श्रीरामानन्दयतिप्रणीता

भाष्यरत्नप्रभाव्याख्या

पूर्णानन्दसरस्वती

पूर्णानन्दीया

अथ प्रथमवर्णकम्

यमिह कारुणिकं शरणं गतोऽप्यरिसहोदर आप महत्पदम् ।
तमहमाशु हरिं परमाश्रये जनकजाङ्कमनन्तसुखाकृतिम् ॥ १ ॥

श्रीगौर्या सकलार्थदं निजपदाम्भोजेन मुक्तिप्रदं प्रौढं विघ्नवनं हरन्तमनघं श्रीढुण्ढितुण्डासिना ।
वन्दे चर्मकपालिकोपकरणैर्वैराग्यसौख्यात्परं नास्तीति प्रदिशन्तमन्तविधुरं श्रीकाशिकेशं शिवम् ॥ २ ॥

यत्कृपालवमात्रेण मूको भवति पण्डितः ।
वेदशास्त्रशरीरां तां वाणीं वीणाकरां भजे ॥ ३ ॥

कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्यश्रीगौरीनायकाभित्प्रकटनशिवरामार्यलब्धात्मबोधैः ।
श्रीमद्गोपालगीर्भिः प्रकटितपरमाद्वैतभासास्मितास्यश्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोऽहं यथालिः ॥ ४ ॥

श्रीशङ्करं भाष्यकृतं प्रणम्य व्यासं हरिं सूत्रकृतं च वच्मि ।
श्रीभाष्यतीर्थे परहंसतुष्ट्यै वाग्जालबन्धच्छिदमभ्युपायम् ॥ ५ ॥

विस्तृतग्रन्थवीक्षायामलसं यस्य मानसम् ।
व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा ॥ ६ ॥

श्रीमच्छारीरकं भाष्यं प्राप्य वाक्शुद्धिमाप्नुयात् ।
इति श्रमो मे सफलो गङ्गां रथ्योदकं यथा ॥ ७ ॥

यदज्ञानसमुद्भूतमिन्द्रजालमिदं जगत् ।
सत्यज्ञानसुखानन्तं तदहं ब्रह्म निर्भयम् ॥ ८ ॥

इह खलु ‘स्वाध्यायोऽध्येतव्यः’(श॰ब्रा॰ ११-५७) इति नित्याध्ययनविधिनाधीतसाङ्गस्वाध्याये ‘तद्विजिज्ञासस्व’ (तै.उ. ३ । १ । १), ’सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा.उ. ८ । ७ । १), ’आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ.उ. २ । ४ । ५) इति श्रवणविधिरुपलभ्यते । तस्यार्थः अमृतत्वकामेनाद्वैतात्मविचार एव वेदान्तवाक्यैः कर्तव्य इति । तेन काम्येन नियमविधिनार्थादेव भिन्नात्मशास्त्रप्रवृत्तिः(एवकारो नस्ति)* वैदिकानां पुराणादिप्राधान्यं वा निरस्यत इति वस्तुगतिः । तत्र कश्चिदिह जन्मनि जन्मान्तरे वानुष्ठितयज्ञादिभिर्नितान्तं निर्मलस्वान्तोऽस्य-नितान्तविमलस्वान्त- श्रवणविधेः को विषयः, किं फलम् , कोऽधिकारी, कः सम्बन्ध इति जिज्ञासते । तं जिज्ञासुमुपलभमानो भगवान्बादरायणस्तदनुबन्धचतुष्टयं श्रवणाद्यात्मकशास्त्रारम्भप्रयोजकं(श्रवणात्मक)* न्यायेन निर्णेतुमिदं सूत्रं रचयाञ्चकार ‘अथातो ब्रह्मजिज्ञासा’ (ब्र.सू. १ । १ । १) इति ॥ नन्वनुबन्धजातं विधिसन्निहितार्थवादवाक्यैरेव ज्ञातुं शक्यम् । तथाहि - ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इति श्रुत्या ‘यत्कृतकं तदनित्यम्’ इति न्यायवत्या ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) ‘यो वै भूमा तदमृतम्’ (छा.उ. ७ । २४ । १) ‘अतोऽन्यदार्तम्’ (बृ॰उ॰ ३-४-२) इत्यादि श्रुत्या च भूमात्मा नित्यस्ततोऽन्यदनित्यमिति(ततोऽन्यदनित्यमज्ञानस्वरूपमिति)* विवेको लभ्यते । कर्मणा कृष्यादिना चितः सम्पादितः सस्यादिर्लोकः(सस्यादिलोकः)* - भोग्य इत्यर्थः । विपश्चिन्नित्यज्ञानस्वरूपः । ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन’ (मु.उ. १ । २ । १२), ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ. उ. २ । ४ । ५) इत्यादिश्रुत्यानात्ममात्रे(देहेन्द्रियादिसकलपदार्थजाते इत्यधिकः। वैराग्यं लभ्यते । परीक्ष्यानित्यत्वेन निश्चित्य, अकृतो मोक्षः कृतेन कर्मणा नास्तीति कर्मतत्फलेभ्यो वैराग्यं प्राप्नुयादित्यर्थः । ‘शान्तो दान्त उपरतस्तितिक्षुः  समाहितः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत्’ (बृ.उ. ४ । ४ । २३) इति श्रुत्या शमादिषट्कं लभ्यते । ‘समाहितो भूत्वा’ इति काण्वपाठः । उपरतिः सन्न्यासः । ‘न स पुनरावर्तते’ (कालाग्निरु० २) इति स्वयञ्ज्योतिरानन्दात्मकमोक्षस्य नित्यत्वश्रुत्या मुमुक्षा लभ्यते । तथा च विवेकादिविशेषणवानधिकारीति ज्ञातुं शक्यम् । यथा ‘य एता रात्रीरुपयन्ति’ इति रात्रिसत्रविधौ ‘प्रतितिष्ठन्ति’ इत्यर्थवादस्थप्रतिष्ठाकामस्तद्वत् तथा ‘श्रोतव्यः’ (बृ.उ. २ । ४ । ५) इत्यत्र प्रत्ययार्थस्य नियोगस्य प्रकृत्यर्थो विचारो विषयः विचारस्य वेदान्ता विषय इति शक्यं ज्ञातुम् , ‘आत्मा द्रष्टव्यः’ इत्यद्वैतात्मदर्शनमुद्दिश्य ‘श्रोतव्यः’ इति विचारविधानात् । न हि विचारः साक्षाद्दर्शनहेतुः, अप्रमाणत्वात् , अपि तु प्रमाणविषयत्वेन । प्रमाणं चाद्वैतात्मनि वेदान्ता एव, ‘तं त्वौपनिषदंं पुरुषम्’, ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ (मु.उ. ३ । २ । ६) इति श्रुतेः । वेदान्तानां च प्रत्यग्ब्रह्मैक्यं विषयः, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७), ‘अहं ब्रह्मास्मि’ (बृ.उ. १ । ४ । १०) इति श्रुतेः । एवं विचारविधेः फलमपि ज्ञानद्वारा मुक्तिः, ‘तरति शोकमात्मवित्’ (छा.उ. ७ । १ । ३), ‘ब्रह्मविद्ब्रह्मैव भवति’ (मु.उ. ३ । २ । ९) इत्यादिश्रुतेः । तथा सम्बन्धोऽप्यधिकारिणा विचारस्य कर्तव्यतारूपः, फलस्य प्राप्यतारूप इति यथायोगं (यथायोग्यं)* सुबोधः । तस्मादिदं सूत्रं व्यर्थमिति चेत् । न । तासामधिकार्यादिश्रुतीनां स्वार्थे तात्पर्यनिर्णायकन्यायसूत्राभावे किं विवेकादिविशेषणवानधिकारी उतान्यः, किं वेदान्ताः पूर्वतन्त्रेण अगतार्था वा, किं ब्रह्म प्रत्यगभिन्नं न वा, किं मुक्तिः स्वर्गादिवल्लोकान्तरम् , आत्मस्वरूपा वेति संशयानिवृत्तेः । तस्मादागमवाक्यैरापाततः प्रतिपन्नाधिकार्यादिनिर्णयार्थमिदं सूत्रमावश्यकम् । तदुक्तं प्रकाशात्मश्रीचरणैः - ‘अधिकार्यादीनामागमिकत्वेऽपि न्यायेन निर्णयार्थमिदं सूत्रम्’ इति । येषां मते श्रवणे विधिर्नास्ति तेषामविहितश्रवणेऽधिकार्यादिनिर्णयानपेक्षणात्सूत्रं व्यर्थमित्यापततीत्यलं प्रसङ्गेन ॥ तथा चास्य सूत्रस्य श्रवणविध्यपेक्षिताधिकार्यादिश्रुतिभिः स्वार्थनिर्णयायोत्थापितत्वाद्धेतुहेतुमद्भावः श्रुतिसङ्गतिः, शास्त्रारम्भहेत्वनुबन्धनिर्णायकत्वेनोपोद्घातत्वाच्छास्त्रादौ सङ्गतिः, अधिकार्यादिश्रुतीनां स्वार्थे समन्वयोक्तेः समन्वयाध्यायसङ्गतिः, ‘ऐतदात्म्यमिदं सर्वं  तत्सत्यं स आत्मा तत्त्वमसि’ (छा.उ. ६ । ८ । ७) इत्यादिश्रुतीनां सर्वात्मत्वादिस्पष्टब्रह्मलिङ्गानां विषयादौ समन्वयोक्तेः पादसङ्गतिः, एवं सर्वसूत्राणां श्रुत्यर्थनिर्णायकत्वाच्छ्रुतिसङ्गतिः, तत्तदध्याये तत्तत्पादे च समानप्रमेयत्वेन सङ्गतिरूहनीया । प्रमेयं च कृत्स्नशास्त्रस्य ब्रह्म । अध्यायानां तु समन्वयाविरोधसाधनफलानि । तत्र प्रथमपादस्य स्पष्टब्रह्मलिङ्गानां श्रुतीनां समन्वयः प्रमेयः । द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गानाम् । चतुर्थपादस्य पदमात्रसमन्वय इति भेदः । अस्याधिकरणस्य प्राथम्यान्नाधिकरणसङ्गतिरपेक्षिता ॥ अथाधिकरणमारच्यते - ‘श्रोतव्यः’ (बृ.उ. २ । ४ । ५) इति विहितश्रवणात्मकं वेदान्तमीमांसाशास्त्रं विषयः । तत्किमारब्धव्यं न वेति विषयप्रयोजनसम्भवासम्भवाभ्यां संशयः । तत्र नाहं ब्रह्मेति भेदग्राहिप्रत्यक्षेण कर्तृत्वाकर्तृत्वादिविरुद्धधर्मवत्त्वलिङ्गकानुमानेन च विरोधेन ब्रह्मात्मनोरैक्यस्य विषयस्यासम्भवात् , सत्यबन्धस्य ज्ञानान्निवृत्तिरूपफलासम्भवान्नारम्भणीयमिति प्राप्ते सिद्धान्तः ‘अथातो ब्रह्मजिज्ञासा’ इति । अत्र श्रवणविधिसमानार्थत्वाय ‘कर्तव्या’ इति पदमध्याहर्तव्यम् । अध्याहृतं च भाष्यकृता ‘ब्रह्मजिज्ञासा कर्तव्या’ इति । तत्र प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोः कर्तव्यत्वानन्वयात्प्रकृत्या फलीभूतं ज्ञानमजहल्लक्षणयोच्यते । प्रत्ययेनेच्छासाध्यो विचारो जहल्लक्षणया । तथा च ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रस्य श्रौतोऽर्थः सम्पद्यते । तत्र ज्ञानस्य स्वतःफलत्वायोगात्प्रमातृत्वकर्तृत्वभोक्तृत्वात्मकानर्थनिवर्तकत्वेनैव फलत्वं वक्तव्यम् । तत्रानर्थस्य सत्यत्वे ज्ञानमात्रान्निवृत्त्ययोगादध्यस्तत्वं वक्तव्यमिति बन्धस्याध्यस्तत्वमर्थात्सूचितम् । तच्च शास्त्रस्य विषयप्रयोजनवत्त्वसिद्धिहेतुः । तथाहि शास्त्रमारब्धव्यम् , विषयप्रयोजनवत्त्वात् , भोजनादिवत् । शास्त्रं प्रयोजनवत् , बन्धनिवर्तकज्ञानहेतुत्वात् , रज्जुरियमित्यादिवाक्यवत् । बन्धो ज्ञाननिवर्त्योऽध्यस्तत्वात् , रज्जुसर्पवत् । इति प्रयोजनसिद्धिः । एवमर्थाद्ब्रह्मज्ञानाज्जीवगतानर्थभ्रमनिवृत्तिं फलं सूत्रयन् जीवब्रह्मणोरैक्यं विषयमप्यर्थात्सूचयति, अन्यज्ञानादन्यत्र भ्रमानिवृत्तेः । जीवो ब्रह्माभिन्नः, तज्ज्ञाननिवर्त्याध्यासाश्रयत्वात् । यदित्थं तत्तथा, यथा शुक्त्यभिन्न इदमंश इति विषयसिद्धिहेतुरध्यासः । इत्येवं विषयप्रयोजनवत्त्वाच्छास्त्रमारम्भणीयमिति। । अत्र पूर्वपक्षे बन्धस्य सत्यत्वेन ज्ञानादनिवृत्तेरुपायान्तरसाध्या मुक्तिरिति फलम् । सिद्धान्ते ज्ञानादेव मुक्तिरिति विवेकः । इति सर्वं मनसि निधाय ब्रह्मसूत्राणि व्याख्यातुकामो भगवान् भाष्यकारः सूत्रबोधितविचारकर्तव्यता(सूत्रेण विचारकर्तव्यता)*रूपश्रौतार्थान्यथानुपपत्त्यार्थात्सूत्रितविषय(सूत्रितं विषय)*प्रयोजनवत्वमुपोद्धातत्वात्तत्सिद्धिहेत्वध्यासमाक्षेप-हेत्वध्यासाक्षेप-समाधानभाष्याभ्यां प्रथमं वर्णयति -

