श्रीमत्परमहंसमधूसूदनसरस्वतीप्रणीता

अद्वैतसिद्धिः

 

मायाकल्पितमातृतामुखमृषाद्वैतप्रपञ्चाश्रयः
सत्यज्ञानसुखात्मकः श्रुतिशिखोत्थाखण्डधीगोचरः ।
मिथ्याबन्धविधूननेन परमानन्दैकतानात्मकं
मोक्षं प्राप्त इव स्वयं विजयते विष्णुर्विकल्पोज्झितः ॥ १ ॥

श्रीरामविश्वेश्वरमाधवानामैक्येन साक्षात्कृतमाधवानाम् ।
स्पर्शेन निर्धूततमोरजोभ्यः पादोत्थितेभ्योऽस्तु नमो रजोभ्यः ॥ २ ॥

बहुभिर्विहिता बुधैः परार्थं विजयन्तेऽमितविस्तृता निबन्धाः ।
मम तु श्रम एष नूनमात्मम्भरितां भावयितुं भविष्यतीह ॥ ३ ॥

श्रद्धाधनेन मुनिना मधुसूदनेन सङ्गृह्य शास्त्रनिचयं रचितातियत्नात् ।
बोधाय वादिविजयाय च सत्वराणामद्वैतसिद्धिरियमस्तु मुदे बुधानाम् ॥ ४ ॥

तत्राद्वैतसिद्धेर्द्वैतमिथ्यात्वसिद्धिपूर्वकत्वात् द्वैतमिथ्यात्वमेव प्रथममुपपादनीयम् । उपपादनं च स्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तदुभयं वादजल्पवितण्डानामन्यतमां कथामाश्रित्य सम्पादनीयम् । तत्र च विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वान्मध्यस्थेनादौ विप्रतिपत्तिः प्रदर्शनीया । यद्यपि विप्रतिपत्तिजन्यसंशयस्य न पक्षतासम्पादकतयोपयोगः, सिषाधयिषाविरहसहकृतसाधकमानाभावरूपायास्तस्याः संशयाघठितत्वात् ; अन्यथा श्रुत्यात्मनिश्चयवतोऽनुमित्सया तदनुमानं न स्यात् , वाद्यादीनां निश्चयवत्त्वेन संशयासम्भवादाहार्यसंशयस्यातिप्रसञ्जकत्वाच्च ; नापि विप्रतिपत्तेः स्वरूपत एव पक्षप्रतिपक्षपरिग्रहफलकतयोपयोगः, ‘त्वयेदं साधनीयं’, ‘अनेनेदं दूषणीय’मित्यादिमध्यस्थवाक्यादेव तल्लाभेन विप्रतिपत्तिवैयर्थ्यात् ; तथापि विप्रतिपत्तिजन्यसंशयस्यानुमित्यनङ्गत्वेऽपि व्युदसनीयतया विचाराङ्गत्वमस्त्येव । तादृशसंशयं प्रति विप्रतिपत्तेः क्वचिन्निश्चयादिप्रतिबन्धादजनकत्वेऽपि स्वरूपयोग्यत्वात् । वाद्यादीनां च निश्चयवत्त्वे नियमाभावात् ‘निश्चितौ हि वादं कुरुत’ इत्याभिमानिकनिश्चयाभिप्रायं, परपक्षमालम्ब्याप्यहंकारिणो विपरीतनिश्चयवतो जल्पादौ प्रवृत्तिदर्शनात् । तस्मात् समयबन्धादिवत् स्वकर्तव्यनिर्वाहाय मध्यस्थेन विप्रतिपत्तिः प्रदर्शनीयैव । तत्र मिथ्यात्वे विप्रतिपत्तिः ब्रह्मप्रमातिरिक्ताबाध्यत्वे सति सत्त्वेन प्रतीत्यर्हं चिद्भिन्नं प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि न वा, पारमार्थिकत्वाकारेणोक्तनिषेधप्रतियोगि न वेति ।
अत्र च पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात् पक्षैकदेशे साध्यसिद्धावपि सिद्धसाधनतेति मते शुक्तिरूप्ये सिद्धसाधनवारणाय ब्रह्मज्ञानेतराबाध्यत्वं पक्षविशेषणम् । यदि पुनः पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धिरुद्देश्या; तदैकदेशे साध्यसिद्धावपि सिद्धसाधनाभावात् तद्वारकं विशेषणमनुपादेयम् । इतरविशेषणद्वयं तु तुच्छे ब्रह्मणि च बाधवारणायादरणीयमेव । प्रत्येकं वा विप्रतिपत्तिः वियन्मिथ्या न वा, पृथिवी मिथ्या न वेति । एवं वियदादेः प्रत्येकं पक्षत्वेऽपि न घटादौ सन्दिग्धानैकान्तिकता । पक्षसमत्वात् घटादेः । तथा हि पक्षे साध्यसन्देहस्यानुगुणत्वात् पक्षभिन्न एव तस्य दूषणत्वं वाच्यम् । अत एवोक्तं ‘साध्याभावनिश्चयवति हेतुसन्देहे एव सन्दिग्धानैकान्तिकते’ति । पक्षत्वं तु साध्यसन्देहवत्त्वं साध्यगोचरसाधकमानाभाववत्त्वं वा । एतच्च घटादिसाधारणम् । अत एव तत्रापि सन्दिग्धानैकान्तिकत्वं न दोषः । पक्षसमत्वोक्तिस्तु प्रतिज्ञाविषयत्वाभावमात्रेण । न च तर्हि प्रतिज्ञाविषयत्वमेव पक्षत्वम् ; स्वार्थानुमाने तदभावात् । एवं विप्रतिपत्तौ प्राचां प्रयोगाः । विमतं मिथ्या, दृश्यत्वात् , जडत्वात् , परिच्छिन्नत्वात् , शुक्तिरूप्यवदिति । नावयवेष्वाग्रहः । अत्र स्वनियामकनियतया विप्रतिपत्त्या लघुभूतया पक्षतावच्छेदो न विरुद्धः । समयबन्धादिना व्यवधानात्तस्यानुमानकालासत्त्वेऽप्युपलक्षणतया पक्षतावच्छेदकत्वम् । यद्वा विप्रतिपत्तिविषयतावच्छेदकमेव पक्षतावच्छेदकम् । प्राचां प्रयोगेष्वपि विमतमिति पदं विप्रतिपत्तिविषयतावच्छेदकावच्छिन्नाभिप्रायेणेत्यदोषः ।
ननु – किमिदं मिथ्यात्वं साध्यते, न तावत् ‘मिथ्याशब्दोऽनिर्वचनीयतावचन’ इति पञ्चपादिकावचनात् सदसदनधिकरणत्वरूपमनिर्वाच्यत्वम् ; तद्धि किं सत्त्वविशिष्टासत्त्वाभावः, उत सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपं धर्मद्वयम् , आहोस्वित् सत्त्वात्यन्ताभाववत्त्वे सति असत्त्वात्यन्ताभावरूपं विशिष्टम् । नाद्यः; सत्त्वमात्राधारे जगति सत्त्वविशिष्टासत्त्वानभ्युपगमात् , विशिष्टाभावसाधने सिद्धसाधनात् । न द्वितीयः; सत्त्वासत्त्वयोरेकाभावे अपरसत्त्वावश्यकत्वेन व्याघातात् , निर्धर्मकब्रह्मवत्सत्त्वराहित्येऽपि सद्रूपत्वेन अमिथ्यात्वोपपत्त्या अर्थान्तराच्च, शुक्तिरूप्ये अबाध्यत्वरूपसत्त्वव्यतिरेकस्य सत्त्वेन बाध्यत्वरूपासत्त्वस्य व्यतिरेकासिद्ध्या साध्यवैकल्याच्च । अत एव न तृतीयः; पूर्ववद्व्याघातात् , अर्थान्तरात्साध्यवैकल्याच्च - इति