रतिसन्धित इत्येतद्व्याचष्टे –

च वाक्यान्तरे इति। अस्यैव व्याख्यानान्तरमाह –

अपिचेति।

गायत्र्याश्छन्दोवचनत्वेन (फुट् नोट् – ग – पुस्तके ‘गायत्रीछन्दोव’ इति पाठः) सन्देहाद्वाक्यान्तरस्य ब्रह्मार्थत्वं साध्यं न सिद्धम्। अप्रतिसन्धित इत्यस्याप्यनिश्चयादित्यर्थः। तेन वाक्यान्तरेण यदतः पर इति वाक्यं ब्रह्मपरतया नियन्तुं कथं शक्यमिति योजना। तमो ज्योतिरिति भाष्ये तमोग्रहणप्रयोजनमाह –

तेज

इति।

अर्थावकरत्वेनेति।

अनुद्भूतस्पर्शत्वेन तमसो नयनरश्मिनिर्गमनप्रतिबन्धकत्वायोगादर्थप्रकाशनप्रतिबन्धकत्वेन निरोधकत्वं तमस इत्यर्थः। सिद्धान्त्येव पूर्वपक्षाक्षेपक आक्षेप्ता। एकदेशी पूर्वपक्ष्येकदेशी। न प्रयोजनान्तरेति भाष्यस्यायमर्थः। प्राणिकर्मनिमित्ता सृष्टिः सप्रयोजना तत्रात्रिवृत्कृतं तेज उपास्त्यर्थं सृष्टमिति न शक्यं वक्तुं; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादिवदुपास्यत्वसम्भवे तस्य सृष्टिं प्रत्यप्रयोजकत्वाद्वाजिनस्येव दध्यानयनं प्रतीति। तासां त्रिवृतं त्रिवृतमिति भाष्यं व्याचष्टे –

एकैकामिति।

तेजआदिभूतं प्राति सामान्यप्रवृत्ता त्रिवृत्करणश्रुतिरुपास्यमानतेजोविषयत्वेन संकोचयितुं न युक्ता; ततोऽन्यत्र नेतुमयुक्तेत्यर्थः। तेजआदीनि परोक्षत्वसाम्याद्देवताः। त्रिवृतं त्रिवलितम्। न वयं वाक्यान्तरस्थलिङ्गात्तेजः श्रुतिं बाधामहे, अपि तु तदुपबृंहितश्रुत्येत्याह –

सर्वनामेति।

प्र

सिद्धं

प्रज्ञातम्। प्रसाध्यं नाद्यापि ज्ञातम्। यदा यच्छब्दः प्रज्ञातवचनस्तदा गायत्रीवाक्यनिर्दिष्टं ब्रह्म परामृशतीत्याह –

प्रसिद्धीति।

तद्बलादिति। यच्छब्दश्रुतिबलादित्यर्थः।

तेनेति।

येन पूर्ववाक्यस्थमपकर्षति तेनेत्यर्थः। ननु दिवि दिव इति रूपभेदान्न पूर्ववाक्यस्थब्रह्मण इह प्रत्यभिज्ञा, अतः सर्वनाम तं न परामृशेदत आह –

प्रधानं

हीति। प्रातिपदिकार्थं इत्यध्याहार्यम्। प्रातिपदिकार्थो द्यौस्तावदुभयत्र समा, सा हि प्रधानं, गुणस्तु विभक्त्यर्थः। तस्माद्गुणे त्वन्याय्यकल्पनेति विभक्तिवैरूप्यं नेयमित्यर्थः। यदवादि छन्दोभिधानात्सन्दिग्धं प्राचि वाक्ये ब्रह्मेति तत्राह –

ब्रह्मेति।

तत्र गायत्रीवाक्ये त्रिपाद् ब्रह्म नतु च्छन्द इत्यर्थः। ‘‘यस्याहिताग्नेरग्निर्गृहान् दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदि’’त्यत्र दहेदिति विधिविभक्तिः प्रसिद्धार्थयच्छब्दोपहता गृहदाहलक्षणनिमित्तपरा। आर्च्छेदिति च विधिविभक्तिः स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदिति विधास्यमाननिर्वापनिमित्तं हविरार्तिमनुवदति। उभयं दधिपयसी। वचनानि त्विति। ज्योतिष्टोमगतसोमेषु शेषभक्षो विध्यभावान्न विद्यत इति प्राप्ते सर्वतः परिहारमाश्विनं भक्षयति तस्मात्सर्वा दिशः शृणोतीत्याद्यर्थवादा अप्राप्तत्वाद्भक्षानुवादायोगाद्विधायकानि वचनानीत्युक्तं तृतीये। एवं प्राप्त्यभावे प्रसिद्धार्थत्वं सर्वनाम्नोऽपनीयत इति यदाग्नेय इति तुल्यन्यायत्वादुदाहृतम्। कार्यज्योतिरुपलक्षित इति भाष्योक्तलक्षणायां सम्बन्धमाह –

ब्रह्मविकार

इति। ननु वाक्यस्थज्योतिर्लाभे प्रकृतहानं न दोषोत आह –

प्रसिद्ध्यपेक्षायामिति।

यच्छृतेर्विषयगवेषणायां प्रकरणप्राप्तमपि प्रसिद्धं ग्राह्यं, न स्ववाक्यगतमपि प्रस्तोष्यामाणमपूर्वम्, अप्रसिद्धेरित्यर्थः। शास्त्रवशादन्यदृष्ठ्यालम्बनं प्रतीकम्। कौक्षेयज्योतिषो ब्रह्मप्रतीकत्वे ब्रह्मसंबन्धमाह –

कौक्षेयं

हीति॥२४॥ न च भूतपृथिवीति। एवं हि श्रूयते। ‘‘गायत्री वा इदं सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च या वै सा गायत्री, इयं वाव सा येयं पृथिवी, या वै सा पृथिवीयं वाव सा यदिदं शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिताः, यद्वै शरीरम् इदं तद्धृदयमस्मिन् हि प्राणाः प्रतिष्ठिता’’ इति। पृथिव्या भूताधारत्वात्सर्वभूतभयगायत्रीत्वं शरीरहृदययोर्भूतात्मकप्राणाश्रयत्वाद्गायत्रीत्वम्, एवमन्यर्थोक्तवाक्प्राणसहितैर्भूतादिभिः षड्विधा गायत्रीति॥ गायत्र्याः सर्वच्छन्द इति। एवं हि श्रूयते – चतुरक्षराणि छन्दांस्यग्रे समभवन् तेषु जगती सोमाहरणाय गता त्रीण्यक्षराणि हित्वा आगच्छत्। एकं हित्वा त्रिष्टुबागता। गायत्री तु गत्वा तानि गलितानि चत्वार्यक्षराणि सोमं चाहृतवती। ततः साऽष्टाक्षराऽभवत्तयैव सवनत्रयमतन्वत याज्ञिकाः। माध्यन्दिने सवने त्रिष्टुभा प्रार्थिता गायत्री तामुपाह्वयत्। सा च गायत्र्यक्षरैरष्टभिः स्वीयैरेव शिष्टैस्त्रिभिरक्षरैरेकादशाक्षराभवत्। ततो जगत्या प्रार्थिता गायत्री तां तृतीयसवने उपाह्वयत्। सा च स्वीयेनैकेन प्राचीनैश्चैकादशभिरक्षरैर्द्वादशाक्षराऽभवदित्युक्त्वोपसंहृतं । तस्मादाहुर्गायत्राणि वै सर्वाणि सवनानीति।(फुट् नोट् – ‘जननानी’ति पाठो ग – पुस्तके) द्विजातीनां द्वितीयजन्मजननीत्वं श्रुतं गायत्र्या ब्राह्मणमसृजत्, त्रिष्टुभा राजन्यं, जगत्या वैश्यम् इति॥ केनचिदत्र प्रसिद्धा त्रिपादा गायत्री न प्रत्यभिज्ञायते; अस्याश्चातुष्पात्त्वादित्युक्तम्। तन्न; षडक्षरैश्चतुष्पदोप्यष्टाक्षरैस्त्रिपात्त्वोपपत्तेरिति।

स्वात्मनीति।

यावत्। त्रयः पादा इति। अल्पं(फुट् नोट् – ‘अल्पप्रपञ्चपाद्’ इति ग – पुस्तके पाठः) प्रपञ्चं पादमपेक्ष्य स्वरूपमपरिच्छिन्नत्वात् त्रयः पादा इति॥ दिवीति वाक्यशेषवशात् त्रिपादिति मन्त्रपदस्य व्याख्यान्तरमाह – अथ वेति। पद्यते ज्ञायते एभिस्तुरीयमिति विश्वतैजसप्राज्ञास्त्रयः पादाः एते यस्य तस्त्रिपात्तुरीयं स्वपादद्वारा गगनेऽवस्थितमिति मन्त्रार्थः। ननु त्रिपाद् ब्रह्मणः ‘‘अयं वाव स’’ इति कथं भूताकाशैक्योपदेशोऽत आह – तद्धीति। उपलब्धिस्थानस्तुत्यर्थं ब्रह्मत्वोक्तिरित्यर्थः।

बाह्यानिति।

शरीराद्बहिष्ठानिति।

ननु चतुष्पात्त्वगुणयोगाद्गायत्रीशब्दो ब्रह्म गमयति, कथमभिहितमिति भाष्यनिर्देशोऽत आह –

ब्रह्मपरत्वादिति।

ननु पूर्वत्रापि विकारानुगतं ब्रह्म गायत्रीपदेन लक्षणया तात्पर्येण गमितमतः को विशेषः। उच्यते; गौणे प्रयोगेऽभिधेयगतो गुणस्तात्पर्याल्लभ्यते, लक्षणायां तु संबन्धं निमित्तीकृत्यार्थान्तरे तात्पर्यमिति। गायत्र्याख्यस्य ब्रह्मणो हृदि स्थितस्योपासनाङ्गत्वेन द्वारपालानादिगुणविध्यर्थं तस्य हेत्यादि वाक्यं, तदर्थतोऽनुक्रामति –

हृदयस्येत्यादिना।

प्रागादिदिग्गता हृदयकमलसुषयो द्वाराणि तत्स्थाः प्राणादिवायवो द्वारपालास्ते च चक्षुरादिकरणयुक्ता आदित्यादिदेवैरधिष्ठिता इति समुदायार्थः। प्राणशब्दं निर्वक्ति –

प्रायणकाले

इति। स आदित्य इत्यनन्तरनिर्दिष्टचक्षुष आदित्यत्वं नोच्यते किंतु प्राणस्येत्याह –

एवेति। कारणमाह –

आदित्य

इति। अधिष्ठात्रधिष्ठेययोरैक्योपचारः । श्रोत्रद्वारा चन्द्रमा व्यानस्याधिष्ठाता। एवमुत्तरत्रापि करणद्वारा वाय्वधिष्ठातृत्वं देवतानां द्रष्ठव्यम्। अधःश्वासस्याऽपानस्य मुखे वाक्संबन्धाद्वाक्त्वमित्यर्थः। सोऽग्निरिति श्रुतौ वाचोग्नित्वमुक्तं , तत्र हेतुमाह – वाग्वा इति । तत्पर्जन्य इति । पर्जन्यो वृष्ट्यात्मको देवस्तन्निमित्ता आपः , तथा मनोनिमित्ताश्च ; “मनसा सृष्टा आपश्च वरुणश्चे’ति श्रुतेः , अतो मनसः पर्जन्योऽधिष्ठाता । उदानवायुः ; सामान्यात्मकः सहायकत्वे वर्तते , तस्य च वाय्वाधार आकाशः परमेश्वरो देवतेत्यर्थः । हार्दस्य ब्रह्मणः पुरुषाः प्राणादयः। यदादावुक्तं प्रधानप्रकृत्यर्थप्रत्यभिज्ञानुरोधेन प्रत्ययार्थवैषम्यं नेयमिति, तदुपदर्शकं भाष्यं व्याचष्टे –

यदाधारत्वमिति।

अर्वाग्भागेति। यदा मुख्यमाधारत्वं वृक्षाग्रस्य विवक्षितं, तदा वृक्षाग्रात्परतः श्येन इति प्रयोगे श्येनशब्दो वृक्षाग्रलग्रश्येनावयवावच्छिन्नावयविलक्षक(फुट् नोट् – श्येनावयवादुपरितनावयवाच्छिन्नावयविलक्षक इति घ – पाठः) इत्यर्थः। अस्मिन्पक्षे दार्ष्टान्तिके ब्रह्मणः श्येनवदवयवाभावाद्दिव इति श्रुतिं लक्षणया व्याचष्टे –एवमिति। शक्यते च दृष्टान्तेऽपि वृक्षाग्रादित्यवधिश्रुतिर्लक्षणया नेतुम्, अग्रभागादीषदर्वाग्भागपरत्वेन, तदा दार्ष्टान्तिकेन साम्यमिति। यदा त्वनौपाधिकं ब्रह्माकाशास्पृष्टं विवक्षित्वा पञ्चम्येव मुख्या, तदा सप्तमी सामीप्यसंबन्धं लक्षयतीत्याह –

यदा

त्विति।

अतएवेति।

यतः सर्वमर्यादा मुख्या, अत एवेत्यर्थः। या तु दिवि द्योतनवतीति व्याख्या, तस्यां नामी व्याख्या विकल्पाः। अतएव तदपरितोषादथवेत्युक्तमिति॥ तावानस्य महिमेति। गायत्री वा इदं सर्वं भूतमित्यादिना भूतपृथिवीशरीरहृदयवाक् प्राणमयी षड्विधा चतुष्पदा गायत्रीत्युक्तम्। यतः सर्वमर्यादा मुख्या, अत एवेत्यर्थः। या तु दिवि द्योतनवतीति व्याख्या, तस्यां नामी व्याख्या विकल्पाः। अतएव तदपरितोषादथवेत्युक्तमिति॥ तावानस्य महिमेति। गायत्री वा इदं सर्वं भूतमित्यादिना भूतपृथिवीशरीरहृदयवाक् प्राणमयी षड्विधा चतुष्पदा गायत्रीत्युक्तम्। अस्य गायत्र्यनुगतस्य ब्रह्मणस्तावान्महिमा विभूतिः। परमार्थतस्त्वयं पुरुषस्ततो ज्यायान्महत्तरः, तदेवाह – सर्वाणि भूतान्यस्य पादः। अस्य त्रिपादमृतं दिवि द्योतनवति स्वात्मन्येव स्थितम्। यथा कार्षापणश्चतुर्धा विभक्त एकस्मात् पादात्पादत्रयीकृतो महान्, एवं पुरुषः पुरुषार्थरूपः प्रपञ्चान्महानित्यर्थः

ते

वा एते इति। संवर्गविद्यायामधिदैवमग्निसूर्यचन्द्रांभांसि वायौ लीयन्ते। अध्यात्मं च वाक्यचक्षुःश्रोत्रमनांसि प्राणे सन्नियन्त इत्युक्तम्। ते वायुना सह पञ्च आध्यात्मिकेभ्योऽन्ये । प्राणेन च सहाधिदैविकेऽभ्योऽन्ये पञ्च। एवं दशसन्तस्तत्कृतम्। अत्रापि चतुरयकद्यूतगतचतुरङ्कव (फुट् नोट् – ग पुस्तके ‘चतुरायक’ इति पाठः) त्सन्ति चत्वारः पदार्थाः त्र्यङ्कायवत् त्रयः द्व्यङ्कायवद्द्वौ एकायवदेकः । द्यूते च चतुरङ्कः कृतसंज्ञः स च दशात्मकः। चतुर्ष्वङ्केषु त्रयोऽन्तर्भवन्ति; एवं सप्त त्रिषु द्वौ , तथा सति नव, द्वयोरेकः इति दश। वाय्वादयोपि दशसंख्यत्वादेवं कृतम्। सैषेति विधेयाभिप्रायः स्त्रीलिङ्गनिर्देशः। दशसंख्यत्वाद्विराट् अन्नम्। ‘दशाक्षरा विराडन्न’मिति हि श्रुतिः। कृतत्वादन्नादीनि, कृते ह्यन्नभूता दशसंख्यान्तर्भूता। अतस्तामत्तीव, अतोऽन्नादत्वेनापि गुणेन वाय्वादय उपास्या इत्यर्थः।

इति दशमं(फुट् नोट् – तत्र सूत्राणि ४ – ज्योतिश्रवणाभिधानात् २४ छन्दोऽभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् २५ भूतादिपादव्यपदेशोपपत्तेश्चैवम् २६ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् २७) ज्योतिरधिकराणम्॥

प्राणस्तथाऽनुगमात्॥२८॥

अनेकेति।

अनेकेषां लिङ्गान्यनेकानि च तानि लिङ्गनि वा प्रतिपदार्थमनेकानीत्यर्थः। तेषामेकत्वेन प्रतिभासमानवाक्ये समावेशे किं बलवत्, किममूनि सर्वाणि समबलानि, उतैकमेव बलवत् यदा चैलमेव बलवत्तदा कस्य लिङ्गनो लिङ्गं बलवत्, किं ब्रह्मणः, उत प्राणादेरित्येतदत्र चिन्त्यते। एतच्च प्राक् अतएव प्राणः(ब्र.अ.१.पा.१.सू.८) इत्यत्र न चिन्तितम्। तत्र हि ब्रह्मलिङ्गात् प्राणश्रुतिर्नीता, नतु ब्रह्माब्रह्मलिङ्गानां बलाबलमित्यर्थः। ज्योतिर्वाक्येऽपि यच्छब्देन समाकृष्टे ब्रह्मणि तल्लिङ्गं तेजोलिङ्गाद्बलवदित्युक्तम्। न तथेह किंचिन्निर्णयकारणमिति( फुट् नोट् – ‘कारणमस्तीति तेनाप्यसङ्गता चिन्ता’ इति ग – पुस्तके पाठः) तेनाप्यगता चिन्ता, अतएव सङ्गतिः। अथवा –दिवि दिव इत्यत्र प्रधानप्रकृत्यर्थमनुरुध्य प्रत्ययार्थो नीतः, एवमिहापि स्वतन्त्रप्राणादिपदार्थभेदप्रतीतौ तत्सापेक्षत्वेन गुणभूतवाक्यार्थप्रतीतेर्युक्तमन्यथाऽऽनयनमिति भिन्नोपासनविध्युपगमेन पूर्वपक्षोत्थानस्य वक्ष्यमाणत्वात्सङ्गतिः।

बहूनीति।

बहुग्रहणमनेकानि च तानि लिङ्गानीति संग्रहे समासप्रदर्शनार्थम्। एवंच प्राणादिषु प्रत्येकमपि बहुलिङ्गदर्शनाद् भूयसां न्यायेनाप्यनिर्णयात्, आकाशस्तल्लिङ्गात् – (ब्र.अ.१.पा.१.सू.२२) इत्यनेनाप्यगतार्थत्वमुक्तम्। अनन्यथासिद्धब्रह्मलिङ्गानुसारेणेतरेषामन्यथासिद्धिं वदन्नन्तस्तद्धार्मोपदेशात्(ब्र.अ.१.पा.१.सू.२०) इत्यनेन पुनरुक्तिं शङ्कते –

स्यादेतदित्यादिना।

देवतालिङ्गस्यान्यथासिद्धिमाह –

तथापीति।

शास्त्रदृष्ट्या तूपदेशः(ब्र.अ.१.पा.१.सू.३०) इति सूत्रार्थं मनसि निधायाह –

इन्द्रस्य

देवताया इति। ध्यानजसाक्षात्काराभ्युपगमो वाचस्पतेरेतत्सूत्रार्थाबोधादिति कैश्चिदयुक्तमुक्तम्। यतः –अपि संराधने सूत्राच्छास्त्रार्थध्यानजा प्रमा। शास्त्रदृष्टिर्मता तां तु वेत्ति वाचस्पतिः परं॥ वसतः इति द्विवचनश्रुत्या सहोत्क्रमणादिलिङ्गानुगृहीतयोपास्यभेदप्रतीतेर्न वाक्यस्य ब्रह्ममात्रपरत्वनिर्णय इति वदन् पूर्वपक्षसंभवमाह – अत्रोच्यत इति। तस्य प्राणस्य प्रज्ञात्मना जीवेन सहोपास्यत्वमुक्तमित्यर्थः। ब्रह्मणि प्राण इति। स एष प्राण आनन्दोऽजर इत्यत्र प्राणशब्दो ब्रह्मवाचीत्यर्थः। भवतु पदार्थावगमपूर्वको वाक्यार्थावगमः, तथापि गामानयेत्यादाविवैकवाक्यता किं न स्यादत आह –

पदार्थानां

चेति । गुणप्रधानयोग्यपदार्थावगमे भवत्वेकवाक्यता, इहतु सहोत्कामत इत्यादिभिः स्वातन्त्र्यावगतेर्वाक्यभेद इत्यर्थः। हेतुः पदार्थावबोधो हि वाक्यार्थबोधे, अतएव स गुणः। उद्देश्यस्तु वाक्यार्थप्रत्ययः प्रधानम्, अतो न प्रतीतैकवाक्यत्वभङ्ग इति सिद्धान्तयति

सत्यमित्यादिना।

ज्ञानशक्तिमती बुद्धिः, क्रियाशक्तिमांश्च प्राणः। यदि प्रत्यगात्मोपाधी भेदेन निर्दिष्टौ, नतु जीवप्राणौ स्वातन्त्र्येण, कथं तर्हि प्राण एव प्रज्ञात्मेत्युपक्रम्योपास्वेति तयोरुपास्यत्वनिर्देशः, भेदेनोक्तयोर्वा कथमभेदेन निर्देशः, अत आह –

अतएवेति।

ननु जीवप्राणब्रह्मणामुपास्यत्वेन यदि पूर्वः पक्षः, कथं तर्हि जीवमुख्यप्राणलिङ्गसूत्रावतारकपूर्वपक्षभाष्ये ब्रह्मपरत्वनिषेधोऽत आह –

ब्रह्मवाक्यमेवेति।

ब्रह्मपरत्वनियमो निषिध्यत इत्यर्थः। एतत्सूत्रपूर्वपक्षभाष्य एव प्राणस्य प्रज्ञात्वमुपपादयितुं प्रज्ञेत्यादिभाष्यम्। तत्र प्राणान्तरशब्दार्थमाह –

प्राणान्तराणीति।

मुख्यप्राणस्थितौ स्थितेस्तदुत्क्रान्तावुत्क्रान्तेस्तत्प्रतिष्ठानीन्द्रियाणि। एतत्सूत्रपूर्वपक्षोपसंहारभाष्यं – तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति, तदप्युपासनात्रयपरतया नयति –

जीवेति।

अन्यतरत्वं उपक्रममात्रम् –

अस्थिरमित्यर्थः।

ननु त्रयाणामुपासने कथमुभाविति निर्देशोऽत आह –

ब्रह्म

त्विति। उभयोः प्राप्त्यर्थोऽयं निर्देशो न ब्रह्मव्यावृत्त्यर्थः। तर्हि न ब्रह्मेति कथमत आह –

ब्रह्मैवेति। एवमेता भूतमात्रा इति वाक्यस्यार्थत उपादानेन ब्रह्मलिङ्गस्यानन्यथासिद्धिप्रदर्शकं जीवमुख्यप्राणलिङ्गसूत्र(ब्र.अ.१.पा.४.सू.१७) सिद्धान्तभाष्यं दशानामित्यादि, तद्व्याचष्टे पञ्चेति। श्रुतौ भूतमात्राशब्दे द्वन्द्वसमासः, भूतानि च मात्राश्चेति। भूतानि पृथिव्यादीनि पञ्च, मात्राः शब्दादयः सूक्ष्मभूतानि च पञ्चेति दशेत्यर्थः। प्रज्ञामात्राणां चेति भाष्ये दशानामित्यनुषञ्जनीयं, चशब्दादित्यभिप्रेत्य व्याचष्टे – पञ्च बुद्धीन्द्रियाणीति। पञ्चबुद्धय इति। पञ्चेन्द्रियजनिता बुद्धय इत्यर्थः। अत्रापि द्वन्द्व एव। प्रज्ञाः बुद्धयः। मीयन्ते शब्दादय आभिरिति मात्रा इन्द्रियाणि। पूर्वोत्तरव्याख्ययोः सूत्रार्थं विभजते – पूर्वमिति। उपासनात्रैविध्यप्रसङ्गादिति पूर्वत्र व्याख्या, अत्र त्वेकस्या उपासनायास्त्रिविधत्वाद् न वाक्यभेदे इति व्याख्येत्यर्थः। किमुपासनात्रयविशिष्टं ब्रह्म विधीयते, उत ब्रह्मविशिष्टमुपासनात्रयं, किं वा तदनुवादेन तदाश्रितोपासनात्रयमिति। नाद्य इत्याह –

युक्तमिति।

न द्वितीय इत्याह –

वाक्यान्तरेभ्यश्चेति।

विशेषणब्रह्मणः सन्निधौ प्राप्तत्वाद् न तद्विशिष्टोपास्तिविधिरित्यर्थः। ततस्तृतीयपक्षः परिशिष्यत इत्याह –

तदनूद्येति।

तं दूषयति –

तस्य

चेति। ब्रह्मानुवादेनोपासनविधावेकविशेष्यावशीकारादुपासनानां च परस्परमसङ्गात्प्रत्युपास्तिविध्यावृत्त्यापात इत्यर्थः। – अत्र केचित् – प्रकरणित्वेऽपि (फुट् नोट् – ग – पुस्तके ‘प्रकरणत्वेपि’ इति पाठः। घ – पुस्तके ‘प्राकरणिकत्वेपीति’ इति पाठः) ब्रह्मणोऽवान्तरवाक्यभेदेन श्रवणादिवद्यज्ञादिवच्चोपासनात्रयं विधेयम्, अत एकवाक्यत्वेऽपि नानावाक्यत्वमविरुद्धम्। अपिच नैव वाक्यभेदः; प्राणादित्रितयधर्मविशिष्टैकोपासनविधेः – इत्याहुः। तन्न ; । यतः अगत्याकल्प्योऽपूर्वत्वाद्वाक्यभेदो(फुट् नोट् – कल्पपूर्वत्वात्’ इति ग – पाठः) हि धारणे। इह ब्रह्मातिरेकेण नापूर्वार्थावधारणा॥ उपक्रमोपसंहारैक्यादवगते एकवाक्यत्वे सर्वात्मत्वविवक्षया प्राणजीवधर्मा ब्रह्मणि स्तुत्यर्थं निर्दिष्टा इति शक्यते योजयितुम्। सर्वात्मत्वं च सृष्टिवाक्यसिद्धं शक्यमनुवदितुं नत्वेवमुपरिधारणमन्यतः प्राप्तमित्यशंक्यानुवादत्वाद्वाक्यभेदस्तत्र कल्पितः। श्रवणादिविधिस्त्वनिष्ठः, यज्ञादिविधिरपूर्वत्वाद्विषमः॥ यच्च त्रितयधर्मविशिष्टमेकमुपासनमिति, तदपि न; इह हि किं जीवप्राणौ स्वधर्मैर्विशिष्य पुनस्ताभ्यां विशिष्टं ब्रह्मोपास्यमिष्यते, उतारुणैकहायनीवत्सर्वविशेषणविशिष्टब्रह्मोपासनां विधाय पार्ष्ठिको जीवप्राणयोस्तद्धर्माणां च विशेषणविशेष्यभावो विशिष्टविधिसामर्थ्यात्प्रमीयते इति। नाद्यः; जीवप्राणयोः स्वधर्मान् प्रति विशेष्यत्वं ब्रह्म प्रति विशेषणत्वम् इति वैरूप्यात्। न चरमः; प्राणादीनां विप्रकीर्णत्वादेकविशिष्टप्रतीत्ययोगादिति॥ दिवोदासस्यापत्यं दैवोदासिः। धाम गृहम्। अरुन्मुखानिति। रौति यथार्थं शब्दयति इति रुद् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मुखाः तेभ्योऽन्ये अरुन्मुखाः। शालावृकेभ्यः आरण्यश्वभ्यः।

अस्तित्वे

चेति। प्राणशब्दवाच्यस्य परमात्मनोऽस्तित्वे, प्राणानां इन्द्रियाणां। निःश्रेयसं जीवनादिपुरुषार्थसिद्धिः।

एवमेवैता

इति। पृथिव्यादीनि शब्दादयश्चेन्द्रियेषु तज्जन्यज्ञानेषु च विषयत्वेनार्पिताः। प्रज्ञाः

बुद्धयः।

मात्राः

इन्द्रियाणि। प्राणे परमात्मनि अर्पितानि। नेमिवद्विषयाः। अरवदिन्द्रियबुद्धयः। नाभिवदात्मा। तान्वरिष्ठ इति। प्राणाः किलास्मासु कः श्रेष्ठ इति निर्दिधारयिषव प्रजापतिं जग्मुः, स आह यस्मिन् उत्क्रान्ते इदं शरीरं पापिष्ठमिव भवति स श्रेष्ठ इति। तथेति वागादय उच्चक्रमुः। तथापि शरीरमव्यग्रमवर्तत प्राणोच्चिक्रमिषायां शरीरकरणेष्वनवस्थामाप्नुवत्सु तान् श्रेष्ठंमन्यान् चक्षुरादीन् श्रेष्ठः प्राण उवाच। प्राणापानादिभिः पञ्चधात्मानं स्वं विभज्यैतदिति क्रियाविशेषणमित्थत्यर्थः। वाति गच्छतीति वानं वानमेव वाणम्। वा गतिगन्धनयोः। अस्थिरं शरीरमित्यर्थः।

तस्मादेतदेवेति।

उत्थापयति शरीरादिकमित्युक्थम्।

अथ

यथेति। अस्या जीवलक्षणायाः प्रज्ञायाः संबन्धीनि भूत्वा सर्वा सर्वाणि भूतानि तादृशत्वेन कल्पितानि, वस्तुत एकं भवन्ति। अस्या एकमङ्गं फलरूपं चैतन्यं स्वविषयोपाधिनाऽदूदुहद्रेचितवती। तस्या दुग्धायाः प्रज्ञाया उपरि विषयत्वेन नामलक्षणं भूतमात्रा भूतसूक्ष्मं प्रतिविहितम्। उपहितचैतन्यद्वारा स्वरूपे द्रष्टृत्वाध्यासमाह –

प्रज्ञया

द्वारा वाचं समारुह्य वाचं करणं प्रति कर्तेत्यध्यासमनुभूय तया करणेन सर्वाणि नामान्याप्नोतीति। वक्तृत्वेन कर्मेन्द्रियप्रवृत्तिरपि चैतन्याधीनेति प्रज्ञादोह उक्तः।

ता

वा इति। भूतानि शब्दादयश्चाधिप्रज्ञम्। प्रज्ञाशब्द इन्द्रियाण्यप्युपलक्षयति॥ इन्द्रियेषु तज्जज्ञानेषु च दश प्रज्ञामात्राः, इन्द्रियतज्जप्रज्ञाः अधिभूतम्, भूतेषु ग्राह्यग्राहकयोरन्योन्यापेक्षत्वात् कल्पितत्वमतोऽद्वैतं (फुट् नोट् – ‘कल्पितत्वं द्वैततत्वमित्यर्थः’ इति ग – पु.पाठः) तत्त्वमित्यर्थः॥

इति एकादशं(फुट् नोट् – तत्र सूत्राणि ४। प्राणस्तथानुगमात् २८ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् २९ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ३० जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्॥३१॥) प्रतर्दनाधिकरणम्। इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ प्रथमाध्यायस्य प्रथमः पादः॥ अस्मिन् पादे आदितःअधिकरणानि ११ ११ सूत्राणि ३१ ३१

सर्वत्र प्रसिद्धोपदेशात्॥१॥ प्रथमपादे स्पष्टब्रह्मलिङ्गवाक्यान्युदाहरणम् । द्वितीयतृतीययोस्त्वस्पष्टब्रह्मलिङ्गानि  । तयोस्तु प्रायशः सविशेषनिर्विशेषब्रह्मलिङ्गवाक्यविषयतया वा योगरूढिविषयतया वाऽवान्तरभेदः । अधिकरणसिद्धान्तेति । यत्सिद्धावर्थादन्यसिद्धिः सोऽधिकरणसिद्धान्तः । यद्यर्थान्तररूढा अपि शब्दा ब्रह्मलिङ्गाद्ब्रह्मपरतया व्याख्याताः, तर्हि कैव कथा मनोमयत्वादिलिङ्गेषु । अपिचेह ब्रह्मशब्द एवास्ति, सर्वं खल्विदं ब्रह्मेति, अस्ति च वाक्यशेषे सर्वकर्मत्वादि ब्रह्मलिङ्गं, तत्कथं जीवपरत्वशङ्का वाक्यस्यात आह – पूर्वपक्षाभिप्रायं त्विति । क्रतुमित्यादिवाक्येनेत्यारभ्येत्यर्थः । तल्लमिति । तल्लयमित्यर्थः । तस्मिन्ननितीति तदन् । क्रतुर्ध्यानं तत्प्रधानस्तन्मयः । मनोमयत्वादीनां प्रकृतब्रह्मनैरपेक्ष्यसापेक्षत्वाभ्यां संशयमाह – तत्रेति । पादान्तरत्वादेव नावान्तरसङ्गतिः । स्ववाक्योपात्तधर्मविशिष्टजीवोपासनानुवादेन शमविधिपरत्वान्न सर्वं खल्विति वाक्यमुपास्यसमर्पकमित्याह –

क्रतुमिति ।

प्रागप्रतीतायाः क्रतुप्रवृत्तेः कथमुपासीतेत्यनुवादस्तत्राह – तथा चेति  । ननु सङ्कल्पविधेरुपास्यसापेक्षत्वाद्ब्रह्मण उपास्यत्वम्, अत आह –

एवंचेति ।

सापेक्षस्य गुणविध्यर्थमाश्रयदानायोगान्मनोमयत्वादिभिरेवापेक्षापूरणमित्यर्थः । स्यादेतत् – मनोमयत्वादिमद्ब्रह्मैवास्त्वित्यत आह –

मनोमयत्वादि

चेति । उत्पत्तिशिष्टत्वं कर्मस्वरूपप्रतीतिसमयावगतत्वम् । यदि न ब्रह्मोपास्यं, किमर्थं तर्हि ब्रह्माभिधानमित्यत आह –