युष्मदस्मत्प्रत्ययगोचरयोरिति ।

एतेन सूत्रार्थास्पर्शित्वादध्यासग्रन्थो न भाष्यमिति निरस्तम् , आर्थिकार्थस्पर्शित्वात् ॥ यत्तु मङ्गलाचरणाभावादव्याख्येयमिदं भाष्यमिति, तन्न । ‘सुतरामितरेतरभावानुपपत्तिः’ इत्यन्तभाष्यरचनार्थं तदर्थस्य सर्वोपप्लवरहितस्य विज्ञानघनप्रत्यगर्थस्य तत्त्वस्य स्मृतत्वात् । अतो निर्दोषत्वादिदं भाष्यं व्याख्येयम् ॥

लोके शुक्ताविदं रजतमिति भ्रमः, सत्यरजते इदं रजतमित्यधिष्ठानसामान्यारोप्यविशेषयोरैक्यप्रमाहितसंस्कारजन्यो दृष्ट इत्यत्राप्यात्मन्यनात्माहङ्काराध्यासे पूर्वप्रमा वाच्या, सा चात्मानात्मनोर्वास्तवैक्यमपेक्षते, न हि तदस्ति । तथाहि आत्मानात्मानावैक्यशून्यौ, परस्परैक्यायोग्यत्वात् , तमःप्रकाशवत् । इति मत्वा हेतुभूतं विरोधं वस्तुतः प्रतीतितो व्यवहारतश्च साधयति -