चेत् , मैवम् । सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपधर्मद्वयविवक्षायां दोषाभावात्  । न च व्याहतिः । सा हि सत्त्वासत्त्वयोः परस्परविरहरूपतया वा, परस्परविरहव्यापकतया वा, परस्परविरहव्याप्यतया वा । तत्र नाद्यः; तदनङ्गीकारात् । तथाह्यत्र त्रिकालाबाध्यत्वरूपसत्त्वव्यतिरेको नासत्त्वम् , किन्तु क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वानधिकरणत्वम् । तद्व्यतिरेकश्च साध्यत्वेन विवक्षितः । तथा च त्रिकालबाध्यविलक्षणत्वे सति क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम् । एवञ्च सति न शुक्तिरूप्ये साध्यवैकल्यमपि । बाध्यत्वरूपाऽसत्त्वव्यतिरेकस्य साध्याप्रवेशात् । नापि व्याघातः; परस्परविरहरूपत्वाभावात् । अत एव न द्वितीयोऽपि, सत्त्वाभाववति शुक्तिरूप्ये विवक्षितासत्त्वव्यतिरेकस्य विद्यमानत्वेन व्यभिचारात् । नापि तृतीयः, तस्य व्याघाताप्रयोजकत्वात् , गोत्वाश्वत्वयोः परस्परविरहव्याप्यत्वेऽपि तदभावयोरुष्ट्रादावेकत्र सहोपलम्भात् । यच्च – निर्धर्मकस्य ब्रह्मणः सत्त्वराहित्येऽपि सद्रूपवत्प्रपञ्चस्य सद्रूपत्वेनामिथ्यात्वोपपत्त्या अर्थान्तरम् – उक्तम् । तन्न । एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ ब्रह्मवत् प्रपञ्चस्य प्रत्येकं सत्स्वभावताकल्पने मानाभावात् , अनुगतव्यवहाराभावप्रसङ्गाच्च । सत्प्रतियोगिकासत्प्रतियोगिकभेदद्वयं वा साध्यम् । तथाचोभयात्मकत्वेऽन्यतरात्मकत्वे वा, तादृग्भेदासम्भवेन ताभ्यामर्थान्तरानवकाशः । न च – असत्त्वव्यतिरेकांशस्यासद्भेदस्य च प्रपञ्चे सिद्धत्वेनांशतः सिद्धसाधनमिति – वाच्यम् ; ‘गुणादिकं गुण्यादिना भिन्नाभिन्नं समानाधिकृतत्वादिति भेदाभेदवादिप्रयोगे तार्किकाद्यङ्गीकृतस्य भिन्नत्वस्य सिद्धावपि उद्देश्यप्रतीत्यसिद्धेर्यथा न सिद्धसाधनं, तथा प्रकृतेऽपि मिलितप्रतीतेरुद्देश्यत्वान्न सिद्धसाधनम् । यथा च तत्राभेदे घटः कुम्भ इति सामानाधिकरण्यप्रतीतेरदर्शनेन मिलितसिद्धिरुद्देश्या, तथा प्रकृतेऽपि सत्त्वरहिते तुच्छे दृश्यत्वादर्शनेन मिलितस्य तत्प्रयोजकतया मिलितसिद्धिरुद्देश्येति समानम् । अत एव सत्त्वात्यन्ताभाववत्त्वे सति असत्त्वात्यन्ताभावरूपं विशिष्टं साध्यमित्यपि साधु । न च – मिलितस्य विशिष्टस्य वा साध्यत्वे तस्य कुत्राप्यप्रसिद्ध्या अप्रसिद्धविशेषणत्वं, प्रत्येकं सिद्ध्या मिलितस्य विशिष्टस्य वा साधने, शशशृङ्गयोः प्रत्येकं प्रसिद्ध्या शशीयशृङ्गसाधनमपि स्यादिति – वाच्यम् ; तथाविधप्रसिद्धेः शुक्तिरूप्य एवोक्तत्वात् । न च – निर्धर्मकत्वात् ब्रह्मणः सत्त्वासत्त्वरूपधर्मद्वयशून्यत्वेन तत्रातिव्याप्तिः; सद्रूपत्वेन ब्रह्मणः तदत्यन्ताभावानधिकरणत्वात् निर्धर्मकत्वेनैवाभावरूपधर्मानधिकरणत्वाच्चेति दिक् ॥
॥ इति सदसद्विलक्षणत्वरूपप्रथममिथ्यात्वविचारः ॥
प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा मिथ्यात्वम् । ननु – प्रतिपन्नोपाधौ त्रैकालिकनिषेधस्य तात्त्विकत्वे अद्वैतहानिः, प्रातिभासिकत्वे सिद्धसाधनं, व्यावहारिकत्वेऽपि तस्य बाध्यत्वेन तात्त्विकसत्त्वाविरोधितया अर्थान्तरम्, अद्वैतश्रुतेरतत्त्वावेदकत्वं च तत्प्रतियोगिनः प्रातिभासिकस्य प्रपञ्चस्य पारमार्थिकत्वं च स्यादिति चेन्न; प्रपञ्चनिषेधाधिकरणीभूतब्रह्माभिन्नत्वान्निषेधस्य तात्त्विकत्वेऽपि नाद्वैतहानिकरत्वम् । न च तात्त्विकाभावप्रतियोगिनः प्रपञ्चस्य तात्त्विकत्वापत्तिः; तात्त्विकाभावप्रतियोगिनि शुक्तिरजतादौ कल्पिते व्यभिचारात् । अतात्त्विक एव वा निषेधोऽयम् । अतात्त्विकत्वेऽपि न प्रातिभासिकः, किन्तु, व्यावहारिकः । न च – तर्हि निषेधस्य बाध्यत्वेन तात्त्विकसत्ताविरोधित्वादर्थान्तरमिति – वाच्यम् ; स्वाप्नार्थस्य स्वाप्ननिषेधेन बाधदर्शनात् । निषेधस्य बाध्यत्वं पारमार्थिकसत्त्वाविरोधित्वे न तन्त्रम् , किन्तु निषेध्यापेक्षया न्यूनसत्ताकत्वम् ; प्रकृते च तुल्यसत्ताकत्वात् कथं न विरोधित्वम् । न च – निषेधस्य निषेधे प्रतियोगिसत्त्वापत्तिरिति – वाच्यम् ; तत्र हि निषेधस्य निषेधे प्रतियोगिसत्त्वमायाति, यत्र निषेधस्य निषेधबुद्ध्या प्रतियोगिसत्त्वं व्यवस्थाप्यते, न निषेधमात्रं निषिध्यते, यथा रजते नेदं रजतमिति ज्ञानानन्तरमिदं नारजतमिति ज्ञानेन रजतं व्यवस्थाप्यते । यत्र तु प्रतियोगिनिषेधयोरुभयोरपि निषेधस्तत्र न प्रतियोगिसत्त्वम् ; यथा ध्वंससमये प्रागभावप्रतियोगिनोरुभयोर्निषेधः । एवं च प्रकृतेऽपि निषेधबाधकेन प्रतियोगिनः प्रपञ्चस्य निषेधस्य च बाधनात् तन्निषेधस्य बाध्यत्वेऽपि प्रपञ्चस्य तात्त्विकत्वम् ; उभयोरपि निषेध्यतावच्छेदकस्य दृश्यत्वादेस्तुल्यत्वात् । न चातात्त्विकनिषेधबोधकत्वे श्रुतेरप्रामाण्यापत्तिः, ब्रह्मभिन्नं प्रपञ्चनिषेधादिकम् अतात्त्विकमित्यतात्त्विकत्वेन बोधयन्त्याः श्रुतेरप्रामाण्यासम्भवात् । ननु – तन्निषेधप्रतियोगित्वं किं स्वरूपेण, उतासद्विलक्षणस्वरूपानुपमर्देन पारमार्थिकत्वाकारेण वा । नाद्यः; श्रुत्यादिसिद्धोत्पत्तिकस्यार्थक्रियासमर्थस्याविद्योपादानकस्य तत्त्वज्ञाननाश्यस्य