नचेति ।

हेतुवन्निगद्यत इति तथोक्तः॥ शूर्पेण जुहोतीत्याम्नाय तेन हीति श्रुतम् । तत्र हिशब्दश्रुतेः स्तुतौ च लक्षणाप्रसङ्गादन्नकरणत्वं शूर्पहोमे हेतुरुपदिष्टः । तथाच यद्यदन्नकरणं दर्व्यादि तेन तेन होतव्यमिति प्रापय्य राद्धान्तितं प्रमाणलक्षणे । शूर्पं हि होमकरणं तृतीयाश्रुत्या गम्यते, विध्यर्थस्य च न हेत्वपेक्षा । तस्मात् शूर्पस्तुतिः । यत्तु हेतौ हिशब्दश्रुतिरिति । तन्न; नहि साक्षाद्दर्व्यादिना शक्यमन्नं कर्तुम् । अथ शक्यं प्रणाड्या, कथं तर्हि श्रुतिवृत्तिता हेतुवचनस्य । ननु शूर्पस्तुतावपि लक्षणा स्यात्, नहि तेनापि साक्षादन्नं क्रियते । अद्धा; स्तुतिर्ह्यनुवादत्वाद्यथाप्राप्ति लक्षणां सहेत न विधिरपूर्वार्थत्वादिति (जै.अ.१.पा.२.सू.२६ – ३०)अत्रायं विशेषो द्रष्टव्यः । समास इति । प्राणः शरीरमस्येति बहुव्रीहिर्विग्रहवशादन्तर्गर्भितसर्वनामार्थवान्, सर्वनाम च सन्निहितावलम्बीति समासः सन्निकृष्टमपेक्षते, तेन सर्वनामश्रुतिर्ब्रह्मोपास्यत्वे मानमुक्ता । ननु न ज्योतिर्वाक्यवदिह वाक्यान्तरोक्तब्रह्मणोऽस्ति सन्निधापिका प्रत्यभिज्ञा, यतः सर्वनाम परामृश्येत, अतः स्ववाक्यस्थेन मनोमय इति मयडर्थेनाकाङ्क्षाशान्तिरत आह –

तद्धितार्थोऽपीति ।

सोऽपि विकारप्राचुर्यसाधारणत्वेन सामान्यम्, अतो नाकाङ्क्षाशमकः; संदिग्धत्वात् । फलितमाह –

तस्मादिति ।

अन्यपरादपि शमविधिस्तुतिपरादपि इति । ब्रह्मोपादाने वाक्यशेषस्थलिङ्गसामञ्जस्यमाह –

तथा

चेति ।

तदभिधानं

समासाभिधानम् । तद्धितार्थः । इत्येतद्व्याचष्टे –

तत्र

मनोमयपदमिति । एष मनोमयशब्दो जीव एव निविष्टावयवार्थः, नतु ब्रह्मणि; तस्य मन आदिविरहप्रतिपादनादित्येतच्च न युक्तम् ; कुतो न युक्तमत आह –

तस्यापीति ।

विकाराणां

चेति । विकारविशेषाणां जीवानामित्यर्थः । विकारत्वं जीवानामवच्छेदापेक्षं  । यदि जीवद्वारा ब्रह्मणो मनोमयत्वं, तर्हि जीवे एव मनोमयपदं मुख्यमिति तदेव समासाकाङ्क्षायाः परिपूरकमिति शङ्कते –

स्यादेतदिति ।

बलाबलविवेकाय पक्षविभागं करोति –

तदेतदिति ।

अधिष्ठानलिङ्गैः सर्वकर्मत्वादिभिस्तदभिन्नजीवानां तद्वत्त्वपक्षे फलितमाह –

तथा

च जीवस्येति । वस्तुतो ब्रह्माऽभिन्नस्यापि जीवस्यावच्छिन्नतया न ब्रह्मधर्मवत्ता, ब्रह्म तु सर्वात्मत्वाज्जीवलिङ्गैस्तद्वद् जीवलिङ्गवदिति । पक्षे लाभमाह

तथा

च ब्रह्मलिङ्गानामिति । ज्ञायमानेन समारोप्यरूपेणाधिष्ठानं विषयो रूपवान् भवेत्, तस्याज्ञायमानत्वेन समारोपकालेऽपि सत्त्वात्, विषयस्य तु रूपेणासाधारणेन ज्ञायमानेन समारोप्यं न रूपवदधिष्ठानासाधारणरूपज्ञाने सति समारोप्याभावादित्यर्थः । प्रस्तुतेऽधिष्ठानासाधारणरूपज्ञानमस्तीत्याह –

तस्मादिति ।

ननु यद्युक्तरीत्या मनोमयवाक्येऽपि ब्रह्मलिङ्गात्तत्प्रतीतिः, तर्हि कथं भाष्यकारः सूत्रविवरणावसरे ‘‘इह च सर्वं खल्विदं ब्रह्मे’’ति वाक्योपक्रमे श्रुतमित्येवाह, न पुनर्वाक्यशेषेऽपि सर्वकाम इत्यादिधर्मवत्तया श्रुतमिति, अतआह –

एतदुपलक्षणायेति॥१॥

भाष्ये त्वपौरुषेयशब्देन न कर्मभाव उक्तः, किं तु पुंस्वातन्त्र्याभावः  । विवक्षाभावाभिधानमपि स्वातन्त्र्यनिषेधार्थमित्याह –

तथाचेति ।

उपादानेन फलेनेति भाष्ये उपादानं नाम परिग्रहो नतूपादेयत्वमुद्देश्यत्वप्रतियोगि । विपक्षे दण्डमाह –

अन्यथेति ।

किंचिद्विधातुं सिद्धवन्निर्देश्यत्वमुद्देश्यत्वम् । अनुष्ठेयत्वेन निर्देश्यत्वमुपादेयत्वम् । उद्देश्याविवक्षायां ग्रहं संमार्ष्टीत्यत्रोद्देश्यग्रहस्याविवक्षा स्यात् । तथा च चमसादेरपि संमार्गप्रसङ्गः स चायुक्तः । चमसाधिकरणे (जै.अ.३.पा.१.सू.१६ – १७) हि प्रकृतयागसंबन्धिसोमाधारत्वाविशेषेण ग्रहपदस्य चोपलक्षणार्थत्वेन चमसानामपि संमार्गमाशङ्क्य सिद्धान्तितम् । केवलं संमार्गविध्ययोगादुद्देश्येन भाव्यं; तच्च ग्रहशब्देन समर्पितम् । न च चमसलक्षणार्थो ग्रहशब्दः ; ग्रहयागावान्तरापूर्वसाधनत्वस्यान्तरङ्गस्य तेन लक्ष्यमाणत्वात् । व्रीहियवयोस्त्ववान्तरापूर्वभेदाभावाद्व्रीहीन् प्रोक्षतीत्यत्र व्रीहिशब्दो यवोपलक्षणार्थ इति युक्तम् । ततश्च ग्रहेष्वेव संमार्ग इति॥ ननु(फुट् नोट् – ‘ननु परिग्रह उद्देश्यत्वेन’ इति घ – पुस्तके पाठः) परिग्रहो यदि उद्देश्यत्वेन विधिपरिगृहीतस्तर्हि तदेकत्वमपि पश्वेकत्ववद्विवक्षितं स्यादत आह –

तद्गतं

त्विति । ग्रहगतं त्वेकत्वं ग्रहान्प्रत्यवच्छेदकत्वेन रूपेण न विवक्षितम् । युक्ता हि पशुना यजेतेत्यत्रोपादेयविशेषणत्वादेकलविवक्षा; एकप्रसरतया एकपशुविशिष्टयागविधिसंवात्, अत्रतु ग्रहत्वैकत्वोद्देशेन संमार्गविधाबुद्दिश्यमानयोः परस्परमसंबन्धाद्ग्रहे एवोद्देश्यत्वेन पर्यवसानाच्च प्रत्युद्देश्यं वाक्यपरिसमाप्तिः स्याद् , ग्रहं संमार्टि तं चैकमिति, ततश्च बाक्यभेद इत्यर्थः । वेदेऽप्युपादेयत्वेनाभिमतं विवक्षितमित्यादिभाष्ये विवक्षिताविवक्षितशब्दनिर्दिष्टेच्छानिच्छे गौष्या वृत्त्या इत्याह – इच्छानिच्छे चेति । को गुणः ? स भाष्योक्त इत्याह – तदिदमिति । जीवस्य ब्रह्मणो भेदाभेदाभ्यामुभयश्रुत्युपपत्तेराक्षेपायोगमाशङ्ख्याह – न तावदिति । भेदाभेदयोरन्यतरबाधे स्थिते विनिगममाह—तत्रेति । वेदान्ततात्पर्यादद्वैतं तत्वमिति कुतः ? प्रत्यक्षादिविरोधाद् , अत आह— द्वैतग्राहिणश्चेति । विदिमात्र व्यापारत्वात्प्रत्यक्षस्य तत्पूर्वकत्वाच्चान्येषामित्यर्थः ॥ तद्बाधनात् तैर्वेदान्तैर्बाधनात् । तस्माज्जीवभेदानुपपत्तेः सूत्रानुपपत्तिरित्याह—तथाचेति । औपाधिकभेदानुवादित्वेन भेदश्रुतीनां सूत्रस्य चोपपत्तिमाह – अनाद्यविद्येति । तादृशानां चेति । अविद्यावच्छिन्नानामित्यर्थः ॥ अनादित्वेनेति । जीवाविद्ययोर्बीजाङ्कुरवद्धेतुमत्त्वे जीवानित्यत्वं स्यात् – तस्मादुत्तरोत्तरजीवाभिव्यक्तीनां पूर्वपूर्वभ्रमनिमित्तकत्वमत्रोक्तम् । अनादिस्त्वविद्या जीवोपाधिर्देवताधिकरणे वक्ष्यते॥ अनादिजीवाविद्ययोश्चेतरेतरतन्त्रत्वमविद्यातत्संबन्धयोरिवाविरुद्धम् । स्वाश्रिताविद्याश्रितत्वे जीवस्यात्माश्रयमिति चेत्, किमतः? उत्पत्तिज्ञप्तिप्रतिबन्धेन ह्यात्माश्रयस्य दोषता । नचानयोरुत्पत्तिः, अनादित्वात्, प्रतीतिस्तु जीवस्य स्वतस्तद्बलादविद्यायाः, तथापि स्वस्कन्धारूढारोहवत्स्वाश्रिताश्रितत्वं विरुद्धमिति चेन्न; स्वाश्रिताश्रितत्वस्य क्वचित्प्रमितावविरोधादप्रमितावव्याप्यादस्मादव्यापकस्य विरोधस्य दुष्प्रसंजनत्वात् । अपिच नैव कुण्डबदरवदधरोत्तरीभावः ; जीवाविद्ययोरमूर्तत्वात्, अवच्छेद्यावच्छेदकत्वं तु तत्रेतरेतरापेक्षं प्रमाणप्रमेयादिषु सुलभोदाहरणम्॥ अधिष्ठानं विवर्तानामाश्रयो ब्रह्म शुक्तिवत् । जीवाविद्यादिकानां स्यादिति सर्वमनाकुलम् ॥

वैशेष्यादिति । सूत्रे प्रकृतिप्रयोगादेवेष्टसिद्धौ प्रत्ययप्रयोगोऽतिशयद्योतनाय । तमेवाह –

तथा

हीति । अतिशयस्य भावः प्रत्ययार्थो, ननु विशेषस्वरूपभाव इत्यर्थः(फुट् नोट् – १ तत्र सूत्राणि ८ – सर्वत्र प्रसिद्धोपदेशात् १ विवक्षितगुणोपपत्तेश्च २ अनुपपत्तेस्तु न शारीरः ३ कर्मकर्तृव्यपदेशाच्च ४ शब्दविशेषात् ५ स्मृतेश्च ६ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ७ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ८ इति)

॥ इति प्रथमं सर्वत्र प्रसिद्धाधिकरणम्॥

अत्ता चराचरग्रहणात्॥१॥ यस्य मृत्युरुपसेचनमोदनमिश्रघृतवद् । तं नाविरतो दुश्चरितादिति पूर्वमन्त्रप्रकाशितोपायवान्यथा वेद इत्थमन्यस्तद्रहितः को वेद  । यत्र सोऽत्ता कारणरूपो वर्तते तं निर्विशेषमात्मनं को वेदेत्यर्थः । पूर्वाधिकरणान्ते परमेश्वरस्याभोक्तृतोक्तेरिह न सोऽत्तेति सङ्गतिः । विषयवाक्ये अत्तुरश्रवणादत्तेति सूत्रायोगमाशङ्क्याह –

अत्रचेति ।

भोक्तृत्वलक्षणमत्तृत्वं नाग्निपरमात्मसाधारणम्, कथं संशय इत्याशङ्क्याह –

अत्तृत्वं

चेति । यदा भोक्तृत्वमत्तृत्वम्, तदा न परमात्मशङ्केत्याह –

च प्रस्तुतस्येति ।

तयोरन्य

इति । जीवात्मनो भोक्तृत्वप्रतिपादनाच्च न परमात्मशङ्केत्यर्थः । फलितमाह –

तद्यदीति ।

ब्रह्मक्षत्रादिनिर्देशाद्भोक्तृत्वमत्तुरिह न निश्चितमपि तु जीवपूर्वपक्षवादिना प्रसाध्यमित्यर्थो यदिकारः । ननु जीवस्य कथं ब्रह्मक्षत्रादिभोक्तृत्वं पूर्वपक्षिणा साध्यमत आह –

ब्रह्मक्षत्रादि

चेति ।

स्वशरीरं

भोगायतनम् । छागादि कस्य चिद्भोग्यम् । यदि न भोक्तृत्वात्संशयः? कुतस्तर्ह्यत आह –

अथत्विति ।

अतएव पूर्वं मुक्तसंशयमित्युक्तम् । अत्र च भवति संशय इति उक्तम् ।

भोक्तृतेति ।

अत्तृतेत्यर्थः ; वनितादिषु भोक्तृत्वेऽपि संहर्तृत्वाभावात्, अत्तृत्वस्य भोक्तृत्वात्मत्वप्रसाधनेन पूर्वपक्षमुपपादयति –

अत्रौदनस्येत्यादिना॥

ओदनस्य भोग्यत्वात्प्रथमं भोक्तृत्वप्रतीतिरित्यत्र संबभ्राम भारतीविलासः – न हि मुख्य ओदनो ब्रह्मक्षत्रे, न चोपचरितौदनाद्भोक्तृत्वप्रतीतिः । यदाह – उपमैव तिरोभूतभेदा रूपकमिष्यते । अलङ्कारो रूपकाख्यः कठवल्लीकवेरयम्॥ इति॥ अत्रोच्यते – ओदनभोक्तर्यनोदनयोर्ब्रह्मक्षत्रयोरोदनत्वेन रूपकमवकल्पते । यथा ’’यस्य मृगयाविनोदे मृगाः परनरपतय’’ इत्युक्ते क्षत्रिय एव प्रतीयते, न श्रोत्रियः कश्चिद् ब्राह्मण एवमिहेति । ननु प्रलये जीवनाशात्कथमजत्वमत आह –

संहारेति ।

संस्कार उपलक्षणमविद्यायाः । अविक्रियस्य परमात्मनः संहर्तृत्वायोगात् अग्निरेव संहृतेत्याह –

यदित्विति ।

तवापि भाक्त ओदनशब्दः, स ममापीत्याह –

तर्हीति । कस्तर्ह्योदनस्तत्राह –

अपित्विति ।

ओदन इत्यनुषङ्गः । अपिचौदनशब्दस्य लाक्षणिकस्य सन्निहितमृत्यूपसेचनपदानुसारेणौदनगतविनाशित्वधर्मलक्षणार्थत्वाद्ब्रह्मक्षत्रोपलक्षितजगद्विनाशकर्तेश्वरः प्रतीयते,

जीव इत्याह – न

चेत्यादिना ।

यदवाद्योदनपदात् प्रथमं भोक्ता भातीति, अत्राह –

चौदनपदादित्यादिना । ओदनपदस्य भक्तवाचिनो भोग्यमात्रपरत्वेन तवापि जघन्यवृत्त्याऽऽश्रवणात्तद्बलाद् ब्रह्मक्षत्रमृत्युश्रुतीनां न सङ्कोच इत्यर्थः । यदि मृत्युपदाद्विनाशिवस्तुविवक्षा, कथं तर्हि ब्रह्मक्षत्रग्रहणमत आह –

प्राणिष्विति ।

ननु ब्रह्मक्षत्राभ्यामितरव्यावृत्त्यर्थत्वं वाक्यस्य किं न स्यादत आह –

अन्यनिवृत्तेरिति ।

पञ्चपञ्चनखादौ हि मनुष्यादिनिवृत्तिः परिसंख्याफलम् । तया चानर्थनिवृत्तिः । इहान्यनिवृत्तिरनर्थिका; पुरुषार्थविशेषानवगमादित्यर्थः । मायोपाधेः परस्यास्ति संहर्तृत्वमित्याह –

तथाचेति

(फुट् नोट् – तत्र सूत्रे २ । अत्ता चराचरग्रहणात् ९ प्रकरणाच्च १०॥) इति द्वितीयमत्त्रधिकरणम्॥

गुहां प्रविष्टात्वात्मानौ हि तद्दर्शनात्॥११॥ ननु –लक्षणया पिबदपिबतोः पिबन्ताविति निर्देशोपपत्तेः पूर्वपक्षसिद्धान्तपक्षाक्षेपे च वाक्यस्य निर्विषयत्वप्रसङ्गाद् आक्षेपायोगमाशङ्क्याह –

औत्सर्गिकस्येति ।

अयं हि आक्षेप्ता पिबन्तावित्यस्य मुख्यमर्थम् औत्सर्गिकमबाध्यं मन्यते, प्राकृतसुपर्णविषयत्वं च वाक्यस्य पक्षान्तरं कल्पयिष्यत इति मन्यते, अत आक्षेप इत्यर्थः । लक्षणां वक्तुं मुख्यार्थायोगमाह –

अध्यात्मेत्यादिना ।

अन्यौ पातारौ पक्षिणौ न शक्यौ कल्पयितुं चेत्, तर्हि बुद्धिजीवौ जीवपरौ स्तः, नेत्याह –

बुद्धेरित्यादिना ।

सृष्टीरुपदधातीति समाम्नाय ‘‘एकयास्तुवत प्रजा अधीयन्त प्रजापतिरधिपतिरासीत्तिसृभिरस्तुवत ब्रह्मासृजते’’त्यादयः सृष्ट्यसृष्टिमन्त्रा आम्नाताः, तत्र सृष्टीरुपदधातीति यदि सृष्टिमन्त्रकेष्टकानामुपधाने विधानं, तहीर्ष्टकासु सृष्ट्यसृष्टिमन्त्रकत्वविशेषस्याद्याप्यनवगमात्सर्वा एव सृष्टिमन्त्रकाः, तत्र सृष्टिपदरहितमन्त्राणामानर्थक्यं स्यात्, तन्मा भूदिति सृष्टिशब्दः सृष्ट्यसृष्टिसमुदायं लक्षयित्वा तत्समुदायिनः सर्वान्मन्त्रान् लक्षयति । एवमत्रापि पिबच्छब्दः स्वार्थस्यापिबत्संसृष्टतां पिबदपिबत्समुदायमिति यावन्तं लक्षयन्त्स्वार्थं पिबन्तमजहदितरेतरयोगलक्षणं समुदायं प्रति समुदायीभूतपिबदपिबत्परो भवति, न पिबत्येव वर्तते, नापि लक्षयन् गङ्गाशब्दवत्स्वार्थं त्यजेदित्यर्थः॥ अस्तु वेति । प्रत्ययस्य मुख्यत्वं , प्रकृतिस्तु पिबतिः सृष्टिन्यायेन पायनं लक्षयतीत्यर्थः । बुद्धिक्षेत्रज्ञपक्षे तु बुद्धौ प्रकृतिर्मुख्या प्रत्ययस्तु बुद्धिजीवगतं कर्तृकरणसाधारणकारकत्वमात्रं लक्षयतीत्याह – एवमिति । अत्र पूर्वोत्तरपक्षयोर्लक्षणासाम्यात् संशयः । पूर्वत्र ब्रह्मक्षत्रशब्दस्य सन्निहितमृत्युपदानुसारेणानित्यवस्तुपरत्ववदिहापि पिबच्छब्दस्य सन्निहितगुहाप्रविष्टादिपदानुसाराद्बुद्धिक्षेत्रज्ञपरत्वमित्याह – (फुट् नोट् – ‘अनुसारेण’ इति घ पाठः) नियतेति । अस्य जीवस्य , या द्वितीयता द्वित्वाधारता सा ब्रह्मणैव , तद्धि चेतनत्वात्सरूपं , न तु बुद्व्या; तस्या अचेतनत्वेन विसदृशत्वादित्याह –

ऋतपानेनेति ।

ननु सन्निहितगुहाप्रविष्टपदाद्बुद्धिर्द्वितीया किं न स्यादत आह –

प्रथममिति ।

वचनविरोधे

इति ।

अत्तीत्यस्य

मुख्यकर्तृत्वसंभवे करणे कर्तृत्वोपचारो

न युक्त इति न्यायस्य

बुद्धिजीवपरत्वेन मन्त्रव्याख्यायकब्राह्मणविरोधे आभासत्वमित्यर्थः॥

आध्वंसते

आगच्छति । चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं

अनश्नन्निति ।

बुद्धेरन्यो यो जीवः सोऽनश्नन्नभोक्तृ ब्रह्म सन्नभिपश्यतीत्यर्थः । अस्मिन्स्वोक्तेऽर्थे स्वयमेव श्रुतिरनुपपत्तिं शङ्कते, तामाह –

यदीति ।

चितेः छाया चित्प्रतिबिम्बं तदापत्त्येति॥ सुकृतस्य कर्मणः, ऋतं सत्यमवश्यंभावित्वात्फलं, पिबन्ताविति संबन्धः ।

लोके

शरीरे ।

गुहां

गुहायां बुद्धौ ।

परमे

बाह्याकाशापेक्षया प्रकृष्टे हार्दे नभसि परस्य ब्रह्मणोऽर्धे स्थाने, त्रिर्नाचिकेतोऽग्निश्चितो यैस्ते तथोक्ताः ।

तं

दुर्दर्शमिति ।

गूढं

छन्नं यथा भवति तथाऽनुप्रविष्टम् । क्वेत्यत आह – गुहाहितं बुद्धौ स्थितं, गह्वरे अनेकानर्थसंकटे तिष्ठतीति तथोक्तः ।

पुराणं

चिरन्तनं विषयाद्व्यावर्त्यात्मनि मनसो योजनमध्यात्मयोगः, तस्याधिगमेन प्राप्त्या,

मत्वा

साक्षात्कृत्य । मुण्डके –

द्वा

सुपर्णेति । द्वौ सुपर्णसाम्यात्सुपर्णौ

सयुजौ

सर्वदा सहयुक्तौ,

सखायौ

समानाख्यानौ, स्वप्रकाशरूपत्वात्, समानमेकम्, उच्छेद्यत्वात्

वृक्षं

शरीरं परिष्वक्तवन्तौ  ।

अन्यः

एकः,

पिप्पलं

कर्मफलं; संसारस्याश्वत्थत्वेन रूपितत्वात् ।

समाने

वृक्ष इति – न कस्यचित्समर्थोऽहं दीन इति संभावनाऽनीशा,

जुष्टम्

अनेकैर्योगमार्गैः सेवितम् । अन्यं प्रपञ्चविलक्षणम् । ईशं यदा पश्यति प्रपञ्चं च महिमानं

विभूतिं मायामयीम्, अस्यैवेति यदा पश्यति तदा वीतशोको भवति॥(फुट् नोट् – तत्र सूत्रे २ – गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ११ विशेषणाच्च १२॥)

इति तृतीयं गुहाधिकरणम्॥

अन्तर उपपत्तेः॥१३॥ अत्र च दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयः । इयं च सुखविशिष्टब्रह्मप्रकरणं नास्तीति

कृत्वाचिन्ता ।

अतश्च वक्ष्यमाणः सर्वनामार्थः । स च मनोमयतद्धितार्थवद् न संदिग्धः; दृश्यत इत्यस्य प्रतिबिम्बनिश्चायकत्वादित्याह –

एष

इति । उपक्रमवशादित्यनेन

सङ्गतिश्चोक्ता । एतं श्लोकं विभजते

ऋतमिति ।

कनीनिका

अक्षितारकम् । भिन्नवक्तृत्वेन वा

क्ययोर्न नियम्यनियामकत्वं चेत्कथं तर्ह्यग्निभिर्गतिं वक्ष्यतीति शेषोद्धारः कृतोऽत आह –

आचार्यस्त्विति ।

बाधकान्तरेति ।

अनवस्थितेरसंभवाच्चेति

सूचितबाधकान्तरदर्शनाय चेत्यर्थः । नन्वक्षणीत्याधारनिर्देशाद् जीवदेवते किं न स्तामत आह –

अन्तस्तद्धर्मेति ।

य एष इत्यादेः प्रथमश्रुतस्यापि सापेक्षत्वान्न चाक्षुषत्वसमर्पकत्वमित्याह –

अनिष्पन्नेति ।

य एष इति श्लोकः पूरितः । य इत्येष इति च सर्वनामनी विशेष्यापेक्षत्वात्स्वतोऽनिष्पन्नाभिधाने । अनिष्पन्नमपर्यव

सितमभिधानं

ययोस्ते तथा । ततश्च सन्निहितपुरुषादिपदस्यार्थं

विशेष्यं प्राप्याभिधातृणी वाचके भवेताम् ।

किमतोऽत आह –

सन्निहिताश्चेति ।

कुतस्तदर्थस्य अपरोक्षता चाक्षुषतेत्यर्थः ।

स्वरसत

इति । अनेन छायात्मनि योजनाक्लेशो वारितः ।

व्याख्यातं

चेति । अधिकरणावसानभाष्येणेत्यर्थः । तदुपादत्ते –

सिद्धवदिति ।

तद्व्याख्याति –

विदुष

इति । विदुषो विषयस्तेन निष्पाद्या शास्त्राद् योपलब्धिः सा परोक्षाऽपि प्रत्यक्षेति स्तूयत इत्यर्थः । उपचारे निमित्तमाह –

दृढतयेति ।

एतं संयद्वाम इत्याचक्षते, एतं हि सर्वाणि वामान्यभिसंयन्तीति श्रुतिमीश्वरस्य फलभोक्तृत्वभ्रमव्यावर्तनेन व्याचष्टे –

वननीयानीति ।

जीवान्प्रति सङ्गच्छमानानि यानि वामानि तानि येन हेतुना सङ्गच्छन्ते स संयद्वामः । एतं हीत्यस्यैतं निमित्तीकृत्येत्यर्थः । एष उ एव वामनीरित्यस्यार्थमाह –

एवेति । संयद्वामत्वं फलोत्पादकत्वमात्रं, वामनीत्वं फलप्रापकत्वमिति भेदः । एकस्थाननियमः स्थानान्तराव्यापकत्वम् । कमलस्य गोत्रं कामलस्तस्यापत्यं कामलायनः । दूनमानसं परितप्तमानसम् । पृथिव्यग्निरिति । उपकोसलं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति इमाभिश्चतस्त्रस्तनवो य एष आदित्ये पुरुषो दृश्यते सो ऽहमस्मीति । तथाऽन्वाहार्यपचनोऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति मम तनवो य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि, तथाऽऽहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति मम तनवो य एष विद्युति पुरुषो दृश्यते सोऽहमस्मीति ।

नचैतत्प्रतीकत्वमिष्टमिति ।

एषा

सोम्य

आत्मविद्येत्यग्निभिः कं खं ब्रह्मेति विद्याया विद्यात्वेन परामर्शादित्यर्थः॥ भाष्यगतसामयशब्दार्थमाह –

लौकिकस्येति ।

विशेषणविशेष्यभावोऽर्थयोः शब्दयोस्तु सामानाधिकरण्यम् । तथाच भाष्यायोगमाशङ्क्याह –तदर्थयोरिति । सुखस्य

वाचकः शब्दः सुखशब्दः ।

किंचिदधिकमिति ।

अक्षिस्थानसंयद्वामादिगुणं च पूरयित्वेत्यर्थः ।

ह्रीणो

लज्जावान् ।

अपज्ञायाऽपहृत्य ।

आवर्तमिति ।

जन्माद्यावृत्तिं पुंसां

करोति इत्यावर्तो मनुष्यलोक उच्यत इत्यर्थः । अथोत्तरेणेति । आत्मानं जगतः सूर्यं तपआदिना सह, अन्विष्याहमस्मीति विदित्वा

तमभिजायन्ते

प्राप्नुवन्ति । एतत्सूर्याख्यं ब्रह्म प्राणानां व्यष्टिभूतानां हिरण्यगर्भभूतं सद् आयतनम् । अग्निरर्चिर्देवता ज्योतिः सूर्यः । अहरादयोऽपि देवताः॥१५॥१६॥१७॥

इति चतुर्थं(फुट् नोट् – तत्र सूत्राणि ५ – अन्तर उपपत्तेः १३ स्थानादिव्यपदेशाच्च १४ सुखविशिष्टाभिधानादेव च १५ श्रुतोपनिषत्कगत्यभिधानाच्च १६ अनवस्थितेरसम्भवाच्च नेतरः॥१७॥) अन्तराधिकरणम् ।

अन्तर्याम्याधिदैवादिषु

तद्धर्मव्यपदेशात्॥१८॥ अशरीरस्य नियन्तृत्वासंभवसम्भवाभ्यां संशयः । पूर्वत्र स्थाननिर्देशोपपादनाय पृथिव्यादिस्थाननिर्देशो दृष्टः(फुट् नोट् – घ – पुस्तके ‘दृष्ठान्तः’ इति पाठः), तस्याक्षेपात्सङ्गतिः । अशरीरः परमात्मा

नान्तर्यामी

घटवत् । ननु – स्वशरीरनियन्तरि शरीरान्तरहिते तक्षणि अनैकान्तिकताऽत आह –

स्वकर्मेति ।

न नियम्यातिरिक्तशरीरराहित्यं हेतुः किं तु शरीरेण भोक्तृत्वेनानन्वयः । तक्षा तु स्वकर्मज्ञदेहेन

तादृक्

संबन्धवानेव तं देहं द्वारेणान्यच्च वास्यादि नियच्छतीति न व्यभिचार इत्यर्थः । अचेतनत्वमुपाधिमाशङ्क्य मुक्ते चेतने साध्यवत्यप्युपाध्यभावात्साध्याव्याप्तिमभिप्रेत्याह –

प्रवृत्तीति ।

नियमनं शरीरिणो, न चेतनमात्रस्य; मुक्ते तदभावादित्यर्थः । विपक्षे दण्डमाह –

न हीति ।

ननु जन्मादिसूत्रे उभयकारणत्वप्रतिपादनान्नियन्तृत्वं सिद्धमत आह –

तदनेनेति ।

पारिशेष्याज्जीव एवेति । अन्तर्यामीति वक्ष्यमाणेन संबन्धः । पूर्वपक्षमुपसंहरति –

तस्मादिति ।

किमिदमशरीरत्वं यतो नियन्तृत्वाभावः। नियम्यातिरिक्तदेहरहितत्वं वा, देहसंबन्धाभावो वा, देहे भोक्तृत्वाभावो वा । नाद्य इत्याह –

देहेति ।

देहादौ निर्दिष्टे तत्स्वामी तक्षादिर्बुद्धिस्थोऽस्येत्युक्तः । अथवा तस्माज्जीवात्मैवेत्युपसंहारस्थो जीवात्मा परामृष्टः । अस्य स्वदेहादिनियमे न देहाद्यन्तरमतोऽनैकान्तिकतेत्यर्थः । द्वितीयं शङ्कते –

तदिति ।

परस्यापि देहादिसंबन्धाभावोऽसिद्ध इत्याह –

तदविद्येति ।

तद्विषयत्वादविद्यायास्तदविद्यात्वम् । तृतीये तु सोपाधिकतैव; मुक्तस्य पराभेदेन पक्षत्वान्न साध्याव्याप्तिः । अतीतकालतां चाह –

श्रुतीति ।

यदवादि जीवस्य नियन्त्रन्तराभ्युपगमेऽनवस्थेति, तत्राह –

नचेति ।

औपाधिकस्य ह्यनौपाधिकेश्वरनियम्यत्वमभ्युपेतं

नानुपहितेश्वरस्य नियन्त्रन्तरापादकमित्यर्थः ।

जीवपरभेदाभावे कथं लौकिकवैदिकव्यवहारोऽत आह –

अविद्याकल्पितेति

। एवंचेति ।

बहुत्वाज्जीवानां नियम्याधिदैवादिषु प्रत्यभिज्ञा न स्यादित्यर्थः । एकत्वेऽ

न्तर्यामिण

एकवचनश्रुतिमाह –

एकवचनमिति ।

अभेदेपीति ।

औपाधिकभेदाभावेऽपीत्यर्थः । अधिकरणोपक्रमे विषयविवेचकमधिलोकमित्यादि भाष्यं तद्विभजते –

पृथिव्यादीति ।

यः

पृथिव्यां

तिष्ठन्नित्युपक्रम्य माध्यन्दिनपाठे यः स्तनयित्नौ तिष्ठन्नित्यन्तम्

॥१८॥१९॥

शारीरश्चोभयेऽपीति सूत्रपातनिका । भाष्ये कर्तरीति आत्मनीत्यर्थः । लौकिके कर्तरि डित्थे कार्यकरणसंघाते

दर्शनादिवृत्त्यविरोधादित्याह –

आत्मनीति ।

पृथिव्यां

तिष्ठन्नन्तर्यामीत्युक्ते पृथिव्यवयवस्थावयविनोऽन्तर्यामित्वं

स्यात्तन्निवृत्तयेऽन्तर इति । पृथिवीक्षेत्रज्ञवारणाय न वेदेति । स ह्यहमस्मि पृथिवीति न वेद । नियम्यदेह एवान्तर्यामिणो देहो नान्य इत्याह –

यस्येति ।

अप्रतर्क्यः तर्काविषयः । अविज्ञेयं प्रमाणाविषयः । सर्वासु दिक्षु प्रसुप्तमिव॥२०॥(फुट् नोट् – तत्र सूत्राणि ३ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् १८ न च स्मार्तमतद्धर्माभिलापात् १९ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते २० ॥)

इति पञ्चममन्तर्याम्यधिकरणम् ।

अदृश्यत्वादिगुणको धर्मोक्तेः॥२१॥ अदृश्यत्वादिसाधारणधर्मदर्शनात्संशयः । पूर्वत्र द्रष्टृत्वादिश्रवणान्न प्रधानमन्तर्यामीत्युक्तमिह तदश्रवणादक्षरं प्रधानमिति

भाष्योक्तैव सङ्गतिः ।

पूर्वपक्षमाह –

परिणाम

इति । योनिशब्दो निमित्तं चेदिति । ब्रूयादित्यध्याहारः । न विलक्षणत्वादित्यत्र परिणाममतं कृत्वाचिन्तया परिणामसारूप्ययोर्व्याप्तिर्निराकरिष्यते, अत्र तु विवर्तसादृश्ययोः । परिणामस्तु

तत्रत्य इहानूदितः । भूतयोनिर्जडः परिणममानत्वाद्विवर्तमानत्वाद्वा

संमतवदित्यर्थः । ननु परिणामिनः कथमक्षरशब्दवाच्यत्वमत आह –

स्वविकारानिति ।

अनुमानयोर्बाधमाशङ्क्याह –

य इति ।

अक्षरात्पर इति सामानाधिकरण्यम् ।

नामरूपेति ।

शब्दार्थयोर्बीजमधिष्ठानमात्मा तद्विषयतया तस्याधिष्ठानत्वे सहकारित्वेन शक्तिभूतं भूतानां सूक्ष्मं कारणं तस्मिन्, संदेहभाष्यस्थप्रधानशब्दं वर्तयति –