युष्मदस्मत्प्रत्ययगोचरयोरिति ।

न च ‘प्रत्ययोत्तरपदयोश्च’(पा॰सू॰ ७-२-९८) इति सूत्रेण ‘प्रत्यये उत्तरपदे च परतो युष्मदस्मदोर्मपर्यन्तस्य त्वमादेशौ स्तः’ इति विधानात् , त्वदीयं मदीयं त्वत्पुत्रो मत्पुत्र इतिवत् ‘त्वन्मत्प्रत्ययगोचरयोः’ इति स्यादिति वाच्यम् । ‘त्वमावेकवचने’(पा॰सू॰ ७-२-९७) इत्येकवचनाधिकारात् । अत्र च युष्मदस्मत्पदयोरेकार्थ(युष्मदस्मदोरेकार्थ)*वाचित्वाभावादनात्मनां युष्मदर्थानां बहुत्वादस्मदर्थचैतन्यस्याप्युपाधितो बहुत्वात् ॥ नन्वेवं सति कथमत्र भाष्ये विग्रहः । न च यूयमिति प्रत्ययो युष्मत्प्रत्ययः, वयमिति प्रत्ययोऽस्मत्प्रत्ययस्तद्गोचरयोरिति विग्रह इति वाच्यम् , शब्दसाधुत्वेऽप्यर्थासाधुत्वात् । न ह्यहङ्काराद्यनात्मनो यूयमिति प्रत्ययविषयत्वमस्तीति चेत् , न । गोचरपदस्य योग्यतापरत्वात् । चिदात्मा तावदस्मत्प्रत्यययोग्यः, तत्प्रयुक्तसंशयादिनिवृत्तिफलभाक्त्वात् , ‘न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात्’ इति भाष्योक्तेश्च । यद्यप्यहङ्कारादिरपि तद्योग्यस्तथापि चिदात्मनः सकाशादत्यन्तभेदसिद्ध्यर्थं युष्मत्प्रत्यययोग्य इत्युच्यते ॥ आश्रमश्रीचरणास्तु टीकायोजनायामेवमाहुः ‘सम्बोध्यचेतनो युष्मत्पदवाच्यः, अहङ्कारादिविशिष्टचेतनोऽस्मत्पदवाच्यः, तथा च युष्मदस्मदोः स्वार्थे प्रयुज्यमानयोरेव त्वमादेशनियमो न लाक्षणिकयोः, ‘युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ’(पा०सू० ८-१-२०) इति सूत्रासाङ्गत्यप्रसड्गात् । अत्र शब्दलक्षकयोरिव चिन्मात्रजडमात्रलक्षकयोरपि न त्वमादेशौ (त्वमादेशो)* लक्षकत्वाविशेषात्’ इति । यदि तयोः शब्दबोधकत्वे सत्येव त्वमादेशाभाव इत्यनेन सूत्रेण ज्ञापितं तदास्मिन्भाष्ये युष्मत्पदेन युष्मच्छब्दजन्यप्रत्यययोग्यः परागर्थो लक्ष्यते, अस्मच्छब्देन अस्मच्छब्दजन्यप्रत्यययोग्यः प्रत्यगात्मा । तथा च लक्ष्यतावच्छेदकतया शब्दोऽपि बोध्यत इति न त्वमादेशः । न च पराक्त्वप्रत्यक्त्वयोरेव लक्ष्यतावच्छेदकत्वम् , न शब्दयोग्यत्वांशस्य, गौरवादिति वाच्यम् । पराक्प्रतीचोर्विरोधस्फुरणार्थं विरुद्धशब्दयोग्यत्वस्यापि वक्तव्यत्वात् । अत एवेदमस्मत्प्रत्ययगोचरयोरिति वक्तव्येऽपीदंशब्दोऽस्मदर्थे लोके वेदे च बहुशः, इमे वयमास्महे, इमे विदेहाः, अयमहमस्मीति च प्रयोगदर्शनान्नास्मच्छब्दविरोधीति मत्वा युष्मच्छब्दः प्रयुक्तः, इदंशब्दप्रयोगे विरोधास्फूर्तेः । एतेन चेतनवाचित्वादस्मच्छब्दः पूर्वं प्रयोक्तव्यः ‘अभ्यर्हितं पूर्व’ इति न्यायात् , ‘त्यदादीनि सर्वैर्नित्यम्’(पा०सू० १-२-७२) इति सूत्रेण विहित एकशेषश्च स्यादिति निरस्तम् । ‘युष्मदस्मदोः’ इति सूत्र इवात्रापि पूर्वनिपातैकशेषयोरप्राप्तेः, एकशेषे विवक्षितविरोधास्फूर्तेश्च । वृद्धास्तु ‘युष्मदर्थादनात्मनो निष्कृष्य शुद्धस्य चिद्धातोरध्यारोपापवादन्यायेन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणम् ’ इत्याहुः । तत्र युष्मदस्मत्पदाभ्यां पराक्प्रत्यक्त्वेनात्मानात्मनोर्वस्तुतो विरोध उक्तः । प्रत्ययपदेन प्रतीतितो विरोध उक्तः । प्रतीयत इति प्रत्ययोऽहङ्कारादिरनात्मा दृश्यतया भाति । आत्मा तु प्रतीतित्वात्प्रत्ययः स्वप्रकाशतया भाति । गोचरपदेन व्यवहारतो विरोध उक्तः । युष्मदर्थः प्रत्यगात्मतिरस्कारेण कर्ताहमित्यादिव्यवहारगोचरः, अस्मदर्थस्त्वनात्मप्रविलापेन, अहं ब्रह्मेति व्यवहारगोचर इति त्रिधा विरोधः स्फुटीकृतः । युष्मच्चास्मच्च युष्मदस्मदी, ते एव प्रत्ययौ च तौ गोचरौ चेति युष्मदस्मत्प्रत्ययगोचरौ, तयोस्त्रिधा विरुद्धस्वभावयोरितरेतरभावोऽत्यन्ताभेदस्तादात्म्यं वा तदनुपपत्तौ सिद्धायामित्यन्वयः ।

ऐक्यासम्भवेऽपि शुक्लो घट इतिवत्तादात्म्यं किं न स्यादित्यत आह -

विषयविषयिणोरिति ।

चिज्जडयोर्विषयविषयित्वाद्दीपघटयोरिव न तादात्म्यमिति भावः ।

युष्मदस्मदी पराप्रत्यग्वस्तुनी, ते एव प्रत्ययश्च गोचरश्चेति वा विग्रहः । अत्र प्रत्ययगोचरपदाभ्यामात्मानात्मनोः प्रत्यक्पराग्भावे चिदचित्त्वं हेतुरुक्तस्तत्र हेतुमाह -

विषयविषयिणोरिति ।

अनात्मनो ग्राह्यत्वादचित्त्वम् , आत्मनस्तु ग्राहकत्वाच्चित्त्वं वाच्यम् । अचित्त्वे स्वस्य स्वेन ग्रहस्य कर्मकर्तृत्वविरोधेनासम्भवादप्रत्यक्षत्वापत्तेरित्यर्थः । यथेष्टं वा हेतुहेतुमद्भावः ।

नन्वेवमात्मानात्मनोः पराक्प्रत्यक्त्वेन, चिदचित्त्वेन, ग्राह्यग्राहकत्वेन च विरोधात्तमःप्रकाशवदैक्यस्य तादात्म्यस्य वानुपपत्तौ सत्याम् , तत्प्रमित्यभावेनाध्यासाभावेऽपि तद्धर्माणां चैतन्यसुखजाड्यदुःखादीनां विनिमयेनाध्यासोऽस्त्वित्यत आह -

तद्धर्माणामपीति ।

तयोरात्मानात्मनोर्धर्मास्तद्धर्मास्तेषामपीतरेतरभावानुपपत्तिः । इतरत्र धर्म्यन्तरे इतरेषां धर्माणां भावः संसर्गस्तस्यानुपपत्तिरित्यर्थः । न हि धर्मिणोः संसर्गं विना धर्माणां विनिमयो अस्ति । स्फटिके लोहितवस्तुसान्निध्याल्लौहित्यधर्मसंसर्गः ।

असङ्गात्मधर्मिणः केनाप्यसंसर्गाद्धर्मिसंसर्गपूर्वको धर्मसंसर्गः  कुतस्त्य इत्यभिप्रेत्योक्तं -

सुतरामिति ।

नन्वात्मानात्मनोस्तादात्म्यस्य तद्धर्मसंसर्गस्य चाभावेऽप्यध्यासः किं न स्यादित्यत आह -

इत्यत इति ।

इत्युक्तरीत्या तादात्म्याद्यभावेन तत्प्रमाया अभावादतः प्रमाजन्यसंस्कारस्याध्यासहेतोरभावात् ‘अध्यासो मिथ्येति भवितुं युक्तम्’ इत्यन्वयः । मिथ्याशब्दो द्व्यर्थः अपह्नववचनः, अनिर्वचनीयतावचनश्चेति । अत्र चापह्नवार्थः ।

ननु कुत्र कस्याध्यासोऽपह्नूयत इत्याशङ्क्य, आत्मन्यनात्मतद्धर्माणामनात्मन्यात्मतद्धर्माणामध्यासो निरस्यत इत्याह -

अस्मत्प्रत्ययगोचर इत्यादिना ।

अहमितिप्रत्यययोग्यत्वं बुद्ध्यादेरप्यस्तीति मत्वा तत आत्मानं विवेचयति -

विषयिणीति ।

बुद्ध्यादिसाक्षिणीत्यर्थः ।

साक्षित्वे हेतुः -

चिदात्मक इति ।

अहमिति भासमाने चिदंशात्मनीत्यर्थः ।

युष्मत्प्रत्ययगोचरस्येति ।

त्वङ्कारयोग्यस्य । इदमर्थस्येति यावत् ।

नन्वहमिति भासमानबुद्ध्यादेः कथमिदमर्थत्वमित्यत आह -

विषयस्येति ।

साक्षिभास्यस्येत्यर्थः । साक्षिभास्यत्वरूपलक्षणयोगाद्बुद्ध्यादेर्घटादिवदिदमर्थत्वं न प्रतिभासत इति भावः । अथवा यदात्मनो मुख्यं सर्वान्तरत्वरूपं प्रत्यक्त्वं प्रतीतित्वं ब्रह्मास्मीति व्यवहारगोचरत्वं चोक्तं तदसिद्धम् , अहमिति प्रतीयमानत्वात् ,

अहङ्कारवदित्याशङ्क्याह -

अस्मत्प्रत्ययगोचर इति ।

अस्मच्चासौ प्रत्ययश्चासौ गोचरश्च तस्मिन्नित्यर्थः । अहंवृत्तिव्यङ्ग्यस्फुरणत्वं स्फुरणविषयत्वं वा हेतुः । आद्ये दृष्टान्ते हेत्वसिद्धिः । द्वितीये तु पक्षे तदसिद्धिरित्यात्मनो मुख्यं प्रत्यक्त्वादि युक्तमिति भावः ।

ननु यदात्मनो विषयित्वं तदसिद्धम् , अनुभवामीति शब्दवत्वात् , अहङ्कारवदित्यत आह -

विषयिणीति ।

वाच्यत्वं लक्ष्यत्वं वा हेतुः । नाद्यः, पक्षे तदसिद्धेः । नान्त्यः, दृष्टान्ते तद्वैकल्यादिति भावः ।

देहं जानामीति देहाहङ्कारयोर्विषयविषयित्वेऽपि मनुष्योऽहमित्यभेदाध्यासवदात्माहङ्कारयोरप्यभेदाध्यासः स्यादित्यत आह -

चिदात्मक इति ।

तयोर्जाड्याल्पत्वाभ्यां सादृश्यादध्यासेऽपि चिदात्मन्यनवच्छिन्ने जडाल्पाहङ्कारादेर्नाध्यास इति भावः ।