च वियदादेः रूप्यादेश्च धीकालविद्यमानेन असद्विलक्षणस्वरूपेण त्रैकालिकनिषेधायोगात् । नापि द्वितीयः ; अबाध्यत्वरूपपारमार्थिकत्वस्य बाध्यत्वरूपमिथ्यात्वनिरूप्यत्वेन अन्योन्याश्रयात् , पारमार्थिकत्वस्यापि स्वरूपेण निषेधे प्रथमपक्षोक्तदोषापत्तिः, अतस्तस्यापि पारमार्थिकत्वाकारेण निषेधे अनवस्था स्यात् – इति चेन्मैवं; स्वरूपेणैव त्रैका लिकनिषेधप्रतियोगित्वस्य प्रपञ्चे शुक्तिरूप्ये चाङ्गीकारात् । तथा हि – शुक्तौ रजतभ्रमानन्तरम् अधिष्ठानतत्त्वसाक्षात्कारे रूप्यं नास्ति नासीन्नभविष्यतीति स्वरूपेणेव, ’नेह नाने’ति श्रुत्या च प्रपञ्चस्य स्वरूपेणैव निषेधप्रतीतेः । न च – तत्र लौकिकपरमार्थरजतमेव स्वरूपेण निषेधप्रतियोगीति – वाच्यम् ; भ्रमबाधयोर्वैयधिकरणापत्तेः; अप्रसक्तप्रतिषेधापत्तेश्च । न च तर्ह्युत्पत्त्याद्यसम्भवः, न ह्यनिषिद्धस्वरूपत्वमुत्पत्त्यादिमत्त्वे तन्त्रम् , परैरनिषेध्यरूपत्वेनाङ्गीकृतस्य वियदादेरुत्पत्त्याद्यनङ्गीकारात् , किन्तु वस्तुस्वभावादिकमन्यदेव किञ्चित् प्रयोजकं वक्तव्यम् । तस्य मयापि कल्पितस्य स्वीकारात् । न च – ’त्रैकालिकनिषेधं प्रति स्वरूपेणापणस्थं रूप्यं पारमार्थिकत्वाकारेण प्रातिभासिकं वा प्रतियोगी’ति मतहानिः स्यादिति – वाच्यम् ; अस्याचार्यवचसः पारमार्थिकलौकिकरजततादात्म्येन प्रतीतं प्रातिभासिकमेव रजतं प्रतियोगीत्यर्थः । तच्च स्वरूपेण पारमार्थिकत्वेन वेत्यनास्थायां वा शब्दः । एतावदुक्तिश्च पुरोवर्तितादात्म्येनैव रजतं प्रतीयत इति मतनिरासार्थं लौकिकपरमार्थरजततादात्म्येनापि प्रतीयत इति प्रतिपादयितुं च । तदुक्तं तत्त्वप्रदीपिकायां – ’तस्माल्लौकिकपरमार्थरजतमेव नेदं रजतमिति निषेधप्रतियोगीति पूर्वाचार्याणां वाचोयुक्तिरपि पुरोवर्तिनि रजतार्थिनः प्रवृत्तिदर्शनात् लौकिकपरमार्थरजतत्वेनापरोक्षतया प्रतीतस्य कालत्रयेऽपि लौकिकपरमार्थरजतमिदं न भवतीति निषेधप्रतियोगितामङ्गीकृत्य नेतव्ये’ति । अयमाशयः – एकविभक्त्यन्तपदोपस्थापिते धर्मिणि प्रतियोगिनि च नञोऽन्योन्याभावबोधकत्वनियमस्य व्युत्पत्तिबलसिद्धत्वात् “घटः पटो न भवती”ति वाक्यव”दिदं रजतं न भवती”ति वाक्यस्य अन्योन्याभावबोधकत्वे स्थिते अभिलापजन्यप्रतीतितुल्यत्वादभिलप्यमानप्रतीतेः नेदं रजतमिति वाक्याभिलप्यप्रतीतेरन्योन्याभावविषयत्वमेव । तथा चेदंशब्दनिर्दिष्टे पुरोवर्तिप्रातीतिकरजते रजतशब्दनिर्दिष्टव्यावहारिकरजतान्योन्याभावप्रतीतेरार्थिकं मिथ्यात्वम् , ’नात्र रजत’मिति वाक्याभिलप्या तु प्रतीतिरत्यन्ताभावविषया ; भिन्नविभक्त्यन्तपदोपस्थापितयोरेव धर्मिप्रतियोगिनोर्नञः संसर्गाभावबोधकत्वनियमात् । सा च पुरोवर्तिप्रतीतरजतस्यैव व्यावहारिकमत्यन्ताभावं विषयीकरोतीति कण्ठोक्तमेव मिथ्यात्वम् । अतो नापसिद्धान्तो नान्यथाख्यात्यापत्तिर्न वा ग्रन्थविरोध इत्यनवद्यम् । ननु – एवमत्यन्तासत्त्वापातः, प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं ह्यन्यत्रासत्त्वेन सम्प्रतिपन्नस्य घटादेः सर्वत्र त्रैकालिकनिषेधप्रतियोगित्वं पर्यवसितम् ; अन्यथा तेषाम् अन्यत्र सत्त्वापातात् , न हि तेषामन्यत्र सत्ता सम्भवतीति त्वदुक्तेश्च; तथा च कथमसद्वैलक्षण्यम् , न हि शशशृङ्गादेरितोऽन्यदसत्त्वम् । न च निरुपाख्यत्वमेव तदसत्त्वम् ; निरुपाख्यत्वपदेनैव व्याख्यायमानत्वात् । नाप्यप्रतीयमानत्वमसत्त्वम् ; असतोऽप्रतीतौ असद्वैलक्षण्यज्ञानस्यासत्प्रतीतिनिरासस्यासत्पदप्रयोगस्य चायोगात् । न चापरोक्षतया अप्रतीयमानत्वं तत् ; नित्यातीन्द्रियेष्वतिव्याप्तेः – इति चेन्मैवम् ; सर्वत्र त्रैकालिकनिषेधप्रतियोगित्वं यद्यपि तुच्छानिर्वाच्ययोः साधारणम् ; तथापि क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वम् अत्यन्तासत्त्वम् , शूक्तिरूप्ये प्रपञ्चे च बाधात् पूर्वं नास्त्येवेति न तुच्छत्वापत्तिः । न च बाधात् पूर्वं शूक्तिरूप्यं प्रपञ्चो वा सत्त्वेन न प्रतीयते । एतदेव सदर्थकेनोपाधिपदेन सूचितम् । शून्यवादिभिः सदधिष्ठानभ्रमानङ्गीकारेण क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वरूपासद्वैलक्षण्यस्य (क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वरूपस्य) शुक्तिरूप्ये प्रपञ्चे चानङ्गीकारात् । नन्वेवं सति – यावत्सदधिकरणात्यन्ताभावप्रतियोगित्वं पर्यवसितम् । तथा च केवलान्वय्यत्यन्ताभावप्रतियोगिषु अवृत्तिषु गगनादिषु तार्किकाणां सिद्धसाधनम् ; यदधिकरणं यत्सत् तन्निष्ठात्यन्ताभावप्रतियोगित्वं तस्य मिथ्यात्वमिति विवक्षायाम्, अधिकरणपदेनावृत्तिनिराकरणेऽपि संयोगसम्बन्धेन समवायसम्बन्धेन वा यत् घटाधिकरणं समवायसम्बन्धेन संयोगसम्बन्धेन वा घटस्य तन्निष्ठात्यन्ताभावप्रतियोगितया सर्वेषु वृत्तिमत्सु दुरुद्धरं सिद्धसाधनम् । येन सम्बन्धेन यद्यस्याधिकरणं तेन सम्बन्धेन तन्निष्ठात्यन्ताभावप्रतियोगित्वमिति विवक्षायाम् अव्याप्यवृत्तिषु संयोगादिषु सिद्धसाधनम् – इति चेन्न । येन रूपेण यदधिकरणतया यत् प्रतिपन्नं तेन रूपेण तन्निष्ठात्यन्ताभावप्रतियोगित्वस्य