प्रधीयत इति

। क्रियत इत्यर्थः । अचेतनानामिति भाष्यं न प्रायदर्शनमात्रपरमित्याह –

सारूप्यादिति ।

ननु न च स्मार्तमिति प्राच्यधिकरणे प्रधानं दूषितं, द्रष्टृत्वाद्यसंभवन्यायसाम्यादचेतनमव्याकृतं दूषितप्रायमिति तच्छङ्का न युक्ता; प्रधाने त्वप्रामाणिकत्वमधिकमिति शङ्कते –

स्यादेतदिति ।

बाधकं द्रष्टृत्वादि । ईक्षत्यादिचिन्तयाप्यपुनरुक्तिमाह –

तेनेति ।

उपचर्यतां ब्रह्मणो जगद्योनित्वमित्युक्तम् । उपचारे निमित्तमाह –

अविद्येति ।

अविद्याशक्त्या विषयीकृतत्वेन तदाश्रय इति तथोक्तम् । द्वितीयश्लोकस्य द्वितीयार्धं व्याचष्टे –

अथेति ।

सति चेतनपरत्वे वाक्यस्य ब्रह्मपरत्वं दुर्निवारमिति पूर्वपक्षाभावमाशङ्क्याह –

ब्रह्मैवेति ।

यदुक्तम् अक्षरात्परस्य सर्वज्ञत्वमक्षरं तु प्रधानमिति, तन्नेत्याह –

अक्षरस्येति ।

यद्भूतयोनिमित्यक्षरस्य जगद्योनिभावमुक्त्वा यः सर्वज्ञ इत्युपक्रम्य तस्मान्नामरूपादि जायत इति जगद्योनिभाव उच्यते । उपादानप्रायपाठाच्च पञ्चम्या न निमित्तार्थत्वं तत्र उपादानत्वप्रत्यभिज्ञालिङ्गेनैकवाक्यत्वे सति वाक्यप्रमाणात् सर्वज्ञ एव भूतयोनिरित्यर्थः । विश्वयोनिर्यदक्षरं तत्सर्वविद्भवेदिति विधीयते । यद्यक्षरशब्दवाच्यभूतयोनेः सर्वज्ञत्वं, कथं तर्हि सर्वज्ञस्याक्षरात्परत्वमुक्तं? तत्राह –

अक्षरादिति ।

यद्

यस्मादर्थे । न च – अक्षरशब्दप्रत्यभिज्ञानाद् भूतयोनिरेवाक्षरादिति निर्दिष्टेति – वाच्यम्; प्रथमश्रुते यः सर्वज्ञ इति वाक्ये सर्वज्ञस्य जगदुपादानत्वप्रत्यभिज्ञयाऽस्य बाध्यत्वात्, येनाक्षरं पुरुषं वेद सत्यमिति पुरुषस्याक्षरशब्देन निर्देक्ष्यमाणत्वाच्च । विवर्तस्त्विति श्लोकस्य द्वितीयार्धं व्याचष्टे –

अपि चेति ।

प्रयोजनमाह –

ज्ञेयत्वेनेति ।

भोग्यव्यतिरिक्त इति भाष्यस्य व्याख्या –

भोगा

इति । ननु ऋतुषु यजन्तीति कर्तरि क्विपि संप्रसारेण ऋत्विक् शब्दः । यज्ञसंयोगे गम्यमाने पतिशब्दप्रातिपदिकस्य नकारादेशः, स इकारस्यान्त्यस्य, ततो ङीपि कृते पत्नी । उक्ताभिप्रायमिति । विवर्तत्वेन सारूप्यानपेक्षेत्युक्तोऽभिप्रायः ॥२१॥

प्रधानादित्यपीति ।

यद्यपि भाष्ये शारीरप्रधाननिराकरणतया हेतुद्वयं क्रमेण व्याख्यातं; तथापि पुरुषशब्दस्य प्रधानव्यावर्तकत्वादाद्यहेतुरपि प्रधानवारणार्थ इति । अक्षरमव्याकृतमित्यादिभाष्यस्यायमर्थः । शब्दार्थयोर्बीजमधिष्ठानं तस्य शक्तिः सहकारित्वात् । सा चेश्वरमाश्रयते विषयीकरोतीति ईश्वराश्रया । तस्याधिष्ठानत्वे उपाधिभूतावच्छेदिका, शुक्तेरिव तद्विषयमज्ञानम् । अविकार इति च्छेदः, तस्माद्वाचस्पतिमतं भाष्यविरुद्धमिति कैश्चिदयुक्तमुक्तम् । किंच – अज्ञत्वभ्रान्ततादोषादरक्षत्परमेश्वरम् । एतद्भाष्यार्थतत्त्वज्ञो वाचस्पतिरगाधधीः॥ प्रधानस्यागमिकत्वे प्रकृतिविकार सारूप्यादि बहु समञ्जसं स्यादित्यर्थः । असमञ्जसमिति पाठे चेतनस्य जगदुपादानत्वादि असमंजसं स्यादित्यर्थः॥२२॥ रूपोपन्यासाच्च । नेतरावित्यनुषङ्गः । भाष्ये –अदृश्यत्वादिधर्मकस्य न विग्रह इत्याक्षेपः  । सर्वात्मत्वविवक्षयेति समाधानम् । जायमानसन्निधिलक्षणस्थानस्य प्रकरणेन बाधमाशङ्क्य विग्रहवत्त्वलिङ्गेन प्रकरणबाधमाह –

नेति ।

ईश्वरस्यापि हिरण्यश्मश्रुत्वादिवद् मूर्धादिसंभव इति कश्चित् । तन्न ; अपाणिपादमिति निर्विशेषस्य ज्ञेयत्वेन प्रक्रमाद्धिरण्मयस्योपास्यत्वेन विग्रहाद्यविरोधात् । प्राकृतपाण्यादिनिषेध एष इति चेन्न; प्रथमस्य चरमेणासंकोचादिति । लिङ्गं सार्वात्म्यपरं न शरीरादिमत्वपरमित्याशङ्क्य तथा सति मूर्धादिबहुश्रुतीनां बाधः स्यात्, तास्तु प्रकरणाद्बलीयस्य इत्याह –

चैतावतेति । प्रकरणमात्रेणेत्यर्थः । एवंच हृदयं विश्वमस्य एष सर्वभूतान्तरात्मेति चात्रत्ये सर्वनामनी सन्निहिततरं विग्रहवन्तं गृह्णीतो न भूतयोनिमिति । लिङ्गनिरुद्धे प्रकरणे सन्निधिर्विजयते इत्याह –

सिद्धे चेति ।

पुरुष एवेदमित्यादिसर्वरूपत्वोपन्यासोऽपि द्युमूर्धादिकस्यैवास्तु तस्य सन्निहिततरत्वादत आह –

प्रकरणादिति ।

सन्निधेः प्रकरणस्य बलीयस्त्वात्पूर्ववद्बाधकलिङ्गाभावाच्चेत्यर्थः॥ ऊर्णनाभिर्लूताकीटस्तन्तून् सृजते संहरति च । सतो जीवतः  । येन ज्ञानेन अक्षरं पुरुषं वेद तां ब्रह्मविद्यामुपसन्नाय प्रोवाच प्रब्रूयात् । सर्वविद्यावेद्यवस्त्वधिष्ठानविषयत्वात्सर्वविद्याप्रतिष्ठा । कर्मनिर्मितान्परीक्ष्य ब्राह्मणो निर्वेदमायात्कुर्यादित्यर्थः । गच्छेदिति वाक्यशेषाद्वैराग्यहेतुमाह – इह संसारेऽकृतो लोको नास्ति, किं कृतेन कर्मणेत्यध्याहारः । अतोऽकृतज्ञानार्थं दिवि स्वात्मनि प्रकाशरूपे भवो दिव्यो बाह्याभ्यन्तरसहितः सर्वात्मेति यावत् । क्रियाविज्ञानशक्तिमन्मनः प्राणरहितः । बाह्येन्द्रियनिषेधोऽप्युपलक्षितः । अत एव शुभ्र शुद्धः; अग्निद्यौः, असौ वाव लोको गौतमाग्निरिति श्रुतेः, स मूर्धा अस्येति सर्वत्र संबन्धः । यस्येत्यर्थे अस्यशब्दः । विवृता उद्घाटिताः प्रसिद्धाः वेदाः यस्य, वाक् वायुर्यस्य, प्राणः विश्वं यस्य, हृदयं मनस्तन्मनसा सृष्टत्वाद् विश्वस्य, पादरूपेण पृथिवी यस्य जाता, एष सर्वभूतगतप्राणानां समष्टितया सर्वभूतान्तरात्मा  । एतस्माज्जायते इत्यनुषङ्गः । तस्मात्परमात्मनोऽग्निर्द्युलोको जायते यस्य सूर्यः समिधः; असौ वाव लोकोऽग्निस्तस्यादित्य एव समिदिति श्रुतेः । स दधार दधार । कस्मै ब्रह्मणे॥ इति षष्ठमदृश्यत्वाधिकरणम्॥( फुट् नोट् – तत्र सूत्राणि ३ – अदृश्यत्वादिगुणको धर्मोक्तेः २१ विशेषणभेदव्यपदेशाभ्यां च नेतरौ २२ रूपोपन्यसाच्च २३॥)

वैश्वानरः साधारणशब्दविशेषात्॥२४॥ अत्र वैश्वानरः किमनात्मा, किं वा आत्मा, अनात्मत्वे जाठरोऽन्यो वा, आत्मत्वेऽपि जीवः परो वेति संदेहः । सार्वात्म्यरूपोपन्यासादक्षरं ब्रह्म वर्णितम् । जाठरादावनैकान्त्यशङ्का तस्य निरस्यते॥ को न आत्मेत्युदाहरणभाष्यं छान्दोग्याख्यायिकार्थानुसन्धानेन व्याचष्टे –

प्राचीनशालेत्यादिना ।

उद्दालकोऽप्युपलक्ष्यते । जन इति ऋषिनामैव । आत्मेत्युक्ते इति । ब्रह्मेत्युक्ते तत्परोक्ष्यनिवृत्त्यर्थमात्मपदमित्यपि द्रष्टव्यम् । इक् स्मरण इत्यस्य रूपमध्येषीति । द्युसूर्येत्यादिभाष्यमादाय व्याचष्टे –

वैश्वानरस्येत्यादिना ।

सुतेजस्त्वगुणा द्यौर्वैश्वानरस्य मूर्धा विश्वरूपत्वगुणः सूर्यः; एष शुक्ल एष नील इत्यादिश्रुतेः । स वैश्वानरस्य चक्षुः । पृथग्गतिमत्त्वगुणो वायुः प्राणः । बहुलत्वगुण आकाशो देहमध्यम् । रयिर्धनम् । तद्गुणा आपो वस्तिस्थम् उदकम् ; तत्र पृथिव्यां वैश्वानरस्य प्रतिष्ठानात् । मूर्धापातादिदूषणैरुपासनानां निन्दयेति । मूर्धा ते व्यपतिष्यदित्यादिनैकैकोपासननिन्दया तस्य ह वा एतस्येत्यादिना वैश्वानरस्य द्युलोकादयो मूर्धादय इति कथनेनावयविनः समस्तभावमुपदिश्येत्यर्थः । उपासक एव वैश्वानरोऽहमिति मन्यत इति – वैश्वानरस्य भोक्तृरित्युक्तम् । हृदयाद्धि मनः प्रणीतमिव । इतः प्रणयनावधित्वाद् हृदयं गार्हपत्यः, अतएव तदनन्तरत्वान्मनोऽन्वाहार्यपचन इत्याह –

हृदयानन्तरमिति॥२४॥

पूर्वपक्षमाक्षिपति –

नन्वित्यादिना ।

निश्चितार्थच्छान्दोग्यवाक्येन तदेकार्थं वाजसनेयिवाक्यं निर्णीयते, न विपर्यय इत्यत्र न्यायमाह –

निश्चितार्थेन

हीति । यथा हि तं चतुर्धा कृत्वा बर्हिषदं करोतीति पुरोडाशमात्रचतुर्धाकरणवाक्यमेकार्थसंबन्धिना शाखान्तरीयेणाग्नेयं चतुर्धा करोतीति विशेषविषयत्वेन निश्चितार्थेनाग्नेय एव पुरोडाशो व्यवस्थाप्यते, एवमत्रापीत्यर्थः । अथ दर्शपूर्णमासकर्मणः शाखाभेदेऽ प्यभेदात्तत्र तथा, तर्ह्यत्रापि सममित्याह –

कर्मवदिति ।

न केवलमुपक्रमाद्ब्रह्मनिर्णयः, उपसंहारादपीत्याह –

च द्युमूर्धत्वादिकमित्यादिना । प्रतीकोपदेशमुपाध्यवच्छिन्नस्योपास्त्युपदेशं च प्रपञ्चयति –

तथाचेति ।

पञ्चपादीकृतस्तु वाजसनेयिवाक्यस्याप्यात्मोपक्रमत्वलाभे किं शाखान्तरालोचनयेति पश्यन्तः पुरुषमनूद्य वैश्वानरत्वं विधेयमिति व्याचक्षते, तद्दूषयति –

अत एवेति ।

यत एवान्तःप्रतिष्ठितत्वेन सह समुच्चयः सूत्रगतापिशब्दार्थोऽत एवान्तःप्रतिष्ठितत्ववत्पुरुषत्वमपि वैश्वानरमुद्दिश्य विधेयं न विपर्यय इत्यर्थः । यदि पुरुषमनूद्य वैश्वानरो विधीयते, तदा पुरुषस्य दृष्ट्याश्रयत्वं स्यादित्याह –

तथासतीति ।

किमतस्तत्राह –

एवमिति ।

न केवलं सूत्रविरोधोऽपि तु भाष्यविरोधोऽपीत्यर्थः । स यो हैतमिति वाक्ये प्रथमनिर्दिष्टाग्न्युद्देशेन पुरुषत्ववेदनं स एषोऽग्निरिति वाक्यस्यार्थत्वेनानूद्यते । तथा च तस्यायमेवार्थः स्थित इति श्रुतिविरोध इत्यर्थः । पुरुषस्य विधेयत्वे यच्छब्दायोगमाशङ्क्याह –

तस्मादिति ।

पञ्चपाद्यां तु जाठरे ईश्वरदृष्टिपक्षमुक्त्वा योगादग्निवैश्वानरशब्दयोरीश्वरे वृत्तिरिति पक्षान्तरं वक्तुमयम् उद्देश्यविधेयभावव्यत्यय आश्रित इति चिन्त्यमिदं दूषणमिति॥२४॥२५॥२६॥२७॥ मूर्धादिचिबुकान्तावयवेषु संपादितस्य कथं पुरुषविधत्वं? तेषां पुरुषैकदेशत्वादित्याशङ्क्य वैश्वानरपुरुषस्य पादादिमूर्धान्तावयवानामेषु संपादनात्पुरुषसादृश्यमित्याह – अत्रावयवसंपत्त्येति । मूर्धचिबुकान्तरालस्थस्य पुरुषावयवस्थत्वात्कथं पुरुषेऽन्तःप्रतिष्ठितत्वमित्याशङ्क्याह –

कार्यकरणेति ।

कार्यकरणसमुदाय एव पुरुषस्तस्यावयवा मूर्धादिचिबुकान्तास्तेष्वन्तःप्रतिष्ठानात्पुरुषेऽन्तःप्रतिष्ठितत्वम् । अत्र हेतुः –

समुदायेति ।

अवयविन्यवयवस्यान्तर्भावादवयवस्थोप्यवयव्याश्रितः, गृहस्थ इव ग्रामस्थ इत्यर्थः । ननु – अवयवाश्रितस्यावयव्याश्रितत्वव्यपदेशे दृष्टान्तो वक्तव्यो भाष्यकारस्त्ववयवस्यावयविनिष्ठताव्यपदेशमुदाहरति, ततो न निदर्शनतेत्याशङ्क्याह – अत्रैवेति । शाखादीनां समुदाये प्रतिष्ठिता शाखा समुदायमध्यपातिनी भवेत्, तावदेषां च मूर्धादिचिबुकान्तावयवानां कार्यकरणसमुदायान्तर्भावे निदर्शनम् । अवयवस्थस्य तु वैश्वानरस्यावयविपुरुषान्तःस्थत्वमर्थादेव सिद्ध्यतीत्यर्थः । विश्वेषां वाऽयं नरो नेता कारणम्॥२८॥२९॥३०॥३१॥ भाष्ये –

वरणानासीति ।

निरुप्येति ।

इमामेव प्रसिद्धां भ्रूसहितां नासिकां वारयति नाश्यतीति वरणासहिता नाशीति निरुच्येत्यर्थः । वरणाशब्दार्थमाह –

भ्रूरिति॥३२॥

अत्रिः किल याज्ञवल्क्यं पप्रच्छ य एषोऽनन्तोऽव्यक्त आत्मा तं कथं विजानीयामिति । प्रत्युवाचेतरः सोऽविमुक्ते प्रतिष्ठित इति । अविमुक्तस्य स्थानभूता का वै वरणा का च नाशीति प्रश्नस्य प्रत्युक्तिः सर्वानिन्द्रियकृतान्दोषान्वारयति तेन वरणेति । सर्वानिन्द्रियकृतान्पाप्मनो नाशयति इति नाशीति । नियम्य जीवाधिष्ठानत्वद्वारेण नियन्तुरीश्वरस्याधिष्ठानत्वान्नासाभ्रुवोः पाप्मवाकरत्वाद्युपपत्तिः । नासाभ्रुवोर्मध्येऽपि स्थानविशेषजिज्ञासया प्रश्नः कतमच्चेति । भ्रूमध्यमाहेतरो भ्रुवोरिति । प्राणस्य नासिक्यस्य । स च संधिर्द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य संधित्वेनोपास्यः॥ केचित्तु – उपासनाबुद्धिर्वारकत्वेन नाशकत्वेन च वरणा नाशी । सा हि प्रकृता, न भ्रूः, भ्रुवोरिति द्विवचनेन वक्ष्यमाणाया एकवचनायोगाच्च । अतः श्रुत्यनभिज्ञो वाचस्पतिः – इति वदन्ति । तन्न; अत्र ह्युपासना स्वशब्देन न प्रकृता । तं कथं विजातीयामित्युपसर्जनं विज्ञानं प्रकृतमपि न स्त्रीलिङ्गनिर्देशार्हम् । ततः शब्दोपात्तभ्रूप्रातिपदिकर्थं वक्ति वरणाशब्द इति श्रुत्यर्थज्ञो वाचस्पतिरेव । वैश्वानरमह्णां (फुट् नोट् – वैश्वानरः साधारण इति सूत्रोक्त ‘विश्वस्मा अग्निं भुवनाय देवा वैश्वानर केतुमहामकृण्वन्’ इति ऋगर्थमाह वैश्वानरमिति॥) केतुं सूर्यं, वैश्वानरस्य (फुट् नोट् – वैश्वानरस्य सुमतौ राजेति ऋगर्थमाह वैश्वानरस्येति) शोभनमतौ विषया भवेम । स च कं सुखम् । अभिमुखा श्रीश्च । यो भानुरूपेण रोदसी द्यावापृथिव्यौ अन्तरिक्षं चाततान व्याप्तवान् । रोदसी एव दर्शयति – इमां पृथिवीं द्यामिति । प्रादेशमात्रमिव । देवाः सूर्यादयः । अभिसंपन्नाः प्राप्ता उपासनया यदा ते सुविदिता भवन्ति । अहं कैकेयराजो युष्मभ्यम् औपमन्यवादिभ्यः एतान् देवास्तथा वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादयिष्यामि । अधोलोकानतीत्य स्थिताऽतिष्ठा द्यौर्मूर्ध्न्याध्यात्ममारोप्या, एवं सुतेजस्त्वादिगुणवन्तो वैश्वानरावयवा आदित्यादयश्चक्षुरादिष्वारोप्याः॥

इति (फुट् नोट् – तत्र सूत्राणि ९ – वैश्वानरः साधारणशब्दविशेषात् २४ स्मर्यमाणमनुमानं स्यात् २५ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसंभवात् पुरुषमपि चैनमधीयते २६ अत एव न देवता भूतं च २७ साक्षादप्यविरोधं जैमिनिः २८ अभिव्यक्तेरित्याश्मरथ्यः २९ अनुस्मृतेर्बादरिः ३० संपत्तेरिति जैमिनिस्तथा हि दर्शयति ३१ आमनन्ति चैनमस्मिन् ३२) सप्तमं वैश्वारराधिकरणम्॥ इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलानन्दकृते वेदान्तकल्पतरौ प्रथमाध्यायस्य द्वितीयः पादः॥ अस्मिन् पादे आदितः अधिकरणानि ७ १८ सूत्राणि ३२ ६३

अथ वेदान्तकल्पतरौ प्रथमाध्यायस्य तृतीयः पादः। द्युभ्वाद्यायतनं स्वशब्दात्॥१॥ निर्विशेषब्रह्मलिङ्गनिरूपणं पादार्थमाह -

इहेति।

आद्याधिकरणमवतारयति -

तत्रेति।

आयतनत्वसाधारणधर्मात् संदेहे पूर्वपक्षं सङ्गृह्णाति -

पारवत्त्वेनेति।

अमृतं यद्ब्रह्म तद् द्युभ्वाद्यायतनं कर्हिचित् कदाचिदपि न युक्तम्। आयतनस्य ब्रह्मत्वभावे हेतुमाह -

पारवत्त्वेनेति।

सेतुत्वस्य पारवत्त्वेन व्याप्तेः ब्रह्मणश्चापरत्वादित्यर्थः। अमृतत्वाभावे हेतुमाह -

भेद इति।

भेदे हि सति संबन्धार्था षष्ठी प्रयुज्यते, ब्रह्म चामृतमिति नामृतस्येति षष्ठी युक्तेत्यर्थः।

पारं

परकूलम्।

अवारम्

अर्वाक्कूलम्। ननु षिञो बन्धनार्थात् सेतुशब्दव्युत्पत्तेर्जन्मर्यादाया बन्धरि ब्रह्मणि प्रयोगः किं न स्यादत आह -

नत्विति।

यत्र दारुणि च्छिद्रिते निग्राह्याणां पादप्रोतनं तत् हडिः। निगडः शृङ्खला। ननु अमृतमपि ब्रह्म अमृतान्तरसंबन्धि, नेत्याह -

न च ब्रह्मण इति।

अतोऽन्यदार्तमिति श्रुतेरित्यर्थः। पुरुषं प्रति यावत्तादात्म्यं तावदगच्छद्वस्तुतः परिच्छिन्नं भवति पारवत्।

अथ त्विति।

साक्षादायतनत्वेन श्रुत्युक्तमिति योजना। अव्याकृतं हि कारणब्रह्मोपाधित्वेन प्रतिपाद्यते न प्राधान्येनेति।

तस्य हि कार्यत्वेनेति।

देहाद्यवच्छिन्नरूपेणेत्यर्थः।

धारणाद्वेति।

अस्य द्युभ्वाद्यायतनस्यास्य वा तज्ज्ञानस्य यथाक्रमममृतत्वस्य धारणात् साधनाद्वा सेतुता। यद्यपि ब्रह्मैवामृतम्; तथापि तदज्ञातं न मोक्ष इति ज्ञायमानत्वदशामभिप्रेत्य धारयितृत्वम्। अत एव षष्ठी। नन्वेवं रूढिर्गतेत्याशङ्क्य साम्यमाह -

पूर्वपक्षेऽपीति।

पारवत्तावर्जं पारवत्तां वर्जयित्वा।

योगमात्रादिति।

षिञ्धात्वर्थयोगादित्यर्थः॥ विधारकत्वमेव सेतुगुणोऽपि स्यात्, तथा च पारवत्तया गौणी वृत्ती रूढ्यत्यागेन प्रवृत्ता योगात् बलिनीति च न शङ्क्यमिति। अमृतस्य ब्रह्मणो हेत्वभावात् साधनत्वं ज्ञानस्यायुक्तम् इत्याशङ्क्य अविद्यानिवृत्तिः अमृतत्वशब्दार्थ इत्याह -

अमृतशब्दश्चेति।

द्वयोरेकस्य च संख्येयानामुपादाने तेषां बहुत्वाद् द्व्येकेष्विति स्यात्। नानार्थसाधारण्येन सकृदुच्चारणमिह तन्त्रम्, एवं चावृत्तिलक्षणवाक्यभेदो व्युदस्तः। अस्य ब्रह्मणः स्वीयाः (फुट् नोट् - स्वशब्दा इत्यर्थमाह स्वीया इति) शब्दा एते इत्यर्थः। तत्र त्वायतनवद्भावश्रवणादिति भाष्यं द्युभ्वाद्यायतनस्य ब्रह्मत्वे सिद्धे तस्य सविशेषत्वनिरासार्थम्; तत्प्रधानवादनिरासानुपयोगित्वात् प्रकृतासङ्गतम् इत्याशङ्क्य हिरण्यगर्भपूर्वपक्षनिरासार्थत्वेन प्रकृतेन सङ्गमयति -

स्यादेतदित्यादिना।

अप्रधानं ज्ञानं न सर्वनामपरामर्शार्हमिति कश्चित्, तं प्रत्याह -

न चेति।

यत्तु - केनचिदुक्तं, ‘तं जानथेति ज्ञेयं प्रत्युपसर्जनं ज्ञानमेष इति पुंल्लिङ्गनिर्देशानर्हं च’ – इति, तन्न; सत्यपि ज्ञेयप्राधान्यनिर्देशे ज्ञानस्य फलसाधनत्वेन गुणकर्मत्वाभावात् प्राधान्यात्। पुंल्लिङ्गं तु विधेयसापेक्षमिति न किंचिदेतत्। ‘‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा’’ इत्यादौ शब्दतोऽप्रधानस्यापि पय-आदेः सर्वनामनिर्देशात्, अनियतं सर्वनाम्नः प्रधानपरामर्शित्वम् इत्याह -

न चेति॥ १॥

अविद्यारागद्वेषादीति भाष्ये आदिग्रहणेन प्राङ्निर्दिष्टभयमोहावुक्तौ। एतेऽविद्यादयः श्रुतौ हृदयग्रन्थिशब्दार्थ इत्याह -

हृदयग्रन्थिश्चेति।

अज्ञानस्याविद्याशब्देन निर्दिष्टत्वात्, मोहश्च विषादः, शोक इति च विषादव्याख्या। परावर इति श्रुतिपदं व्याचष्टे -

परमिति।

भाष्ये सूत्रोपात्तम् उक्तपदव्याख्यानाय ‘भिद्यते हृदयग्रन्थिः’ इति मन्त्रमुदाहृत्य ज्ञानादज्ञाननिवृत्तौ ब्रह्मणः प्राप्यत्वम्, उपसृप्यपदार्थं इति च वक्तुं ‘‘तथा विद्वानिति’’ मन्त्र उदाहृतः ततश्च उत्तरमन्त्रे विद्वानिति अभिधास्यमानं ज्ञानं पूर्वमन्त्रे भिद्यत इत्यादिकर्मसंयोगे निमित्तार्थया दृष्टे इति सप्तम्या निर्दिष्टम्। निष्ठा च भावे। दर्शनार्थश्चाविद्यादेः परोक्षज्ञानात् शिथिलीभावो भिद्यत इत्यादिनोक्त इत्यभिप्रेत्याह -

तस्मिन्ब्रह्मणीति।

उत्तरमन्त्रस्थनामरूपशब्दार्थमाह -

नामेति॥२॥

यत्तु - कश्चिदाह - सूत्रेणाऽनिरस्तत्वात् न वाय्वादिपूर्वपक्ष इति, तत्राह -

नाव्याकृतमित्यपीति।

साधारणहेतुनिर्देशाद् अव्याकृतवादाद्यपि पूर्वपक्षत्वेन सूचितमित्यर्थः॥३॥४॥५॥६॥ न चोपाधिपरिच्छिन्नस्येति भाष्ये चकारप्रयोगात् सौत्रचशब्दव्याख्यात्वभ्रममपाकरोति -

न चेति।

जीवात्मैव द्युभ्वाद्यायतनमिति न वाच्यमित्यन्वयः।

जीवात्माधिगमयेति।

प्रसिद्धं जीवस्वरूपमनूद्याज्ञस्य (फुट् नोट् - घ - पुस्तके ‘अनूद्य ज्ञस्य’ इति पाठः) पारमार्थिकस्वरूपाधिगमायेत्यर्थः। प्रकरणे न पठितमिति कृत्वाचिन्ता न युक्ता; प्रकरणादिति सूत्रादिति केनचिदयुक्तमुक्तम्; कृत्वाचिन्ता उद्धाटनार्थत्वात् सूत्रस्य। इदं विश्वं पुरुष एव यस्मिन् पृथिव्यादि - ओतं समाश्रितं किं तदिति, अत आह - कर्म - अग्निहोत्रादि। तपो ज्ञानम्, अर्थात् तत्फलं च। स च पुरुषः परामृतं ब्रह्म॥७॥

इति प्रथमं द्युभ्वाद्यधिकरणम्॥ (फुट् नोट् - तत्र सूत्राणि ७ - द्युभ्वाद्यायतनं स्वशब्दात् १ मुक्तोपसृप्यपदेशात् २ नानुमानमतच्छब्दात् ३ प्राणभृच्च ४ भेदव्यपदेशात् ५ प्रकरणात् ६ स्थित्यदनाभ्यां च ७॥)

वाक्प्रेरकत्वात् वाचो मनो भूयः। कुर्यामिति निश्चयस्य मनसः कर्तव्यादिविवेकः संकल्पः कारणम्। तस्य चातीतादिविषयसाध्यप्रयोजनज्ञानं चित्तम्। तस्मादपि लोकिकविषयात् शास्त्रीयदेवताद्यैकाग्र्यं ध्यानं फलतो भूयः। ध्यानस्य विज्ञानं शास्त्रीयं कारणं तस्य मनोगतं बलं प्रतिभानसामर्थ्यं कारणम्। तस्याद्यमानमन्नम्। तस्यापः। एवमाकाशपर्यन्तं ज्ञेयम्। आकाशस्य भोग्यत्वे स्मरः स्मरणम्। तस्याशा तया हीष्टं तात्पर्येण स्मरति। प्राणो नामाद्याशान्तसर्वहेतुतया भूयान् इत्युत्तरभूयस्त्वं द्रष्टव्यम्। भवतु प्राणे प्रश्नप्रत्युक्तिपर्यवसानम्; तथापि न तस्य भूमत्वशङ्का, एष त्विति तुशब्देन ग्रन्थं विच्छिद्य भूमोपदेशादित्याशङ्क्य विषयप्रदर्शनावसर एव संशयोपयोगितया पूर्वपक्षसम्भावनमाह -

प्राणस्येति।

सर्वात्मत्वलिङ्गात् प्राण एव भूमा, तुशब्दस्तु सत्यप्राणवेदिन एव नामाद्यतिवादित्वात् विशेषार्थ इति संभवः पूर्वपक्षस्येत्यर्थः॥ प्राणस्य भूमत्वे लिङ्गान्तरमाह -

अपृष्ट एवेति।

यदि प्राणादन्यो भूमा, तर्हि प्राग्वत्प्रश्नेन भाव्यमित्यर्थः। भूमशब्दस्य निष्कृष्टबहुत्ववचनत्वात् किं प्राणो भूमेति भाष्ये सामानाधिकरण्यायोगमाशङ्क्य आह -

भावभवित्रोरिति।

भाष्यकारेण प्राणसन्निधिरात्मप्रकरणं च संशयबीजमुक्तमयुक्तम्, प्रबलदुर्बलाभ्यां संशयायोगादित्याशङ्क्याह -

संशयस्येति।

इदं हि विशुद्धविज्ञानेन भाष्यकृतोक्तम् अतो यथाश्रुतालोचिभिः नावज्ञेयम्। उपपत्तिं त्वनन्तरमेव वक्ष्याम इति भावः। पूर्वपक्षमाह -

एतस्मिन्निति।

यो वै भूमेत्युक्तो भूमा, न प्राणादन्यः, अस्ति भगव आशाया भूय इति प्रश्नातिरिक्तप्रश्नाविषयत्वे सति एतद्ग्रन्थस्थभूमरूपत्वात्, आशापेक्षप्राणभूमवत् इत्यनुमानं सूचितम्। आर्तिमात्रस्य उद्देश्यत्वाऽपर्यसानात् हविषा विशेषणं सहामहे, पर्यवसितस्य हि उद्देश्यस्य विशेषणं वाक्यभेदौ अहंग्रहस्येव एकत्वमिति शबरस्वामिन आहुः। संशयबीजोपपत्तिमनन्तरमेव वक्ष्याम इत्यवादिष्म, तामिदानीमाह -

न चात्मन इत्यादिना॥

निर्णोतार्थप्रतीकविषयोत्तरवशात् प्रश्नोऽपि प्रतीकपरः, आत्मशब्दश्च नामादिषु आरोप्यमाणब्रह्मविषयः। प्रश्नस्य आरोप्याविषयत्वे दूषणमाह -

अतदिति।

प्रश्नो यद्यात्मविषयः स्यात् तद उत्तरस्य प्रतीकविषयस्य अतद्विषयत्वम् अपृष्टविषयत्वं स्यात्, तदा च प्रश्नोत्तरयोः वैयधिकरण्यमित्यर्थः। प्रश्नस्येति यदि पाठो लभ्यते तदा सुगममिति॥

तदेतदिति।

प्रकरणानुत्थानम्। प्रकरणमेव प्राणसन्निधिसमकक्षत्वेन संशयबीजं दर्शयता भाष्यकारेण प्रकरणत्वमस्य न निश्चितं, सन्निधिमात्रमात्मशब्दस्येति सूचितम्। अत एव पूर्वपक्षावसरे पुनर्नोक्तमित्यर्थः। पूर्वपक्षस्तु प्राणस्य आत्मशब्दादपि अतिसन्निधानात् उत्थित इत्युक्तमपि च भूमेति भाव इत्यत्र। अपि तु इत्यस्य नामाद्यतिवादित्वात् व्यवच्छिनत्तीति वक्ष्यमाणेनान्वयः। फलितमाह -

तदिति।

वाक्येन प्राणव्रतस्य पुनरुक्तौ प्रयोजनमाह -

न नामेति।

सत्यादिपरम्परयेति भाष्योक्तं सत्यादि दर्शयति -

अत्र चेति।

यदवादि प्रतीकविषयो बहोर्भाव इति विग्रहे ‘पृथ्वादिभ्य इमनिज्वा’ इतीमनिच्प्रत्यये बहुशब्दोपरि कृते बहोर्लोपो भू च बहोरिति सूत्रेण बहोरुत्तरेषामिमनादीनामिकारस्य लोपे बहोः स्थाने भू-आदेशे च भूमेति रूपम्। गार्हपत्यो ह वा एषोऽपान इत्यादिना अग्नित्वेन निरूपितत्वात् प्राणाग्नयः(फुट् नोट् - प्राणाग्नय एवैतस्म्न् पुरं जाग्रति, अत्रैव देवः स्वप्नान्न पश्यति, इति भा वचनयोर्व्याख्येयम्)। पुरे शरीरे देवो मन-उपाधिको जीवः। अथ तदा यत्सुखं तदस्मिन् शरीरे भवति स वा एव एतस्मिन् संप्रसादे स्वप्रान्ते बुद्धान्ते इति स्वप्नजाग्रद्भ्यां सह सुषुप्ते संप्रसादशब्दः पठितः। उपक्रमोपसंहारयोः शोकतमसोः अभिधानात् विसंवाद इति शङ्कायाम् उत्तरं भाष्यं - तम इति शोकादिकारणमिति॥९॥