अहमिति भास्यत्वादात्मवदहङ्कारस्यापि प्रत्यक्त्वादिकं मुख्यमेव, ततः पूर्वोक्तपराक्त्वाद्यसिद्धिरित्याशङ्क्याह -

युष्मदिति ।

अहंवृत्तिभास्यत्वमहङ्कारे नास्ति कर्तृकर्मत्वविरोधात् , चिद्भास्यत्वं चिदात्मनि नास्तीति हेत्वसिद्धिः । अतो बुद्ध्यादेः प्रतिभासतः प्रत्यक्त्वेऽपि पराक्त्वादिकं मुख्यमेवेति भावः । युष्मत्पराक्तच्चासौ प्रतीयत इति प्रत्ययश्चासौ कर्तृत्वादिव्यवहारगोचरश्च तस्येति विग्रहः ।

तस्य हेयत्वार्थमाह -

विषयस्येति ।

षिञ् बन्धने । विसिनोति बध्नाति इति विषयस्तस्येत्यर्थः ।

आत्मन्यनात्मतद्धर्माध्यासो मिथ्या भवतु, अनात्मन्यात्मतद्धर्माध्यासः किं न स्यात् , अहं स्फुरामि सुखीत्याद्यनुभवादित्याशङ्क्याह -

तद्विपर्ययेणेति ।

तस्मादनात्मनो विपर्ययो विरुद्धस्वभावश्चैतन्यम् । इत्थम्भावे तृतीया । चैतन्यात्मना विषयिणस्तद्धर्माणां च योऽहङ्कारादौ विषयेऽध्यासः स मिथ्येति नास्तीति भवितुं युक्तम् , अध्याससामग्र्यभावात् । न ह्यत्र पूर्वप्रमाहितसंस्कारः सादृश्यमज्ञानं वास्ति । निरवयवनिर्गुणस्वप्रकाशात्मनि गुणावयवसादृश्यस्य अज्ञानस्य(चाज्ञानस्य)* चायोगात् ॥

नन्वात्मनो निर्गुणत्वे तद्धर्माणामिति भाष्यं कथमिति चेत् , उच्यते । बुद्धिवृत्त्यभिव्यक्तं चैतन्यं ज्ञानम् , विषयाभेदेनाभिव्यक्तं स्फुरणम् , शुभकर्मजन्यवृत्तिव्यक्तमानन्द इत्येवं वृत्त्युपाधिकृतभेदात् ज्ञानादीनामात्मधर्मत्वव्यपदेशः । तदुक्तं टीकायां ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वेऽपि चैतन्यात् (चैतन्यत्वात्)* पृथगिवावभासन्ते’ इति । अतो निर्गुणब्रह्मात्मत्वमते, अहं करोमीति प्रतीतेरर्थस्य चाध्यासत्वायोगात्प्रमात्वं (सत्यत्वं चेत्यधिकः पाठः)* अहं नर इति सामानाधिकरण्यस्य गौणत्वमिति मतमास्थेयम् । तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासम्भवाद्बद्धमुक्तयोर्जीवब्रह्मणोरैक्यायोगेन विषयासम्भवात् शास्त्रं नारम्भणीयमिति पूर्वपक्षभाष्यतात्पर्यम् । युक्तग्रहणात्पूर्वपक्षस्य दुर्बलत्वं सूचयति । तथाहि किमध्यासस्य नास्तित्वमयुक्तत्वादभानाद्वा कारणाभावाद्वा ? आद्य इष्ट इत्याह -

तथापीति ।

एतदनुरोधादादौ यद्यपीति पठितव्यम् । अध्यासस्यासङ्गस्वप्रकाशात्मन्ययुक्तत्वमलङ्कार इति भावः ।

न द्वितीय इत्याह -

अयमिति ।

अज्ञः कर्ता मनुष्योऽहमिति प्रत्यक्षानुभवादध्यासस्याभानमसिद्धमित्यर्थः । न चेदं प्रत्यक्षं कर्तृत्वादौ प्रमेति वाच्यम् । अपौरुषेयतया निर्दोषेण, उपक्रमादिलिङ्गावधृततात्पर्येण च तत्वमस्यादिवाक्येनाकर्तृब्रह्मत्वबोधनेनास्य-अकर्तत्व- भ्रमत्वनिश्चयात् । न च ज्येष्ठप्रत्यक्षविरोधादागमज्ञानस्यैव बाध इति वाच्यम् , देहात्मवादप्रसङ्गात् , मनुष्योऽहमिति प्रत्यक्षविरोधेन ‘अथायमशरीरः’(बृ॰उ॰ ४-४-७) इत्यादिश्रुत्या देहादन्यात्मासिद्धेः । तस्मादिदं रजतमितिवत्सामानाधिकरण्यप्रत्यक्षस्य भ्रमत्वशङ्काकलङ्कितस्य नागमात्प्राबल्यमित्यास्थेयम् । किञ्च ज्येष्ठत्वं पूर्वभावित्वं वा आगमज्ञानं प्रत्युपजीव्यत्वं वा ? आद्ये न प्राबल्यम् , ज्येष्ठस्यापि रजतभ्रमस्य पश्चाद्भाविना शुक्तिज्ञानेन बाधदर्शनात् । न द्वितीयः । आगमज्ञानोत्पत्तौ प्रत्यक्षादिमूलवृद्धव्यवहारे च(चेति नास्ति)* सङ्गतिग्रहद्वारा, शब्दोपलब्धिद्वारा च प्रत्यक्षादेर्व्यावहारिकप्रामाण्यस्योपजीव्यत्वेऽपि तात्त्विकप्रामाण्यस्यानपेक्षितत्वात् , अनपेक्षितांशस्यागमेन बाधसम्भवादिति । यत्तु क्षणिकयागस्य श्रुतिबलात्कालान्तरभाविफलहेतुत्ववत् ‘तथा विद्वान्नामरूपाद्विमुक्तः’(मु॰उ॰ ३-२-७) इति श्रुतिबलात्सत्यस्यापि ज्ञानान्निवृत्तिसम्भवादध्यासवर्णनं व्यर्थमिति, तन्न । ज्ञानमात्रनिवर्त्यस्य क्वापि सत्यत्वादर्शनात् , सत्यस्य चात्मनो निवृत्त्यदर्शनाच्च, अयोग्यतानिश्चये सति सत्यबन्धस्य ज्ञानान्निवृत्तिश्रुतेर्बोधकत्वायोगात् । न च सेतुदर्शनात्सत्यस्य पापस्य नाशदर्शनान्नायोग्यतानिश्चय इति वाच्यम् , तस्य श्रद्धानियमादिसापेक्षज्ञाननाश्यत्वात् । बन्धस्य च ‘नान्यः पन्था’(श्वे॰उ॰ ३-८) इति श्रुत्या ज्ञानमात्रान्निवृत्तिप्रतीतेः, अतः श्रुतज्ञाननिवर्त्यत्वनिर्वाहार्थमध्यस्तत्वं वर्णनीयम् । किं च ज्ञानैकनिवर्त्यस्य किं नाम सत्यत्वम् , न तावदज्ञानाजन्यत्वम् । ‘मायां तु प्रकृतिम्’(श्वे॰उ॰ ४-१०) इति श्रुतिविरोधान्मायाविद्ययोरैक्यात् । नापि स्वाधिष्ठाने स्वाभावशून्यत्वं ‘अस्थूलम्’ (बृ॰उ॰ ३-८-८) इत्यादिनिषेधश्रुतिविरोधात् । नापि ब्रह्मवद्बाधायोग्यत्वम् , ज्ञानान्निवृत्तिश्रुतिविरोधात् । अथ व्यवहारकाले बाधशून्यत्वम् , तर्हि व्यावहारिकमेव सत्यत्वमित्यागतमध्यस्तत्वम् । तच्च श्रुत्यर्थे योग्यताज्ञानार्थं वर्णनीयमेव, यागस्यापूर्वद्वारत्ववत् । न च ‘तदनन्यत्वाधिकरणे’(ब्र॰सू॰ २-१-१४) तस्य वर्णनात्पौनरुक्त्यम् , तत्रोक्ताध्यासस्यैव प्रवृत्त्यङ्गविषयादिसिद्ध्यर्थमादौ स्मार्यमाणत्वादिति दिक् ॥

अध्यासं द्वेधा दर्शयति -

लोकव्यवहार इति ।

लोक्यते मनुष्योऽहमित्यभिमन्यत इति लोकोऽर्थाध्यासः, तद्विषयो व्यवहारोऽभिमान इति ज्ञानाध्यासो दर्शितः ।

द्विविधाध्यासस्वरूपलक्षणमाह -

अन्योन्यस्मिन् इत्यादिना धर्मधर्मिणोः इत्यन्तेन ।

जाड्यचैतन्यादिधर्माणां धर्मिणावहङ्कारात्मानौ, तयोरत्यन्तं भिन्नयोरितरेतरभेदाग्रहेणान्योन्यस्मिन् अन्योन्यतादात्म्यमन्योन्यधर्मांश्च व्यत्यासेनाध्यस्य लोकव्यवहार इति योजना । अतः सोऽयमिति प्रमाया नाध्यासत्वम् , तदिदमर्थयोः कालभेदेन कल्पितभेदेऽप्यत्यन्तभेदाभावादिति वक्तुमत्यन्तेत्युक्तम् । न च धर्मितादात्म्याध्यासे धर्माध्याससिद्धेः ‘धर्मांश्च’ इति व्यर्थमिति वाच्यम् , अन्धत्वादीनामिन्द्रियधर्माणां धर्म्यध्यासास्फुटत्वेऽप्यन्धोऽहमिति स्फुटोऽध्यास इति ज्ञापनार्थत्वात् ।