प्रतिपन्नपदेन सूचितत्त्वात् । तच्च रूपं सम्बन्धविशेषोऽवच्छेदकविशेषश्च । न हि सम्बन्धविशेषमन्तरेण भूतले घटाधिकरणता प्रतीयते । अवच्छेदकविशेषमन्तरेण वा वृक्षे कपिसंयोगाधिकरणता । तथा च येन सम्बन्धविशेषेण येन चावच्छेदकविशेषेण यदधिकरणताप्रतीतिर्यत्र भवितुमर्हति, तेनैव सम्बन्धविशेषेण तेनैव चावच्छेदकविशेषेण तदधिकरणकात्यन्ताभावप्रतियोगित्वं तस्य मिथ्यात्वमिति पर्यवसिते क्व सिद्धसाधनम् । यदि पुनः ध्वंसप्रागभावप्रतियोगित्वमिवात्यन्ताभावप्रतियोगित्वमाकाशादौ न स्यात् ; साधकमानाभावस्य तुल्यत्वात् , इहाकाशो नास्तीति प्रत्यक्षप्रतीत्यसम्भवात् , अनुमाने चानुकूलतर्काभावात् , सामान्यतो दृष्टमात्रेण ध्वंसप्रागभावप्रतियोगित्वस्यापि सिद्धिप्रसङ्गात् , तद्व्यतिरेकेण कस्यचित् कार्यस्यानुपपत्तेरभावाच्च, एवं संयोगसम्बन्धेन घटवति भूतले समवायसम्बन्धेन घटाभावसत्त्वे मानाभावाल्लाघवेन घटात्यन्ताभावत्वेनैव घटसामानाधिकरण्यविरोधित्वकल्पनात् सम्बन्धविशेषप्रवेशे च गौरवात् घटसमवायमात्रविषयतया प्रतीतेरुपपत्तेराधाराधेयभावस्य प्रत्यक्षसिद्धत्वेन घटस्यावृत्तित्वशङ्कानुदयादुक्तयुक्तेश्च न घटादेरत्यन्ताभावसामानाधिकरण्यम् ; एवं च संयोगतदभावयोर्नैकाधिकरण्यम् ; ’अग्रे वृक्षः कपिसंयोगी मूले ने’ति प्रतीतेरग्रमूलयोरेव संयोगतदभाववत्तयोपपत्तेः, तदा सन्मात्रनिष्ठात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वं मन्तव्यम् । न चैवं सति – भावाभावयोरविरोधात्तज्ज्ञानयोर्बाध्यबाधकभावो न स्यादिति – वाच्यम् ; भिन्नसत्ताकयोरविरोधेऽपि समसत्ताकयोर्विरोधात् । यत्र भूतले यस्य घटस्यात्यन्ताभावो व्यावहारिकः तत्र स घटो न व्यावहारिक इति नियमात् । न चैवं सति – ’शुक्तिरियं न रजत’मिति ज्ञानविषयीभूताभावस्य व्यावहारिकत्वेन पुरोवर्तिप्रतीतरजतस्य व्यावहारिकत्वापहारेऽपि प्रातीतिकसत्त्वानपहारात् बाधोत्तरकालेऽपि ’इदं रजत’मिति प्रतीतिः स्यादिति – वाच्यम् ; तत्र ’इयं शुक्ति’रित्यपरोक्षप्रमया प्रातीतिकरजतोपादानाज्ञाननिवृत्तौ प्रातीतिकसत्त्वस्याप्यपहारात् , शुक्त्यज्ञानस्य प्रातीतिकरजतोपादानत्वेन तदसत्वे प्रातीतिकरजतासत्त्वस्यावश्यकत्वात् । अत एव यत्र परोक्षयाधिष्ठानप्रमया न भ्रमोपादानाज्ञाननिवृत्तिः, तत्र व्यावहारिकत्वापहारेऽपि प्रातीतिकत्वानपहारात् ’तिक्तो गुड’ इत्यादिप्रतीतिरनुवर्तत एव । एवमखण्डब्रह्मसाक्षात्कारात्पूर्वं परोक्षबोधेन प्रपञ्चस्य व्यावहारिकत्वापहारेऽपि प्रतीतिरनुवर्तत एव , अधिष्ठानाज्ञाननिवृत्तौ तु नानुवर्तिष्यते । एतेन – उपाधिशब्देनाधिकरणमात्रविवक्षायामर्थान्तरम् , वाय्वधिकरणकात्यन्ताभावप्रतियोगित्वेऽपि रूपस्यामिथ्यत्वात् , अधिष्ठानविवक्षायां तु भ्रमोपादानाज्ञानविषयस्याधिष्ठानत्वेनान्योन्याश्रयत्वं, ज्ञानस्य भ्रमत्वे विषयस्य मिथ्यात्वं, विषयस्य मिथ्यात्वे च ज्ञानस्य भ्रमत्वमिति – परास्तम् ; उक्तरीत्या अधिकरणविवक्षायां दोषाभावात् । न च – ’स एवाधस्ता’दिति श्रुत्या प्रतिपन्ने देशकालाद्युपाधौ परमार्थतो ब्रह्मणोऽभावात्तत्रातिव्याप्तिरिति – वाच्यम् ; निर्धर्मके तस्मिन्नभावप्रतियोगित्वरूपधर्माभावात् । न चैवं – सत्यत्वमपि तत्र न स्यात् , तथा च ’सत्यं ज्ञानमनन्त’मित्यादिश्रुतिव्याकोप इति – वाच्यम् ; अधिकरणातिरिक्ताभावानभ्युपगमेनोक्तमिथ्यात्वाभावरूपसत्यत्वस्य ब्रह्मस्वरूपाविरोधात् । एतेन – स्वप्रकाशत्वाद्यपि – व्याख्यातम् ; परप्रकाश्यत्वाभावो हि स्वप्रकाशत्वम् , कालपरिच्छेदाभावो नित्यत्वम् , देशपरिच्छेदाभावो विभुत्वम् , वस्तुपरिच्छेदाभावः पूर्णत्वमित्यादि । तथा च भावभूतधर्मानाश्रयत्वेऽपि ब्रह्मणः सर्वधर्माभावरूपतया न काप्यनुपपत्तिरिति सर्वमवदातम् ॥
॥ इति सदसद्विलक्षणत्वरूपद्वितीयमिथ्यात्वविचारः ॥
ज्ञाननिवर्त्यत्वं वा मिथ्यात्वम् । ननु – उत्तरज्ञाननिवर्त्ये पूर्वज्ञाने अतिव्याप्तिः, मुद्गरपातादिनिवर्त्ये च घटादावव्याप्तिः, ज्ञानत्वेन ज्ञाननिवर्त्यत्वविवक्षायामप्ययं दोषः, अधिष्ठानसाक्षात्कारत्वेन निवर्त्ये शुक्तिरजतादौ च ज्ञानत्वेन ज्ञाननिवर्त्यत्वाभावात् साध्यविकलता, ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वविवक्षायां ज्ञानत्वव्याप्येन समृतित्वेन ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिः – इति चेन्न; ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम् । अवस्थितिश्च द्वेधा; स्वरूपेण कारणात्मना च ; सत्कार्यवादाभ्युपगमात् । तथा च मुद्गरपातेन घटस्य स्वरूपेणावस्थितिविरहेऽपि कारणात्मनावस्थितिविरहाभावात् ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावतिव्याप्तिः । अत एवोत्तरज्ञाननिवर्त्ये पूर्वज्ञाने न सिद्धसाधनम् ; न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्वदेव मिथ्यात्वासिद्ध्यार्थान्तरम् ; उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मनावस्थानादवस्थितिसामान्यविरहानुपपत्तेः । शशविषाणादाववस्थितिसामान्यविरहेऽपि तस्य ज्ञानप्रयुक्तत्वाभावान्नातिव्याप्तिः । शुक्तिरजतादेश्चापरोक्षप्रतीत्यन्यथानुपपत्त्या प्रतिभासकाले अवस्थित्यङ्गीकारान्न बाधकज्ञानं विना तद्विरह इति न साध्यविकलता । अत एवोक्तं विवरणाचार्यैः – ’अज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन निवृत्तिर्बाध ’ इति । वार्तिककृद्भिश्चोक्तम् – ’तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति ॥’ इति । ’सहकार्येण नासी’दिति लीनेन कार्येण सह निवृत्त्यभिप्रायम् । ’सह कार्येण न भविष्यती’ति तु भाविकार्यनिवृत्त्यभिप्रायमित्यन्यदेतत् । रूप्योपादानमज्ञानं स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारान्निवर्तते । तत्तद्रूप्योपादानानामज्ञानानां भेदाभ्युपगमादिति न दृष्टान्ते साध्यवैकल्यम् ; मुद्गरपातानन्तरं घटो नास्तीति प्रतीतिवदधिष्ठानज्ञानानन्तरं शुक्त्यज्ञानं तद्गतरूप्यं च नास्तीति प्रतीतेः सर्वसम्मतत्वात् । ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्यत्वमित्यपि साधु । उत्तरज्ञानस्य पूर्वज्ञाननिवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण ? किन्त्विच्छादिसाधारणेनोदीच्यात्मविशेषगुणत्वेन उदीच्यत्वेन वेति न सिद्धसाधनादि । नापीच्छाद्यनिवर्त्ये स्मृतित्वे न ज्ञाननिवर्त्ये संस्कारे अतिव्याप्तिः ; स्मृतित्वेन स्मृतेः संस्कारनिवर्तकत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवतीत्यनुभवसिद्धम् । तेषां दृढतरत्वं च समानविषयकसंस्कारानेकत्वमित्यदोषः । वस्तुतस्तु, साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विवक्षितम् ; अतो न पूर्वोक्तदोषः । नापि निश्चयत्वेन ज्ञानत्वव्याप्यधर्मेण ज्ञाननिवर्त्ये संशये अतिव्याप्तिरिति सर्वमवदातम् ॥
॥ इति तृतीयमिथ्यात्वविचारः ॥
स्वाश्रयनिष्ठात्यन्ताभावप्रतयोगित्वं वा मिथ्यात्वम् । तच्च स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वम् । अतः पूर्ववैलक्षण्यम् । दूषणपरिहारः पूर्ववत् । न च – संयोगिनि समवायिनि वा देशे तदत्यन्ताभावासम्भवः, सम्भवे तूपादानत्वाद्यनुपपत्तिरिति – वाच्यम् ; काले सहसम्भववद्देशेऽपि सहसम्भवाविरोधात् , प्रागभावसत्त्वेनोपादानत्वाविरोधाच्च । न च – अत्यन्ताभावाधिकरणे प्रागभावस्याप्यनुपपत्तिरिति – वाच्यम् ; काले व्यभिचारात् । न च – काले प्रागभावात्यन्ताभावयोः सामानाधिकरण्यमिदानीं घटात्यन्ताभाव इदानीं घटप्रागभाव इति प्रतीतिबालादङ्गीकृतम् , देशे तु तदुभयसामानाधिकरण्ये न किञ्चिदपि प्रमाणमिति – वाच्यम् । मिथ्यात्वानुमितेः श्रुत्यादेश्च प्रमाणत्वात् । विषमसत्ताकभावाभावयोरविरोधः पूर्वमुपपादितः । न च असत्यतिव्याप्तिः; स्वात्यन्ताभावाधिकरण एव सत्त्वेन प्रतीयमानत्वस्य विवक्षितत्वात् । न च – ’तद्धैक आहुरसदेवेदमग्र आसी’दिति श्रुत्या असतः सत्त्वप्रतीतेस्तत्रातिव्याप्तिर्दुष्परिहरेति – वाच्यम् ; ’सदेवेदमग्र आसी’दित्यस्यार्थस्याभाव एव नञा प्रतिपाद्यते, न त्वसतः सत्त्वम् ; विरोधात् । अतो नातिव्याप्तिः । सर्वं चान्यत् पूर्वोक्तमेवानुसन्धेयमित्युपरम्यते ॥
॥ इति चतुर्थमिथ्यात्वविचारः ॥
सद्विविक्तत्वं वा मिथ्यात्वम् । सत्त्वं च प्रमाणसिद्धत्वम् । प्रमाणत्वं च दोषासहकृतज्ञानकरणत्वम् । तेन स्वप्नादिवत्प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिद्ध्यति । प्रमाणसिद्धत्वं चाबाध्यत्वव्याप्यमित्यन्यत् । अत्राप्यसति निर्धर्मके ब्रह्मणि चातिव्याप्तिवारणाय सत्त्वेन प्रतीयमानत्वं विशेषणं देयम् ; तयोः सत्त्वप्रकारकप्रतीतिविषयत्वाभावात् । अत एव – ‘सद्विविक्तत्व’मित्यत्र सत्त्वं सत्ताजात्यधिकरणत्वं वा, अबाध्यत्वं वा, ब्रह्मरूपत्वं वा । आद्ये घटादावाविद्यकजातेस्त्वयाभ्युपगमेनासम्भवः; द्वितीये बाध्यत्वरूपमिथ्यात्वपर्यवसानम् ; तृतीये सिद्धसाधनमिति – निरस्तम् ; अनभ्युपगमादेव । सदसद्विलक्षणत्वपक्षोक्तयुक्तयश्चात्रानुसन्धेयाः । अवशिष्टं च दृष्टान्तसिद्धौ वक्ष्यामः ॥
॥ इत्यद्वैतसिद्धौ पञ्चममिथ्यात्वनिरुक्तिः ॥
ननु – उक्तमिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापातः, एकस्मिन् धर्मिणि प्रसक्तयोः विरुद्धधर्मयोरेकमिथ्यात्वे अपरसत्यत्वनियमात् , मिथ्यात्वसत्यत्वे च तद्वदेव प्रपञ्चसत्यत्वापत्तेः , उभयताप्यद्वैतव्याघात – इति चेन्न ; मिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तेः । तत्र हि विरुद्धयोर्धर्मयोरेकमिथ्यात्वे अपरसत्वम् , यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेत् ; यथा परस्परविरहरूपयो रजतत्वतदभावयोः शुक्तौ, यथा वा परस्परविरहव्यापकयो रजतभिन्नत्वरजतत्वयोः तत्रैव ; तत्र निषेध्यतावच्छेदकभेदनियमात् , प्रकृते तु निषेध्यतावच्छेदकमेकमेव दृश्यत्वादि, यथा गोत्वाश्वत्वयोरेकस्मिन् गजे निषेधे गजत्वात्यन्ताभावव्याप्यत्वं निषेध्यतावच्छेदकमुभयोस्तुल्यमिति नैकतरनिषेधे अन्यतरसत्वं तद्वत् । यथा च सत्यत्वमिथ्यात्वयोर्न परस्परविरहरूपत्वम् , न वा परस्परविरहव्यापकत्वम् ; तथोपपादितमधस्तात् । परस्परविरहरूपत्वेऽपि विषमसत्ताकयोरविरोधात् , व्यावहारिकमिथ्यात्वेन व्यावहारिकसत्यत्वापहारेऽपि काल्पनिकसत्यत्वानपहारात् , तार्किकमतसिद्धसंयोगतदभाववत् सत्यत्वमिथ्यात्वयोः समुच्चयाभ्युपगमाच्च । एकस्य साधकेन अपरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम् , यथा शुक्तिरूप्यतदभावयोः । एकबाधकबाध्यत्वं च समसत्ताकत्वे प्रयोजकम् , यथा शुक्तिरूप्यशुक्तिभिन्नत्वयोः । अस्ति च प्रपञ्चतन्मिथ्यात्वयोरेकब्रह्मज्ञानबाध्यत्वम् । अतः समसत्ताकत्वान्मिथ्यात्वबाधकेन प्रपञ्चस्यापि बाधान्नाद्वैतक्षतिरिति कृतमधिकेन ॥