इति द्वितीयं भूमाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रे २ - भूमा संप्रसादादध्युपदेशात् ८ धर्मोपपत्तेश्च ९॥)

अक्षरमम्बरान्तधृतेः॥१०॥ अक्षरशब्दस्य वर्णब्रह्मणोः रूढिनिरूढिभ्यां संशये प्रणवसर्वात्म्यं न गौणं प्राणसर्वात्म्यवदिति प्रत्यवस्थाननिरा सात्सङ्गतिः। पूर्वपक्षमाह -

अक्षरशब्द इत्यादिना।

रूप्यते निरूप्यते इति रूपमभिधेयं स्वार्थे धेयप्रत्ययः। अर्थे शब्दात्मकत्वानुभवो न तद्गम्यत्वकृतः। धूमगम्यवह्नेः तादात्म्यानवभासादिति। शब्दबोधेऽभिधया मानान्तरगम्यार्थबोधे यः शब्दबोधस्तत्रोपायत्वप्रयुक्तशङ्काऽपि नेत्याह -

अपि चेति।

ग्रथिताः

संबद्धाः।

विद्धाः

तदात्म्येन।

शङ्कुना

पर्णनालेन।

पर्णानि

पर्णावयवाः

संतृण्णानि

विद्धानि।

किं तु परमात्मैवैति।

धारयितुमर्हतीत्यनुषङ्गः। स्वरूपप्रमाणार्थक्रियाभिर्भेदमाह -

तथा हीति।

ननु डित्थोऽयमिति नामसंभेदोऽनुभूयते, तत आह -

न च डित्थ इति।

यद्यर्थो न शब्दात्मा, तर्हि कथमर्थप्रत्यये शब्दः प्रतिभाति, न हि स तदा स्वेन परेण वोच्चार्यतेऽत आह -

संज्ञा त्विति।

संस्कारोद्बोधस्य संपात उत्पादस्तेनायाता प्राप्ता गृहीतसंबन्धैः पुंभिः।

यत्संज्ञास्मरणमिति।

अन्यहेतुकम्

अर्थात्मत्वहेतुकम्। ननु स्मर्यमाणसंज्ञायाः परोक्षत्वात्तद्विशिष्टोऽर्थः कथं प्रत्यक्षः स्यादत आह -

संज्ञाहीति।

संज्ञिनः प्रत्यक्षत्वं स्मर्यमाणाऽपि संज्ञा न बाधते। सा हि तटस्था अर्थानिविष्टाऽतो नार्थस्वरूपाच्छादनक्षमेति॥ भास्करस्त्वस्थूलमित्यादेः वर्णेषु अप्राप्तनिषेधत्वानुपपत्तेः अधिकरणमन्यथयामास, तदनूद्य दूषयति -

ये त्वित्यादिना।

अम्बरान्तधृतेः प्रधानं न निराकर्तुं शक्यं; साधारणत्वादित्यर्थः। यत्तु कश्चिदाह - भूतभविष्यदाद्याधारत्वादव्याकृतमाकाशं, तथा च प्रधाननिराक्रिया - इति। तन्न; तथा सत्युत्तरसूत्रवैयर्थ्यात्। अत्र स एवाह आकाशशब्दस्य रूढिभङ्गः फलं, नभ आश्रयस्याव्याकृतस्य प्रशासितृत्वायोगादव्याकृताश्रयस्य तदुपपत्तेरिति। तच्च न; आत्मन आकाश इति भूताकाशाश्रयस्यात्मत्वावगमात्। अपि च प्रधानस्यापि नभ आश्रयत्वसाधारण्यात् तद्व्युदासाय रूढिभङ्ग इति वाच्यम्। तच्चायुक्तम्; अभग्नायामपि रूढौ वाक्यशेषस्थप्रशास्तेर्निर्णयलाभादिति।

न ह्यवश्यमिति।

प्रौढ्यैष वादः। संभवति तु प्राप्तिरभिधानानुरक्ताभिधेयस्य, तत्प्रकृतिकत्वे प्रकृतिविकारानन्यत्वेन प्रलयावस्थावर्णेषु स्थौल्यादिप्राप्तेरिति॥ प्रपञ्चाधिष्ठानत्वमात्राभ्युपगमाद् ब्रह्मणः प्रशासनाश्रयत्वाऽयोगाद्वाचस्पतिमते - सा च प्रशासनादिति (व्या.सू.अ.१.पा.३.सू.११) सूत्रमसंगतमिति केचित्। तन्न; रज्ज्वां भुजङ्गवत् प्रशासनव्यापारस्याप्यारोपात्। हन्त प्रधानेऽपि तमारोप्य तदपि प्रशासितृ किं न स्यादिति चेत्, नैतत्; चेतने दृष्टस्य नियन्तृत्वस्य जगदैश्वर्यरूपेण चेतन एव समारोपसंभवात्। न हि गजतुरगपत्तिवृते राजामात्ये राजत्वमारोपितमिति कुड्यादावारोप्यते। आरोपितमपि नियन्तृत्वं ब्रह्मणि मुख्यमेव प्रपञ्चस्थित्यर्थक्रियाकारित्वादकारगतह्रस्वादिवत्। प्रधाने तु गौणम्। तदिदमाह -

च मुख्यार्थसंभवे इति॥१२॥

इति तृतीयमक्षराधिकरणम्॥

ईक्षतिकर्मव्यपदेशात्सः॥१३॥ अम्बरावधिकाधारात्प्रणवः पर्युदासि यः। तद्ध्येयमपरं किं वा परमित्यत्र चिन्त्यते॥ एषां बुद्धिसन्निधिसंगतिः।

कार्येति।

कार्यब्रह्म हिरण्यगर्भ एव जनो जीवो यस्मिन् स ब्रह्मलोकस्तथा तत्प्राप्तिः फलं यस्य ध्यानस्य तत्तथा तस्य भावस्तत्त्वं ततो हेतोरपरं ब्रह्म ध्येयमिति गम्यते। ननु परं पुरुषमभिध्यायीत परात् परं पुरुषमीक्षत इतीक्षणध्यानयोः एकविषयत्वावगमात् ईक्षणस्य च यथार्थत्वात् परमार्थ ब्रह्मैव ध्येयं, न त्वपरमित्यत आह -

अर्थभेदत इति।

ध्यानस्य परविषयत्वात् ईक्षणस्य परात्परो यस्तद्विषयत्वात् एकविषयत्वमसिद्धमित्यर्थः। प्रथमहेतुं व्याचष्टे -

ब्रह्म वेदेति।

अर्थभेदत इत्येतच्छङ्कोत्तरत्वेन व्याचष्टे -

न चेति।

अङ्गीकृत्य दर्शनस्य तत्त्वविषयत्वमीक्षणध्यानयोर्विषयभेद उक्तस्तदेवासिद्धमित्याह -

न चेति।

ननु युक्त्या पर्यालोचनमिहेक्षणं, तच्च तत्त्वविषयमित्याशङ्क्याह -

न च मननमिति।

किं मननदर्शनयोः ऐक्यं उताऽत्र मननविवक्षा। नाद्य इत्याह -

मननादिति।

न द्वितीय इत्याह -

न चेति

ईक्षणध्यानयोरर्थभेदं निराकरोति -

ईक्षणेति।

एकोऽर्थ इत्यन्वयः। यदवादि न सर्वं दर्शनं तत्त्वविषयमिति तत्राह -

औत्सर्गिकमिति।

ईक्षतेरीक्षणस्य तत्त्वविषयत्वमौत्सर्गिकं, न चेहापवादः कश्चित्, तथा ध्यानस्यापि तत्कारणस्य स्यादन्यथाऽन्यद् ध्यायत्यन्यत्पश्यतीति हेतुहेतुमत्त्वासिद्धेरित्यर्थः। प्रकारान्तरेणार्थभेदं निराकरोति -

अपि चेति।

समभिव्याहारादिति।

स ईक्षत इति प्रकृतापेक्षनिर्देशादित्यर्थः।

तदनुरोधेनेति।

प्रमाणद्वयानुरोधेनेत्यर्थः॥ हे सत्यकाम परं निर्विशेषम् अपरं हिरण्यगर्भाख्यं च यद् ब्रह्म तदेतदेव। एतच्छब्दार्थमाह - यदोङ्कारः स हि तस्य प्रतीकः, प्रतिमेव विष्णोः, तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेन ओंकारध्यानेनायतनेन प्राप्तिसाधनेन परारयोरेकतरं यथोपासनमनुगच्छतीति प्रकृत्यैकमात्रद्विमात्रोपास्ती उक्त्वा वक्ति पिप्पलादः - यः पुनरोमित्येतदक्षरं त्रिमात्रमिति। तृतीया द्वितीयात्वेन परिणेया; ब्रह्मोंकाराभेदोपक्रमात्। तथाविधमक्षरं सूर्यप्रतिमं परं पुरुषमभिध्यायीत स सूर्यं प्राप्तः सामभिर्ब्रह्मलोकं प्राप्यते॥१३॥

इति चतुर्थमीक्षतिकर्माधिकरणम्॥ (फुट् नोट् - अत्र सूत्रं - ईक्षतिकर्मव्यददेशात्सः॥१३।)

दहर उत्तरेभ्यः॥१४॥ प्रागुदाहृतपरपुरुषशब्दस्य दहरवाक्यशेषगतोत्तमपुरुषशब्दवत् अब्रह्मविषयत्वशङ्कायाम्, अस्यापि ब्रह्मविषयत्वोपपादनात्संगतिः।।

पूर्वेभ्य इति।

श्रवणमननध्यानेभ्य इत्यर्थः।

आधेयत्वादिति।

ब्रह्मपुरशब्दोक्तं देहलक्षणं पुरं जीवस्य युज्यते। तस्य परिच्छिन्नत्वेनाधेयत्वात्, स्वकर्मोपार्जितशरीरेण संबन्धविशेषाच्च ब्रह्मणः पुरमिति षष्ठीसमाससंभवात्। ब्रह्मणस्तु न युक्तं पुरम्; उक्तहेतुद्वयाभावादित्यर्थः। विशेषादित्येतद्व्याख्याति -

असाधारणेनेत्यादिना।

जीवभेदो जीवविशेषः। आधेयत्वहेतुं व्याचष्टे -

अपि चेत्यादिना।

तेनाधिकरणेन सहानेन ब्रह्मशब्दार्थेनाधेयेन संबद्धव्यम्; समासाभिहितसंबन्धसामान्यस्य आधाराधेयभाव एव विश्रमादित्यर्थः। भक्तिर्गुणस्तेन हि शब्दो मुख्यार्थाद्भज्यते । यदि चेतनत्वं समं जीवब्रह्मणोस्तर्हि को विशेषस्तत्राह -

उपधानेति।

भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वमिति भाष्ये वाच्यत्वं तात्पर्यगम्यत्वं; भाक्तत्वे सत्यभिधेयत्वविरोधादित्यर्थः। अन्यस्य ब्रह्मण इत्यर्थः।

अनिर्दिष्टाधेयमिति।

वेश्माधेयतया निर्दिष्टस्याप्याकाशस्य संदिग्धत्वादनिश्चय इत्यर्थः। उपमानोक्तेः अन्यथासिद्धिमाशङ्क्याह -

तेनेति।

ह्यस्तनाद्यतनत्वादिनायुद्धे भेदारोपः क्रियते – गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोर्युद्धं रामरावणयोरिव॥ इत्यत्र। अस्तु वोपाध्यपेक्षयाऽऽकाशे भेदारोपः, तथापि न बाह्याकाशतुल्यत्वं हार्दाकाशस्येत्याह -

न चेति।

यदि ऊनत्वाद्धार्धनभसो न बाह्येनोपमेयता, हन्ताधिकत्वाद् ब्रह्मणोऽपि न स्यादत आह -

न भूताकाशेति।

आधेयत्वादित्येतत्प्रत्याह -

उपलब्धेरिति।

विशेषाच्चेत्येतन्निराकरोति -

तेनेति।

मुख्याधेयत्वत्यागे हेतुमाह -

तथा चेति।

नन्वनिर्णीताधेयं वेश्म सन्निहितपुरस्वामिना संबध्यत इत्युक्तत्वात्कथं जीवपुरे ब्रह्मसदनलाभोऽत आह -

उत्तरेभ्य इति।

सन्निधिर्लिङ्गैर्बाध्यत इत्यर्थः। ननु लिङ्गानि ब्रह्माभेदपराणि, नेत्याह -

ब्रह्मणो हीति।

इह ब्रह्मणि बाधकं जीवे च साधकं प्रमाणं नास्ति; ब्रह्मबाधकत्वेन जीवसाधकत्वेन चेष्टस्य सन्निधेः लिङ्गैर्बाधादित्यर्थः। अपि चासिद्धो जीवसन्निधिः, पुरस्य ब्रह्मसंबन्धोपपादनाद् ब्रह्मशब्देन जीवाऽनभिधानादित्याह -

ब्रह्मपुरव्यपदेशश्चेति।

‘अथ य इहात्मानम्’ इति भाष्यस्थश्रुतावनुशब्दार्थमाह -

श्रवणेति।

विदेरर्थमाह -

अनुभूयेति।

साक्षात्कृत्येत्यर्थः। काम्यन्त इति

कामाः

विषयाः।

चारः

उपलब्धिः। आद्यसंशयस्थपूर्वपक्षमनूद्य सिद्धान्तयति –

स्यादेतदित्यादिना।

भाष्ये द्यावापृथिव्याद्यन्वेप्यत्वापत्तिरिष्टापादनमिति शङ्कते -

स्यादेतदिति।

तर्हि ‘‘अथ य इहात्मानम्’’ इत्यात्मशब्दः कथमत आह -

ताभ्यामिति।

तथा च भूताकाशस्य दहरत्वसिद्धिरित्यर्थः। अस्मिन्कामा इत्यस्मिन्-शब्देन द्यावापृथिव्याधार आकाश एव परामृश्यते समानाधारत्वप्रत्यभिज्ञानाद्, न द्यावापृथिव्यौ, तथा चैष इति, आत्मेति तदुपरितनशब्दाभ्यामप्याकाश एव निर्दिष्ट इत्याह -

अनेन हीति।

आकृष्येति भाष्ये व्यवधानं सूचितम्। व्यवहितस्य ह्याकर्षणं तत्कथयति -

द्यावापृथिव्यादीति।

“उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते” इति पूर्ववाक्ये आकाशनिर्देशानन्तरं द्यावापृथिव्यादिनिर्देशाद् व्यवधानम्। एतांश्च सत्यान् कामान् इत्यात्मशब्दानन्तरं कामनिर्देशात्, सर्वेषु लोकेषु कामचारो भवतीति फलश्रवणं गुणविज्ञानस्यैवेति शङ्कते -

नन्विति।

चकाराद्गुणगुणिनोर्ज्ञेयत्वे समुच्चयावगमात् समुच्चितोपास्तिफलं कामचार इति परिहारार्थः। पूर्वत्र अव्यवहितद्यावापृथिव्यावुपेक्ष्य अस्मिन्-शब्देन प्रत्यभिज्ञानादाकाशमेव परामृश्यत इत्युक्तं, तत्रैव हेत्वन्तरमाह -

अस्मिन्कामा इति चेति।

लक्षितात्मन ऐक्येऽपि पूर्वं शब्दतोऽनुपात्ते नैकवचनपरामृश्यता - इत्यर्थः। यदि दहराकाशस्य विज्ञेयत्वं, कथं तर्हि तदाधेयस्य विज्ञेयत्वोपदेशोऽत आह -

तदनेनेति।

एतमेव दहराकाशं प्रक्रम्य श्रुतिः प्रववृत इत्यन्वयः।

धनायद्भिः

धनेच्छावद्भिः। यद्यपि सुषुप्तौ ब्रह्मप्राप्तिर्न लोकसिद्धा; तथापि वेदसंस्कृतजनप्रसिद्ध्या वेदस्य तत्र तात्पर्यं गम्यत इत्याह -

तथापीति।

कर्मधारयस्य षष्ठीसमासात् बलीयस्त्वात् लिङ्गोपन्यासवैयर्थ्यमाशङ्क्य, अभ्युच्चयार्थत्वेन परिहरति -

अत्र तावदित्यादिना।

षष्ठे स्थितम् – स्थपतिः निषादः, शब्दसामर्थ्यात् (जै.सू.अ.६.पा.१.सू.५१) रौद्रीमिष्टिं विधाय आम्नायते - एतया निषादस्थपतिं याजयेदिति। तत्र निषादस्थपतिः त्रैवर्णिकानामन्यतमः, उतान्यः इति संदेहे, अग्निविद्यावत्त्वेन समर्थत्वात् अनिषादेऽपि निषादानां स्थपतिः स्वामीति शब्दप्रवृत्तिसंभवादन्यतम इति प्राप्तेऽभिधीयते। निषाद एव स्थपतिः स्यात्, कर्मधारयश्च समासः, निषादशब्दस्य श्रौतार्थलाभेन शब्दसामर्थ्यात्। षष्ठीसमासे तु संबन्धो लक्ष्येत षष्ठ्यश्रवणात् समासस्थषष्ठीलोपोऽपि शब्दाभावत्वन्नैव षष्ठ्यर्थबोधी द्वितीयायाश्च प्रत्येकं निषादस्थपतिशब्दाभ्यां संबन्धसंभवे सति नाश्रुतषष्ठी कल्प्या। तस्मान्निषाद एव स्थपतिरिति। तदप्याधिक्यमुक्तं सूत्रकारेण चकारं प्रयुञ्जानेनेत्यर्थः। सूत्रार्थमाह -

तथा हीत्यादिना।

विपक्षाद्व्यावृत्तौ हेतुमाह -

असंभवादिति॥१५॥

सेतुर्विधृतिरिति श्रुतौ धृतिशब्द आत्मशब्दसामानाधिकरण्यात् यद्यपि कर्तृवाची क्तिजन्तस्तथाऽपि सूत्रगतधृतिशब्दो महिमशब्दसामानाधिकरण्यात् क्तिन्नन्तत्वेन भाववचन इत्याह -

सौत्र इति॥१६॥

प्रसिद्धिशब्दस्य रूढिवाचित्वभ्रममपनयति -

न चेति।

रथाङ्गमिति नाम चक्रवाके लक्षणया संप्रत्येव प्रयुज्यते। रथाङ्गशब्दपर्यायस्य चक्रप्रातिपदिकस्य चक्रवाकशब्दावयवत्वेन निवेशात्। आकाशशब्दस्य तु ब्रह्मण्यनादिकाले बहुकृत्वः प्रयोगान्निरूढलक्षणेत्यर्थः॥ पञ्चपाद्यां तु रूढिरुक्ता, तां दूषयति -

येत्विति।

नभसि ब्रह्मणि च रूढ्यभ्युपगमेऽनेकार्थत्वं, नाभसगुणयोगाद् ब्रह्मणि वृत्तिसंभवे च शक्तिकल्पनायां गौरवमित्यर्थः। अत्र केचित् -

आसमन्तात् काशत इति

आकाशशब्दस्य अवयववृत्तिसंभवे सेतुशब्दस्येव तद्बहिर्भूतगुणवृत्तिरयुक्ता - इत्याहुः। तन्न; अपहृत्य योगं रूढ्यर्थे प्रत्यायिते रूढिं पुरस्कृत्य क्लृप्तादेव गुणयोगादन्यत्र वृत्तिलाभेऽनपेक्ष्य रूढिमवयवव्युत्पत्तिक्लेशस्यायुक्तत्वात्। सेतुशब्दोऽपि सेतुगुणाद्विधरणादेः ब्रह्मणि वर्तते। भाष्यकृद्भिस्तु सेतुशब्दव्युत्पत्तिरभ्युच्चयार्थमाश्रिता। अस्तु तर्ह्यनेकार्थत्वपरिहाराय ब्रह्मण्येव मुख्यत्वमत आह -

न चेति।

तेनैव

विभुत्वादिगुणयोगेन।

वर्त्स्यति

वृतो भविष्यत्याकाशशब्द इति न वाच्यम्। तत्र हेतुः – वैदिकपदार्थप्रत्ययस्य लोकपूर्वकत्वाद्वेदे रूढ्यप्रतीतेरिति। एतत्सिद्ध्यर्थमाह -

लोकाधीनेति स्यान्तेन।

रूढिवादी तु प्रसिद्धगुणवृत्तिवैषम्यं शङ्कते -

नन्विति।

व्यतिरेकेण निर्देशादिति।

अन्तर्हृदयआकाश इति

ब्रह्मण्याकाशशब्दप्रयोगादेवाकाशगुणयोगस्य लक्ष्यस्य सिद्धौ लभ्यायामपि तद्व्यतिरेकेण यावान्वा अयमाकाशः तावान् इत्याकाशसादृश्यस्य निर्देशात् लक्षणा न युक्तेत्यर्थः। यत्र लक्षणया शब्दः प्रयुज्यते तत्र लक्ष्यांशस्य पृथक् न निर्देश इत्यत्र दृष्टान्तमाह -

न हि भवतीति।

गङ्गापदेन गङ्गायाः कूलमित्यर्थे विवक्षिते गङ्गापदमेव प्रयुज्यते, न तु गङ्गाया इति लक्ष्यसंबन्धं पृथगुक्त्वा गङ्गेति प्रयुज्यत इत्यर्थः। परिहरति -

तत्किमिति।

आग्नेयादौ पौर्णमास्यमावास्याशब्दप्रयोगादेव लक्ष्यस्य कालसंबन्धस्य सिद्धावपि तद्व्यतिरेकेण पौर्णमास्याममावास्यायामिति च कालसंबन्धनिर्देशात् उक्तन्यायोऽनेकान्त इत्यर्थः। दृष्टान्ताऽसिद्धिमाशङ्क्याह -

न चेति।

मुख्यत्वे ह्यमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीत्यत्रापि अमावास्याशब्दस्य कर्मणि रूढिः स्यात्, तथा च पितृयज्ञः स्वकालत्वादनङ्गं स्यात् (जै.सू.अ.४.पा.सू.१९) इत्यधिकरणबाध इति। अपरं रूढिकारणमाशङ्कते -

यच्चेति।

अन्यत्र मुख्यत्वेन निश्चितस्य शब्दस्यान्यत्रार्थे प्रयोगेऽर्थश्चेदन्यतोऽधिगतस्तर्हि मुख्यत्वं, न चेदमुख्यत्त्वं; गङ्गायां घोष इत्यत्र हि गङ्गापदादेव गङ्गासंबन्धितीरमनुपपत्त्या श्रोता जानाति ततस्तत्र लक्षणा, आकाशशब्दस्तु यदेष आकाश आनन्दो न स्यादित्यत्र सत्यं ज्ञानमनन्तमिति वाक्यनिश्चिते ब्रह्मणि प्रयुक्त इति वाचकः। तथा च दहरवाक्येऽपि ब्रह्मवाचक इत्यर्थः। शब्दादनधिगतार्थप्रतीतौ लक्षणेत्येतद्व्यभिचारयति -

सोमेनेति।

सोमशब्दो हि लताचन्द्रमसोर्मुख्यः, एतद्वाक्यार्थान्वयित्वेन सोमपदादन्यतोऽनधिगतायां लतायामत्र वाक्ये प्रयुक्त इत्यर्थः। अन्यतो निश्चिते शब्दस्य मुख्यत्वमित्येतदनेकान्तयति -

न चेति।

अत्र हि समुदायानुवादिवाक्यद्वये पौर्णमास्यामावास्याशब्दौ लाक्षणिकौ न भवतः, यागषट्कश्च प्रकृतादाग्नेयादिवाक्याद् ज्ञात इति ज्ञातार्थविषयत्वं मुख्यत्वेऽनेकान्तमित्यर्थः॥१७॥१८॥

वरिवसितुं

शुश्रूषितुम्।

अपनिनीषुः

अपनेतुमिच्छन्प्रजापतिरुवाचेत्यन्वयः। यथा प्राक्प्रतिबिम्बात्मत्वेन दृष्टनखलोम्नां छेदनादूर्ध्वमभावादनात्मत्वम्, एवं सर्वस्य प्रतिबिम्बस्य विवक्षितम्। साधु अलंकाराद्युपन्यासेन।

एष आत्मेति।

देहाद्यागमापायसाक्षीत्यर्थः।

देहानुपातित्वाच्छायाया इति।

यथा खलु नीलानीलपटयोरादर्शे दृश्यमानयोः यन्नीलं तन्महार्हमित्युक्ते न च्छायाया महार्हत्वमेवं छायाकारदेहस्यैवात्मत्वमिति विरोचनो मेने। इन्द्रस्तु अल्पपापत्वात् श्रद्दधानतया न प्रतिबिम्बमेवात्मेति प्रतिपेदे।

एवंकारम्

एवं कृत्वा।

न निर्ववार -

निवृत्तिं सुखं नानुबभूव।

अक्षिणि

अक्ष्युपलक्षिते जाग्रति।

अभिप्रतीतः

अभिप्रतीतिवान्। चतुर्थपर्यायं प्रतीकत आदत्ते -

एष संप्रसाद इति।

वाग्बुद्धिशरीराणां कार्यभूतो य आरम्भः क्रिया ततः संभवो यस्य पाप्मादेरपूर्वस्य स तथा। जीववादी प्रष्टव्यः - किमीश्वरमेव मन्यते, उत तस्य जीवप्रत्वगात्मत्वम् अथवाऽभ्युपेत्येश्वरस्य जीवप्रत्यक्त्वम् अत्र वाक्ये ईश्वरप्रतिपादनं न मन्यत इति। नाद्य इत्याह -

पौर्वापर्येति।

न द्वितीय इत्याह -

तदतिरिक्तं चेति।

रज्ज्वां भुजङ्गवज्जगत्परमात्मनि विकल्पितं जीवोऽपि द्वितीयचन्द्रवद्भेदेनाध्यस्त इत्याह –

तथा चेति।

तृतीयं प्रत्याह -

एवं च ब्रह्मैवेति।

श्रुत्या प्रजापतिवाक्ये उक्तमित्यर्थः। भाष्येऽन्यासंसर्गिण आत्मनोऽभिव्यक्तिसम्भवे अन्यसंसर्गिस्फटिकदृष्टान्तवर्णनमयुक्तमित्याशङ्क्याह -

यद्यपि स्फटिकादय इति।

जपाकुसुमादिना संयुक्तं भूतलं तेन निकट एव संयोगो येषां स्फटिकादीनां ते संयुक्तसंयोगाः।

तद्रूपत्वम्

तदात्मत्वम्। तथा च व्यवधानेन संयुक्ता इत्यर्थः। प्राग्विवेकविज्ञानोत्पत्तेरिति भाष्ये वेदनाशब्दार्थमाह -

वेदना इति।

अनावृतस्वरूपस्फुरणमुपसम्पत्तिशब्दार्थमाह -

तथा चेति।

ननु स्वरूपाभिनिष्पत्तिर्वृत्तिः, तयाऽपसारिते आवरणे पश्चाज्ज्योतिरुपसंपत्तिः, तत्कथं व्युत्क्रमेण निर्देशोऽत आह -

अत्र चेति।

यदा च विवेकसाक्षात्कार इति।

पूर्वं परोक्षज्ञानं शरीरात्समुत्थानमुक्तम्। इदानीं तस्य फलपर्यन्तत्वात्तत्फलं साक्षात्कारोऽपि शरीरात् समुत्थानत्वेनानूदोत इति न विरोधः। नापि प्रतिच्छायात्माऽयम् इति भाष्यं प्रतिबिम्बस्य अक्षिपुरुषत्वेन निर्देशवारकमप्रासङ्गिकमिव प्रतिभाति, तत्पूर्वपक्षितजीवदृष्टान्तनिराकरणपरत्वेन प्रकृते सङ्गमयति -

स्यादेतदिति।

अक्षिपर्याये छायात्मा निर्दिष्टः, स्वप्नसुषुप्तिपर्याययोर्जीवोऽतः छायात्मदृष्टान्तेन जीवशङ्का। अहेत्यत्र बिन्दुमध्याहृत्य व्याचष्टे -

अहमात्मानमिति।

अहमितिशब्दगोचरमित्यर्थः। यथाश्रुतपाठेऽहेत्यवधारणार्थो निपातः। नैव जानातीत्यर्थः। सुप्ते चैतन्यस्य स्फुरणात्सर्वथाऽऽत्मभाननिषेधो न युक्तोऽत औपाधिकस्फूर्तिनिषेधाय निपातस्यावधारणार्थत्वं जानतैव बिन्दुरध्याहृतः। अविनाशित्वादिति हेतोः साध्याविशेषमाशङ्क्याह -

अनेनेति।

असिद्धस्यापि हेतोः सिद्धिनिर्देशेन सिद्धिहेतुभूतं प्रमाणं सूचितमित्यर्थः। तदेव प्रमाणं दर्शयति -

य एवाहमिति।

आचार्यदेशीयाः

आचार्यकल्पाः। न तु सम्यगाचार्यास्तन्मतमित्यर्थः। एकदेशिप्रत्यवस्थानं जीवो दहर इति पूर्वपक्षेऽन्तर्भावयति -

यदीति।

उक्तं हि पूर्वपक्षिणा छायावद्वा आरोपेण स्वत एव वा देहादिवियोगमपेक्ष्य अमृताभयत्वादि जीवस्यैवेति एतं त्वेव त इत्याक्षिस्थपुरुषानुकर्षणमङ्गीकृत्य, इदानीं तु परामर्शस्यान्यविषयत्वेन स एवैकदेशी भूत्वा प्रत्यवतिष्ठत इत्यर्थः। नन्वेवं परमात्मा चेदिह निर्दिष्टः स एवेह दहरः किं न स्यात्। अस्तु जीवोऽपि किं न भवेत्? अत एव अविनिगमेन पूर्वपक्ष इत्यतीतान्तरसूत्रोपक्रमे वर्णितं तदिहापि सूत्रेऽनुसंधेयम्। नन्वेतं व्याख्यास्यामीति परमात्मानं प्रतिज्ञाय कथं स्वप्नसुषुप्तिपर्याययोर्जीवो व्याख्यायते। उच्यते – सूक्ष्मे चतुर्थपर्याये वक्ष्यमाणे परात्मनि। धीनिवेशाय जीवस्याप्युपास्तिरिह वर्ण्यते॥ अत एव व्याख्यास्यामीति भविष्यताऽवगमः। ननु परमात्मपरामर्शे जीवः परामृष्ट एव तदभेदादत आह -

न खल्विति।

दृष्टे संभवति अदृष्टकल्पनानुपपत्तेः जीवानुवादेन ब्रह्मता बोध्यते नोपास्तिविधिः। इन्द्रब्रह्मचर्यावसानानन्तर्यार्था भविष्योक्तिरिति परिहाराशयः। अस्य चौपाधिको जीवः, अवच्छिन्ने च नापहतपाप्मत्वादिसंभव इति मतम्। पारमार्थिकजीवब्रह्मविभागमतमाह -

मतान्तरमिति।

शारीरकार्थमाह -

तथाहीति।

सूत्रकोपं परिहरति –

न च वस्तुसत इति।

औपाधिकभेदेन गुणसंकर इत्यर्थः। कर्मविध्युपरोधं वारयति -

अविद्याकल्पितमिति।

अविद्याकल्पितं कर्तृत्वाद्याश्रित्य कर्मविधयः प्रवृत्ता इत्यत्र हेतुमाह –

अविद्यावदिति।

इत्युक्तमध्यासभाष्ये॥१९॥ अविनिगमपरिहारार्थं जीवपरामर्शस्यान्यथासिद्धिप्रतिपादकं सूत्रमवतार्य व्याचष्टे -

नन्वित्यादिना॥२०॥२१॥

स (फुट् नोट् - अय कल्पतरुरधिकरणान्तर्गतश्रुतिवचनकाठिन्यनिरासार्थः। स वा अयमिति - स वा अयं पुरुषः सर्वासु पूर्षु पुरिशय इति चतुर्दशसूत्रस्यवचनभ्याख्यानार्थः। एवमग्नेपि तत्तद्वचनान्यनुसन्धेयानि)

स वा अयमिति।

स वै ईश्वरस्तत्त्वतोऽयं जीव एव औपाधिकस्तु भेद इत्याह –

पुरुष इति।

पुरुषशब्दार्थमाह –

पुरिशय इति।

पूः उपाधिः। किमेकस्यामेव पुरि शेते, न; अपि तु सर्वासु पूर्षु। तमाचार्यं शिष्याश्चेद् ब्रूयुः।

तद्यत्रेति।

तत्तत्र अवस्थाद्वयप्रापककर्मोपरमे सति यत्र यस्मिन्काले। एतदिति क्रियाविशेषणम्। एतत्स्वप्नम्। सुप्तः स्वापस्य द्विप्रकारत्वात्। स्वप्नव्यावृत्त्यर्थमाह –

समस्त इति।

उपसंहृतसर्वकरण इत्यर्थः। अत एव विषयासंपर्कात् संप्रसन्नः। स्वप्ने महीयमानः पूज्यमानः चरति पश्यति भोगान्॥ (फुट् नोट् - इति पञ्चमं दहराधिकरणम्॥

अनुकृतेस्तस्य च॥२२॥ सप्तम्याः सति वाक्ये च साधारण्यात्संशयः। पूर्वम् एतं त्वेत त इत्येतच्छब्दस्य प्रकृतार्थताद् दहरस्य जीवता निरासि, तदसाधुः; तत्रेत्यादौ सर्वनाम्नः प्रकृतार्थत्वानियमादिति शङ्कानिरासात्संगतिः। तत्रेति विषयसप्तमीस्वीकारे तद्भासयतीति णिजध्याहारप्रसङ्गात्सतिसप्तमीमादाय पूर्वपक्षमाह -

अभानमिति।

तस्मात्तेजःप्रत्यभिभावकत्वलिङ्गात् अनुभानलक्षणानुकाराच्च तत्रशब्देन तेजोरूपं पदार्थान्तरं गम्यत इति द्वितीयार्धस्यार्थः। प्रथमार्थं व्याचष्टे -

बलीयसेति।

विमतं, तेजः, तदभिभावकत्वात्, सूर्यवदित्यनुमानमसूचि। तस्यानैकान्तिकत्वमाशङ्क्याह -

येऽपीति।

भासकत्वे सति तेजोऽभिभावकत्वं हेतुरित्यर्थः। नन्विन्द्रियातिरिक्तस्य तेजसः कथं तेजःप्रकाशत्वमत आह -

श्रूयते चेति।

अस्य तेजसोऽयं विशेषः श्रुतित आश्रित इत्यर्थः। अभिभवानुकारयोरतेजसि ब्रह्मणि श्रुतिवशादाश्रयणे तु गौरवमिति पूर्ववाद्याशयः। ननु तस्य भासेति सर्वज्ञत्वे ब्रह्मलिङ्गे कथं तेजश्शङ्का, अत आह -