नन्वात्मानात्मनोः परस्पराध्यस्तत्वे शून्यवादः स्यादित्याशङ्क्याह -

सत्यानृते मिथुनीकृत्येति ।

सत्यमनिदं चैतन्यं तस्यानात्मनि संसर्गमात्राध्यासो न स्वरूपस्य । अनृतं युष्मदर्थः तस्य स्वरूपतोऽप्यध्यासात्तयोर्मिथुनीकरणमध्यास इति न शून्यतेत्यर्थः ॥

नन्वध्यासमिथुनीकरणलोकव्यवहारशब्दानामेकार्थत्वेऽध्यस्य मिथुनीकृत्येति पूर्वकालत्ववाचिक्त्वाप्रत्ययादेशस्य ल्यपः कथं प्रयोग इति चेन्न, अध्यासव्यक्तिभेदात् । तत्र पूर्वपूर्वाध्यासस्योत्तरोत्तराध्यासं प्रति संस्कारद्वारा पूर्वकालत्वेन हेतुत्वद्योतनार्थं ल्यपः प्रयोगः । तदेव स्पष्टयति -

नैसर्गिक इति ।

प्रत्यगात्मनि हेतुहेतुमद्भावेनाध्यासप्रवाहोऽनादिरित्यर्थः । ननु प्रवाहस्यावस्तुत्वात् , अध्यासव्यक्तीनां सादित्वात् , कथमनादित्वमिति चेत् । उच्यते - अध्यासत्वावच्छिन्नव्यक्तीनां मध्येऽन्यतमया व्यक्त्या विनाऽनादिकालस्यावर्तनं कार्यानादित्वमित्यङ्गीकारात् । एतेन कारणाभावादिति कल्पो निरस्तः, संस्कारस्य निमित्तस्य नैसर्गिकपदेनोक्तत्वात् । न च पूर्वप्रमाजन्य एव संस्कारो हेतुरिति वाच्यम् , लाघवेन पूर्वानुभवजन्यसंस्कारस्य हेतुत्वात् । अतः पूर्वाध्यासजन्यः संस्कारोऽस्तीति सिद्धम् ।

अध्यासस्योपादानमाह -

मिथ्याज्ञाननिमित्त इति ।

मिथ्या च तदज्ञानं च मिथ्याज्ञानं तन्निमित्तमुपादानं यस्य स तन्निमित्तः । तदुपादान(तदुपादानक)* इत्यर्थः । अज्ञानस्योपादानत्वेऽपि संस्फुरदात्मतत्त्वावरकतया दोषत्वेनाहङ्काराध्यासकर्तुरीश्वरस्योपाधित्वेन संस्कारकालकर्मादिनिमित्तपरिणामित्वेन च निमित्तत्वमिति द्योतयितुं निमित्तपदम् । स्वप्रकाशात्मन्यसङ्गे कथमविद्यासङ्गः, (संस्कारादिसामग्र्यभावात् इत्यधिकः)*, इति शङ्कानिरासार्थं मिथ्यापदम् । प्रचण्डमार्तण्डमण्डले पेचकानुभवसिद्धान्धकारवत् , अहमज्ञ इत्यनुभवसिद्धमज्ञानं दुरपह्नवम् , कल्पितस्याधिष्ठानास्पर्शित्वात् , नित्यस्वरूपज्ञानस्याविरोधित्वाच्चेति । यद्वा अज्ञानं ज्ञानाभाव इति शङ्कानिरासार्थं मिथ्यापदम् । मिथ्यात्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानस्य लक्षणं मिथ्याज्ञानपदेनोक्तम् । ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति वदन्तं प्रति मिथ्यात्वे सतीत्युक्तम् । अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यबन्धेऽतिव्याप्तिनिरासाय साक्षादिति । अनाद्युपादानत्वे सति मिथ्यात्वं वा लक्षणम् । ब्रह्मनिरासार्थं मिथ्यात्वमिति । मृदादिनिरासार्थमनादीति । अविद्यात्मनोः सम्बन्धनिरासार्थमुपादानत्वे सतीति ।

सम्प्रति अध्यासं द्रढयितुमभिलपति -

अहमिदं ममेदमिति ।

आध्यात्मिककार्याध्यासेष्वहमिति प्रथमोऽध्यासः । न चाधिष्ठानारोप्यांशद्वयानुपलम्भात् नायमध्यास इति वाच्यम् , अयो दहतीतिवदहमुपलभ इति दृग्दृश्यांशयोरुपलम्भात् । इदम्पदेन भोग्यः सङ्घात उच्यते । अत्राहमिदमित्यनेन मनुष्योऽहमिति तादात्म्याध्यासो दर्शितः । ममेदमित्यनेन ममेदं (ममेदमित्यनेन इति नास्ति)* शरीरमिति संसर्गाध्यासः ॥ ननु देहात्मनोस्तादात्म्यमेव संसर्ग इति तयोः को भेद इति चेत् , सत्यम् । सत्तैक्ये सति मिथो भेदस्तादात्म्यम् । तत्र मनुष्योऽहमित्यैक्यांशभानं ममेदमिति भेदांशरूपसंसर्गभानमिति भेदः । एवं सामग्रीसत्त्वादनुभवसत्त्वाच्च (चेति नास्ति)* अध्यासोऽस्तीत्यतो ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनयोः सत्त्वात्शास्त्रमारम्भणीयमिति सिद्धान्तभाष्यतात्पर्यम् ।

एवं (एवं चेति चकारोऽधिकः)* सूत्रेणार्थात्सूचिते विषयप्रयोजने प्रतिपाद्य तद्धेतुमध्यासं लक्षणसम्भावनाप्रमाणैः साधयितुं लक्षणं पृच्छति -

आहेति ।

किंलक्षणकोऽध्यास इत्याह पूर्ववादीत्यर्थः । अस्य शास्त्रस्य तत्त्वनिर्णयप्रधानत्वेन वादकथात्वद्योतनार्थमाहेति परोक्तिः । ‘आह’ इत्यादि ‘कथं पुनःप्रत्यगात्मनि’ इत्यतः प्रागध्यासलक्षणपरं भाष्यम् । तदारभ्य सम्भावनापरम् । "तमेतमविद्याख्यम्" इत्यारभ्य "सर्वलोकप्रत्यक्षः" इत्यन्तं प्रमाणपरमिति विभागः ।

लक्षणमाह -

उच्यते - स्मृतिरूप इति ।

अध्यास इत्यनुषङ्गः । अत्र परत्रावभास इत्येव लक्षणम् , शिष्टं पदद्वयं तदुपपादनार्थम् । तथाहि अवभास्यत इत्यवभासो रजताद्यर्थः तस्यायोग्यमधिकरणं परत्रपदार्थः । अधिकरणस्यायोग्यत्वमारोप्यात्यन्ताभावत्वं तद्वत्त्वं वा । तथा चैकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभास्यत्वमध्यस्तत्वमित्यर्थः । इदं च साद्यनाद्यध्याससाधारणं लक्षणम् । संयोगेऽतिव्याप्तिनिरासायैकावच्छेदेनेति । संयोगस्य स्वसंसृज्यमाने वृक्षे स्वात्यन्ताभाववत्यवभास्यत्वेऽपि स्वस्वात्यन्ताभावयोर्मूलाग्रावच्छेदकभेदान्नातिव्याप्तिः(स्वात्यन्ताभावेत्यादि)* । पूर्वं स्वाभाववति भूतले पश्चादानीतो घटो भातीति घटेऽतिव्याप्तिनिरासाय स्वसंसृज्यमान इति पदम् , तेन स्वाभावकाले प्रतियोगिसंसर्गस्य विद्यमानतोच्यते इति नातिव्याप्तिः । भूत्वावच्छेदेनावभास्यगन्धेऽतिव्याप्तिवारणाय स्वात्यन्ताभाववतीति पदम् । शुक्ताविदन्त्वावच्छेदेन रजतसंसर्गकालेऽत्यन्ताभावोऽस्तीति नाव्याप्तिः ।

नन्वस्य लक्षणस्यासम्भवः, शुक्तौ रजतस्य सामग्र्यभावेन संसर्गासत्वात् । न च स्मर्यमाणरजतस्यैव (स्मर्यमाणसत्यरजतस्यैव)* परत्र शुक्ताववभास्यत्वेनाध्यस्तत्वोक्तिरिति वाच्यम् , अन्यथाख्यातिप्रसङ्गादित्यत आह -

स्मृतिरूप इति ।

स्मर्यते इति स्मृतिः सत्यरजतादिः तस्य रूपमिव रूपमस्येति स्मृतिरूपः । स्मर्यमाणसदृश इत्यर्थः । सादृश्योक्त्या स्मर्यमाणादारोप्यस्य भेदात् , नान्यथाख्यातिरित्युक्तं भवति ।