॥ इति मिथ्यात्वसामान्योपपत्तिः ॥
ननु – मिथ्यात्वे साध्ये हेतूकृतं यद्दृश्यत्वं तदप्युपपादनीयम् । तथा हि – किमिदं दृश्यत्वम् ? वृत्तिव्याप्यत्वं वा१ फलव्याप्यत्वं वा२ साधारणं वा३ कदाचित् कथंचिच्चिद्विषयत्वं वा४ स्वव्यवहारे स्वातिरिक्तसंविदन्तरापेक्षानियतिर्वा५ अस्वप्रकाशत्वं वा६ । नाद्यः; आत्मनो वेदान्तजन्यवृत्तिव्याप्यत्वेन तत्र व्यभिचारात् । अत एव न तृतीयोऽपि । नापि द्वितीयः; नित्यातीन्द्रिये शुक्तिरूप्यादौ च तदभावेन भागासिद्धिसाधनवैकल्ययोः प्रसङ्गात् । नापि चतुर्थः; ब्रह्म पूर्वं न ज्ञातमिदानीं वेदान्तेन ज्ञातमित्यनुभवेन आत्मनि व्यभिचारात् । नापि पञ्चमः; ब्रह्मण्यप्यद्वितीयत्वादिविशिष्टव्यवहारे संविदन्तरापेक्षानियतिदर्शनेन व्यभिचारात् । नापि षष्ठः; स हि अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपः । तथा च शुक्तिरूप्यादेरपि अपरोक्षव्यवहारयोग्यत्वेन साधनवैकल्यात् – इति चेन्मैवम् ; फलव्याप्यत्वव्यतिरिक्तस्य सर्वस्यापि पक्षस्य क्षोदक्षमत्वात् । न च – वृत्तिव्याप्यत्वपक्षे ब्रह्मणि व्यभिचारः, अन्यथा ब्रह्मपराणां वेदान्तानां वैयर्थ्यप्रसङ्गादिति – वाच्यम् ; शुद्धं हि ब्रह्म न दृश्यम् ; ’यत्तदद्रेश्य’ मिति श्रुतेः , किन्तूपहितमेव, तच्च मिथ्यैव; न हि वृत्तिदशायाम् अनुपहितं तद्भवति । न च – ’सर्वप्रत्ययवेद्येऽस्मिन् ब्रह्मरूपे व्यवस्थिते’ इति स्ववचनविरोध इति – वाच्यम् ; तस्याप्युपहितपरत्वात् । न च – एवं सति शुद्धसिद्धिर्न स्यादिति – वाच्यम् ; स्वत एव तस्य प्रकाशत्वेन सिद्धत्वात् । ननु – अज्ञाते धर्मिणि कस्यचित् धर्मस्य विधातुं निषेद्धुं वा अशक्यत्वेन शुद्धे दृश्यत्वं निषेधता शुद्धस्य ज्ञेयत्वमवश्यं स्वीकरणीयम् , न च – स्वप्रकाशत्वेन स्वतः सिद्धे शुद्धे श्रुत्या दृश्यत्वनिषेध इति – वाच्यम् ; शुद्धं स्वप्रकाशमिति शब्दजन्यविशिष्टवृत्तौ शुद्धाप्रकाशे तस्य स्वप्रकाशत्वासिद्धेः – इति चेन्न; वृत्तिकाले वृत्तिरूपेण धर्मेण शुद्धत्वासम्भवात् शुद्धस्य वृत्तिविषयत्वं न सम्भवति, अतः ’शुद्धं स्वप्रकाश’मिति वाक्यस्य लक्षणया अशुद्धत्वमस्वप्रकाशत्वव्यापकमित्यर्थः । तथा च अशुद्धत्वव्यावृत्त्या शुद्धे स्वप्रकाश्यता पर्यवस्यति, यथा भेदनिषेधेन अभिन्नत्वम् । न च – शुद्धपदेन अभिधया लक्षणया वा शुद्धाप्रकाशे तत्प्रयोगवैयर्थ्यमिति – वाच्यम् ; पर्यवसितार्थमादाय सार्थकत्वोपपत्तेः । एवं च ’शुद्धं न दृश्यं न मिथ्ये’त्यस्याप्यशुद्धत्वं दृश्यत्वमिथ्यात्वयोर्व्यापकमित्येतत्परत्वेन शुद्धे दृश्यत्वमिथ्यात्वयोर्व्यतिरेकः पर्यवस्यति । एतेन – स्फुरणमात्रमेव मिथ्यात्वे तन्त्रम् ; लाघवात् , अतः ’स्वतः स्फुरदपि ब्रह्म मिथ्यैवे’ति – शून्यवादिमतमपास्तम् ; स्वतःस्फुरणरूपतायाः शुक्तिरूप्यादावभावात् , स्फुरणविषयत्वस्य ब्रह्मण्यसिद्धेः । ननु – विशिष्टज्ञाने विशेष्यस्यापि भाने श्रुत्या विशिष्टस्य दृश्यत्वेनैव विशेष्यस्यापि दृश्यत्वाद्व्यभिचारः, न च – ’विष्णवे शिपिविष्टाये’त्यादौ विशिष्टस्य देवतात्ववत् विशिष्टस्य विषयत्वम् , अग्नीषोमयोर्मिलितयोर्देवतात्ववद्वा मिलितस्य विषयत्वम् , अतो न विशेष्ये विषयत्वमिति – वाच्यम् ; तद्वदेव विशेषणस्याप्यविषयत्वे भागासिद्धिप्रसङ्गात् – इति चेन्न; विशेष्यतापन्नस्य विषयत्वेऽपि क्षत्यभावात् , तस्य मिथ्यात्वाभ्युपगमात् । अत एव – उपहितविषयत्वेऽप्युपधेयविषयत्वमक्षतमेव इति – अपास्तम् ; उपहितात्मना तस्यापि मिथ्यात्वाभ्युपगमात् , ज्ञानान्तरविषयत्वेन विशेषणे भागासिद्ध्यभावाच्च । ननु – वेदान्तजन्याखण्डवृत्तेरुपहितविषयत्वे तदानीमुपाध्यन्तराभावेन तस्या एवोपधायकत्वात् स्वविषयत्वापत्तिः, न चेष्टापत्तिः; शाब्दबोधे शब्दानुपस्थिताभाननियमेन वृत्तेः शब्दानुपस्थिताया भानानुपपत्तेः, यथाकथञ्चिदुपपत्तौ वा न ततोऽज्ञानतत्कार्ययोर्निवृत्तिः स्यात् ; अज्ञानतत्कार्याविषयकज्ञानस्यैव तदुभयनिवर्तकत्वात् , अन्यथा ’अहमज्ञः अयं घटः’ इत्यादिज्ञानानामप्युपहितविषयकत्वेन अज्ञाननिवर्तकत्वप्रसङ्ग इति – चेन्न; वृत्तेः शाब्दवृत्तावनवभासमानाया एवोपधायकत्वाभ्युपगमात् । तदुक्तं कल्पतरुकृद्भिः – ’शुद्धं ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयते, स्वस्या अप्युपाधित्वाविशेषात् । एवं च नानुपहितस्य विषयता; वृत्त्युपरागोऽत्र सत्तयोपयुज्यते, न भास्यतया विषयकोटिप्रवेशेने’ति । अयमभिप्रायः – यथा अज्ञानोपहितस्य