सर्वशब्द इति।

द्वितीयार्धं व्याख्याति -

न चेति।

ननु मन्त्रस्थतच्छब्दैः प्रकृतं ब्रह्म परामृश्यतेऽत आह –

तत्रेति।

उपरिष्टात्प्रदर्शनीयं

वक्ष्यमाणमेव

अवम्रक्ष्यन्ति

तस्य परामर्शं करिष्यन्ति। रागवाचिनः शब्दात्तेनेति तृतीयसमर्थाद्रक्तम् इत्यर्थेऽण् प्रत्ययो भवति। यथा काषायः पट इति। तस्येति षष्ठीसमर्थादपत्येऽण् प्रत्ययो भवति यथौपगव इति। अनयोः सूत्रयोस्तच्छब्दौ न प्रकृतार्थौ; तददर्शनात्।

ब्रह्मण्येवेति।

यदनुभानं मन्त्रे तद् ब्रह्मण्येव लिङ्गम्। तस्य भारूप इत्यादिश्रुतौ चैतन्यप्रकाशत्वसिद्धेः तदध्यस्तसूर्यादेस्तदनुभानसंभवात्। न तेजस्येवंभूते तस्यालौकिकत्वादनिश्चितत्वाच्च वेदे। अपि च तेजःपक्षे उपास्तिकल्पनाददृष्टार्थं वाक्यं स्याद्, ब्रह्मपक्षे तु प्रस्तुतस्य ज्योतिषः समर्पणात् दृष्टार्थत्वमित्याह -

तस्मादिति।

विरोधमाहेति।

अनपेक्षाद्वारकं भास्यभासकत्वविरोधमाहेत्यर्थः। किं भानेऽनपेक्षा तेजसः, उत भासकत्वे इति विकल्प्य क्रमेण दूषयित्वा समाधत्ते -

नहीति।

भासमानतेजसा न तेजो भातीति नियमाद्विरोध इत्यर्थः। आदित्यादेर्ब्रह्मानुकाराभावः किं स्वतो विसदृशत्वात्, उत तदीयक्रियया समानक्रियानाश्रयत्वात्। आद्यमनूद्य प्रत्याह -

यदीति।

धूलिपवनयोः अयोदहनयोश्च व्यभिचार इत्यर्थः। द्वितीयमनूद्य दूषयति -

अथेति।

ब्रह्मणः सूर्यादेश्च क्रियासाम्याभावो हेतुना साध्यः, तत्र यदि स्वरूपसाम्याभावो हेतुत्वेनोच्येत, तदा यत्र स्वरूपसाम्याभावस्तत्र क्रियासाम्याभावोऽसिद्ध इत्यर्थः। नन्वयसि न दहनक्रिया कथं वह्नितुल्याक्रियत्वमत आह -

वह्नीति।

एकैव दहनक्रिया वह्नौ स्वतः, सैव तत्संश्लेषादयसि समारोपिता अतः क्रियासाम्यमित्यर्थः। ज्योतिषां ज्योतिरिति भाष्योदाहृतश्रुतिं व्याचष्टे -

ज्योतिषामिति।

तेजोन्तरेण तु सूर्यादितेजो विभातीत्यप्रसिद्धमिति भाष्ये इन्द्रियत्वमनापन्नेनेति विशेषणीयम्, इन्द्रियेण सूर्यादिभानादित्याह -

अनिन्द्रियभावमिति।

अथवा न सूर्यादीनामिति भाष्यं व्याचष्टे -

सर्वशब्दस्य हीति।

अलौकिके तेजोधातौ स्वीकृते सति भास्यवाचिसर्वशब्दस्य वृत्ती रूपरूपिपैकार्थसमवायिषु संकुचेदलौकिकतेजसो रूपादिषु मध्ये रूपमात्रप्रकाशकत्वादित्यर्थः।

तेन रक्तमिति।

प्रकृतेः परो यः प्रत्ययः तस्मिन् योऽर्थविशेषः तस्मिन् अन्वाख्यायमाने प्रत्ययाधस्तनप्रकृत्यर्थस्यास्ति प्रस्तुतत्वमित्यर्थः। एवमनुकारलिङ्गब्रह्मणि साम्यर्थ्यमानप्रतिषेधं समर्थयते -

न तत्रेति।

णिजध्याहारप्रसङ्गं परिहरति -

तेनेति।

तत्रेति।

विषये निर्दिष्टे सूर्यादेर्भानं प्रकाशकतयैव प्राप्नोति, ततः प्रकाशकतयेति नाध्याहाराभिप्रायमपि तु व्याख्या।

अगृह्य इति

प्रतिज्ञाय न हि गृह्यत इति हिशब्देन अग्राह्यत्वहेतुसाधकं दृग्रपत्वं श्रुत्या सूचितम्।

न तत्रेति।

न तस्मिन् ब्रह्मणि भास्ये सूर्यादयो भासकत्वेन न भान्ति। कुतोऽयमस्मद्गोचरोऽर्ग्निर्भाति, किं बहुना? सर्वं जगत्तमेव परमेश्वरं स्वतो भान्तमनुभाति। किं ब्रह्मभानादन्यज्जडभानं यथा दीपप्रकाशादन्यद् घटज्ञानं नेत्याह -

तस्य भासेति।

यथाग्निसंश्लेषादयो दहतीत्युच्यते, एवमधिष्ठानब्रह्मभासैव जगद्विभाति, नान्यज्जगद्भानमित्यर्थः॥१३॥१४॥

इति षष्ठमनुकृत्यधिकरणम्॥ (फुट् नोट् - अत्र २ - च २२ अपि च २३॥)

शब्दादेव प्रमितः॥२४॥ अत्र जीवपरयोः समानधर्मादर्शने अपि श्रुत्योर्विप्रतिपत्तिः संशयबीजमित्याह -

नाञ्जसेति।

परिमाणविशेषवन्मात्रवाच्यङ्गुष्ठमात्रशब्दः तद्विशेषे श्रुतिरेव। यद्यत्र परमात्मा प्रतिपाद्यः तर्हि परिमाणविशेषो न मुख्यः स्यात्, जीवपक्षे ईशानश्रुतिर्न मुख्या; अत एकत्र गौणता, सा च क्वेत्यज्ञानात्संशय इत्यर्थः। प्राक् सति विषये च साधारणसप्तमी न तद्भासयत इति विषयत्वनिषेधकस्मृत्या विषये व्यवस्थापिता, तद्वत्परिमाणमपि जैवमैश्वरं वेति संशयेऽङ्गुष्ठमात्रं निश्चकर्षेति निर्णीतार्थस्मृत्या जैवमिति प्रत्यवस्थानात्संगतिः। पूर्वपक्षमाह -

प्रथमेति।

दहरविचारेणापुनरुक्तिमाह -

अपि चेति।

शङ्कानिरासः

समुच्चयार्थः। परमात्मनोऽल्पत्वे हृत्पुण्डरीकस्थानत्वं कारणं युक्तं, स्थानविशेषस्य दहरं पुण्डरीकं वेश्मेति निर्देशादिति योजना। उपाधिं संकीर्त्य, अल्पत्वोक्तेः औपाधिकं तत्स्वतस्त्वनन्तः पर इति सिद्ध्यत्वित्यर्थः। स्वो यो भवति स स्वभविता तदनिर्णयात्स्वभावानिर्णयः। जीवपरयोर्निरंशत्वान्मध्याभावः। पूर्वपक्षे तु मध्ये उदासीने स्वरूप इति मध्यात्मशब्दौ नेयौ। समुष्टिः सकनिष्ठिकः करः, अरत्निः।

एतद्वै तदिति।

येयं प्रेत इति जीवस्यापि प्रकृतत्वात्तच्छब्दोपपत्तिरपि द्रष्टव्या। यदवाद्यङ्गुष्ठवाक्ये जीवोपक्रमादस्य तत्परत्वमिति। तन्न; ततोऽपि प्राक् परस्य प्रस्तुतत्वात्तत्सापेक्षत्वाच्चास्य वाक्यस्येत्याह -

प्रश्नेति।

अङ्गुष्ठवाक्यस्यान्यत्र धर्मादिति प्रस्तुतपरमात्मप्रश्नोत्तरत्वात्प्राथम्यमसिद्धमित्यर्थः। ब्रह्मणः कथं तर्हि परिमाणनिर्देशोऽत आह -

जीवस्येति

उपहितपरिमितजीवानुवादेन विरुद्धांशमपहाय तस्येश्वरैक्यपरं वाक्यमित्यर्थः॥२४॥ ब्रह्मणः परिमाणोपपादनमफलमुपाधिपरिमितजीवस्य ब्रह्मत्वबोधित्वाद्वाक्यस्येत्याशङ्क्याह -

जीवाभिप्रायमिति।

जीवभावापन्नब्रह्माभिप्रायमित्यर्थः। जीवनिर्देशवारणमिह वाक्ये न क्रियते, तथा सत्यनुवादाभावप्रसङ्गादित्याह -

न जीवपरमिति।

मनुष्यग्रहणं शूद्रादौ मातिप्रसञ्जीति संकोचयति -

त्रैवर्णिकानिति।

अन्तःसंज्ञानां स्थावराणां मोक्षमिच्छतां चानर्थित्वात्कर्मण्यनधिकारः। काम्यग्रहणेन शुद्ध्यर्थं नित्येषु कस्यचिन्मुमुक्षोरस्त्यधिकार इति सूचयति। तिरश्चां वेदार्थज्ञानादिसामग्र्यभावेनाशक्तत्वम्। देवानां स्वदेवत्ये कर्मणि आत्मोद्देशेन स्वकीयस्य त्यागायोगादशक्तिः। ऋषीणाम् आर्षेयवरणे ऋष्यन्तराभावादसामर्थ्यम्। षष्ठे हि फलार्थे कर्मणि सुखकामस्य (जै.अ.६.पा.१.सू.४ - ५।२५ - ३८) तिर्यगादेरप्यधिकारः स्वर्गकामश्रुतेरविशेषाच्चातुर्वर्ण्यमधिकरोति शास्त्रमिति प्राप्ते सिद्धान्तितम्। त्रयाणामेवाधिकारः। वसन्ते ब्राह्मणो ऽग्नीरादधीत ग्रीष्मे राजन्यः शरदि वैश्य इति तेषामेवाग्निसंबन्धश्रवणादिति। सिद्धान्तिनाप्यङ्गुष्ठमात्रसंसार्यनुवादाभ्युपगमात्संसार्येवायमङ्गुष्ठमात्र इति भाष्ये इष्टप्रसङ्गतामाशङ्क्याह -

यद्येतदिति।

अङ्गष्ठमात्र इति।

(फुट् नोट् - भाष्यस्य ‘अङ्गुष्ठमात्रः पुरुषोन्तरात्मा’ इत्यस्य व्याख्या।)

धैर्येण

अप्रमादेन।

प्रवृहेत्

उद्युच्छेत्, पृथक् कुर्यात् मुञ्जन्तःस्थेषीकामिव। तं च विवेचितं शुक्रं शुद्धममृतं ब्रह्म विद्यात्॥२५॥

इति सप्तमं(फुट् नोट् - अत्र सूत्रे २ - शब्दादेव प्र २४ तु मनुष्याधिकारत्वात् २५) प्रमिताधिकरणम्॥

तदुपर्यपि बादरायणः संभवात्॥२६॥ अधिकारचिन्तेयं यद्यपि न देवादिप्रवृत्यर्था, तथापि क्रममुक्तिफलोपास्तिषु भोगद्वारा मोक्षकाममनुष्यप्रवृत्यर्था

इन्द्रियार्थेति

कामादेरुपलक्षणम्। ननु स्वयं प्रतिभानावसरे गुरुमुखाद्वेदग्रहणाभावादपुरुषार्थत्वं ज्ञानस्यात आह -

न खल्विति।

स्मर्यमाणः

फलवद्ब्रह्मावबोधहेतुरित्यनुषङ्गः॥२६।। चतुर्थ्यन्तशब्दप्रतीतमात्रं शब्दोपहितं तादृगर्थनियमितः शब्दो वा देवता। स्वर्गादिसाधनत्वं यागादीनां लोके अदृष्टत्वाद्वेदेऽप्यदृष्टमिति प्रसज्येत तन्मा भूदित्यर्थः। अदर्शनाद्वाधाद्वेति विकल्पयोः आद्यं निरस्य, द्वितीयं शङ्कते -

मनुष्येति।

देवादयो न शरीरिणः, मातापितृरहितत्वाद् घटवत्। विपक्षे दण्डमाह -

संभवे चेति।

यूकादावनेकान्तत्वमाह -

हन्तेति।

ननु यूकादेः स्वेदाद्यस्ति देहहेतुः, न तु देवानां; तथा चेच्छामात्रं हेतुर्वाच्यः, स चायुक्त इत्याह -

इच्छामात्रेति।

भूतानामधिष्ठात्रभावादनारम्भकत्वमाशङ्क्याह -

भूतवशिनां हीति।

पर्वतादिव्यवहितानां दूरस्थत्वेन विप्रकृष्टानां च भूतानामदर्शनात् देवादीनामनधिष्ठातृत्वमिति न वाच्यम्; काचाख्यधातुना मेघसमूहेन च च्छन्नस्य दूरस्थस्यापि दर्शनादित्यर्थः। ननु स्वच्छत्वात् काचादीनामस्मदादिदृगव्यवधायकत्वं, शैलभूम्यादयस्तु देवादीनां व्यवधायका इत्याशङ्क्य प्रभाववशान्नेत्याह -

असक्ताश्चेति।

अप्रतिबद्धा इत्यर्थः।

प्रभवताम्

ईश्वराणाम्। कति देवा याज्ञवल्क्येत्येतावान् प्रश्नः शाकल्यस्य। स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शतेत्याद्युत्तरे एवकारदर्शनात् प्रश्नेऽपि निविदि कतीति विवक्षितमित्याह -

वैश्वदेवेति।

श्रुतिगतवैश्वदेवपदस्य व्याख्या -

शस्त्रस्येति।

त्री

त्रीणि सहस्राणि

निवेद्यते। ज्ञाप्यते संख्याऽनयेति निवित्।

एतावन्त इति।

त्र्यधिकत्रिशतानि

त्र्यधिकत्रिसहस्राणि चेत्यर्थः।

महिमानो

विस्ताराः। इन्द्रियेषु प्राणशब्दस्य प्रवृत्तौ निमित्तमाह -

तद्वृत्तित्वादिति।

तस्मात्प्राणाद्वृत्तिर्वर्तनं येषां ते तथा। श्रुतौ त्रयस्त्रिंशतां पूरणौ इन्द्रप्रजापती उक्तौ, तौ च स्तनयित्नुयज्ञत्वेन व्याख्यातौ, पुनः कतमः स्तनयित्नुः कतमो यज्ञ इति पृष्ट्वा यथाक्रममशनिरिति पशव इति च प्रयुक्तं तदुपपादयति -

अशनिरिन्द्र इत्यादिना।

सा ह्यशनिरिन्द्रस्य परमेशना परमैश्वर्यम्। अरूपं यज्ञं द्रव्यतया रूपयन्तो यज्ञस्य रूपं पशवस्ते प्रजापतिरित्यर्थः। षडाद्यन्तर्भावक्रमेणेति भाष्यं व्याचष्टे -

एत एवेति।

पवते

पुनाति जगत्। अध्यर्धशब्द एकस्मिन्नपि यौगिकः। स ब्रह्म त्यद् इत्याचक्षत इति वाक्यं व्याचष्टे -

स एवेति।

प्राप्तिः

अङ्गुल्यग्रेण चन्द्रादिस्पर्शः। प्राकाम्यमिच्छानभिघातः, यथा भूमावुदक इवोन्मज्जनादि।

ईशित्वं

भूतभौतिकानामुत्पत्तिलयादावैश्वर्यम्।

वशित्वं

तेषां नियन्तृत्वम्। यत्र कामावसायिता नाम संकल्पादेव सकलविषयलाभः। अनेकेषां शरीराणां प्राप्तिरिति प्रथमा व्याख्या। द्वितीयां विविनक्ति -

अनेकत्रेति ॥२७॥

गोत्वादिवदिति।

प्रत्यभिज्ञा हि पूर्वावमर्शः, स हि न वस्वादावदृष्टे संभवी, एव एवोपाध्यभावः। मन्त्रादिसिद्धे ‘वस्वादावसौ वसुरसावपि वसुरिति परामर्शसंभवः। त्रिदिवत्वादिजात्यवच्छिन्नेश्वर्येषु पाकत्वावच्छिन्नपाकयोगेष्विव औपाधिकत्वेऽपि शक्यः सङ्गतिग्रह इत्युत्तरार्थः। आक्षेपसमाधाने निगदव्याख्याते इत्यर्थः।

प्रमाणान्तरापेक्षवाक्यत्वादिति।

प्रमाणान्तरापेक्षत्वमेव हेतुः, शब्दं प्रति संदेहात्प्रश्ने स्फोट इति पूर्वपक्षो वर्णत्वेन सिद्धान्त इति न भ्रमितव्यम्। स्फोटवादिनाऽपि नित्यशब्दात् देवाद्युत्पत्त्यभ्युपगमेन सूत्रव्याख्यानात्। तस्माद्वर्णात्स्फोटाच्च देवाद्युत्पत्त्याक्षेपः क्रियते; वर्णानामनित्यत्वात्स्फोटस्य च अप्रामाणिकत्वादिति। स्फोटपक्षस्त्वेकदेशिन इत्यभिप्रेत्याह -

आक्षिपतीति।

नन्वनित्यत्वेऽपि वर्णानां महाभूतवद्देवादिहेतुतेत्याशङ्क्याह -

अयमिति।

यथाऽऽग्नेयादीनां फलकरणत्वान्यथानुपपत्त्यवसेयमपूर्वम्, एवं वर्णानाम् अर्थधीहेतुत्वान्यथानुपपत्तिसिद्धः संस्कारः, स चार्थापत्तेः (फुट् नोट् - घ - पुस्तके ‘अर्थप्रतिपत्तेः’ इति पाठः स च समर्पको भाति॥) प्रागज्ञातत्वादपूर्वमुत वर्णोपलम्भजो वर्णे स्मृतिकर इति विकल्प्य क्रमेण दूषयति -

न तावदित्यादिना।

अर्थधीप्रसवावसेयसंस्कारः किमज्ञातः शब्दसहकारी, उत ज्ञातः। नाद्य इत्याह -

न हीति।

स्वरूपेणाविदितस्य अर्थधीहेतुत्वनिषेधो दृष्टान्तार्थः। यथा स्वरूपेण विदितस्यार्थबुद्ध्या हेतुत्वमेवमङ्गतोऽपीत्यर्थः।

अविदितसङ्गतिरिति हेत्वर्थः। शब्दः सहाङ्गेन ज्ञातोऽर्थधीहेतुः संबन्धग्रहणमपेक्ष्य बोधकत्वाद् धूमवदित्यर्थः।

इन्द्रियवदिति

वैधर्म्योपमा। अबधिरेण गृहीतस्य चेत्यर्थः। अपूर्वसंस्कारो यदा ज्ञातव्यः, तदाऽर्थधियः प्रागेव ज्ञेयः, कारणस्य तज्ज्ञानस्य कार्यात्प्राग्भावनियमात्, अथ जातायामर्थबुद्धौ तदवगमस्तदेतरेतराश्रयमाह -

अर्थप्रत्ययादिति।

आग्नेयादीनां त्वनारब्धफलानामेव वेदेन फलकरणभावावगमात् शक्यमर्थापत्त्या अपूर्वावधारणं, वर्णानां तु नार्थधीहेतुत्वे मानमस्तीति भावः। भावनाख्यस्तु यः संस्कारः स आत्मनो वर्णस्य स्वस्यैव विषयस्य स्मृतिप्रसवसामर्थ्यम्। तथा चास्माद्वर्णविषया स्मृतिरेव स्यात्, यदि पुनस्ततोऽर्थधीः स्यात्। तदा वक्तव्यं किं तदेवार्थधीजननशक्तिरुत ततोऽर्थशक्तिरुदेति। न द्वावपीत्याह -

न च तदेवेति।

उभयत्र क्रमेण निदर्शनमाह -

न हीति।

अपूर्वसंस्कारपक्षे उक्तः परस्पराश्रयः स्फोटेऽप्युक्ततुल्यम्, स्फोटे ज्ञातेऽर्थधीस्ततश्च स्फोटधीरित्यर्थः। सत्ताया हेतुत्वान्नेतरेतराश्रय इत्याशङ्क्याह -

सत्तेति।

नानेति।

नानावर्णातिरिक्तैकपदावगतेः नानापदातिरिक्तैकवाक्यावगतेश्चेत्यर्थः।

साहित्यम्

एकत्वम्। नन्वज्ञातेषु वर्णेषु पदवाक्याप्रतीतेर्न शब्दान्तरकल्पनावकाशः। नैतत्; स्फोटस्य वर्णाव्यङ्ग्यतोपपत्तेः। स्यादेतत् - स किमेकैकवर्णात्स्फुटति, किं वा मिलितेभ्यः। नाद्यः; एकवर्णादेव स्फोटव्यक्तौ तत एवार्थधीसिद्धेरितरवैयर्थ्यात्। न चरमः; वर्णसाहित्यस्य भवतैव व्यासेधाद् अत आह –

तं चेति।

समुदितव्यञ्जकत्वमनभ्युपेतं प्रत्येकपक्षेऽपि न परवैयर्थ्यम्। यथा रत्नस्य प्रतीन्द्रियसन्निकर्षमभिव्यक्तावपि द्वाभ्यां तिसृभिः चतसृभिः पञ्चभिः षड्भिर्वा अभिव्यक्तिभिः जनितसंस्कारकृतपरिपाकरूपसहकारिसंपन्नान्तःकरणेन जनिते चरमप्रत्यये विशदं चकास्ति रत्नतत्त्वं, न प्राक्षु प्रत्ययेषु, नापि तैर्विरहिते चरमचेतसि, एवं स्फोटः प्रत्येकं ध्वनिभिर्व्यक्तोऽपि ध्वन्यन्तरजनिताभिरभिव्यक्तिभिर्ये संस्कारा जायन्ते तत्तत्परिपाकवन्मनःपरिणामे चरमे चकास्ति तदनन्तरं चार्थधीर्न प्रागित्यर्थः। यदि प्राचीनध्वनिजन्याभिव्यक्तिजसंस्कारसहितचरमप्रत्ययः स्फुटस्फोटदर्शको हन्त तर्ह्यर्थोऽपि प्रत्येकं ध्वनिभिर्व्यज्यतां पूर्वार्थव्यक्तिसंस्कारसहितमन्त्यं चेतस्तत्त्वमर्थस्य व्यनक्तु तत्राह -

न च पदप्रत्ययवदिति।

अभिहितश्चेदर्थो नाव्यक्तः, संदिग्धस्तु नाभिहितः स्यात्, प्रत्यक्षे तु प्रतिसन्निकर्षं विशदाविशदनिश्चयसंभव इत्यर्थः। स्फोटे प्रमाणं विकल्पयति -

एवं हीति।

वर्णेषु वाचकत्वाऽनुपपत्तौ वाचकशब्दप्रसिद्ध्यन्यथानुपपत्तिः स्फोटे प्रमाणमुत प्रत्यक्षमित्यर्थः। वर्णेषु वाचकत्वानुपपत्तिमपि विकल्पयति -

द्विधेति।

व्यस्तानाम् एकैकवर्णानां समस्तानां वा वाचकत्वमिति यत्प्रकारद्वयं तस्याभावाद्वेत्यर्थः। प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेरिति भाष्यं, तत्र बाधकप्रमाणाभावादेव बाधानुपपत्तेरित्यर्थः। तत्र सामान्यतो दृष्टस्यातिप्रसङ्गादप्रामाण्यमभिधाय वर्णभेदग्राहकं प्रत्यक्षं बाधकमाशङ्क्याह -

न चेदमिति।

इदं प्रत्यभिज्ञानं गकारत्वादिजातिविषयं न गकारादिव्यक्तिविषयमित्येतच्च न युक्तमित्यन्वयः। तासां व्यक्तीनां प्रतिनरं भेदोपलम्भादिति शङ्काया एव हेतुस्तस्य च समर्थनम् -

अत एवेति।

अयुक्तत्वे हेतुमाह -

यत इति।

बहुषु गकारमुच्चारयत्सु योऽनुभवो जायते स किं व्यक्तिभेदावमर्शपुरस्सरं जातिविषयः, उत औपाधिकभेदवदेकव्यक्तिविषय इति निपुणं निरूप्यताम्। तन्निरूपणे च ध्वन्युपाधिकृतभेदमन्तरेण स्वभाविकव्यक्तिभेदो न भासतः इत्यर्थः। व्यक्तिभेदपक्षे च कल्पनागौरवमाह -

तत्रेति।

येन (फुट् नोट् तेन यत्प्रार्थ्यते जातेरिति भामतीस्थकारिकाष्याख्यानं येन वर्णेष्विति। भेदज्ञानमित्यर्थं इत्यन्तेन) वर्णेषु व्यक्तिभेदो न स्फुटस्तेनेत्यर्थः। यत्प्रत्यभिज्ञानं जातेः प्रार्थ्यत इत्यर्थः। व्यक्तिलभ्यं भेदज्ञानमित्यर्थः। व्यक्त्या जातिबुद्ध्युपपादने गोत्वाद्युच्छेदमाशङ्क्याह -

न चेति।

दशवारमुच्चारितवान् इत्येकस्यैव गकारस्योच्चारणेष्वावृत्तिप्रतीतेः। उक्तैक्यस्यान्यथासिद्धिमाशङ्क्याह -

न चैष इति।

सोरस्ताडं

साविष्कारम्। एवं तावन्त एवेति प्रत्यभिज्ञानादित्यारभ्य यत्प्रत्यभिज्ञानमित्यन्तं भाष्यं व्याख्यातम्। अनन्तरं कथं हीति भाष्यं तत् हिशब्दसंयुक्तमपि न पूर्वहेत्वर्थम्। प्रत्यभिज्ञाया हि भेदप्रत्ययबाधकत्वं प्रस्तुतं, तद्धेतुत्वे च भेद एव निषेधः, नैकस्यानेकरूपत्वम्; एकत्वस्य स्फोटवादिनाऽनङ्गीकारात्। यत्तु केचिद्व्याख्यातारो वर्णेषु भेदाभेदनिषेधोऽयमिति वदन्ति। तत्प्रकृतासङ्गतेरयुक्तम्। तत इदं भाष्यं प्रकृते सङ्गमयति -

चोदक इति।

उक्तमपि बाधकं गतिनिरूपणाय पुनरुत्थापयतीत्यर्थः।

गलकम्बलः

सास्ना। उपक्रमे उक्तकण्ठादिस्थानघटिता वायवोऽश्रावणा इति तद्धर्मा वर्णेष्वारोपिता न श्रावणाः स्युः। अत उदात्तादयो वर्णधर्मा इति मतं ग्रन्थाद्बहिरेव दूषयति -

इदं तावदिति।

भवन्त्वश्रावणवायुधर्माः श्रावणाः कथं तेषां शब्दधर्मत्वप्रतीतिरत आह -

ते चेति।

ननु किमित्यारोपेण? स्वत उदात्तादयः शब्दस्य सन्तु, नेत्याह -

न चेति।

अनेन आवृत्त्या कथं हीत्येतदेव भाष्यं परिहारपरतया योज्यते।

व्यञ्जकध्वनीति।

ध्वनयन्ति व्यञ्जयन्तीति वायव एव ध्वनयः। अशब्दात्मकः श्रावणो ध्वनिः पदार्थान्तरम्; वर्णविशेषाप्रतीतौ प्रतीतेरित्युक्तं भाष्ये। सा जातिविषयत्वेनाऽन्यथासिद्धेत्याशङ्क्य परिहरति -

न चायमिति।

तस्य ध्वनेर्भिन्नत्वान्न प्रत्यभिज्ञानमस्ति। अतो ध्वन्युल्लेखिप्रत्ययस्य न जातिविषयत्वमित्यर्थः।

अक्षु

स्वरेषु।

एवं च सतीति

दूषणाङ्गीकरणवादः; दूषणाप्राप्तेरुक्तत्वादित्यर्थः। पदबुद्धौ वर्णोल्लेखस्यान्यथासिद्धिं शङ्कते -

पदतत्त्वमिति।

एकमभागमभिव्यञ्जयन्तो

नानेव

भागवदिव भासयन्तीत्यन्वयः। नानेवेत्यवयविभेदभानाभिप्रायम्। भागवदित्यवयवप्रतीत्यभिप्रायम्। विभागारोपे हेतुमाह –

सादृश्योपधानेति।

सादृश्यमेवोपधानमुपाधिः। सादृश्ये भेदमुपपादयति -

अन्योन्येति।

ये हि गकारौकारविसर्जनीया गङ्गा औष्ण्यं वृक्षः इति च विसदृशपदव्यञ्जकाः, तैः सदृशा अपरे गकारादयो ध्वनयो गौरित्येकं पदं व्यञ्जयन्ति। ध्वनीनां सादृशे हेतुः -

तुल्यस्थानेति।

भिन्नपदाव्यञ्जकध्वनिसदृशध्वनिव्यक्ते एकस्मिन्नपि पदे सन्ति भिन्नपदसादृश्यानीति भेदभ्रम इत्यर्थः। ननु पदान्तरेषु कियतां ध्वनीनां विसदृशत्वात्कथं व्यञ्जकसादृश्यमत उक्त –

प्रत्येकमिति।

गकारादीनामुभयत्र प्रत्येकं पदव्यञ्जकत्वाद् गौरित्यत्र गकारादीनामस्ति भिन्नपदव्यञ्जकगकारादिसादृश्यमित्यर्थः। एकविधप्रयत्नजन्यध्वनीनां न पदे भेदारोपहेतुतेति -

प्रयत्नभेदेत्युक्तम्।

विभागारोपेऽपि कथं वर्णरूपितपदप्रतिभानमत आह -

कल्पिता एवेति।

व्यञ्जकवर्णात्मत्वं व्यङ्ग्यभागेष्वारोप्यत इत्यर्थः। एतदपाकरोति -

तत्किमिति।

औपाधिकत्वस्वाभाविकत्वाभ्यामेकत्वानानात्वे व्यवस्थापयति -

अथवेति।

नन्वत्रोपाध्यभाव उक्तस्तत्राह -

तस्मादिति।

एकप्रत्यक्षानारोहेऽप्येकस्मृतिविषयत्वं वर्णानामुपाधिरित्यर्थः। उपचारे हि सति निमित्तानुसरणं, न तु निमित्तानुसारेणोपचार इति न धवखदिरादिष्वतिप्रसङ्गः। एतेन समुदितानां वर्णानामर्थधीहेतुत्वमुपपादितम्। बालेन स्वस्यैकस्मृत्यारूढवर्णानां मध्यमवृद्धं प्रत्येकार्थधीहेतुतामनुमाय, एकपदत्वाध्यवसायात् नेतरेतराश्रयमित्याह –

न हीति।

राजेति क्रमप्रयोगो जारेति विपरीतक्रमः। बहुभ्यो युगपदक्रमः प्रयोगः।

यावन्तः

यत्संख्याकाः।

यादृशाः

यत्क्रमादिमन्तः।

ये च

यत्स्वरूपाः। भाष्ये पङ्क्तिबुद्धौ पिपीलिकाक्रमवत् स्मृतौ वर्णक्रमसिद्धिरित्युक्तं तदाक्षिप्य समाधत्ते -

नन्वित्यादिना।

नित्यानां न कालतो विभूनां वा न देशतः क्रमः।

पदावधारणेति।

राजा जारेत्यत्र, क्रम उपायः। गौर्गोमानित्यत्र न्यूनातिरिक्तत्वे। स्वरो भाषिकादिः पञ्चजना इत्यादौ। वाक्यं पदान्तरसमभिव्याहारः, यथाऽश्वो गच्छतीति न लुङन्तमाख्यातम्, क्रियान्तरोपादानात्। श्रुतिः उद्भिदो यागनामपरत्वं समानाधिकरणश्रुतिगम्यम्। स्मृतिर्युगपत्सर्ववर्णविषया। वृद्धव्यवहारेत्यादि कल्पना स्यादित्यन्तं भाष्यमतिरोहितार्थमित्यर्थः॥२८॥ शास्त्रयोनित्वाविरोधायाह -

स्वतन्त्रस्येति।

नित्यो वेद इति।

अवान्तरप्रलयस्थत्वं नित्यत्वमतो दृष्टेन व्यभिचारो भारतीविलासोक्तोऽनवकाशः। अत एव न ह्यनित्यादिति वर्णितानुकूलतर्केऽपि अनित्यात्प्रलयावस्थायामविद्यमानान्न जगदुत्पत्तुमर्हति। तदानीमसतो नियतप्राक्सत्त्वरूपकारणत्वायोगात् अन्यत उत्पत्तौ तस्यापि तदैवोत्पाद्यत्वेनापर्यवसानादित्यर्थः। कर्तुरस्मरणात्सिद्धमेव नित्यत्वमनेनानुमानेन दृढीकृतमित्यर्थः॥२९॥ समाननामेति सूत्रं (ब्र.सू.अ.१.पा.३ सू.३०) महाप्रलये जातेरभावात् शब्दार्थसंबन्धानित्यत्वमाशङ्क्य परिहारार्थम्।

वेदस्य

वाक्यरूपस्येत्यर्थः। ननु जीवानवस्थानेऽपि ब्रह्म अभिधानादिवासितमस्त्यत आह -

न च ब्रह्मण इति।

निरविद्यस्य अविद्यासिद्धप्रमाणानाश्रयत्वान्न तज्जवासनाश्रयत्वमित्यर्थः। अथानपेक्ष्य वासनाः ब्रह्म जगत्सृजेत्, तत्राह -

ब्रह्मणश्चेति।

अध्यापकाध्येत्रोः उच्चारयितृत्वाद्भाष्ये अभिधातृग्रहणेनोक्तिरित्यर्थः। सूक्ष्मेणेत्यस्य व्याख्या

शक्तिरूपेणेति।

कर्मविक्षेपिकाऽविद्याभ्रान्तयस्तासां वासनाभिरित्यर्थः। भ्रमात्संस्कारतश्चान्या मण्डूकमृदुदाहृतेः। भावरूपा मताऽविद्या स्फ्टं वाचस्पतेरिह॥