सादृश्यमुपपादयति -

पूर्वदृष्टेति ।

दृष्टं दर्शनम् , संस्कारद्वारा पूर्वदर्शनादवभास्यत इति पूर्वदृष्टावभासः । तेन संस्कारजन्यज्ञानविषयत्वं स्मर्यमाणारोप्ययोः सादृश्यमुक्तं भवति, स्मृत्यारोपयोः संस्कारजन्यत्वात् । न च संस्कारजन्यत्वादारोपस्य स्मृतित्वापत्तिरिति वाच्यम् , दोषसम्प्रयोगजन्यत्वस्यापि विवक्षितत्वेन संस्कारमात्रजन्यत्वाभावात् । अत्र सम्प्रयोगशब्देन अधिष्ठानसामान्यज्ञानमुच्यते, अहङ्काराध्यासे इन्द्रियसम्प्रयोगालाभात् । एवं च दोषसम्प्रयोगसंस्कारबलाच्छुक्त्यादौ रजतमुत्पन्नमस्तीति परत्रावभास्यत्वलक्षणमुपपन्नमिति स्मृतिरूपपूर्वदृष्टपदाभ्यामुपपादितम् । अन्ये तु ताभ्यां दोषादित्रयजन्यत्वं कार्याध्यासलक्षणमुक्तमित्याहुः । अपरे तु स्मृतिरूपः स्मर्यमाणसदृशः, सादृश्यं च प्रमाणाजन्यज्ञानविषयत्वं स्मृत्यारोपयोः प्रमाणाजन्यत्वात् । पूर्वदृष्टपदतज्जातीयपरम् , अभिनवरजतादेः पूर्वदृष्टत्वाभावात् । तथा च प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टजातीयत्वं प्रातीतिकाध्यासलक्षणं ताभ्यामुक्तम् । परत्रावभासशब्दाभ्यामध्यासमात्रलक्षणं व्याख्यातमेव । तत्र स्मर्यमाणगङ्गादौ अभिनवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादि पदद्वयमित्याहुः । तत्रार्थाध्यासे स्मर्यमाणसदृशः परत्र पूर्वदर्शनादवभास्यत इति योजना । ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्वदर्शनादवभासत (पूर्वदर्शनादवभास)* इति वाक्यं योजनीयमिति सङ्क्षेपः ।

ननु अध्यासे वादिविप्रतिपत्तेः कथमुक्तलक्षणसिद्धिरित्याशङ्क्याधिष्ठानारोप्यस्वरूपविवादेऽपि परत्र परावभास इति लक्षणे संवादाद्युक्तिभिः सत्याधिष्ठाने मिथ्यार्थावभाससिद्धेः सर्वतन्त्रसिद्धान्त इदं लक्षणमिति मत्वा अन्यथात्मख्यातिवादिनोर्मतमाह -

तं केचिदिति ।

केचिदन्यथाख्यातिवादिनोऽन्यत्र शुक्त्यादावन्यधर्मस्य स्वावयवधर्मस्य देशान्तरस्थस्य रूप्यादेरध्यास इति वदन्ति । आत्मख्यातिवादिनस्तु बाह्ये शुक्त्यादौ बुद्धिरूपात्मनो धर्मस्य रजतस्याध्यासः, आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्तीत्यर्थः ।

अख्यातिमतमाह -

केचिदिति ।

यत्र यस्याध्यासो लोकसिद्धस्तयोस्तद्धियोश्च (लोकतयोरर्थयोस्तद्धियोश्च)* भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः । तैरपि विशिष्टव्यवहारान्यथानुपपत्त्या विशिष्टभ्रान्तेः स्वीकार्यत्वात् , परत्र परावभाससम्मतिरिति भावः ।

शून्यमतमाह -

अन्ये त्विति ।

तस्यैवाधिष्ठानस्य शुक्त्यादेर्विपरीतधर्मत्वकल्पनां विपरीतो विरुद्धो धर्मो यस्य तद्भावस्तस्य रजतादेरत्यन्तासतः कल्पनामाचक्षत इत्यर्थः ।

एतेषु मतेषु परत्र परावभासत्वलक्षणसंवादमाह -

सर्वथापि त्विति ।

अन्यथाख्यातित्वादिप्रकारविवादेऽप्यध्यासः परत्र परावभासत्वलक्षणं न जहातीत्यर्थः । शुक्तावपरोक्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वायोगात्शून्यत्वे प्रत्यक्षत्वायोगात् , शुक्तौ सत्त्वे बाधायोगात्मिथ्यात्वमेवेति भावः ।

आरोप्यमिथ्यात्वे न युक्त्यपेक्षा, तस्यानुभवसिद्धत्वादित्याह -

तथा चेति ।

बाधानन्तरकालीनोऽयमनुभवः, तत्पूर्वं शुक्तिकात्वज्ञानायोगात् , रजतस्य बाधप्रत्यक्षसिद्धं मिथ्यात्वं वच्छब्देनोच्यते ।

आत्मनि निरुपाधिकेऽहङ्काराध्यासे दृष्टान्तमुक्त्वा ब्रह्मजीवान्तरभेदस्य(ब्रह्मजीवावान्तरभेदस्य)* अविद्याद्युपाधिकस्याध्यासे दृष्टान्तमाह -

एक इति ।

द्वितीयचन्द्रसहितवदेक एवाङ्गुल्या द्विधा भातीत्यर्थः । लक्षणप्रकरणोपसंहारार्थ इतिशब्दः ।

भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न सम्भवतीत्याक्षिपति -

कथं पुनरिति ।

यत्रापरोक्षाध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दृष्टा । तत्र व्यापकाभावादात्मनोऽधिष्ठानत्वं न सम्भवतीत्यभिप्रेत्याह -

प्रत्यगात्मनीति ।

प्रतीचि पूर्ण इन्द्रियाग्राह्ये विषयस्याहङ्कारादेस्तद्धर्माणां चाध्यासः कथमित्यर्थः ।

उक्तव्याप्तिमाह -

सर्वो हीति ।

पुरोऽवस्थितत्वमिन्द्रियसंयुक्तत्वम् ।

नन्वात्मनोऽप्यधिष्ठानत्वार्थं विषयत्वादिकमस्त्वित्यत आह -

युष्मदिति ।

इदंप्रत्ययानर्हस्य प्रत्यगात्मनो ‘न चक्षुषा गृह्यते’ इत्यादि श्रुतिमनुसृत्य त्वमविषयत्वं ब्रवीषि । संप्रत्यध्यासलोभेन विषयत्वाङ्गीकारे श्रुतिसिद्धान्तयोर्बाधः स्यादित्यर्थः ।

आत्मन्यध्याससम्भावनां प्रतिजानीते -

उच्यत इति ।

अधिष्ठानारोप्ययोरेकस्मिन् ज्ञाने भासमानत्वमात्रमध्यासव्यापकम् , तच्च भानप्रयुक्तसंशयनिवृत्त्यादिफलभाक्त्वम् , तदेव भानभिन्नत्वघटितं विषयत्वम् , तन्न व्यापकम् , गौरवादिति मत्वाऽऽह -

न तावदिति ।

अयमात्मा नियमेनाविषयो न भवति ।

तत्र हेतुमाह -

अस्मदिति ।

अस्मप्रत्ययोऽहमित्यध्यासस्तत्र भासमानत्वादित्यर्थः । अस्मदर्थश्चिदात्मा(अस्मदर्थचिदात्मा)* प्रतिबिम्बितत्वेन यत्र प्रतीयते सोऽस्मत्प्रत्ययोऽहङ्कारस्तत्र भासमानत्वादिति वार्थः । न चाध्यासे सति भासमानत्वं तस्मिन्सति स इति परस्पराश्रय इति वाच्यम् , अनादित्वात् , पूर्वाभ्यासे भासमानात्मन उत्तराध्यासाधिष्ठानत्वसम्भवात् ॥

नन्वहमित्यहङ्कारविषयकभानरूपस्यात्मनो भासमानत्वं कथम् ? तद्विषयत्वं विना तत्फलभाक्त्वायोगादित्यत आह -

अपरोक्षत्वाच्चेति ।

चशब्दः शङ्कानिरासार्थः । स्वप्रकाशत्वादित्यर्थः ।

स्वप्रकाशत्वं साधयति -

प्रत्यगिति ।

आबालपण्डितमात्मनः संशयादिशून्यत्वेन प्रसिद्धेः स्वप्रकाशत्वमित्यर्थः । अतः स्वप्रकाशत्वेन भासमानत्वादात्मनोऽध्यासाधिष्ठानत्वं सम्भवतीति भावः ।

यदुक्तमपरोक्षाध्यासाधिष्ठानत्वस्येन्द्रियसंयुक्ततया ग्राह्यत्वं व्यापकमिति तत्राह -