साक्षित्वेऽपि नाज्ञानं साक्षिकोटौ प्रविशति; जडत्वात् , किन्तु साक्ष्यकोटावेव, एवं वृत्त्युपहितस्य विषयत्वेऽपि न वृत्तिर्विषयकोटौ प्रविशति; स्वस्याः स्वविषयत्वानुपपत्तेः, किन्तु स्वयमविषयोऽपि चैतन्यस्य विषयतां सम्पादयतीति न काप्यनुपपत्तिः । एतेन – ज्ञानाज्ञानयोरेकविषयत्वं – व्याख्यातम् ; अज्ञानमपि हि स्वोपधानदशायामेव ब्रह्म विषयीकरोति; स्वानुपाधानदशायां स्वस्यैवाभावात् । तथा च ज्ञानाज्ञानयोरुभयोरप्युपाध्यविषयकत्वे सत्युपहितविषयकत्वात् समानविषयत्वमस्त्येव । एतेन – उपाधिविषयज्ञानानामज्ञानानिवर्तकत्वं – व्याख्यातम् ; अज्ञानस्योपाध्यविषयत्वेन समानविषयत्वाभावात् , समानविषयत्वेनैव तयोर्निवर्त्यनिवर्तकभावात् । वस्तुतस्तु – शब्दाजन्यवृत्तिविषयत्वमेव दृश्यत्वम् ; अन्यथा शशविषाणं तुच्छमित्यादिशब्दजन्यवृतिर्विषये तुच्छे व्यभिचारस्य दुरुद्धरत्वात् । एवं च सति शुद्धस्य वेदान्तजन्यवृत्तिविषयत्वेऽपि न तत्र व्यभिचारः; तुच्छशुद्धयोः शब्दाजन्यवृत्तिविषयत्वानभ्युपगमात् । यद्वा – सप्रकारकवृत्तिविषयत्वमेव दृश्यत्वम् , प्रकारश्च सोपाख्यः कश्चिद्धर्मः ; तेन निष्प्रकारकज्ञानविषयीभूते शुद्धे निरुपाख्यधर्मप्रकारकज्ञानविषयीभूते तुच्छे च न व्यभिचारः । अभावत्वस्यापि सोपाख्यत्वादभावत्वप्रकारकज्ञानविषयीभूते अभावे न भागासिद्धिः । उपाख्या चास्तीति धीविषयत्वादीत्यन्यत् । एतेन वृत्तिव्याप्यफलव्याप्ययोः साधारणं व्यवहारप्रयोजकविषयत्वरूपं दृश्यत्वमपि हेतुः; ब्रह्मणि तुच्छे च व्यभिचारपरिहारोपायस्योक्तत्वात् । यद्वा – दृश्यत्वं चिद्विषयत्वम् , तच्च यथाकथञ्चिच्चित्सम्बन्धित्वरूपं हेतुः, तच्च न चैतन्ये; अभेदे भेदनान्तरीयकस्य सम्बन्धस्याभावात् , अतो न व्यभिचारः । तुच्छे च व्यभिचारः परिहरणीयः । यद्वा – स्वव्यवहारे स्वातिरिक्तसंविदपेक्षानियतिरूपं दृश्यत्वं हेतुः; संविच्छब्देन विषयाभिव्यक्तं वा वृत्त्यभिव्यक्तं वा (शुद्धं वा) चैतन्यमात्रमभिप्रेतम् , तथा च घटादौ नित्यातीन्द्रिये साक्षिभास्ये च सर्वोऽपि व्यवहारः स्वातिरिक्तसंवित्सापेक्ष इति नासिद्धिः । व्यवहारश्च स्फुरणाभिवदनादिसाधारणः । तत्र ब्रह्मणः स्फुरणरूपे व्यवहारे नित्यसिद्धे स्वातिरिक्तसंविदपेक्षा नास्तीति नियतिपदेन व्यभिचारवारणम् । स्वगोचरयावद्व्यवहारे स्वातिरिक्तसंविदपेक्षायां पर्यवसानात् । अत एवास्वप्रकाशत्वरूपं दृश्यत्वमपि हेतुः; स्वप्रकाशत्वं हि स्वापरोक्षत्वे स्वातिरिक्तानपेक्षत्वम् , ’यत्साक्षादपरोक्षात् ब्रह्मे’ति श्रुतेः । तथा चान्यानधीनापरोक्षत्वं पर्यवस्यति; तन्निरूपितभेदवत्त्वं हेतुः । तच्च नित्यपरोक्षे अन्याधीनापरोक्षे च घटादावस्तीति नासिद्धिः । न च – ब्रह्मणोऽपि ब्रह्मप्रतियोगिककाल्पनिकभेदवत्त्वात्तत्र व्यभिचारः, अकल्पितभेदस्य क्वाप्यसिद्धत्वादिति – वाच्यम् ; तद्भेदस्यान्यानधीनापरोक्षत्वरूपधर्मानिरूपितत्वात् , जीवत्वेश्वरत्वादिरूपस्यान्यधर्मस्य तन्निरूपकत्वात् । एवं चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वाभावरूपं दृश्यत्वमपि हेतुः; न च – फलव्याप्यत्वाभावविशिष्टं यदपरोक्षव्यवहारयोग्यत्वं तस्य ब्रह्मणीवाविद्यान्तःकरणादौ शुक्तिरूप्यादौ च सत्त्वेनासिद्धिसाधनवैकल्ये इति – वाच्यम् ; अज्ञाननिवर्तकवृत्तिविषयत्वयोग्यत्वस्यापरोक्षव्यवहारयोग्यत्वपदेन विवक्षितत्वात् , तस्य चाविद्यादौ शुक्तिरूप्यादौ चासत्वात् नासिद्धिसाधनवैकल्ये । यथा च घटादेः फलव्याप्यत्वं, तथाग्रे वक्ष्यामः । अविद्यानिवृत्तेः पञ्चमप्रकारत्वपक्षे तत्र व्यभिचारवारणायाज्ञानकालवृत्तित्वं हेतुविशेषणं देयम् , तेनैव तुच्छेऽपि न व्यभिचारः । एवमेव सर्वेषु हेतुषु व्यभिचारपरिहाराय यतनीयम् । सद्विविक्तत्वमात्रे तु साध्ये तुच्छे पञ्चमप्रकाराविद्यानिवृत्तौ च न व्यभिचारगन्धोऽपीति सर्वमवदातम् ॥
॥ इति अद्वैतसिद्धौ दृश्यत्वहेतूपपत्तिः ॥
जडत्वमपि हेतुः । ननु - किमिदं जडत्वम् ? अज्ञातृत्वं वा, अज्ञानत्वं वा, अनात्मत्वं वा । नाद्यः ; त्वन्मते पक्षनिक्षिप्तस्यैवाहमर्थस्य ज्ञातृत्वात्तत्रासिद्धेः; शुद्धात्मनोऽज्ञातृत्वेन तत्र व्यभिचाराच्च । नापि द्वितीयः; वृत्त्युपरक्तचैतन्यस्यैव ज्ञानत्वेन केवलाया वृत्तेः केवलस्य चैतन्यस्य चाज्ञानत्वेन वृत्तावसिद्धिपरिहारेऽपि चैतन्ये व्यभिचारतादवस्थ्यात् । नापि तृतीयः; आत्मत्वस्यैव निरूपयितुमशक्यत्वात् । तद्धि न जातिविशेषः; त्वयात्मन एकत्वाभ्युपगमात् , विशिष्टात्मनां भेदेऽपि तेषां पक्षकुक्षिनिक्षिप्तत्वात् । नाप्यानन्दरूपत्वम् , वैषयिकानन्दे तद्व्यतिरेकस्य हेतोरसिद्धेः; तस्याप्यात्मत्वे अज्ञानपक्षोक्तदोषः प्रसञ्जनीय इति – चेत् , मैवम् ; द्वितीयतृतीयपक्षयोः दोषाभावात् । तथा हि – ’अज्ञानत्वं जडत्वमि’ति पक्षे नात्मनि व्यभिचारः, अर्थोपलक्षितप्रकाशस्यैव ज्ञानत्वेन मोक्षदशायामपि तदनपायात् । न च – अभावे सप्रतियोगित्ववदिच्छाज्ञानादिष्वपि सविषयकत्वस्य स्वाभाविकत्वादिच्छायामिव ज्ञानेऽपि तस्य समानसत्ताकत्वमिति – वाच्यम् ; ज्ञानस्य