अप्रज्ञातं

प्रत्यक्षतः।

अलक्षणम्

अननुमेयम्।

अप्रतर्क्यम्

तर्कागोचरः।

अविज्ञेयम्

आगमतः। साक्षिसिद्धस्य ह्यज्ञानस्यागमादिभिरसत्त्वनिवृत्तिः क्रियते। ननु - किं भावरूपयाऽविद्यया प्रयोजनम्? अज्ञातशुक्तिब्रह्मविवर्तत्वेन रजतजगद्भ्रमसिद्धेः। अज्ञातत्वस्य च ज्ञानाभावादुपपत्तेः। तन्न; स्वयंप्रभप्रत्यग्ब्रह्मणः स्वविषयप्रमाणानुदयेऽपि यथावत्प्रकाशापत्तौ जगद्भ्रमाभावप्रसङ्गात्। न हि स्वयंप्रभं सवेदनं स्वविषयप्रमाणानुदयान्न भाति। यद्यपि शुक्तिं स्वत एव जडामविद्या नावृणोति; तथापि तत्स्थानिर्वाच्यभावरूपरजतोपादानत्वेन एष्टव्येति भावरूपाविद्या सप्रयोजना। प्रमाणं तु डित्थप्रमा, डित्थगतत्वे सति यः प्रमाभावः तत्त्वानधिकरणानादिस्वप्रागभावनिवर्तिका, प्रमात्वाद्, डपित्थप्रमावत्। ये तु प्रमा स्वप्रागभावनिवृत्तिरेव, न तु निवर्तिकेति मन्यन्ते, तान् प्रति निवर्तिकेत्यस्य स्थाने निवृत्तिरिति पठितव्यम्। न चैतदसमवेतत्वमेतदन्यसमवेतत्वं चोपाधिः; एतत्सुखादीनाम् एतन्निष्ठप्रमाभावत्वरहितानादिस्वप्रागभावनिवर्तकत्वेन साध्ये विद्यमानेऽपि उपाध्यभावेन साध्याव्याप्तेरिति। त्वदुक्तमर्थं न जानामीति व्यवहारान्यथानुपपत्तिश्च मानम्। न च प्रमाणतो न जानामि किन्तु जाने इति व्यपदेशार्थः, तथा सति को मदुक्तोऽर्थ इत्युक्तेऽनुवदेन्न च शक्नोति। न च सामान्येन ज्ञाते विशेषतोऽज्ञानम्; सामान्यस्य ज्ञातत्वात्, विशेषस्य चाबुद्धस्याज्ञानव्यावर्तकत्वेन प्रतिभासायोगात्, प्रमितत्वे चाज्ञातत्वव्याघातात्, स्मृतत्वे चानुवादापातात्। मम तु भावरूपाज्ञनस्य सविषयस्य साक्षिण्यध्यासात्प्रतिभासो न मानत इत्यविरोधः। न च - मानाभाव एव तस्मिन्नध्यस्तो भासत इति - वाच्यम्; स्वप्रभे भावरूपाविद्यातिरोधानमन्तरेण अध्यासायोगस्योक्तत्वात्।

पराक्रान्तं चात्र सूरिभिरिति।

ते चावधिमुचितकालं प्राप्य पूर्वसमाननामरूपाणि भूत्वोत्पद्यन्त इत्यन्वयः। परमेश्वरेच्छा ईक्षणम्। ईक्षितुः परमेशस्य वाचस्पतिमुखोद्गतेः। निजुहुवे परेशानमसावित्यतिसाहसम्॥ ईक्षणं च जीवाज्ञातस्येश्वरस्य विवर्त आकाशादिवदिति न प्रमातृत्वेन अविद्यावत्त्वप्रसङ्गः। कूर्माङ्गानां दर्शनादर्शनमात्रं नोत्पत्तिरित्युदाहरणान्तरमाह -

यथा वेति।

घनाः

निबिडाः।

घनाघनाः

मेघाः। तत्कृतासारेण सन्ततधारावर्षेण सुहितानि बृंहितानि इत्यर्थः। अविद्यायाः पूर्ववासनास्रयत्वेन जगत्कारणत्वे ब्रह्मणो जगत्कारणत्वविरोधमाशङ्क्योपकरणस्य स्वातन्त्र्याविघातकत्वेन परिहरति -

एतदुक्तमिति।

ततश्चानादित्वं संसारस्येत्याह -

न च सर्गेति।

उपपद्यते चोक्तन्यायेनानादित्वमित्यर्थः। एवं पदपदार्थसंबन्धे विरोधं परिहृत्य संप्रदायविच्छेदाद्वाक्यनित्यत्वविरोधमुक्तमनुवदति - स्यादेतदिति। भाष्यस्यसुषुप्तिदृष्टान्तस्य वैषम्यमाशङ्क्याह -

यद्यपीति।

लीयतेऽस्यां सर्वकार्यमिति लयलक्षणाऽविद्या। श्लोके उक्तो यो विरोधः। यजमानो भाविन्या वृत्त्या यदाऽग्निरिदानीमग्नये विर्वपति, तदा भविष्यदद्यतनाग्न्योस्तुल्यनामता। ननु किमिति भाविन्या वृत्त्या यजमानोऽग्निरुच्यतेऽग्निदेवतैवाग्नये निर्वपतु, नेत्याह –

न हीति।

सत्त्वे वा स एवास्माभिरुद्देष्टुं शक्यते यागकाले इति प्राचीनो वृथा स्यादित्यर्थः। देवादीनां स्वमिश्रविद्यास्वनधिकारेऽपि ब्रह्मविद्याधिकारसंभवात् आक्षेपायोगमाशङ्क्य विकल्पमुखेन सूत्रमवतारयति -

ब्रह्मविद्यास्विति।

मधुविद्यावाक्यं प्रतीकत आदत्ते -

असाविति।

तद्व्याचष्टे -

देवानामित्यादिना।

भ्रमरैर्निर्वृत्तं भ्रामरम्। द्यौः स्वर्गः, तिर्यग्गतवंशे इवादित्यं मधु हि तत्र लग्नमित्यर्थः। अन्तरिक्षमपूप इति श्रुतिं व्याचष्टे -

आदित्यस्य

अपूपव्याख्या -

पटलमिति।

प्रसिद्धं मध्वपूपसाम्यमाह -

तत्रेति।

श्रुतिनिर्दिष्टपञ्चामृतान्याह -

यानि चेति।

एवं ह्यामनन्ति ‘‘तस्यादित्यस्य ये प्राञ्चो रश्मयः, ता एवास्य प्राच्यो मधुनाड्यः, ऋच एव मधुकृतः, ऋग्वेद एव पुष्पं, ता अमृता आपः, ता वा एता ऋचः, एतमृग्वेदमभ्यतपः, तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत, तद्व्यक्षरत् तदादित्यमभितोऽश्रयत्, तद्वा एतद्यदेतदादित्यस्य रोहितं रूप’’मित्यादि।

मधुनाड्यः

मध्वाधारच्छिद्राणीत्यर्थः।

व्यक्षरत्

विशेषेणागमत्, गत्वा चादित्यस्य पूर्वभागमाश्रितवदित्यर्थः। ता अमृता आप इत्येतद्व्याचष्टे -

यानि चेति।

यादृङ् मधुकरैर्निर्वर्त्यते मधु तदापः। ताश्चामृतसाधनत्वादमृता इति श्रुत्यक्षरार्थः। ऋच एव मधुकृत इत्येतद्व्याचष्टे -

यथा हि भ्रमरा इति।

मन्त्रैः प्रयुक्तं कर्मफलात्मकं रसं स्रवतीत्यृचां मधुपसाम्यम्। अथ येऽस्य दक्षिणा इत्यादि श्रुतिं व्याचष्टे -

अथास्येत्यादिना।

परः कृष्णमित्यमृतं श्रुतौ निर्दिष्टं तद्रश्म्युपाधिकमित्यभिप्रेयाह -

अतिकृष्णाभिरिति

चतुर्थपर्यायेऽथर्वाङ्गिरसो मधुकृत इतिहासपुराणं पुष्पमित्युक्तम्। तत्राथर्वाङ्गिरसमन्त्राणां मधुकरत्वाभिधानात्तैः प्रयोज्यम्, अथर्ववैदिकं कर्म पुष्पं सूचितम्। इतिहासपुराणमन्त्रा यत्र प्रयुज्यन्ते तस्य कर्मणः पुष्पत्वेन निर्देशात् तन्मन्त्रा मधुकृत इत्यर्थादुक्तमिति मनसि निधायाह –

अथर्वाङ्गिरसेति।

कर्मकुसुमेभ्य आहृत्य, अग्नौ हुतममृतमथर्वमन्त्रा आदित्यमण्डलं नयन्तीत्यन्वयः। इतिहासपुराणमन्त्रप्रयोगयोग्यं कर्माह -

तथाश्वमेधेति।

कर्मकुसुमादाहृत्येत्यनुषङ्गाल्लभ्यते। ननु कथमितिहासादिमन्त्राणां वाचस्तोमसंबन्धोऽत आह -

अश्वमेधेति।

पारिप्लवः

यदृच्छया बुद्धिस्थमन्त्रशंसनम्। सर्वाण्याख्यानानि पारिप्लवे शंसन्तीति श्रवणादैतिहासिकान्यपि गृह्यन्त इति भावः। विकल्पेनात्र विज्ञेयं पुष्पभ्रमरचिन्तनम्। इतिहासपुराणस्थमथ वाऽथर्ववेदगम्॥ न च यथाश्रुतं शक्यं घटयितुम्; इतिहासपुराणाथर्वणमन्त्रयोः असाधारणसंबन्धाभावादतः कुसुसमधुकरचिन्तनैकप्रयोजनानां कर्ममन्त्राणामगत्या विकल्प इति। अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पमिति। पञ्चमपर्यायं व्याचष्टे -

ऊर्ध्वा इति।

आदिश्यन्त इत्यादेशा उपासनानि तेषां भ्रमराणां गोप्यानामाश्रयत्वान्नाडीनां गोप्यत्वमुक्तम्। व्याख्यातां मधुविद्यामुपसंहरति -

ता एता इति।

नाडीनिर्देशोऽमृताद्युपलक्षणार्थः। यश आद्यमृतस्याचाक्षुषत्वाद्दृष्ट्वेति ज्ञानमात्र विवक्षेत्याह -

उपलभ्येति।

श्रुताविन्द्रियमिति तत्साकल्यविवक्षा, इन्द्रियमात्रसंबन्धस्य सिद्धत्वेन फलत्वाभावादित्याह -

इन्द्रियसाकल्येति।

अन्नं च तदाद्यमत्तुं योग्यं वस्वाद्युपजीव्यान्यमृतानि। विजानतामित्यादिभाष्यार्थमाह -

न केवलमिति।

एकस्मिन्नादित्ये उपास्योपासकभावो विरुद्धः, वस्वादौ तु स च प्राप्यप्रापकभावश्चेत्यर्थः॥३१॥ देवादीनां सर्वेषां सर्वाविद्यासु किमधिकारः, उत यथासंभवमिति विकल्प्य प्रतमं निरस्य द्वितीयं शङ्कते -

यद्युच्येतेति।

भाष्ये वाक्यशेषप्रसिद्धिः। पुरस्तादुदेता पश्चादस्तमेतेत्यादिः। हे इन्द्र, ते दक्षिणं हस्तं जगृभ्म गृहीतवन्तो वयम् इमे रोदसी इन्द्र यदि गृह्णसि, तर्हि ते तव काशिर्मुष्टिः मुष्टौ संमात इत्यर्थः। मुष्टिप्रकारमभिनयति -

इदिति।

इत्थमित्यर्थः।

तुविग्रीवः

पृथुग्रीवः। वपाच्छिद्रं सावकाशोदर इत्यर्थः। अत एव अन्धसोऽन्नस्योपयुक्तस्य मदे हर्षे सति इन्द्रो वृत्राणि शत्रून् जिघ्नते हतवानिति। प्रस्थितस्योपकल्पितस्य पक्वस्य हविषो भागमद्धि सोमस्य सुतस्य भागं पिब चेत्यर्थः। ईशनामैश्वर्यं देवताया दर्शयतीत्यनुषङ्गः। इन्द्रो दिवः स्वर्गस्येशे ईष्टे इति सर्वत्रानुषङ्गः। अपां पातालस्य। वृधां वीरुधां स्थावराणाम्। मेधिराणां मेधावतां जङ्गमानामिति यावत्। प्राप्तस्य रक्षणे क्षेमे योगे चाप्राप्तप्रापणे इन्द्र ईष्टेऽतो हव्य इन्द्रो यष्टव्य इत्यर्थः। हे इन्द्र, जगतो जङ्गमस्य तस्थुषः स्थावरस्य चेशानं स्वर्दृशं दिव्यज्ञानं त्वां स्तुम इत्यर्थः। वरिवसितारं पूजयितुम्। आहुतिभिः हुतादौ देवान् प्रीणयति। हुतमदन्तीति हुतादः। तस्मै होत्रे प्रीता देवा इषमन्नमूर्जं बलं च प्रयच्छन्तीति। विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता। फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम्॥ ये सिद्धवादिनो मन्त्रा न ते विधिक्षमा इति तत्स्वरूपमेव श्रुत्यादिभिः ऐन्द्र्यात्यादिभिस्तत्र तत्र कर्मणि विनियुज्यते, अतो न प्रमाणं चेत्तर्हि किमुच्चारणमात्रोपयोगा अविवक्षितार्थाः? नेत्याह -

दृष्टे प्रकारे इति।

नन्वनधिगतमेयाभावे कथं दृष्टार्थत्वम्, अत आह –

दृष्टश्चेति।

प्रयोगसमवेतो द्रव्यदेवतादिः स च विधिभिर्ज्ञात इति स्मार्यः।

मन्त्राश्च विधय इव निरपेक्षा देवताद्यभिदधतीति नाप्रमाणम्। ननु स्मृतेरविहितायाः कथं द्वारत्वमत आह -

स्मृत्वा चेति।

सामर्थ्याद् द्वारतेत्यर्थः। ननु यथा देवतास्मरणे मन्त्राणां तात्पर्यम्, एवं देवताविग्रहादावप्यस्तु, विग्रहादेरपि मन्त्रपदैरवगमादत आह –

औत्सर्गिकी चेति।

उद्दिश्य त्यागस्य हि देवतास्वरूपमेवापेक्षितं, न विग्रहादि, तद्बोधकपदानां तु उत्सर्गप्राप्तमप्यर्थपरत्वं विध्यनपेक्षितत्वादपोद्यत इत्यर्थः॥३२॥

श्वित्री

त्वगामयत्वान्।

निर्णेजनं

शोधनम्। श्वेतो वस्त्रं धावति शोधयतीति विवक्षायामितः श्वा धावति गच्छतीति नार्थधीरिति। वेदेऽपि न तात्पर्याद् विनाऽर्थधीरित्याह –

न चेति।

यदि तात्पर्याच्छाब्दधीः, तर्हि प्रत्यक्षादिष्वपि तथा स्यादत आह -

न पुनरिति।

भाष्यकृद्भिः निषेधेषु पदान्वयैक्यादवन्तरवाक्यस्य अग्रहणमित्युक्तमयुक्तम्; साध्याविशिष्टत्वादित्याशङ्क्यान्वयभेदे दण्डं नञ्पदवैयर्थ्यापत्तिमाह -

अयमभिसन्धिरिति।

अन्वयमुक्त्वा व्यतिरेकमाह -

न हीति।

उपसंहरति -

वाक्यार्थे त्विति।

मा भूत् स्वार्थमात्राभिधाने पर्यवसानं, किमतः? तत्राह -

न च नञ्वतीति।

एवं पदैकवाक्यतां सोदाहरणं दर्शयित्वा विध्यर्थवादेषु वाक्यैकवाक्यतामाह -

यत्र त्विति।

ननु - विधिद्वयस्यैषा वाक्यैकवाक्यताऽत आह -

लोकानुसारत इति।

क्रय्या गौर्देवदत्तीया यतो बहुक्षीरेत्यादौ बहुक्षीरत्वादेः आप्तवाक्यावगतेः विध्यर्थवादयोरप्यस्ति वाक्यैकवाक्यतेत्यर्थः। ननु कार्यान्वित एव पदार्थस्तत्कुतोऽर्थवादपदानां पृथगन्वयोऽत आह -

भूतार्थेति।

कुतश्चिद्धेतोरिति।

यो वाक्यस्य वाक्यान्तरैकवाक्यत्वे हेतुः सूचितस्तं विवृणोति –

इह हीति।

अनेन भिन्नवाक्यार्थपर्यवसायिनां पदानां का नु खल्वपेक्षिति शङ्का वार्यते। स्वाध्यायविधिः स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थप्रकाशकतां यदि नानेष्याद् न प्रापयेत्, ततो भूतार्थमात्रपर्यवसिताः सन्तोऽर्थवादा विध्युद्देशेनेकवाक्यतां नागमिष्यन् न गच्छेयुः। प्रापयति त्वध्ययनविधिर्वेदस्य पुरुषार्थताम्, तस्मादेकवाक्यतां प्राप्नुयुरित्यर्थः। ननु यदि लक्षणायामभिधेयविवक्षा, कथं तर्हि विरुद्धार्थार्थवादेषु सा स्यात्? तत्राभिधेयस्य विरुद्धत्वादेव विवक्षानुपपत्तेस्तत्राह -

अत एवेति।

अथवाऽर्थवादेषु स्वार्थविवक्षाया इदं गमकमुक्तम्, इतरथा हि गौणालम्बनचिन्ता मुधा स्यादिति। यथा प्रमाणान्तराविरोधः तथाऽसूत्रयत् गुणवादस्त्विति सूत्रेण(जै.अ.१.पा.२.सू.१०)। यथा च स्तुत्यर्थता येन गुणयोगेन स्तुत्यर्थतेत्यर्थः, तथाऽसूत्रयत्तत्सिद्धि(जै.अ.१.पा.४.सू.२२) रित्यनेनेत्यर्थः॥ यजमानः प्रस्तर इति किं विधिरुतार्थवाद इति। विशये विधिरपूर्वार्थलाभादिति प्राप्ते सिद्धान्तः। यदि प्रस्तरकार्ये यजमानो विधीयेत, तदा ‘‘प्रस्तरं प्रहरती’’ति शास्त्राद् यजमानोऽग्नौ हूयेत, ततः प्रयोगो न समाप्येत। अथ यजमानकार्ये प्रस्तरो विधीयेत, तदानीमशक्यविधिः। न हि प्रथम-लूनदर्भमुष्टिः प्रस्तरः शक्नोति चेतनयजमानकार्यं कर्तुम्। तस्मात्प्रस्तरं बर्हिष उत्तरं सादयतीत्यस्य विधेरर्थवादः। द्वितीयादिमुष्टिर्बर्हिः। कथं तर्हि सामानाधिकरण्यम्? अत्र सूत्रं -

गुणवादस्त्विति।

(जै.अ.१.पा.२.सू.१०) को गुणः? इत्यपेक्षायां च तत्सिद्धिरिति सूत्रम्(जै.अ.१.पा.४.सू.२२)। तस्य यजमानस्य कार्यं क्रतुनिर्वृत्तिः तत्प्रस्तरादपि सिद्ध्यति। स हि जुह्वाधारतया क्रतुं निर्वर्तयति इति। आदित्यो यूप इत्यत्र तेजस्वित्वं गुणः; तेजसा घृतेन यूपस्योक्तत्वादिति। ननु विरुद्धार्थार्थवादेषु कथमभिधेयाविनाभावनिमित्ता प्राशस्त्यलक्षणा? विरोधादेवाभिधेयाभावादत आह -

तस्माद्यत्रेति।

यजमानादिशब्दैः तत्सिद्ध्यादि लक्ष्यते, ततश्च प्राशस्त्यमित्यर्थः। लक्षितेन यल्लक्ष्यं तदप्यभिधेयेनाविनाभूतमेव; तदविनाभूतं प्रत्यविनाभूतत्वात्। नन्वनुवादकार्थवादानामप्रमाणकत्वात्कथं विधिभिर्वाक्यैकवाक्यताऽत आह -

यत्र त्विति।

न स्मृतिवत्सापेक्षत्वं; किंतु प्रत्यक्षादिभिस्तुल्यविषयत्वम्। न चैतावता भवत्यप्रमाणता; प्रत्यक्षानुमानयोरपि तुल्यविषयत्वादित्यर्थः। तर्हि कथमनुवादकत्वप्रसिद्धिरत आह -

प्रमात्रपेक्षयेति

प्रमातरि चरमप्रत्ययाधायकत्वात् आश्रयस्यानुवादकत्वसिद्धिरित्यर्थः। यदि मानान्तरसिद्धार्थत्वेऽप्यर्थवादानामनपेक्षत्वम्, तर्हि विरुद्धार्थानामपि तदस्तु; गौणार्थत्वेन किम्? इति शङ्कते -

नन्वेवमिति।

तत्परतया निरवकाशा वेदान्ता बाधन्ते विरोधि प्रत्यक्षादि, नार्थवादाः; अतत्परत्वेन सावकाशत्वादिति विशेषेण प्रतिबन्दीं परिहरति -

अत्रोच्यत इत्यादिना।

इष्टप्रसङ्गतामाह -

अद्धेति।

विध्यन्वितोऽर्थवादो महावाक्यीभूय प्राशस्त्यं बोधयति, स्वरूपेण त्ववान्तरवाक्यीभूय विग्रहादि वक्तीत्यर्थः। वाक्यद्वित्वमेष्टुमशक्यम्; प्रत्यर्थं तात्पर्यभेदेन वाक्यवृत्तिप्रसङ्गात्। आवृत्तिं च पौरुषेयीं वेदो नानुमन्येतेति शङ्कते -

तथा सतीति।

न वज्रहस्तेन्द्रदेवतात्वात् प्रशस्तमैन्द्रं दधि, वज्रहस्तश्च सोऽस्तीत्यावृत्तिं ब्रूमः, किन्तु स्तोतुमेव योऽर्थोऽर्थवादेनाश्रितस्तं नोपेक्षामह इति परिहरति -

नेति।

ननु तात्पर्याभावे शब्दात्कथं द्वारभूतविग्रहादिप्रमितिरित्याशङ्क्य व्याप्तिं प्रशिथिलयति -

न चेति।

यद्वाक्यं यत्रार्थे न तत्परं तत्र तदप्रमाणं चेत्, तर्हि विशिष्टविधेर्विशिष्टपरत्वं न स्यात्। तस्य हि, विशेषणेष्वपि नागृहीतविशेषणन्यायेन प्रामाण्यं वाच्यम्। न च तेषु तात्पर्यम्; प्रतिविशेषणमावृत्त्यापातात्। तथा च विशेषणप्रमितौ विशिष्टेऽप्रामाण्यापातादिति। ननु विशिष्टविधिरपर्यतस्यन् विशेषणविधीनाक्षिपतीत्यार्थिका विशेषणविधयः कल्प्यन्ते, अतो न वाक्यभेदः। यथाऽऽहुः - श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने। लक्षणावाक्यभेदादिदोषो नानुमिते ह्यसौ’ इति। एवं शङ्कित्वा परिहरति -

विशिष्टविषयत्वेनेति।

प्रतीतो हि विशिष्टविधिर्विशेषणविधीनाक्षिपेत्, तत्प्रतीतिरेव न विशेषणप्रतीतिमन्तरेणेति इतरेतराश्रय इति भावः। ननु पदैः पदार्था योग्यतादिवशेन विशेषणविशेष्यभूता लोकतोऽवगम्यन्ते, तदवगतौ च प्रतीतो विशिष्टविधिराक्षेप्ता विशेषणविधीनाम्। सत्यम्; न सर्वत्र विशेषणं लोकसिद्धमिति शक्यं वक्तुम्। क्वचिद्धि वाक्यैकगम्यमपि विशेषणं भवति। ‘यथैतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेते’ति। अत्र हि विशिष्टविधौ रेवतीनामृचां वारवन्तीयसाम्नश्च संबन्धो विशेषणं वाक्यैकगम्यम् इति भावेनोपसंहरति -

तस्मादिति।

नन्वर्थवादा मानन्तारापेक्षाः सिद्धार्थत्वात् पुंवाक्यवत्। न च देवताविग्रहादौ मानान्तरमस्तीत्यप्रमाण्यम्। यद्धि सापेक्षं तन्मूलमानरहितमप्रमाणमित्यत आह -

न च भूतार्थमपीति।

वाक्यस्य सतः सापेक्षत्वे पौरुषेयत्वमुपाधिरिति समन्वयसूत्रे (ब्र.अ.१.पा.१.सू.४) उक्तमित्यर्थः। यदि विधेः प्राशस्त्यपरा अप्यर्थवादा भिन्नं वाक्यं, तर्हि न्यायविरोध इत्याह –

स्यादेतदिति।

द्वितीये स्थितम् - ‘अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे’ स्यात् (जै.सू.अ.२.पा.१.सू.४६)। देवस्य त्वा सवितुः प्रसवे इति मन्त्र एकं वाक्यं भिन्नं वेति संशये पदानामर्थभेदात्समुदायस्यावाचकत्वाद्भिन्नमिति प्राप्तेऽभिधीयते। एकप्रयोजनोपयोगिविशिष्टार्थस्यैक्यात् तद्बोधकपदान्येकं वाक्यम्। तच्च तर्ह्येव स्याद्यद्दि पदविभागे सति पदवृन्दं साकाङ्क्षं भवेत्। ‘‘भगो वां विभजत्वर्यमा वां विभज’’त्वित्यत्र सत्यपि विभजत्यर्थैकत्वे अनाकाङ्क्षत्वेन वाक्यभेदात्, ‘स्योनं ते सदनं कृणोमि तस्मिन्सीदे’त्यत्र सत्यपि साकाङ्क्षात्वेऽर्थभेदेन वाक्यभेदात्। एकत्र हि सदनकरणं प्रकाश्यमन्यत्र पुरोडाशप्रतिष्ठापनमिति वाक्यभेदोऽत उभयं सूचितम्। तात्पर्यैक्येऽपि वाक्यभेदाभ्युपगम एतदधिकरणविरुद्ध इत्यर्थः। परिहरति –

नेति।

यथा हि सत्यपि वाक्यैक्ये प्रयाजादिवाक्यानाम् अवान्तरभेद एवमर्थवादानामप्यस्तु। त्वयाऽपि हि स्तुतिं लक्षयितुं तत्तत्पदार्थविशिष्टैकपदार्थप्रतीतिरभ्युपेया, अन्यथाऽभिधेयाविनाभावो न स्याद् इत्युक्तत्वात्। तथा च तस्यां पर्यवस्यन्त्वर्थवादास्ततो विध्येकवाक्यतां च यान्त्विति भावः। एवं तर्हि प्रयाजादिवाक्यानामर्थवादवाक्यानां च को भेदोऽत आह -

स त्विति।

स्तुतिप्रतिपत्तिद्वारं विग्रहादि, प्रयाजादि तु नान्यप्रतीतौ द्वारम्, किन्तु तद् द्वारि। स्वयं तात्पर्यविषय इति यावत्। यदि विध्येकवाक्यत्वेऽप्यर्थवादेषु पृथक्पदार्थसंसर्गप्रतीतेः वाक्यभेदः तर्ह्यतिप्रसङ्ग इति शङ्कित्वा प्रतीतिपर्यवसानतदभावाभ्यां वैषम्यमाह -

नन्वेवं सतीत्यादिना।

यद्यर्थवादेषु द्वारभूतार्थभेदाद् वाक्यभेदस्तदाऽप्यतिप्रसङ्ग इत्याशङ्क्य परिहरति -

न च द्वाभ्यामित्यादिना।

पञ्च षड् वा पदान्यस्येति पञ्चषट्पदवत्। अरुणयेत्यादि वाक्यम्। अत्र नावान्तरवाक्यभेदप्रसङ्गः; विशेषणानां भेदेऽपि विशेष्यकयादेः एकत्वात्तस्य च गुणानुरोधेनावृत्त्ययोगात्। गुणा एव तस्मिन् समुच्चेया इत्येकवाक्यतेत्यर्थः। विशेष्यैक्ये विशेषणभेदेऽपि न वाक्यभेद इत्येतद्व्यतिरेकप्रदर्शनेनोपपादयति -

प्रधानभेदे त्विति।

‘‘आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पता’’ मित्यादौ हि प्रधानभेदाद्वाक्यभेदः तदभावादरुणादावेकवाक्यतोपपत्तेर्न प्रतिबन्धावकाश इति। नन्वतत्परादपि वेदादर्थः प्रमीयेत, स यदि तात्पर्यगम्यार्थोपयोगी विशिष्टविधाविव विशेषणं देवताविग्रहादि तु न तथेति शङ्कापनुत्त्यर्थमपि चेत्यादि भाष्यम्। तदादाय व्याख्याति -

देवतामुद्दिश्येत्यादिना।

ननु देवता आरोपितोल्लिख्यतां तत्राह -

रूपान्तरेति।

अस्यैव प्रपञ्चो ननूद्देश इत्यादिचोद्यपरिहारौ। दृष्टानुसाराच्च चेतना देवतेत्याह -

तदेवमिति।

शब्दमात्रत्वे तु नैवमित्याह –

अचेतनस्येति।

देवतातः फलोत्पत्तौ श्रुतहानिमाशङ्क्याह -

न चैवमिति।

यजेत स्वर्गकाम इत्यस्य हि यागेन स्वर्गं भावयेदित्यर्थः। तत्र यागभावनायाः फलवत्त्वं श्रुतम्। अर्थाच्च यागस्य भावनां प्रति तदीयफलांशं वा प्रति करणत्वं श्रुतं यत् तन्न हातव्यम्। अत्र हेतुमाह -

यागेति।

नवमे स्थितम् - ‘देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वात्’ (जै.सू.स्.६.पा.१.सू.६) देवता धर्मान् प्रयोजयेदतिथिवद्भोजनस्य यागस्य तदर्थत्वाद् यथाऽतिथिप्रीत्यर्था धर्मा इति प्राप्ते - अपि वेति (जै.सू.अ.६.पा.१.सू.६) राद्धान्तः। यज्ञकर्म प्रधानमङ्गग्राहि , न देवता; यजेन स्वर्गकाम इति यागगतफलसाधनतायाः शब्दपूर्वत्वात्। देवता तूद्देश्या भूतत्वाद्भव्यस्य यागस्य गुण इति तद्गुणत्वे देवताशब्दो वर्तत इति। तदस्मन्मते ऽप्यविरुद्धम्; गुनत्वस्वीकारादित्यर्थः॥३३॥

एत इतीति

(फुट् नोट् - एतदधिकरणगतमन्त्राणामर्थमाह - एत इत्यादि। शब्द इति चेन्नात इत्येतत्सूत्रस्य ‘एत इति वै प्रजापतिः’ इत्यस्य विवरणम्॥) सन्निहितवाचि - एतशब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहिताना स्मारकः। असृग् रुधिरम्। तत्प्रधानदेहरमणान्मनुष्याणामसृग्रशब्दः। इन्दुमण्डलस्थपितॄणामिन्दुशब्दः। पवित्रं सोमं स्वान्तस्तिरस्कुर्वता ग्रहाणां तिरःपवित्रशब्दः। ऋचो ऽस्तुवतां स्तोत्राणां गीतिरूपाणां शवशब्दः। स्तोत्रानन्तरं प्रयोगं विशतां शास्त्राणां विश्वशब्दः। व्यापिवस्तुवाच्यभिशब्दयुक्तोऽभिसौभगेतिशब्दोऽन्यासां प्रजानां स्मारक इति॥ स (फुट् नोट् - शब्द इति चेन्नात इत् सूत्रे ‘स मनसा वावं मिथुनं समभवत्’ इति स्थितम्। तस्मार्थ माह सेति) मनसेति। स प्रजापतिर्मनसा सह वाचं मिथुनभावं समभवदभावयत्। त्रयीप्रकाशितां सृष्टिं मनसाऽऽलोचितवानित्यर्थः। नाम रूपं चेति स्मृतौ निष्पन्नकर्मणामनुष्ठापनमुक्तम्। सर्वेषां त्वित्यत्र कर्मणामेव सृष्टिरिति विवेकः॥ यज्ञेनेति(फुट् नोट् - अत एव च नित्यत्वमिति सूत्रस्य ‘यज्ञेव वाचः पदवीयम्’ इत्यस्यार्थमाह यज्ञेनेति) पुण्येन वाचो वेदस्य पदवीयम्। भावप्रधानो निर्देशः। पदवीयतां मार्गयोग्यतां वेदग्रहणयोग्यतामित्येतत्। आयन् आप्तवन्तः। ततः ऋषिषु प्रविष्टां तां वाचमन्वविन्दन् अनुलब्धवन्तः। यदा(फुट् नोट् समाननामरूपत्वाच्चेति सूत्रस्य ‘यदा सुप्तः स्वप्नं न कंचन’ इत्यस्यार्थमाह यदेति)। सुप्त इत्यत्र प्राणः परमात्मा सर्वे प्राणाश्चक्षुरादयः तेभ्योऽनन्तरं तदनुग्राहका आदित्यादिदेवाः। ततो लोका विषयाः। इह वाक्ये कल्पितस्य अज्ञातसत्त्वाभावात् प्रतीत्यप्रतीतिभ्यामुत्पत्तिलयाभिधानम्। व्यावहारिकसत्त्वे श्रुतेरनास्था॥

यो ब्रह्माणमिति।

(फुट् नोट् - समाननामेति सूत्रस्य ‘यो ब्रह्माणं विदधीती’त्यस्यार्थमाह यो ब्रह्माणमिति)

प्रहिणोति।

ददाति आत्माकारबुद्धौ प्रकाशत इति तथोक्तः। तत्त्वमस्यादिवाक्यजबुद्धिविषयमित्येतत्। दशतय्यो दशमण्डलात्मकः ऋग्वेदः, तत्र भवा दाशतय्यः।

यो ह वा इति।

आर्षेयमृषिसंबन्धः। ब्राह्मणं विनियोगः। आर्षेयादीन्यविदितानि यस्य मन्त्रस्य स तथाऽध्यापयति अध्ययनं कारयति। स्थाणुं स्थावरम्। गर्तम् नरकम्। शर्वर्यन्ते प्रलयान्ते। पर्यये पर्याये। चक्षुराद्यभिमानिनो देवाः सांप्रतैः तुल्याः॥

तदिति

(फुट् नोट् - भावं तु बादरायणिरिति सूत्रस्य ‘तथो देवानां प्रत्यबुध्यते’त्यस्यार्थमाह तदित्यादि) तत्र ब्रह्मवेदनात्सर्वभाव इति स्थिते यो यो देवानां मध्ये प्रतिबुद्धवानात्मानमहं ब्रह्मास्मीति स प्रतिबोद्धैव तद् ब्रह्माभवत्॥

ते होचुरिति।

ते देवा असुराश्चोचुः किलान्योन्यं हन्त यद्यनुमतिर्भवतां, तर्हि तमात्मानं विचारयामः, यमात्मानं विचारणापूर्वं ज्ञात्वा सर्वान् लोकान् कामान् फलानि चाप्नोति इत्युक्त्वा विद्याग्रहणार्थम् इन्द्रविरोचनौ देवासुरराजौ प्रजापतिसकाशमाजग्मतुः॥

पृथ्व्याप्येति

(फुट् नोट् - अधिकरणान्तिमसूत्रस्य ‘पृथ्व्यप्तेजो ऽनिलख’ इत्यस्यार्थमाह पृथ्व्येति) पादतलमारभ्याजानोः, जानोरारभ्यानाभि, नाभेरारभ्याग्रीवं, ग्रीवाया आकेशप्ररोहदेशं ततश्चाब्रह्मरन्ध्रं क्रमेण पृथिव्यादिभूतधारणया पृथिव्यादिपञ्चात्मके भूतगणे समुत्थिते जिते सति योगगुणे च अणिमादौ प्रवृत्ते योगाभिव्यक्ताग्निमयं तेजोमयं ब्रह्म शरीरं प्राप्तस्य योगिनो न जरादीत्यर्थः। तथा चावोचन्नाचार्याः प्रपञ्चसारे - अवनिजलानलमारुतविहायसां शक्तिभिश्च तद्बिंबैः। सारूप्यमात्मनश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः॥ इति।