न चायमिति ।

तत्र हेतुमाह -

अप्रत्यक्षेऽपीति ।

इन्द्रियाग्राह्येऽपीत्यर्थः । बाला अविवेकिनः तलमिन्द्रनीलकटाहकल्पं नभो मलिनं पीतमित्येवमपरोक्षमध्यस्यन्ति, तत्रेन्द्रियग्राह्यत्वं नास्तीति व्यभिचारान्न व्याप्तिः । एतेनात्मानात्मनोः सादृश्याभावान्नाध्यास इत्यपास्तम् , नीलनभसोस्तदभावेऽप्यध्यासदर्शनात् । सिद्धान्ते आलोकाकारचाक्षुषवृत्त्यभिव्यक्तसाक्षिवेद्यत्वं नभस(नभसि)* इति ज्ञेयम् ।

सम्भावनां निगमयति -

एवमिति ।

ननु ब्रह्मज्ञाननाश्यत्वेन सूत्रितामविद्यां हित्वा अध्यासः किमिति वर्ण्यत इत्यत आह -

तमेतमिति ।

आक्षिप्तं समाहितमुक्तलक्षणलक्षितमध्यासमविद्याकार्यत्वादविद्येति मन्यन्त इत्यर्थः ।

विद्यानिवर्त्यत्वाच्चास्याविद्यात्वमित्याह -

तद्विवेकेनेति ।

अध्यस्तनिषेधेनाधिष्ठानस्वरूपनिर्धारणं विद्यामध्यासनिवर्तिकामाहुरित्यर्थः ।

तथापि कारणाविद्यां त्यक्त्वा कार्याविद्या किमिति वर्ण्यते तत्राह -

तत्रेति ।

तस्मिन्नध्यासे उक्तन्यायेनाविद्यात्मके सतीत्यर्थः । मूलाविद्यायाः सषुप्तावनर्थत्वादर्शनात्कार्यात्मना तस्या अनर्थत्वज्ञापनार्थं तद्वर्णनमिति भावः । अध्यस्तकृतगुणदोषाभ्यामधिष्ठानं न लिप्यत इत्यक्षरार्थः ।

एवमध्यासस्य लक्षणसम्भावने उक्त्वा प्रमाणमाह -

तमेतमिति ।

तं वर्णितमेतं साक्षिप्रत्यक्षसिद्धं पुरस्कृत्य हेतुं कृत्वा लौकिकः कर्मशास्त्रीयो मोक्षशास्त्रीयश्चेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः |

तत्र विधिनिषेधपराणि कर्मशास्त्राण्यृग्वेदादीनि, विधिनिषेधशून्यप्रत्यग्ब्रह्मपराणि मोक्षशास्त्राणि वेदान्तवाक्यानीति विभागः । एवं व्यवहारहेतुत्वेनाध्यासे प्रत्यक्षसिद्धेऽपि प्रमाणान्तरं पृच्छति -

कथं पुनरिति ।

अविद्यावानहमित्यध्यासवानात्मा प्रमाता स विषय आश्रयो येषां तानि अविद्यावद्विषयाणीति विग्रहः । तत्तत्प्रमेयव्यवहारहेतुभूतायाः प्रमाया अध्यासात्मकप्रमात्राश्रितत्वात्प्रमाणानामविद्यावद्विषयत्वं यद्यपि प्रत्यक्षं तथापि पुनरपि कथं केन प्रमाणेनाविद्यावद्विषयत्वमिति योजना । यद्वाऽविद्यावद्विषयाणि कथं प्रमाणानि स्युः, आश्रयदोषादप्रामाण्यापत्तेरित्याक्षेपः ।

तत्र प्रमाणप्रश्ने व्यवहारार्थापत्तिम् , तल्लिङ्गकानुमानं(तल्लिङ्गानुमानं)* चाह -

उच्यते इत्यादिना तस्मादित्यन्तेन ।

देवदत्तकर्तृको व्यवहारः, तदीयदेहादिष्वहंममाध्यासमूलः, तदन्वयव्यतिरेकानुसारित्वात् , यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः ।

तत्र व्यतिरेकं दर्शयति -

देहेति ।

देवदत्तस्य सुषुप्तावध्यासाभावे व्यवहाराभावो दृष्टः, जाग्रत्स्वप्नयोरध्यासे सति व्यवहार इत्यन्वयः स्फुटत्वान्नोक्तः । अनेन लिङ्गेन कारणतयाऽध्यासः सिध्यति, व्यवहाररूपकार्यानुपपत्त्या वेति भावः ।

ननु मनुष्यत्वादिजातिमति देहेऽहमित्यभिमानमात्राद्व्यवहारः सिध्यतु किमिन्द्रियादिषु ममाभिमानेनेत्याशङ्क्याह -

नहीति ।

इन्द्रियपदं लिङ्गादेरप्युपलक्षणम् , प्रत्यक्षादीत्यादिपदप्रयोगात् । तथा च प्रत्यक्षलिङ्गादिप्रयुक्तो यो व्यवहारो द्रष्टा अनुमाता श्रोताहमित्यादिरूपः स इन्द्रियादीनि ममतास्पदान्यगृहीत्वा न सम्भवतीत्यर्थः । यद्वा तानि ममत्वेनानुपादाय यो व्यवहारः स नेति योजना । पूर्वत्रानुपादानासम्भवक्रिययोरेको व्यवहारः कर्ता इति क्त्वाप्रत्ययः साधुः । उत्तरत्रानुपादानव्यवहारयोरेकात्मकर्तृकत्वात् , तत्साधुत्वमिति भेदः । इन्द्रियादिषु ममेत्यध्यासाभावेऽन्धादेरिव द्रष्टृत्वादिव्यवहारो न स्यादिति भावः ।

इन्द्रियाध्यासेनैव व्यवहारादलं देहाध्यासेनेत्यत आह -

न चेति ।

इन्द्रियाणामधिष्ठानमाश्रयः । शरीरमित्यर्थः ।

नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किमध्यासेनेत्यत आह -

न चानध्यस्तात्मभावेनेति ।

अनध्यस्त आत्मभावः आत्मतादात्म्यं यस्मिन् तेनेत्यर्थः । ‘असङ्गो हि’ इति श्रुतेः, आध्यासिक एव देहात्मनोः सम्बन्धो न संयोगादिरिति भावः ।

नन्वात्मनो देहादिभिराध्यासिकसम्बन्धोऽपि मास्तु, स्वतश्चेतनतया प्रमातृत्वोपपत्तेः । न च सुषुप्तौ प्रमातृत्वापत्तिः करणोपरमादिति तत्राह -

न चैतस्मिन्निति ।

प्रमाश्रयत्वं हि प्रमातृत्वम् । प्रमा यदि नित्यचिन्मात्रं तर्ह्याश्रयत्वायोगः करणवैयर्थ्यं च । यदि वृत्तिमात्रम् , जगदान्ध्यप्रसङ्गः, वृत्तेर्जडत्वात् । अतो वृत्तीद्धो बोधः प्रमा, तदाश्रयत्वमसङ्गस्यात्मनो वृत्तिमन्मनस्तादात्म्याध्यासं विना न सम्भवतीति भावः । देहाध्यासे, तद्धर्माध्यासे चासतीत्यक्षरार्थः ।

तर्ह्यात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह -

न चेति ।

तस्मादात्मनः प्रमातृत्वादिव्यवहारार्थमध्यासोऽङ्गीकर्तव्य इत्यनुमानार्थापत्त्योः फलमुपसंहरति -

तस्मादिति ।

प्रमाणसत्त्वादित्यर्थः ।

यद्वा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति -

तस्मादिति ।

अहमित्यध्यासस्य प्रमात्रन्तर्गतत्वेनादोषत्वात् , अविद्यावदाश्रयाण्यपि प्रमाणान्येवेति योजना । सति प्रमातरि पश्चाद्भवन् दोष इत्युच्यते, यथा काचादिः । अविद्या तु प्रमात्रन्तर्गतत्वान्न दोषः, येन प्रत्यक्षादीनामप्रामाण्यं भवेदिति भावः ।

ननु यदुक्तमन्वयव्यतिरेकाभ्यां व्यवहारोऽध्यासकार्य इति, तदयुक्तं विदुषामध्यासाभावेऽपि व्यवहारदृष्टेरित्यत आह -

पश्वादिभिश्चेति ।

चशब्दः शङ्कानिरासार्थः, किं विद्वत्त्वं ब्रह्मास्मीति साक्षात्कारः उत यौक्तिकमात्मानात्मभेदज्ञानम् । आद्ये बाधिताध्यासानुवृत्त्या व्यवहार इति समन्वयसूत्रे वक्ष्यते । द्वितीये परोक्षज्ञानस्यापरोक्षभ्रान्त्यनिवर्तकत्वात् , विवेकिनामपि व्यवहारकाले पश्वादिभिरविशेषात् अध्यासवत्त्वेन तुल्यत्वाद्व्यवहारोऽध्यासकार्य इति युक्तमित्यर्थः । अत्रायं प्रयोगः विवेकिनोऽध्यासवन्तः, व्यवहारवत्त्वात् , पश्वादिवदिति ।

तत्र सङ्ग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति -

यथाहीति ।

विज्ञानस्यानुकूलत्वं प्रतिकूलत्वं चेष्टानिष्टसाधनगोचरत्वम् , तदेवोदाहरति -

यथेति ।

अयं दण्डो मदनिष्टसाधनम् , दण्डत्वात् , अनुभूतदण्डवत् , इदं तृणमिष्टसाधनम् अनुभूतजातीयत्वात् , अनुभूततृणवदित्यनुमाय व्यवहरन्तीत्यर्थः ।