बिम्बानि

भूतमण्डलानि।

तच्छक्तयश्च

निवृत्त्याद्यास्तत्रैवोक्ताः।

इति अष्टमं देवताधिकरणम्॥

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥३४॥ ब्रह्मविद्या शूद्राधिकारा न वेत्यध्ययनस्य प्रधानकर्मत्वसंस्कारकर्मत्वाभ्यां संशये पूर्वम् अत्रैवर्णिकदेवाना तद्यो य इति लिङ्गादधिकार उक्तस्तद्वद्विद्याधिकारिणः शूद्रशब्देन परामर्शलिङ्गाच्छूद्रस्याप्यधिकार इति सङ्गतिं भाष्यारूढामाह -

अवान्तरेति।

पूर्वपक्षमाह -

निर्मृष्टेति।

आगन्तुकं

शास्त्रीयम्। अधिकारलक्षण एवावैद्यत्वादभावः कर्मणि स्यात् (जै.सू.अ.६.पा.सू.३७) इत्यनधीयानस्यानधिकार इति स्थितत्वाद्गतार्थतामाशङ्कते -

अध्ययनेति।

एतद् न हि आहवनीयादिरहितेन विद्या वेदितुं न शक्यत इति भाष्यं व्याचक्षाणः परिहरति -

हन्तेति।

तत्रानग्नेरग्निसाध्ये कर्मण्यनधिकार स्थितोऽवैद्यत्वम् अभ्युच्चयमात्रम्; अभ्युच्चयत्वं चाध्ययनविधेः पुरुषार्थत्वशङ्क्यायाः तत्रानिरासात्, इह संस्कारपरामर्शादित्यादिसूत्रैरध्ययनविधेः संस्कारकर्मविषयत्वसमर्थनाच्च। अतोऽनग्नीनामपि शूद्राणामग्न्यसाध्यायां विद्यायामधिकार इति शङ्काया न गतार्थत्वमित्यर्थः। ननु कर्मण्यग्निवद्विद्यामध्ययनं हेतुरित्याशङ्क्याह -

न चेति।

अग्निः कर्महेतुः, स च न शूद्रस्य, अध्ययनं तु विद्यायामनियतो हेतुः संभवति च शूद्रस्येत्युपपादयति -

यत इत्यादिना।

आहवनीयादिसाध्ये कर्मणि शूद्रस्य नाधिकार इत्येतद्यतः कारणाद् युक्तं, यतश्च विद्यायां शूद्रस्यासंभविसाधनमलौकिकं नास्ति, ततस्त्वदुक्तमसांप्रतमिति योजना। अग्नेः कर्मसूपयोगमाह -

यदाहवनीये इति।

ननु व्रीहिवदाहवनीयोऽस्तु शूद्रस्य नेत्याह -

तद्रूपस्येति।

संस्कृतोऽग्निराहवनीयः; स चालौकिक इत्यप्रकरणाधीताद्वाक्यविहिताधानादेव लभ्य इत्यर्थः। आधानमपि द्विजातिसंबद्धं यदि क्रतुं कञ्चिदारभ्य विधीयेत, तर्हि क्रत्वन्तरे शूद्रोऽधिक्रियेत, न त्वेतदस्ति; तस्याग्निद्वारा सर्वक्रतुसाधारण्यात् इत्येवमनारभ्याधीतग्रहणम्। आधानमप्यस्तु शूद्रस्य, नेत्याह -

आधानस्य चेति।

वसन्तादिवाक्येनेत्यर्थः। विद्यायामलौकिकं साधनं नास्तीत्यसिद्धमध्ययनक्रियाया लौकिकत्वेऽपि तन्नियमस्य वैधत्वादिति शङ्कां परिहरति -

न विकल्पासहत्वादिति।

नानोपायसाध्येऽक्षराधिगमेऽध्ययनं नियम्यमानं पुरुषार्थे तस्मिन्नियम्येतोत क्रत्वर्थे इति विकल्प्य द्वितीयं निरस्यति -

न तावदिति।

अध्ययनियमस्य क्रत्वर्थाश्रितत्वं प्रकरणाद्वाक्याद्वेति विकल्प्याद्यं निरस्य द्वितीयं प्रत्याह -

न चाऽनारभ्येति।

व्याप्तया हि जुह्वा क्रतौ व्यापके बुद्धिस्थीकृते वाक्यं पर्णतां क्रतुना संबन्धयति, स्वाध्यायस्तु स्वशाखात्मकोऽवयवी न कर्मविशेषेण व्याप्त इत्यनुपस्थापिते कर्मणि कथं वाक्यमध्ययनस्य कर्मसबन्धं ब्रूयादित्यर्थः। नन्वज्ञातोपाये कथं पुरुषेच्छातः प्रवृत्तिरत आह -

तदुपायेऽपि हीति।

फलमभिलषस्तदुपायमप्यनुष्ठेयं मन्यते, विशेषं तु न वेदेति। तर्हि करणार्थेतिकर्तव्यतायामपि सामान्यप्रवृत्तिरिच्छाधीनेत्याशङ्क्याह -

इतिकर्तव्यतास्विति।

अनधिगतः करणविशेषो विधितो येन पुंसा स इतिकर्तव्यतासु न घटते न चेष्टते। न हि करणसामान्यमितिकर्तव्यतोपकार्यं, किं तु विहितः कथंभावाकाङ्क्षः करणविशेषः, तत्र य यदङ्गं सामान्यतो यच्च विशेषतस्तत्र सर्वत्र विध्यधीनैव प्रवृत्तिरित्यर्थः। ननु कथं विध्यधीनप्रवृत्तिकता क्रत्वर्थता क्रतुविध्योर्भेदादत आह -

क्रतुरिति हीति।

क्रतुरिति शब्दो विषयेण क्रतुना तदभिधायकं विषयिणं विधिशब्दं परामृशति लक्षणयेत्यर्थः।

अर्थ्यते

ज्ञायते। मा भूवन्नध्ययनादयः पुमर्थाः, मा भूच्च तदाश्रितोऽदृष्टनियमोऽर्थावबोधे तु दृष्टे एवाध्ययनं नियम्यतामत आह -

यदि चेति।

यस्मान्न नियमविधिरतोऽ पूर्वविधिरित्याह -

तस्मादिति।

यदोपनयनाङ्गकाध्ययनविधिः काम्यः, तदा शूद्रस्य लौकिकाध्ययनादिना वेदग्रहणमित्याह -

तथा चेति।

द्वौ हीह पूर्वपक्षौ – सर्वत्र शूद्रस्याधिकारः, संवर्गविद्यायामेव वेति। तत्राद्यं प्रदर्श्य, स्वाध्यायविधेर्नियामकत्वमुपेत्यैव द्वितीयमाह -

मा भूद्वेति।

वाक्यप्रकरणयोरभावेऽपि कल्पनालाघवेन सामर्थ्यलक्षणलिङ्गेन चानुगृहीतस्तव्यप्रत्ययः कर्मप्राधान्यमवगमयन्नध्ययनस्य संस्कारकर्मतामापादयतीत्याह -

तथापीत्यादिना।

विनियोगः पदान्वयः।

परम्परयेति।

अक्षरावाप्तिपदार्थव्युत्पत्तिविचारपरयेत्यर्थः। अन्यतोऽनुष्ठानतोऽपेक्षितमर्थबोधमित्यर्थः। अर्थबोधेऽध्ययनस्य सामर्थ्यं दर्शयति -

दृष्टश्चेति।

संस्कारोऽवाप्तिः। सैव दर्श्यते -

तेन हीति।

विपरिवृत्त्येति।

श्रुतविनियोगाद्व्यावृत्त्येत्यर्थः।

विनियोगभङ्गेनेति।

सुवर्णधारणेनेति कृत्वेत्यर्थः। यदवादि लिखितपठितवेदार्थबोध इति, तत्राह -

यदा चेति।

एवं शूद्रस्य विद्यायामसामर्थ्यमुक्त्वा शास्त्रपर्युदासमाह -

यज्ञ इति।

अतत्परः शब्दो नाज्ञातार्थबोधीति मते मा भूल्लिङ्गादधिकारसिद्धिः, सिद्धान्ते तु किं न स्यादत आह -

अस्माकं त्विति।

असति बाधकेऽवगमादर्थसत्तासिद्धिरुक्ता, विधिना चापेक्ष्यत इति सप्रयोजनता। शूद्रशब्दस्यावयवृत्तिप्रदर्शनायाख्यायिकां श्रौतीमनुक्रामति -

एवं किलेत्यादिना।

जनश्रुतस्यापत्यं जानश्रुतिः। पुत्रसंज्ञस्यापत्यं पौत्रः। तस्यापत्यं पौत्रायणः। श्रद्धयार्थिभ्यो देयं यस्य स तथा। पाक्यमन्नं बहु यस्य गृहे स तथा।

शृङ्गाटकानि

चतुष्पथाः।

शौण्डस्य

शूरस्य। तदनुग्रहाय उत्तमविद्याजिज्ञासां कर्तुम्। दोषेत्यव्ययं रात्रावित्यर्थः। भल्लाक्ष भल्लाक्ष विरुद्धलक्षणयाऽन्धेत्युपालम्भः। इत आरभ्य द्युलोके मा प्रसाङ्क्षीः प्रसक्तिं मा कार्षीः, यदि करोषि, तर्हि तन्मध्यप्रविष्टं त्वां तन्मा धाक्षीन्मा दहतु, तद्धक्ष्यति वराको जानश्रुतिरित्येकदेशद्वारोच्यते। एष तावद्वराकः एनमल्पं (फुट् नोट् - घ - पुस्तके ‘इत्थम्’ इत्यपि पाठः)। सन्तं किमेतद्वचनमात्थेत्येतच्छब्दान्वयः। युजेर्धातोः कर्तरि अन्येभ्योऽपि दृश्यन्त इति क्वनिपि कृते युग्वा। स्वारूढं पुरुषं देशान्तरेण युनक्तीत्यर्थः। उद्भेलमपारं। चिन्ताविष्ट्स्य हि रात्रिर्बहुर्भवति। पिशुनः सूचकः। वन्दारवः स्तावकास्तेषां वृन्दं समूहः। एकपदे झटिति। यन्तारं सारथिम्। विपिनमरण्यम्। नगनिकुञ्जं पर्वतगुहा। पुलिनं सैकतम्। ब्राह्मणायनं ब्राह्मणवेषम्। धनाया धनेच्छा श्रुत्युक्तनिष्कव्याख्या हारमिति। अश्वतरीभ्यां युक्तो रथस्तथोक्तः। आटोपः संभ्रमः। अह हारे त्वेति पाठो व्याख्यातः। आहरे त्वेति पाठे त्वा इत्यस्यात्र वाक्ये न केनापि संबन्ध इत्यानर्थक्यम्। शकटोक्तेः प्रा व्याख्यायामस्ति संबन्धीति॥३४॥ एवं तावन्न्यायबलेन शूद्रशब्दलिङ्गमन्यथा नीतम्। संप्रति शूद्राधिकारवारकबहुलिङ्गविरोधादपि तथेत्याह -

क्षत्रियत्वगतेश्चेत्यारभ्य

आ अधिकरणसमाप्तेः। ननु कापेयवाज्योऽभिप्रतारी चित्ररथ एव किं न स्यादत आह –

एष चेति।

नामभेदादन्वत्वे सति तद्वंश्यत्वात्तद्याजकेन याज्यत्वमिथर्थः। यद्यपि क्षत्रयसमहि हारो न क्षत्रियत्वव्याप्तः कापेय एव व्यभिचारात्तथापि द्योतकतया संभावकः। सर्वं च वैदिकं लिङ्गमेवभ्देत्याह -

संभाव्यते इति।

एवं तावद्वाक्योपक्रमे संदेहमभ्युपेत्यैव वाक्यशेषान्निर्णयः कृतः, इदानीं तु नैव संदेहः; शूद्रशब्दपरामर्शात्प्रागेव स ह क्षत्तारमुवाचेत्यमात्यप्रैषादिना क्षत्रियत्वनिश्चयादित्याह -

इतश्चेति।

बहुदायी बहुपाक्य इति ह्यर्थसंभवोऽधिगतः। अन्ये वदान्या दानशीलाः पृष्ठे यस्य स तथा। अर्थसंभवे च निमित्ते यदैश्वर्यं तस्य जानश्रुतेरवगतं तत् क्षत्रियस्य दृष्टमित्यर्थः॥३५॥ आद्यसूत्रे एवाध्ययननियमस्य सूत्रितत्वात् पुनरुक्तिमाशङ्क्याह -

न केवलमिति।

उपनीतस्य यदध्ययनं तद्विधिपरामर्श आलोचनम्। उपनयनमध्ययनाङ्गमेकम्, अपरं च विद्याप्राप्तये उपसदनापरपर्यायमस्ति। हीनवर्णे राजन्याचार्ये औपमन्यवादीनां ब्राह्मणानामुपनयनं ‘‘तान्हेति’’ निषिध्यते। तत एवोत्तमवर्णाचार्यलाभे तेषामुपनयनं प्राप्नोत्यन्यथाऽस्यैव अप्राप्तनिषेधतापातादित्याह -

येषामिति

॥३६॥३७॥३८॥ ते हैते भारद्वाजादयः षड् ऋषयोऽपरं ब्रह्म परत्वेनावगतवन्त इति ब्रह्मपराः, तद्ध्यानानुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः परं च परमार्थं ब्रह्म अन्वेषमाणा एव पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति प्रतिपेदिरे। ते च तमेव भगवन्तमुपपसन्नाः तानौपमन्यवादीननुपनीयैतद्वैश्वानरविज्ञानमुवाच अश्वपती राजा। त्रपुजतुभ्यां वङ्गलाक्षाभ्यां तप्ताभ्याम्। द्विजातीनां दानं साधारणम्, प्रतिग्रहस्तु ब्राह्मणस्यैवेति विवक्षितम्, न तु शूद्रस्यैव दानं वार्यते॥

इति नवममपशूद्राधिकरणम्॥

कम्पनात्॥३९॥ अस्यानुप्रसक्तेनापशूद्रविचारेण न सङ्गतिरिति व्यवहितेनोच्यते। शब्दादेव प्रमित इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मैक्यबोधेत्युक्तम्। इह तु प्राणस्य स्वरूपेण कल्पितस्य न ब्रह्मैक्यसंभवो यतोऽनूद्येत, ततस्तदुपास्तिविधिरिति प्रत्यवस्थीयते। प्राणमेवाभिसंविशन्तीत्यत्र निरवेक्षकारणत्वपरैवकारश्रवणाद् ब्रह्मपरत्वम्, इह तदभावदत एव प्राण इत्यनेनागतार्थत्वमोपसंहारैकरूप्यस्यास्पष्टत्वाच्च प्रातर्दनविचारेणपीति। स्यादेतत् - तदेव शुक्रं तद् ब्रह्मेति च भयादस्याग्निस्तपतीति च प्राचीनपराचीनवचनसंदष्टतया ऽस्य तदेकवाक्यत्वादन्यत्र धर्मादिति ब्रह्मप्रकरणाच्च ब्रह्मपरत्वावगतेः कथं पूर्वपक्षोत्थानमत आह -

प्राणवज्रेति।

वायुपरिग्रहे वज्रशब्दः श्रुतिवृत्तः स्यादिति श्रुतिः। प्राणश्रुतिबलाद्वायुराध्यात्मिकः शारीरो वज्रश्रुतिबलाद्वाह्यश्च वायुरत्र प्रतिपाद्यः। न हि प्राणमात्रस्य वज्रोद्यमनहेतुना। उभयोश्च चिन्तनमेकं संवर्गविद्यावदिति न वाक्यभेद इति भावः। सर्वशब्दश्रुतिविरोधमाशङ्क्याह पूर्ववादी -

यद्यपि चेति।

मण्डूकप्लुत्येति।

यथा मण्डूको बहून् विहाय स्वपङ्क्तिगतमण्डूकं प्रति प्लवते एवं शब्दादिति प्रतिज्ञा व्यवहिताऽपि हेतुनाऽनुषज्यते इत्यर्थः। शब्दोऽत्र सर्वशब्दः। सवायुकस्य जगतः कम्पयितृत्वमुपपादयति -

ब्रह्मणो हीति।

ननु प्राणवज्रश्रुत्योः स्वार्थत्यागभयात्सर्वशब्दसंकोच उक्तः, कथं सवायुकजगत्प्रतीतिरत आह -

एतदुक्तमिति।

प्रधानस्याङ्क्षस्य वचनं प्रकरणमिति प्रकरणलक्षणं प्रस्तुते वर्तयति -

यत्खल्विति।

पृष्टं जिज्ञास्यत्वात्प्रधानं तस्य नियन्तृत्वादीनि प्रतिपत्तावङ्गानि प्रतिवचनेन निरुप्यन्त इति प्रकरणसिद्धिरित्यर्थः। यदिदं किं च जगत् तत्सर्वं प्राणे निमित्ते एजति चेष्टते। तच्च (फुट् नोट् - अयं ग्रन्थो धिकरणस्थवचनाधप्रकाशकः) तत एव निःसृतम् उत्पन्नम्। तच्च प्राणसंज्ञं जगत्कारणं महत्। विमेत्यस्माज्जगदिति भयम्। भयहेतुत्वं रूपयति -

वज्रमिति।

उद्यतं वज्रमित्यर्थः। पूर्वपक्षे तु प्राणे निमित्ते महद्भयहेतुर्वज्रमुद्यतं भवतीति व्याख्यातम्। तथा च मुख्यार्थो वज्रशब्दः। यदि तु सिद्धान्तेऽपि ब्रह्मणि निमित्ते वज्रमुद्यतमिति व्याख्यायेत, तदाऽपि वज्रशब्द उपलक्षणार्थः स्याद्; वज्रब्रह्मणोरसाधारणसंबन्धाभावादिति। वायुरेव व्यष्टिर्विशेषः। समष्टिः सामान्यम्। शुक्रं ज्योतिष्मत्। अस्येश्वरस्य भयादग्निसूर्यौ तपतः। इन्द्रादयस्तु धावन्ति स्वस्वकार्येषु। निर्विष्टानपेक्ष्य मृत्युः पञ्चमः। भीषा भयेन॥३९॥

इति दशमं कम्पनाधिकरणम्॥(फुट् नोट् - तत्र सूत्रम् १ - कम्पनात्॥३९॥

ज्योतिदर्शनात् ॥४०॥ ज्योतिरादित्यो ब्रह्म वेति ज्योतिश्श्रुतेः परश्रुतेश्च संशयः। ननु ज्योतिषां ज्योतिरिति ब्रह्मापि ज्योतिःशब्दमतः कथमादित्य इति पूर्वपक्षस्तत्राह -

अत्रेति।

प्रकरणात्प्राणशब्दं ब्रह्मेति यथोक्तं तथा ज्योतिरप्यस्तु, तत्राह -

पूर्वमिति।

तत्र हि सर्वशब्दश्रुतिसंकोचोऽस्ति, न त्विह। परमिति तु श्रुतिर्विशेषणार्थेति न प्रधानार्थज्योतिःश्रुतेर्बाधिकेत्यर्थः। अत एव सङ्गतिः। समुत्थानश्रुतेश्च पीडनप्रसङ्गादित्यनुषङ्गः। ननु समुत्थानं विवेक इति दहराधिकरणे ( ब्र.अ.१.पा.३.सू.१४) व्याख्यातमत आह -

तथा हीति।

अप्रसिद्धेरित्यर्थः। परमिति विशेषणमादित्यस्यार्चिषः परत्वादित्यर्थः। आदित्यस्य समीपे ब्रह्मलोके स्थित्वा तत्रोत्पन्नज्ञानान्मुच्यते इत्यर्थः। एवमादित्ये वाक्या ऽऽ ञ्जस्यमुक्त्वा ब्रह्मपक्षे क्त्वाश्रुतिपीडामुक्तां प्रपञ्चयति -

ब्रह्मज्योतिरिति।

शरीरात्समुत्थायेति वाक्ये ज्योतिः प्राप्यावस्थितेऽस्य स्वरूपनिष्पत्तिरुच्यते, सा ब्रह्मज्योतिर्वादिनो न स्याद्; ब्रह्मण एव स्वरूपत्वात्, स्वरूपं प्राप्य स्वरूपं प्राप्नोतीति सङ्गतिप्रसङ्गादित्यर्थः। नन्वभिनिष्पत्तिः साक्षात्कार इत्यत आह -

न चेति।

साक्षात्काररूपाभिनिष्पत्तिर्ज्योतीरूपसंपत्तेः प्राप्तेः पूर्वा सती परत्वेन न वक्तव्या। या च मुखं व्यादाय स्वपितीतिवद्व्यत्यययोजना दहराधिकरणे कृता सा क्लिष्टेत्यर्थः। न चोपसंपत्तिरेव साक्षात्कारः; उत्कर्षवाचिपरशब्दयोगादुपसंपत्तेरेव प्राप्तित्वावगमादिति। ज्योतिरिति समुत्थाथेत्युपसंपद्येति तिसृभिः श्रुतिभिर्य आत्मेति प्रकरणबाधः। अनेन विपक्षे श्रुतिसंकोचान्नाडीखण्डप्रस्तुतादित्यप्ररकरणाच्च तेजो ज्योतिरिति पूर्वाधिकरणसिद्धान्तेन प्रत्यवस्थानात् संगतिरपि ध्वनिता। उपक्रममध्योपसंहारैकरूप्यान्निर्णीते आत्मनि ज्योतिरादिश्रुतयस्तदनुरोधेन नेतव्या इत्याह -

यत्खल्विति।

अत्र हि य आत्मेत्यात्मा प्रतिज्ञात एतं त्वेव त इति परामृष्टः स उत्तमः पुरुष इत्युपसंहृतः। प्रकरणमनुरुध्य श्रुतिभङ्गेऽधिकरणविरोधं शङ्कते -

तदिति।

ज्योतिष्टोमे श्रूयते -

तिस्र एवेत्यादि।

उपसद इष्टिविशेषाः, तन्त्रित्वं ज्योतिष्टोमस्यैव, द्वादशत्वं तु साहस्योताऽहीनस्येति चिन्ता। साह एकाहत्वाद् ज्योतिष्टोमः, अहीनोऽहर्गणसाध्यत्वाद् द्वादशाहादिः; अहः खः क्रतुसमूह इति स्मृतेः, खस्येनादेशात्। अत्रत्यं पूर्वपक्षं प्रस्तुतेऽतिप्रसङ्गप्रदर्शनार्थमाह -

प्रकरणेति।

अहीनश्रुतिरहर्गणे रूढा। भगवास्तु पाणिनिः स्वरार्थं प्रत्ययमनुशशास। सा ज्योतिःश्रुतिरिव ब्रह्मप्रकरणरुद्धा साहमभिदधीत, तत्रैव च द्वादशोपसत्तां विदधीत। तत्किं विधत्ताम्। अयुक्तं हि विधातुमुत्कर्षस्य सिद्धान्तितत्वादित्यर्थः। अवयवव्युत्पत्त्येत्युक्तम्, तामाह -

स हीति।

सर्वप्रकृतित्वेन हीयते कुतश्रिन्न कृत्स्नाङ्गविधानात्, न न्यूनो ज्योतिष्टोम इत्यर्थः। अहीनशब्दस्यागर्हणे रूढत्वान्न दुर्बलावयवप्रसिद्ध्या साह्नवाचिताऽतश्च द्वादशत्वस्य न साह्ने निवेश इति द्वादशाहादावुत्कर्ष इति यथाभाष्यं सिद्धान्तः। अत्र वार्तिककारपादसंमतं सिद्धान्तमादर्श्य विरोधं परिजिहीर्षुर्यथास्थितसिद्धान्तमध्ये एकदेशमनुजानाति -

अवयवेति।

द्वादशोपसत्तायाः प्रकरणे विधानाभावेऽपि द्वादशाहीनस्येति वाक्यस्य न प्रकरणादुत्कर्ष इत्याह -

नापीति।

प्रतिज्ञाद्वयमिदम्। इतः प्रकरणादिदं वाक्यं नापकृष्येतापकृष्टं च सदहर्गणे द्वादशोपसत्तां न विधत्त इति। तत्राद्यां प्रतिज्ञामुपपादयति -

परेति।

यदि विधिपरं सदिदं वाक्यमकृष्येत, ततोऽहीनधर्मं ज्योतिष्टोमप्रकरणे विधत्त इति स्यात्, तच्चान्यायम्; कुतः? इत्यत आह -

असंबद्धेति।

मध्ये प्रकृतासंगतविधाने तत्पदैः प्रकरणं विच्छिद्येत। पुनस्तदुद्धारेणानुसन्धाने सति क्लेशः स्यादिति। यदि नापकर्षो वाक्यस्य, किं तर्हि प्रयोजनमत आह -

तेनेति।

द्वाशोपसद इति वाक्येन द्वादशाहप्रकरणे विहिता द्वादशोपसत्ता तद्विकृतिषु अतिदेशप्राप्ताऽनेन वाक्येन ज्योतिष्टोमेऽनूद्यते त्रित्वविधिमौचित्येन स्तोतुम्। अहीनो हि महाँस्तस्य द्वादश साह्नस्तु शिशुस्तस्य तिस्र इत्यर्थः। अनेन द्वितीयाऽपि प्रतिज्ञा समर्थिता प्राप्तत्वान्न विधिरिति॥

निवीतादिवदिति।

‘‘निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामि’’ति दर्शपूर्णमासयोराम्नायते। तत्रोपवीतं विधीयते एव। इतरयोस्तु विधिरुतार्थवाद इति संशये सत्यपूर्वार्थलाभाद् मनुष्यशब्दस्य च मनुष्यप्राधान्याभिधायित्वात्तत्प्रधाने आतिथ्ये कर्मणि निव्यातव्यं पित्र्ये च प्राचीनमाव्यातव्यम् इति पूर्वपक्षे राद्धान्तः। प्राप्तं हि मनुष्याणां क्रियासु सौकर्याय कण्ठालम्बिवस्त्रधारणं देहार्धे बन्धनं वा निवीतम्। प्राप्तं प्राचीनावीतं वचनान्तरेण पितृयज्ञे। तदनुवादेन निवीतमित्यादिरर्थवाद उपवीतं स्तोतुमिति। ननु यदि द्वादशोपसत्तावाक्यस्य प्रकरणादनुत्कर्षः कथं तर्हि जैमिनिरपकृष्येतेत्युत्कर्षमाहात आह -

तस्मादिति।

द्वादशोपसत्तायाः प्रकरणेऽङ्गत्वेन निवेशाभावाभिप्रायोऽपकर्षशब्द इत्यर्थः। ज्योतिष्टोमप्रकरणाम्नातवाक्यस्य नापकर्ष इत्यधस्तादन्वयः। तदेवं द्वादशोपसत्तावाक्यस्य प्रकरणनिवेशसमर्थनेन प्रतिबन्दी निरस्ता। ननु तर्हि पूष्णोऽहं देवयज्यया प्रजया च पशुभिरभिजनिषीयेत्यादीनाम् इष्टदेवतानामस्मरणाख्यानुमन्त्रणार्थमन्त्राणां दर्शपूर्णमासप्रकरणात् नोत्कर्षः स्यात्तत्राह -

पूषादीति।

दर्शपौर्णमासिकाग्न्यादिदेवतानुमन्त्रणमन्त्रनिरन्तरपाठात् पूषादिमन्त्राणां नाग्नेयादिविधिभिरर्थवादत्वेन समभिव्याहारावगतिः। तदिदमुक्तम् -

अगत्येति।

यत्र निनीष्यन्ते तत्रान्यतो न प्राप्तिरित्याह -

पौष्णादौ चेति।

अस्तु तर्हि ज्योतिर्वाक्येष्वपि श्रुतिवशादादित्यवादिनो निर्गुणप्रकरणानुपयोगादर्चिरादिमार्गे च सोपयोगत्वादुत्कर्षस्तत्राह -

इह त्विति।

तुशब्दो नेत्यर्थे। इह ज्योतिर्वाक्ये नोत्कर्षः इत्यर्थः। हेतुमाह -

अपकृष्टस्येति।

फलस्य ब्राह्मलौकिकभोगस्योपायो मार्गस्तत्प्रतिपादकः अर्चिरादिमार्गोपदेशः तेऽर्चिषमभिसंभवन्तीत्यादिरतिविशदः। मार्गपर्वत्वेनादित्यस्तत्र स्वशब्दोपात्तः संवत्सरादित्यमिति। ज्योतिर्वाक्ये तु ज्योतिः शब्दमात्रं श्रुतं न मार्गोऽतश्चाविशदमिदमेकदेशमादित्यं वदद्वदेत्ततश्चास्य संपूर्णमार्गोपदेशकेऽर्चिराद्युपदेशेनोत्कर्षः; निष्प्रयोजनत्वादित्यर्थः। ननु यद्यर्चिरादिमार्गे प्राप्त आदित्यस्तर्हि मैवं ज्योतिर्वाक्यं पूषादिमन्त्रवदुत्कर्षि, एकदेशाभिधानेन त्वर्चिरादिमार्गं निर्गुणप्रकरणेऽनुवदद् ब्रह्मध्यानं स्तोतुं सायासोऽर्चिरादिपथः, इदं तु निरायासमितीत्यत आह -

न च द्वादशेति।

अस्तु तर्हि द्वादशत्ववाक्येऽपि श्रौतार्थसंसर्गपरत्वलोभेन विधित्वमिति चेत्तत्र वक्तव्यम्। किमहीनशब्दे रूढिमभङ्क्त्वा वाक्यं श्रौतार्थमाश्रीयेतोत भङ्क्त्वा। नाद्य इत्याह -

द्वादशेति।

अहीनधर्मस्येह विधौ प्रकरणं विच्छिद्येत विच्छेदस्य चायुक्तत्वं द्वादशाहादौ च प्राप्तद्वादशोपसत्तानुवादस्य च निष्प्रयोजनत्वादित्यर्थः। न द्वितीय इत्याह -

न चैतदिति।

उपसदोऽवच्छेत्तुं विंशतेस्त्रित्वद्वादशयोर्विकल्पापत इत्यर्थः। समुच्चये पञ्चदशोपसत्तापातस्तिस्र एवेत्येवकारविरोधश्चेति। अपि च तिस्र उपसदो द्वादशेत्येतावताऽलम्, यद्युभयोः संख्ययोः प्रकरणे निवेशः, वृथा साह्नाहीनशब्दौ, प्रकरणादेव संख्ययोर्ज्योतिष्टोमसंबन्धसिद्धेरित्याह -

साह्नेति।

यदा त्वहीनशब्दोऽहर्गणवाची, तदा स तावदवश्यं प्रयोक्तव्यस्ततस्तिस्र इत्येवोच्यमाने त्रित्वमप्यानन्तर्यादहीने स्यात्। तन्निवृत्तये साह्नशब्दोऽप्यर्थवानिति भावः। ज्योतिर्वाक्ये तु मुख्यार्थेन प्रकरणविच्छेदादिरित्याह -

इह त्विति।

प्रकरणात् श्रुतेर्बलवत्त्वेऽप्यानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायात् ज्योतिश्श्रुतेश्च मुख्यार्थत्वे आनर्थक्यस्योक्तत्वात्। प्रकरणानुगुण्येन ज्योतिः परं ब्रह्मेत्यर्थः। नन्वादित्यस्येत्यप्यस्ति प्रकरणम्; ‘स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छती’ति प्रस्तावादित्युक्तमनुवदिति –

यत्त्विति।

परिहरति –

नेति।

दहरविद्याफलं ब्रह्मलोकावाप्तिरादित्यद्वारा उक्ता। इदं तु य आत्माऽपहतपाप्मेत्यादिनिर्गुणप्रकरणमित्यर्थः। दहरविद्या च नाडीखण्डात्पूर्वं प्रस्तुतेति न प्रकरणोत्कर्षशङ्का। नन्वात्यन्तिकमोक्षोऽपि ब्रह्मलोकद्वारा प्राप्यतामिति, तत्र वक्तव्यम् - किं मोक्षस्य गतिपूर्वकानाप्यतत्वमङ्गीकृत्यैतद्वाक्यं क्रममुक्तिपरमित्यभिमतम्? उत नियमेन गतिपूर्वप्राप्यत्वमिति। नाद्य इत्याह -

न चेति।

तस्माद्विद्वच्छरीराद् अत्रैव ब्रह्मणि समवनीयन्ते लीयन्ते। न द्वितीय इत्याह -

न च तद्द्वारेणेति।

तच्छब्देन ब्रह्मलोकमाह। यत्तूपसंपद्येति क्त्वाश्रुत्यनुपपत्तिरिति, तत्राह -

तस्मादिति।

आदित्यमुपसंपद्येति व्याचक्षाणानां मध्ये ब्रह्मलोकप्राप्तिव्यवायाङ्गीकारेण क्त्वाश्रुत्यनाञ्जस्यं तु तुल्यमित्यर्थः। तदेवं प्रकरणात् श्रुतिभङ्गमभिधाय श्रुतिवशादप्याह -

अपि चेति।

न च उत्तमः, पुरुषं प्राप्ता न तु प्राप्यं ज्योतिरिति - वाच्यम्; परत्वेन विशेषितस्य ज्योतिष एवोत्तमत्वेन विशेष्टुं योग्यत्वादिति।

भाष्ये करणादिति।

द्युसंबन्धप्रत्यभिज्ञातस्य ब्रह्मणो यच्छब्देन परामर्शादित्यर्थः। ‘अथ या एता हृदयस्य नाड्य’ इति नाडीखण्डे। अथ विशेषविज्ञानोपरमानन्तरं, यत्र काले, एतदिति क्रियाविशेषणम्। एतदुत्क्रमणं करोति। अथ तदैतै रश्मिभिरूर्ध्वम् आक्रमते उपरि गच्छतीत्युपक्रम्य आदित्यं गच्छतीति श्रुतम्।।४०॥

इति एकादशं ज्योतिरधिकरणम्॥

आकाशोऽर्थान्तरत्वादिव्यपदेशात्॥४१॥ अत्राकाशब्रह्मश्रुतिभ्यां संशयः। ‘‘सर्वाणि भूतान्याकाशादेव समुत्पद्यन्ते’’ इत्यत्र हि सर्वजगदुत्पत्तेः, एवकारावगतेर्नि(फुट् नोट् - तत्र सूत्रम् १ - ज्योतिर्धर्शदात्॥४०॥ रपेक्षकारणत्वस्य, प्रत्युक्तिसामानाधिकरण्यसामर्थ्यस्य च दर्शनाद् ब्रह्मपरत्वम्, नैवमिहेत्यगतार्थत्वमाह -

तथापीति।

हेतूनां प्रसिद्धेर्भूताकाशो न तु ब्रह्मेति वक्ष्यमाणेनान्वयः। अनन्तराधिकरणेनागतार्थत्वसंगतिं वक्ति -