अधुना हेतोः पक्षधर्मतामाह -

एवमिति ।

व्युत्पन्नचित्ता अपीत्यन्वयः । विवेकिनोऽपीत्यर्थः ।

फलितमाह -

अत इति ।

अनुभवबलादित्यर्थः ।

समान इति ।

अध्यासकार्यत्वेन तुल्य इत्यर्थः ।

नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यक्षम् , अतः साध्यविकलो दृष्टान्त इति नेत्याह -

पश्वादीनां चेति ।

तेषामात्मानात्मनोर्ज्ञानमात्रमस्ति न विवेकः, उपदेशाभावात् । अतः सामग्रीसत्त्वादध्यासस्तेषां प्रसिद्ध इत्यर्थः ।

निगमयति -

तत्सामान्येति ।

तैः पश्वादिभिः सामान्यं व्यवहारवत्त्वं तस्य दर्शनाद्विवेकिनामप्ययं व्यवहारः समान इति निश्चीयत इति सम्बन्धः । समानत्वं व्यवहारस्याध्यासकार्यत्वेनेत्युक्तं पुरस्तात् ।

तत्रोक्तान्वयव्यतिरेकौ स्मारयति -

तत्काल इति ।

तस्याध्यासस्य काल एव कालो यस्य स तत्कालः । यदा अध्यासस्तदा व्यवहारः, तदभावे सुषुप्तौ तदभाव इत्युक्तान्वयादिमानिति यावत् । अतो व्यवहारलिङ्गाद्विवेकिनामपि देहादिष्वहंममाभिमानोऽस्तीत्यनवद्यम् ।

ननु लौकिकव्यवहारस्याऽऽध्यासिकत्वेऽपि ज्योतिष्टोमादिव्यवहारस्य नाध्यासजन्यत्वम् , तस्य देहातिरिक्तात्मज्ञानपूर्वकत्वादित्याशङ्क्य हेतुमङ्गीकरोति -

शास्त्रीये त्विति ।

तर्हि कथं वैदिककर्मणोऽध्यासजन्यत्वसिद्धिरित्याशङ्क्य किं तत्र देहान्यात्मधीमात्रमपेक्षितमुत, आत्मतत्त्वज्ञानम् , आद्ये तस्याध्यासाबाधकत्वात्तत्सिद्धिरित्याह -

तथापीति ।

न द्वितीय इत्याह -

न वेदान्तेति ।

क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्विपरीतात्मतत्त्वज्ञानम् , अनुपयोगात्प्रवृत्तिबाधाच्चेत्यर्थः ।

शास्त्रीयकर्मणोऽध्यासजन्यत्वं निगमयति -

प्राक्च तथेति(प्राक्चेति)* ।

अध्यासे आगमं प्रमाणयति -

तथा हीति ।

यथा प्रत्यक्षानुमानार्थापत्तयोऽध्यासे प्रमाणं तथागमोऽपीत्यर्थः । ‘ब्राह्मणो यजेत’, ‘न ह वै स्नात्वा भिक्षेत’, ‘अष्टवर्षं ब्राह्मणमुपनयीत’, ‘कृष्णकेशोऽग्नीनादधीत’ इत्यागमो ब्राह्मणादिपदैरधिकारिणं वर्णाद्यभिमानिनमनुवदन्नध्यासं गमयतीति भावः ।

एवमध्यासे प्रमाणसिद्धेऽपि कस्य कुत्राध्यास इति जिज्ञासायां तमुदाहर्तुं लक्षणं स्मारयति -

अध्यासो नामेति ।

उदाहरति -

तद्यथेति ।

तल्लक्षणं यथा स्पष्टं भवति तथोदाह्रियत इत्यर्थः । स्वदेहाद्भेदेन प्रत्यक्षाः पुत्रादयो बाह्याः तद्धर्मान्साकल्यादीन्देहविशिष्टात्मन्यध्यस्यति, तद्धर्मज्ञानात्स्वस्मिंस्तत्तुल्यधर्मानध्यस्यतीत्यर्थः । भेदापरोक्षज्ञाने तद्धर्माध्यासायोगात् , अन्यथाख्यात्यनङ्गीकाराच्चेति द्रष्टव्यम् ।

देहेन्द्रियधर्मान्मनोविशिष्टात्मन्यध्यस्यतीत्याह -

तथेति ।

कृशत्वादिधर्मवतो देहादेरात्मनि तादात्म्येन कल्पितत्वात्तद्धर्माः साक्षादात्मन्यध्यस्ता इति मन्तव्यम् ।

अज्ञाते प्रत्यग्रूपे(अज्ञातप्रत्यग्रूपे)* साक्षिणि मनोधर्माध्यासमाह -

तथान्तःकरणेति ।

धर्माध्यासमुक्त्वा तद्वदेव धर्म्यध्यासमाह -

एवमिति ।

अन्तःकरणं साक्षिण्यभेदेनाध्यस्य तद्धर्मान् कामादीनध्यस्यतीति मन्तव्यम् । स्वप्रचारा मनोवृत्तयः । प्रति - प्रातिलोम्येनासज्जडदुःखात्मकाहङ्कारादिविलक्षणतया सच्चित्सुखात्मकत्वेनाञ्चति प्रकाशत इति प्रत्यक् ।

एवमात्मन्यनात्मतद्धर्माध्यासमुदाहृत्यानात्मन्यात्मनोऽपि संसृष्टत्वेनाध्यासमाह -

तञ्चेति ।

अहमित्यध्यासे चिदात्मनो भानं वाच्यम् , अन्यथा जगदान्ध्यापत्तेः । न चानध्यस्तस्याध्यासे भानमस्ति । तस्माद्रजतादाविदम इवात्मनः संसर्गाध्यास एष्टव्यः ।

तद्विपर्ययेणेति ।

तस्याध्यस्तस्य जडस्य विपर्ययोऽधिष्ठानत्वम् , चैतन्यं च तदात्मना स्थितमिति यावत् । तत्राज्ञाने केवलात्मनः(केवलात्मना)* संसर्गः, मनस्यज्ञानोपहितस्य देहादौ मन उपहितस्येति विशेषः । एवमात्मनि बुद्ध्याद्यध्यासात्कर्तृत्वादिलाभः, बुद्ध्यादौ चात्माध्यासाच्चैतन्यलाभ इति भावः ।

वर्णिताध्यासमुपसंहरति -

एवमयमिति ।

अनाद्यविद्यात्मकतया कार्याध्यासस्यानादित्वम् । अध्यासात्संस्कारस्ततोऽध्यास इति । प्रवाहतो नैसर्गिकत्वम् । एवमुपादानं निमित्तं चोक्तं भवति । ज्ञानं विना ध्वंसाभावादानन्त्यम् । तदुक्तं भगवद्गीतासु ‘न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा’ इति ।

हेतुमुक्त्वा स्वरूपमाह -

मिथ्येति ।

मिथ्या माया तया प्रतीयत इति प्रत्ययः कार्यप्रपञ्चः तत्प्रतीतिश्चेत्येवंस्वरूप इत्यर्थः ।

तस्य कार्यमाह -

कर्तृत्वेति ।

प्रमाणं निगमयति -

सर्वेति ।

साक्षिप्रत्यक्षमेवाध्यासधर्मिग्राहकं मानम् , अनुमानादिकं तु सम्भावानार्थमित्यभिप्रेत्य प्रत्यक्षोपसंहारः कृतः ।

एवमध्यासं वर्णयित्वा तत्साध्ये विषयप्रयोजने दर्शयति -

अस्येति ।

कर्तृत्वाद्यनर्थहेतोरध्यासस्य समूलस्यात्यन्तिकनाशो मोक्षः स केनेत्यत आह -

आत्मेति ।

ब्रह्मात्मैक्यसाक्षात्कारस्य प्रतिपत्तिः श्रवणादिभिरप्रतिबन्धेन लाभस्तस्या इत्यर्थः ।

विद्यायां कारणमाह -

सर्व इति ।

आरभ्यन्ते अधिकृत्य(अधीत्य)* विचार्यन्ते इत्यर्थः । विचारितवेदान्तानां ब्रह्मात्मैक्यं विषयः, मोक्षः फलमित्युक्तं भवति । अर्थात्तद्विचारात्मकशास्त्रस्यापि ते एव विषयप्रयोजने इति ज्ञेयम् ।

ननु वेदान्तेषु प्राणाद्युपास्तीनां दर्शनादात्मैक्यमेव(भानादात्मैक्यमेव)* तेषामर्थ इति कथमित्यत आह -

यथा चेति ।

शरीरमेव शरीरकम् , कुत्सितत्वात् , तन्निवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः । उपास्तीनां चित्तैकाग्र्यद्वारात्मैक्यज्ञानार्थत्वात्तद्वाक्यानामपि महातात्पर्यमैक्ये इति वक्ष्यते । एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनवत्वाच्छास्त्रमारम्भणीयमिति दर्शितम् ॥

॥ इति प्रथमवर्णकम् ॥