अकस्माच्चेति।

पूर्वत्र हि प्रकरणादानर्थक्यहतश्रुतिर्नीता, इह तु न ब्रह्मप्रकरणम्; नाप्याकाशश्रुतेरानर्थक्यम्, नामरूपाधिष्ठानब्रह्मप्रतिपत्त्यर्थत्वात् आकाशस्येति भावः। तर्हि नामरूपान्यत्वं ब्रह्मणो लिङ्गम्, ब्रह्मशब्दश्रुतिश्च नेत्याह -

नामरूपे इति।

नामरूपे अन्तरा ब्रह्मेति श्रुतिर्नामरूपयोर्निर्वहितुराकाशस्यान्तरालत्वं नाचष्टे, किंतु ब्रह्मणः। ततः किमत आह -

तेनेति।

निषेधमुखेनैतदेव विशदयति -

न त्विति।

निर्वोढा य आकाशः स नैव ब्रह्म। अन्तरालभूतं वा यद् ब्रह्म तदपि नैव निर्वोढ्रित्यर्थः। एवं च ब्रह्मशब्दश्रुतिरपि ब्रह्मण्येव नाकाश इत्युक्तम्। अभिधानाभिधेयनामरूपनिर्वाहकत्वं नियन्तृत्वम्, तन्न नभसि सत्यप्यवकाशदातृत्वे घटत इत्याह -

न चेति।

नामरूपकर्तृत्वेन वाक्यान्तरगतब्रह्मप्रत्यभिज्ञामाह -

अनेनेति।

नन्वनेन जीवनेत्यत्रानुप्रवेशव्याकरणयोः क्त्वाप्रत्ययेनैककर्तृकत्वं प्रतीयते, अनुप्रवेशे च जीवः कर्तेति स एव व्याकरणेऽपि कर्ता स्यात्तथा च न व्याकर्तृत्वादिह ब्रह्मप्रत्यभिज्ञा, अत आह -

ब्रह्मरूपतया चेति।

जीवस्य व्याकर्तृत्वप्रतीतावपि न विरोधस्तस्य ब्रह्माभेदादित्यर्थः॥४१॥

इति द्वादशं अर्थान्तरत्वाधिकरणम्॥ (फुट् नोट् - तत्र सूत्रम् १ - आकाशोऽर्थन्तरत्वादिव्यपदेशात्॥४९॥)

सुषुप्त्युत्क्रान्त्योर्भेदेन॥४२॥ अत्र विज्ञानमयशब्दादुपसंहारस्थसर्वेशानादिशब्दाच्च विशयः। अङ्गुष्ठमात्र इत्यत्र नोपक्रमोपसंहारौ जीवे, अत्र तु स्त इत्यगतता। पूर्वत्र नामभेदरूपाभ्यां भेदव्यपदेशाकाशं ब्रह्मेत्युक्तं, तत्र भेदव्यपदेशोऽनेकान्तोऽसत्यपि भेदे ‘प्राज्ञेनात्मना संपरिप्वक्त’ इति भेदोपचारदर्शनादित्याशङ्क्याह - अत्रापि मुख्यभेदपरत्वसाध्यत्वात्सङ्गतिः (फुट् नोट् – घ - पुस्तके ‘साधनात्सङ्गतिः ‘ इति पाठः)। पूर्वपक्षमाह –

आदीति।

आदावन्ते च विज्ञानमयशब्दाद् मध्ये स्वप्नाद्युक्तेः संसारिपरे ग्रन्थे सति ‘महानज’ इत्यादि सर्वं संसारिण्येव योज्यत इत्यर्थः। संपिण्डिता विषयसंबन्धकृतविक्षेपाभावाद् घनीभूता प्रज्ञा यस्य स तथा, संसार्येवानूद्यत इति। अनुवादप्रयोजनं कर्मापेक्षितकर्तृस्तुतिः। नन्वसिद्धे ईश्वर धर्मिणि भेदव्यपदेशोऽसिद्ध इत्याशङ्क्याह -

अयमभिसंधिरिति।

द्वितीयं विकल्पं निराचष्टे -

न चात्रेति।

नन्वात्मशब्दो जीवस्वभाववचन इत्युक्तं, तत्कथं तदतिरिक्तेश्वरव्यपदेशोऽत आह -

न च प्राज्ञस्येति।

ननु जीवस्यापि शास्त्रादिविषयप्रज्ञाप्रकर्षोऽस्ति, अत आह -

असंकुचद्वृत्तिरिति।

ननु भेदेन जीवपरव्यपदेशे वाक्यं भिद्येतात आह -

लोकसिद्धमनूद्येति।

नन्वतिलाघवादनुवाद एव भवतु, नेत्याह -

न त्विति।

नन्वभ्यासाज्जीवपरत्वं वाक्यस्य, नेत्याह -

अत एवेति।

यत एवानुवादमात्रमनर्थकमत एव प्राणादिविवेकार्थमुपक्रमे जीववर्णनं स्वप्नेदेर्व्यभिचारित्वादनात्मधर्मत्वार्थं मध्ये निर्देशः। अन्ते च शोधितजीवं परामृश्य तस्य ब्रह्मत्वं बोध्यत इति विवेकः। उपरितनवाक्यसंदर्भोऽत ऊर्ध्वं विमोक्षायैव ब्रूहीत्यादिः॥४२॥ वशिशब्दं व्याख्याति -

वश इति।

वशः शक्तिरस्यास्तीति वशी। ततः फलितमाह

सर्वस्य जगत इति।

अयमीश्वरः सर्वस्य जगतः प्रभवति प्रभुर्भवति प्रभावं प्रकटयति।

व्यूहेति।

व्यूहेन विभागेन जगतोऽवस्थाने साध्ये समर्थ इत्यर्थः। शक्तस्य तथैव करणं सर्वेशानपदार्थः। प्रकृतं जगत्प्रति नियन्तृत्वं सर्वाधिपतित्वम्॥ विज्ञानमन्तःकरणम् (फुट् नोट् - अनेन ग्रन्थेन अधिकरणगतश्रुतिवाक्यान्तर्गतकठिनपदानामर्थः प्रकाश्यते।) तन्मयः तत्प्रायः। प्राणेषु हृदीति व्यतिरेकार्थे सप्तम्यौ, प्राणबुद्ध्यतिरिक्त इत्यर्थः। अन्तरिति बुद्धिवृत्तेर्विविनक्ति, ज्योतिरित्यज्ञानाद्भिनत्ति। पुरुषः पूर्णः। योऽयमेवभूतः स आत्मेति याज्ञवल्कीयं प्रतिवचनं कतम आत्मेति जनकप्रश्नानन्तरम्। अन्वारूढः अधिष्ठितः। उत्सर्जद् वेदनातः शब्दं कुर्वन् बुद्धौ ध्यायन्त्यां ध्यायतीव चलन्त्यां चलतीव। बुद्धान्तो जाग्रत्, अतः कामादिविवेकानन्तरं, विमोक्षाय ब्रूहीति जनकः पृच्छति। तेन जाग्रद्भोगादिना, अनन्वागतो भवत्यसङ्गत्वादिति प्रतिवक्ति याज्ञवल्क्यः। तदा सुषुप्तौ, हृदयस्य बुद्धेः संबन्धिनः शोकाँस्तीर्णो भवति॥४३॥

इति (फुट् नोट् –तत्र सूत्रे २ - सुषुप्त्युत्क्रान्त्योर्भेदेन ४२ पत्यदिशब्देभ्यः ४३॥) त्रयोदशं सुषुप्त्युत्क्रान्त्यधिकरणम्॥ इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंस-परिव्राजकाचार्य-भगवदमलानन्दकृते वेदान्तकल्पतरौ प्रथमाध्यायस्य तृतीयः पादः समाप्तः॥ अस्मिन् पादे आदितः अधिकरणानि १३ ३२ सूत्राणि ४३ १०६

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च॥१॥ अर्वाचीनमहत्तत्त्वापेक्षया पूर्वकालत्वमविप्रकृष्टमव्यक्तस्य परशब्द आह -

तथा च कारणत्वसिद्धिः

। नियतप्रक्सत्त्वं हि तदित्यर्थः। ननु सिद्धे गतिसामान्ये का शङ्का? महतः परमित्यादिवाक्यार्थानिर्णये वा कथं गतिसामान्यसिद्धिः? उच्यते – असाधि प्रतिवेदान्तं ब्रह्मकारणतागतिः। प्रतिवाक्यं न तत्सिद्धिः क्व चिदन्यार्थदर्शनात्॥ पूर्वत्र हि प्रधानाद्येव सर्ववेदान्तार्थ इति प्रत्यवस्थिते तन्निषेधेन सर्ववेदान्तेषु ब्रह्मावगतिः साधिता, इह तु तामुपेत्य प्रधानाद्यपि कारणत्वेन समन्वयविषयः। न चानेककारणवैयर्थ्यम्; कल्पभेदेन व्यवस्थोपपत्तेरिति प्रत्यवस्थीयते। सूत्रकारोऽप्यपिधब्दमेकशब्दं च प्रयुञ्जानो ब्रह्माङ्गीकारेण पूर्वपक्षः क्चाचित्कश्चायं विचार इति सूचयांबभूव। अव्यक्तपदं प्रधानपरं शरीरपरं वेति स्मार्तक्रमश्रौतपारिशेप्याभ्याम् उभयोः प्रत्यभिज्ञानात्संशयः। सांख्यानां श्रुतिस्मृत्योरनुमानसिद्धानुवादित्वेन तुल्यता। भाष्ये स्मृतिशब्दः सांख्यस्मृत्यभिप्राय इत्याह -

सांख्येति।

शब्दादिहीनत्वादिति भाष्ये गुणवैषम्योत्तरकालभाविशब्दादिहीनत्वमुक्तं प्रधानकालेऽपि सूक्ष्मशब्दादिभावादित्याह -

शान्तेति।

शान्तः सात्त्विको घोरो राजसो मूढस्तामसः। श्रुतिस्मृतिन्यायेतिभाष्यं व्याख्याति -

श्रुतिरिति।

भेदानां महदादिविशेषाणां कारणमव्यक्तमस्तीति संबन्धः। कुतः?

परिमाणात्।

महदादि, अव्यक्तकारणकम्, अव्यापित्वाद् घटवत्। सत्कार्यवादे प्राक्कार्योत्पत्तेरव्यक्तकार्यत्वात्कारणेऽव्यक्तशब्दप्रयोगः। तावेव प्रतिज्ञादृष्टान्तौ। समन्वयात्तदनुरागविज्ञानवेदनीयत्वात्। यद्येन समन्वितमिति सामान्येनात्र व्याप्तिः। कारणशक्तितः कार्यस्य प्रवृत्तेः कारणगताव्यक्तकार्यं हि शक्तिरित्यर्थः। इदमस्य कारणमिदमस्य कार्यमिति विभागात्। अव्यक्तकार्यसत्त्वरहितस्य नृशृङ्गवत्कारणत्वायोगादित्यर्थः। प्रलयावस्थायां वैश्वरूप्यस्याविभात् लीनानभिव्यक्तकार्याश्रयोऽस्त्यव्यक्तमिति॥ अव्यक्तपदेन किं रूढेः प्रधानप्रतीतिर्योगाद्वा स्मार्तक्रमानुगृहीतयोगाद्वा। नाद्य इत्याह -

लौकिकी हीति।

य एव लौकिका इति शाबरं वचः। लोकवेदयोः शब्दार्थभेदः; लौकिका वैदिका इति व्यपदेशभेदादेतद्वै दैव्यं मधु यद् घृतमिति देवमधुनो घृतत्वाभिधानाच्चेति प्रापय्य राद्धान्तितम्। लोकावगतसंबन्धशब्दानां वेदे बोधकत्वोपपत्तेरैक्येन च प्रत्यभिज्ञानाद् घृते मधुत्वस्य स्तुत्यर्थत्वाच्चैक्यं शब्दार्थयोरिति। द्वितीयं प्रत्याह -

योगास्त्विति।

तृतीयं निराकरोति -

प्रकरणेति।

अयं भावः, इह विष्णोः पदं पुरुषः प्रधानं तत्प्रतिपत्त्यङ्गानि इन्द्रियादीनि ‘‘इन्द्रियेभ्यः परा’’ इत्यादिना निर्दिश्यन्ते। तानि ‘‘चात्मानं रथिन’’मिति वाक्ये रथादिरूपितान्येव गृह्यन्ते। एवं स्थिते ‘‘महतः परमव्यक्तमित्यत्र पौरुषेयवाक्यस्थपदार्थतत्क्रमापेक्षप्रधानप्रत्यभिज्ञा दुर्बला। प्रकरणाधीतपदार्थाश्रयत्वादिभिधेयाकाङ्क्षाश्रयत्वाच्च पारिशेष्यनिमित्ता शरीरप्रत्यभिज्ञा प्रबला। तथा हि - रथत्वेन रूपितं शरीरं पुरुषपरत्वप्रतिपादकवाक्यान्वयमपेक्षते; इतरथा निष्प्रयोजनत्वात्, न च स्वाभिधेयावरुद्धा इन्द्रियादिशब्दास्तदभिदधतीति अस्ति अव्यक्तशब्दापेक्षा शरीरस्य। अव्यक्तशब्दोऽपि यौगिकत्वादभिधेयविशेषाकाङ्क्षी स्वशब्दोपात्तेन्द्रियाद्यभिधातुमक्षमः शरीराकाङ्क्षीति शरीरमेवाव्यक्तशब्दार्थ इति।। ‘‘विषयांस्तेषु गोचरा’’ निति श्रुति व्याचष्टे -

तेष्विति।

विषयानुद्दिश्य मार्गत्वं विधेयम्। स्वगोचरमालम्ब्य चलन्तीति विपरिणतानुषङ्गः। ‘‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण’’ इत्येतद्व्याचष्टे -

आत्मेति।

युक्तमिति भावे निष्ठा, क्रियाविशेषणं चैतत्तदेव दर्शयति -

योग इति।

प्रकरणपरिशेषाभ्यामित्वुक्तम्। ननु प्रकरणं कर्तव्यस्येतिकर्तव्याकाङ्क्षस्य वचनम्, कथमिह तदित्याशङ्क्याह -

प्रधानस्येति।

प्रधानस्येत्युक्तेऽर्थादाकाङ्क्षाऽङ्गविषयेति सिद्ध्यति। काण्डद्वयानुगतं लक्षणमिदमेवेत्यर्थः। किं प्रधानमत आह -

गन्तव्यमिति।

इन्द्रियादयश्च तस्य परत्वप्रतिपत्तावङ्गम्। संयतोश्चेतत्प्राप्तावपि। यस्त्वविज्ञानवानित्यादिश्रुतौ भाष्ये चासंयमाभिधानमनुपयोगीत्याशङ्क्याह -

असंयमेति।

संयमाभावे मोक्षाभावेन तद्भाव एव दृढीकृत इत्यर्थः। यदुक्तं पूर्ववादिना महतः परमित्यत्र परशब्दः कारणवचन इति, तत्राह -

परशब्द इति।

मन आदौ अर्थादिकारणत्वासंभवादस्मिन्प्रकरणे परशब्दः श्रैष्ठ्यवचन इत्यर्थः। इहाध्यात्मप्रकरणे आन्तरत्वात् श्रैष्ठ्यं वक्तव्यम्, तदर्थेषु नास्तीति शङ्कते -

नन्विति।

नामैव शब्दो वागभिव्यङ्ग्यः। स एव श्रोत्रेण ग्राह्य इति द्विरुपात्तः। कामो मनसो विषयः, कर्म हस्तयोः। ननु मनस इन्द्रियत्वेन अर्थेभ्योऽपरस्य कथं तेभ्य एव परत्वम्? अत आह -

ग्रहत्वेनेति।

‘आत्मानं रथिनम्’ इत्यत्र य आत्मशब्दः स एव ‘बुद्धेरात्मा’ इत्यत्र प्रत्यभिज्ञायत इत्यभिप्रायेणात्मशब्दादिति भाष्यम्, अन्यथाऽऽत्मशब्दमात्रस्य प्रकृतरथिग्रहणहेतुत्वाभावादित्याह -

तत्प्रत्यभिज्ञानादिति।

इन्द्रियद्वारा बुद्धिस्था भोग्यास्ततः पुरुस्वाम्यं भोग्याश्रयत्वम्। आयनाद् व्याप्तेः। बुद्धिमात्रादस्मदादिबुद्धेः। ननु रथिनः संसारिणः कथमसंसार्यात्मत्वेन निर्देशोऽत आह -

तथा हीति।

अञ्चत्यवगच्छति। भाष्योदाहृतायां ‘यच्छेद्वा नसी’ इति श्रुतौ वाक्च्छब्दे द्वितीयालोपश्छान्दस इत्यर्थः। शरीरमेव रूपकेण रथेन विन्यस्तं रूपितम् इति सूत्रपदार्थः॥१॥

अनुशयः असंतोषः। भत्सरं सोमम्, श्रीणीत मिश्रयेत्। एवं सतीति। कार्यकारणाभेदे सतीत्यर्थः। सेश्वराणामीश्वराद्, अनीश्वराणां जीवेभ्य इति संबन्धः। प्रमाणैर्न व्यज्यते न निरूप्यत इत्यव्यक्तत्वमित्यर्थः॥२॥

तदाश्रयत्वात्

तद्विषयत्वादित्यर्थः।

आधारवाची

आश्रयशब्दः। अविद्याऽप्येकेति भ्रमादाशङ्कते -

स्यादेतदिति।

अविद्या ब्रह्मगता निवर्तते, न वा। प्रथमे सर्वमुक्तिः, द्वितीये मुक्तानां पुनर्बन्ध इति अविद्यादाहमुपेत्य सर्वमुक्तेरापादनादपरिहारत्वमाशङ्क्य भाष्यभावमाह -

अयमिति।

पूर्वभ्रमक्लृप्तेन अप्रधानेनात्मनोऽविवेकसंभवादविवेकप्रतियोगित्वेनापि कृतं प्रधानेनेत्यर्थः। यद्यविद्या नाना, कथं तर्हि श्रुतावव्यक्तमित्येकवचनमित्यत आह -

अविद्यात्वेति।

निमित्ततयेति।

प्रेरकतया, अविद्याविषयत्वेन च तत्प्रेरकत्वं गन्धस्येव घ्राणं प्रति।

उपादानतयेति।

जगद्भ्रमाधिष्ठानतयेत्यर्थः।

विद्यास्वभावे इति।

निरवद्यमिति।

श्रुत्यवगतनिर्दोषज्ञानात्मत्वं विद्यास्वभावत्वम्। एवं चिद्रूपत्वं जीवोऽपि समम्, वाक्यजं प्रमारूपत्वमसिद्धमिति केषां चिदाक्षेपोऽनवकाशः। स्वरूपमविद्याश्रयो बिम्बं तु ब्रह्मनिरवद्यमिति किं न स्यादिति चेद्, न; बिम्बस्य स्वरूपातिरेके कल्पितत्वात्, अनतिरेके स्वरूपस्यैव निरवधित्वात्। मुखमात्रस्य तूपाधियोगः परिच्छिन्नत्वादविरुद्धः। अपि च दर्पणाद्युपाधेर्विषय एव मुखं नाश्रयः। न तु निर्विशेषब्रह्मस्वरूपस्याविद्यासंबन्धसंभवः, इत्यनादिन्यौ जीवाविद्ये परस्पराधीनतया अविद्यातत्संबन्धवदुपेये इति। ये त्वाहुः - ब्रह्मणो जीवभ्रमगोचरस्याधिष्ठानतयोपादानत्वे सोऽकामयत स्वयमकुरुतेति च न स्यात्, प्रतिजीवं च भ्रमासाधारण्याद् जगत्साधारण्यानुभवविरोधः, भ्रमजस्य चाकाशादेरज्ञातसत्त्वायोगः, तस्मादीश्वरस्य प्रतिबिम्बधारिणी साधारणी माया। तद्यष्टश्च जीवोपाधयोऽविद्या मन्तव्या इति। तान् प्रति भ्रूमः। अकामयताकुरुतेति च कामकृती जीवाविद्याविवर्तः। न च ब्रह्मविक्रिया; विवर्तश्च विवर्ते हेतुः सर्प इव विसर्पणस्य। प्रतिमाणवकवर्त्यविद्याभिर्वर्णेषु स्वरादिवैशिष्ट्येन क्लृप्तोपाध्यायवक्रोद्वतवेदस्येव प्रपञ्चसाधारण्यप्रसिद्धिः। अधिष्ठानवर्णसाधारण्यत्तत्साधारण्यं प्रस्तुतेऽपि समं सर्वप्रत्यक्त्वाद् ब्रह्मणः। अज्ञातसत्त्वं प्रपञ्चस्य व्यावहारिकसत्त्वात्। न च जीवाविद्याजत्वे तदयोगः; स्वेन्द्रियादिवदुपपत्तेः। यत्तु जीवस्य मनोवच्छिन्नत्वं भूतसूक्ष्मावच्छिन्नत्वं च दूषितम्, तदस्मदिष्टमेव चेष्टितम्; अस्माभिर्जीवस्यानाद्यविद्यावच्छेदाभ्युपगमादिति। अपि च – न मायाप्रतिबिम्बस्य विमुक्तैरुपसृप्यता। अवच्छेदान्न तज्ज्ञानात्सर्वविज्ञानसंभवः।। अधिष्ठाने तु जैवीभिरविद्या भिरपावृते। जगद्भ्रमप्रसिद्धौ किं साधारण्येह मायया।। ग्रहीतृस्थाया अप्यविद्याया ग्राह्ये स्वसमजडावभासहेतुत्वमविरुद्धम्, पित्तस्येव शङ्खे पीतिमप्रतिभासहेतुतेति विशदमशेषम्। यत एव ब्रह्माविद्याविषयोऽत एव ब्रह्मविषयबोधराहित्यं जीवानामाहेत्यर्थः। उपाधिभूताविद्यैवाप्रबोधेऽपि हेतुरित्याह –

सत्यामिति।

जीवाव्यक्तयोरनादित्वेन नियतं पौर्वापर्यं नास्तीति न पौर्वापर्ये च तन्नियम इति यद्यपि; तथापि जीवत्वनियामकेऽव्यक्ते पूर्वत्वमुपचरितमित्यर्थः। यथा बलीवर्दमानयेत्युक्ते गामानयेति प्रयोगे गोपदमितरगोविषयमेवमव्यक्तपदमित्यर्थः।

प्रकृतेति।

अप्रसङ्गेनेति च्छेदः। अव्यक्तपदस्य स्थूले देहे मुख्यत्वाभावादौपचारिकत्वं स्यान्न च तद्युक्तम्। सकृच्छ्रुतस्य सूक्ष्मस्थूलदेहविषयतया मुख्यगौणत्वेवैरुप्यापातादत आह -

न च मुख्ययेति।

अतत्परमिति च्छेदः। अन्नोपघातिनिराकरणाकाङ्क्षायां वक्तुस्तत्प्रयुक्तकाकपदं काकगतोपघातकत्वं लक्षयद्यथा काकतदितरसाधारणमेवं पुरुषपरत्वप्रतिपत्त्यर्थं तुल्यवदाकाङ्क्षितप्रस्तुतशरीरद्वयं छत्रिन्यायेन लक्षयत्यव्यक्तपदं न सूक्ष्ममेवाभिधत्त इत्यर्थः। पूर्वं मायाऽभिधानद्वारा शरीरलक्षणोक्ता, इदानीं तु सूक्ष्मशरीराभिधानद्वारेण, एवमपि हि प्रधानं निरस्तं भवतीति। त्वङ्मांसरुधिराणि मातृतः, अस्थिस्त्रायुमज्जानः पितृतः, एतैः घट्कोशैरारब्धं षाट्कौशिकम्॥३॥४॥५॥ व्यवहितं जीवविषयं प्रतिवचनमिति भाष्यस्थव्यवहितपदार्थमाह -

इत्यनेनेति।

हन्तेत्यादि सनातनमित्यन्तं परमात्मप्रतिवचनप्रतिज्ञावाक्यं तेन व्यवहितं यथेत्यादि जीवप्रश्नस्य प्रतिवचनमित्यर्थः। प्रश्नाभेदे दूषणमाह -

एकत्वे इति।

अग्न्यात्मविद्ययोः द्वित्वात्सूत्रस्थत्रिशब्दविरोध इत्यर्थः। परमात्मप्रश्नस्य जीवप्रश्नाद्भेदे पितुः सौ सौमनस्याग्निज्ञानात्मज्ञानविषयं यद्वरत्रयप्रदानं तत्रानन्तर्भावोऽन्यत्र धर्मादित्यादेः स्याच्चतुर्थत्वादित्यर्थः। अथ प्रश्नान्यथानुपपत्त्या वरान्तरं कल्प्येत, तत्राह -

तुरीयेति।

सन्तु त्रयो वराः परमात्मप्रश्नः तेष्वनन्तर्भूतोऽस्तु यथा सृङ्कां च गृहाणेत्यवृतामपि रत्नमालां प्रीत्या ददौ नेत्याह -

वरप्रदानान्तर्भावे इति।

महतः परमव्यक्तमिति प्रधानाख्यानमस्त्विति योजना। सृङ्कां चेति च शब्द एवाऽवृतैव माला दत्तेति गमयति, नैवं महतः परमित्यत्र। अतो वरप्रदानानुसारेणैवार्थप्रतिपादनम्। एक एव सन् देहादिव्यतिरेकधर्माद्व्यत्ययप्रवृत्त्यभेदाद् द्विःकृतः प्रश्न इत्यर्थः।

अत एवेति।

जीवपरयोरभेदादित्यर्थः। शतायुषः पुत्रपौत्रान् वृणीष्वेत्यादिस्तत्तत्कामः। त्वादृङ्नो भूयान्नचिकेतः प्रष्टेति विशेषणपरत्वात्तदीयप्रश्नप्रशंसा। जीवे पृष्टे तं दुर्दर्शमिति तद्व्यतिरिक्तपरमात्मात्मप्रतिवचनम् आत्मप्रश्ने कोचिदारप्रतिवचनवदसङ्गतम्। अत एव जीवप्रश्नतत्कर्तृप्रशंसाऽपि जीवस्य परमात्माभेदप्रमित्यर्थत्वेन दृष्टार्था स्यादित्याह -

यदि पुनरिति।

एवं प्रतिवक्तृप्रवृत्त्या जीवपराभेदं साधयित्वा शब्दप्रवृत्याऽपि साधयति -

अपि चेत्यादिना।

तदुत्तरे तस्य प्रश्नस्योत्तरे। तमेव विषयं यद्यवदध्याज्जानीयादित्यर्थः। यत्प्रश्नेति भाष्ये यच्छब्दो विषयपरो न प्रश्नपरः। विषयगौरवाद्धि प्रश्नप्रशंसेत्याह -

यस्मिन्निति ॥६॥

अधिकरणादाव्यक्तशब्दस्य पौरुषेयी रूढिर्वोदानुपयोगिनीत्युक्तम्, इदानीं महच्छब्दस्येव वेदविरोधाद्बाध्या च। अव्यक्तशब्दस्य प्रकरणादिना वेदे शरीरपरत्वावधारणादित्युच्यत इत्याह -

अनेनेति।

साङ्ख्यैः सत्तामात्रे महच्छब्दः प्रयुक्त इति भाष्यमयुक्तम्; तैर्बुद्धेर्महत्त्वेन स्वीकारादित्याशङ्क्याह -

पुरुषार्थेति।

अर्थक्रियाकारिणि सच्छब्दः प्रयुक्तः, पुरुषापेक्षितप्रयोजनकारि महत्तत्वं सत्तत्प्रत्ययोऽपि स्वरूपपरो न सामान्यवाचीत्यर्थः। कार्यानुमेयं महन्न प्रत्यक्षमिति मात्रशब्दः॥७॥ गूढ (फुट् नोट् - अधिकरणगतवचनस्थकठिनपदार्थानामर्धमाह) आत्मा, अग्न्या इवाग्न्या, सूक्ष्मवस्तुविषयत्वात् सूक्ष्मा॥ अशब्दमिति। शब्दादिगुणरहितम्। अभूतभौतिकमित्येतत्। अव्ययमपक्षयरहितम्। प्राक् प्रध्वंसाभाववर्जितम्। अनाद्यनन्तम् अत एव नित्यम्। महतः क्षेत्रज्ञात्परम्। ध्रुवमपरिणामि। निचाय्य ज्ञात्वा। मृत्युरज्ञानं तन्मुखं संसारः। स्वर्गाय हितं स्वर्ग्यम्। अध्येषि जानासि। लोककारणविराड् दृष्ठ्योपास्यत्वाल्लोकादिश्रित्योऽग्निः। याः स्वरूपतः, यावतीः सङ्ख्यातः, यथा वाऽग्निश्चीयते तत्सर्वं तस्मै नचिकेतसे उवाच। हन्त इदानीं गुह्यं गोप्यं, सनातनं चिरन्तनं ब्रह्म हे गौतम ते प्रवक्ष्यामीति ब्रह्मप्रतिवचनं प्रतिज्ञाय जीवं चाह। आत्मा मरणं प्राप्य यथा भवति तथा च प्रवक्ष्यामीति। योनिमन्ये देहिनः प्राप्नुवन्ति मानुषादिशरीरग्रहणाय अन्ये स्थावरं स्थाणुं संयन्ति कर्मज्ञानानुसारेण। स्वप्नजाग्रतोरन्तौ मध्ये उभे येनात्मनाऽनुपश्यति लोकः। इह देहे यच्चैतन्यं तदेवामुत्र परत्र। असंसारि ब्रह्म। यच्चामुत्र तदेवेह देहे अनुप्रविष्टं वर्तते य इह ब्रह्मात्मनि नानेव मिथ्या भेदं पश्यति स मरणान्मरणं प्राप्नोति। पुनः पुनर्म्रियते। त्वां बहवः कामा न लोलुपन्त, लुप्लृ च्छेदने श्रेयसो विच्छेदं न कृतवन्तः, ततो विद्यार्थिनं त्वां मन्ये वेद जानेऽहं पुरुषम्॥

इति प्रथममानुमानिकाऽधिकरणम्॥ (फुट् नोट् – तत्र सूत्राणि - ७ - आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च १ सूक्ष्मं तु तदर्हत्वात् २ तदधीनत्वादर्थवत् ३ ज्ञेयत्वावचनाच्च ४ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ५ त्रयाणाभेव चैवमुपन्यासः प्रश्नश्च ६ महद्वच्च॥७॥)

चमसवदविशेषात्॥८॥ अजामन्त्रः प्रधानपरः, उत तेजोबन्नरूपावान्तरप्रकृतिमायारूपपरमप्रकृत्योरन्यतरपर इति संशयः; अजाशब्दस्य तु छागतोऽपकृष्टस्य प्रधानमाययोस्तेजोबन्ने च गुणाद् वृत्तिसंभवात् पूर्वत्रार्थतः प्रधानप्रत्यभिज्ञाया अभावान्नाव्यक्तपदवाच्यतेत्युक्तम्, इह तु त्रिगुणत्वादिना प्रधानप्रत्यभिज्ञानात् तत्परो मन्त्र इति पूर्वपक्षमाह -

प्रधानमेवेति

एका चेति।

अनेन मायायाः प्रतिजीवं भेदादेकामित्येकत्वानुपपत्तिरुक्ता। न च गौणत्वं दोषः, समत्वादित्याह -

परेणापीति।

उपचारेण कारणे रोहितत्वाद्यस्तिकल्पने त्वस्तीति विभागः। दारशब्दो नित्यबहुवचनान्तः। तामेवाविद्ययेति भाष्ये तच्छब्दार्थो विषयज्ञानाधारः प्रधानकार्यमन्तःकरणमित्याह -

विषया हीति।

चितिशक्तिरात्मा स्वयं सुखादिरूपेणापरिणामिनी। परिणामिन्यां बुद्धौ वस्तुतः अप्रविष्टत्वादप्रतिसङ्क्रमा। अविद्ययेत्येतद्व्याचष्टे -

विपर्यासेनेति।

सांख्यानामप्यस्ति भ्रमः, स तु बुद्धावेवेति विशेषः। आत्मत्वेनोपगम्येत्येतद्विवृणोति -

बुद्धिस्थान इति।

विपर्याससिद्धबुद्ध्यैक्येन बुद्धिधर्मानात्मन्यभिमन्यमानेत्यर्थः। कृतत्वोपपत्तयेऽपवर्गशब्दस्तदुपायपर इत्याह -

गुणेति।

न चानुवादसामर्थ्यात् प्रमाणं कल्प्यं, विरोधादित्याह -

स चेति।।८।।

व्यवधानात् शाखान्तरेणानिर्णयमाशङ्क्याह -

सर्वेति।

गुणवचनरोहितादिशब्दैर्लक्षणयाऽपि निरूढ्या मुख्यवत्प्रत्यायकैः प्रतीतिमभिप्रेत्य सति मुख्यार्थसंभव इत्युक्तम्। नन्वजावदजेति गुणवृत्त्यङ्गीकारात् रूढिस्त्यक्ता, नेत्याह -

अत्र त्विति।

रूढेरपहृते योगे रूढार्थगुणयोगात्सिद्धा वृत्तिराश्रिता इति रूढिः स्वीकृता; इतरथा गुणयोगस्यैवासिद्धेरिति। न केवलं शाखान्तरान्निर्णयः प्रकरणादपीत्यव्याकृतपक्षं प्रस्तौति।

अपि चेति।

यस्य जगदुत्पत्तौ साध्यायां किं सहकारिकारणमिति पृच्छ्यते। तत्किं कारणमिति बहुव्रीहिः। ध्यानमेव योगो जीवस्य ब्रह्मैक्ययोजकत्वात्। आत्मप्राप्तिस्त्वनात्मविरहेण स्थितिः।

नानेत्युक्तमिति

। आनुमानिकाधिकरण इति नानाविद्यास्वप्येकामित्येकत्वं जात्याभिप्रायम्; प्रकरणादविद्यानिश्चयात्॥९॥१०॥

देवात्मशक्तिमिति।

देवात्मविषयां मायिनं मायाविषयं महेश्वरम् इत्यर्थः। भाष्ये च - पारमेश्वर्याः शक्तेरिति परमेश्वरविषयाया इत्यर्थः। एवं च जीवस्थाया अविद्याया विषयं ब्रह्म शुक्तिवत्। ऊचे वाचस्पतिर्भाष्यश्रुत्योर्हृदयवेदिता॥

इति द्वितीयं चमसाधिकरणम्॥ (फुट् नोट् – तत्र सूत्राणि ३ - चमसवदविशेषात् ८ ज्योतिरुपक्रमा तु तथा यत एके ९ कल्पनोपदेशाच्च मध्वादिवदविरोधः॥१०॥

न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च॥११॥ पञ्च पञ्चजना इति सांख्यीयतत्त्वपरम् उत अर्थान्तरपरमिति योगरूढ्यविनिगमाद्विशयः। पूर्वत्राध्यात्मप्रकरणे रूढच्छागाया असंबन्धाद् अजा तेजआदिकेत्युक्तम् इहापि रूढेर्मनुष्यग्रहे वाक्यस्य निस्तात्पर्यप्रसङ्गादवयववृत्त