हि सविषयत्वं विषयसम्बन्धः, स च न तात्त्विकः; किन्त्वाध्यासिकः; वक्ष्यमाणरीत्या तात्त्विकसम्बन्धस्य निरूपयितुमशक्यत्वात् , अतो न तस्य स्वाभाविकत्वम् ; न हि शुक्तौ रूप्यं स्वाभाविकम् । एवञ्च ज्ञानोपाधिकस्यैव सविषयत्वस्य इच्छादिष्वभ्युपगमात् नितरां तत्र तस्य स्वाभाविकत्वम् । न चैवं – ज्ञानवत् विषयसम्बन्धं विनापि कदाचिदिच्छायाः सत्त्वापत्तिरिति - वाच्यम् ; सविषयत्वप्रयोजकोपाध्यपेक्षया अधिकसत्ताकत्वस्य तत्र प्रयोजकत्वात् , इच्छायाश्च तत्समानसत्ताकत्वात् । न च – त्वया मोक्षावस्थायामात्मनो निर्विषयत्वाङ्गीकारात् आनन्दाप्रकाशे तदपुमर्थत्वं स्यादिति – वाच्यम् ; तदा ह्यानन्द एव प्रकाशो नत्वानन्दस्य प्रकाशत्वम् , अर्थोपलक्षितप्रकाशत्वं वा तदास्त्येवेति न ज्ञानत्वहानिरित्युक्तम् । ननु – तथापि ज्ञातुरभावात् तदा तन्न ज्ञानम् ; न हि भोक्तृहीना भुजिक्रिया भवति , न च – अनादित्वेन क्रियारूपत्वाभावात् अनपेक्षत्वमिति – वाच्यम् ; अनादेः प्रागभावस्य प्रतियोगिनि जातेर्व्यक्तौ जीवब्रह्मविभागस्य धर्मप्रतियोगिनोः अज्ञानस्य चाश्रयविषययोर्ब्रह्मसत्तायाश्च कर्तर्यपेक्षादर्शनात् , अन्यथा ’अस्ति ब्रह्मे’त्यादौ कर्तरि लकारो न स्यात् । एवं चातीतादिज्ञानस्य ईश्वरज्ञानस्य च उत्पत्त्यर्थमर्थानपेक्षत्वेऽपि तन्निरूप्यत्वदर्शनेन ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभावः, अन्यथा ’इदमहं जानामी’त्यनुभवो न स्यात् , ’ज्ञातुरर्थप्रकाशस्य ज्ञानत्वा’दिति विवरणविरोधश्च स्यात् - इति चेन्न; जातेर्व्यक्तिनिरूप्यत्वेऽपि कदाचित्तदसम्बन्धवदुपपत्तेः, सम्बन्धप्रयोजकोपाध्यपेक्षया अधिकसत्ताकत्वात् । अत एव ज्ञानस्य सज्ञेयत्वं सज्ञातृत्वं च न स्वाभाविकम् । तथा हि – सज्ञेयत्वं तावत् ज्ञेयजन्यत्वं वा ज्ञेयव्याप्यत्वं वा । नाद्यः; परोक्षज्ञाने ईश्वरज्ञाने चाभावात् । नापि द्वितीयः; ’यदा ज्ञानं तदा अर्थ’ इति कालिकव्याप्तौ पूर्ववत् व्यभिचारात् , दैशिकव्याप्तिस्तु दूरनिरस्तैव । न च - यदा ’अपरोक्षज्ञानं तदार्थ’ इति कालिकव्याप्तौ नास्ति व्यभिचारः, आत्मा च ’यत् साक्षात् अपरोक्षात् ब्रह्मे’ति श्रुतेरपरोक्षज्ञानरूप इति सोऽप्यर्थव्याप्त इति – वाच्यम् ; ईश्वरज्ञाने योगिज्ञाने च व्यभिचारात् । ’यदैन्द्रियकं ज्ञानं तदार्थ’ इति तु व्याप्तिः सर्वसम्मता । न चात्मरूपे ज्ञाने ऐन्द्रियकत्वमस्तीति न तया विरोधः । ननु – ’यदा अपरोक्षं ज्ञानं तदार्थ’ इति व्याप्त्यनभ्युपगमे ’इदं रजत’मित्यपरोक्षज्ञानान्यथानुपपत्त्या अनिर्वचनीयरजतसिद्धिर्न स्यात् , अर्थं विनाप्यपरोक्षत्वोपपत्तेः – इति चेन्न, ’इदं रजतमहं जानामी’त्यनुसन्धीयमानं यत् ज्ञानविषयत्वं तस्याश्रयान्तरानुपपत्त्या अनिर्वचनीयरजतसिद्धेर्वक्ष्यमाणत्वात् । अत एव परोक्षभ्रमेऽपि अनिर्वचनीयार्थसिद्धिः । जन्यापरोक्षत्वेन वा अर्थव्याप्यता ; आर्षज्ञानस्यापरोक्षत्वानभ्युपगमात् । तथा च नानिर्वचनीयरजतसिद्द्यनुपपत्तिः । एवं सज्ञातृकत्वमपि किं ज्ञातृजन्यत्वं, ज्ञातृव्याप्यत्वं, ज्ञातृसमवेतत्वं वा । आद्ये ईश्वरज्ञाने व्यभिचारः ; ज्ञाननित्यत्वस्य साधयिष्यमाणत्वाच्च । द्वितीयेऽपि अप्रयोजकता । न तृतीयः; ज्ञानजन्यत्ववत् ज्ञानसमवेतत्वस्यापि सम्भवात् , ज्ञानस्य गुणत्वक्रियात्वयोरनभ्युपगमेन द्रव्याश्रयत्वानुमानायोगात् , कदाचित् ज्ञातृज्ञेयसम्बन्धेनैव अनुभवस्य विवरणवाक्यस्य च उपपत्तेः । ’अस्ति ब्रह्मे’ति च लकारो न ब्रह्मसत्तां प्रति ब्रह्मणः कर्तृत्वमाह; नित्यत्वेन तदसम्भवात् , किन्तु साधुत्वार्थ इति द्रष्टव्यम् । ननु – प्रमाभ्रमभिन्नं न ज्ञानम् , न चात्मस्वरूपं ज्ञानं प्रमा ; तद्विषयस्याविद्यादेस्तात्त्विकत्वापातात् , न च अप्रमा; दोषजन्यत्वापातात् – इति चेन्न ; तार्किकसिद्धेश्वरज्ञानवत् घटादिनिर्विकल्पकवच्च स्वभावत उभयवैलक्षण्येनाप्युपपत्तेः, तत्रापि ईश्वरज्ञानस्य प्रमात्वे गुणजन्यत्वस्य भ्रमत्वे दोषजन्यत्वस्य चापत्तेः, निष्प्रकारके च निर्विकल्पके तद्वति तत्प्रकारकत्वस्य तदभाववति तत्प्रकारकत्वस्य चानुपपत्तेः, जन्यसविकल्पकत्वेन भ्रमप्रमान्यतरत्वनियमे चास्माकं क्षत्यभावात् , विलक्षणवृत्तिद्वयोपरागेण च स्वभावतो भ्रमप्रमाविलक्षणस्याप्यात्मज्ञानस्य तदुभयरूपेण व्यवहारोपपत्तेः । न च – ज्ञानपदवाच्यभिन्नत्वविवक्षायाम् उपाधेरपि ज्ञानपदवाच्यत्वात्तत्रासिद्धिः, ज्ञानपदलक्ष्यभिन्नत्वविवक्षायां तु घटादेरपि ज्ञानपदलक्ष्यत्वात्तत्राप्यसिद्धिरिति – वाच्यम् ; ज्ञानपदजन्यप्रतीतिविशेष्यभिन्नत्वविवक्षायामुक्तदोषाभावात् । एवमानन्दभिन्नत्वरूपमनात्मत्वमुपपाद्यम् । वैषयिकानन्दस्यापि ब्रह्मरूपत्वात् , तदुपाधिमात्रस्यैवोत्पत्तिविनाशप्रतियोगित्वात् । न च – ज्ञानभिन्नत्वस्यानन्दभिन्नत्वस्य च काल्पनिकस्य ब्रह्मणि सत्त्वात् तत्र व्यभिचार इति – वाच्यम् ; धर्मिसमानसत्ताकतद्भेदस्य हेतुत्वात् । अनौपाधिकत्वेन वा भेदो विशेषणीयः, तुच्छे पञ्चमप्रकाराविद्यानिवृत्तौ च व्यभिचारपरिहारः पूर्ववत् । एवम् अस्वप्रकाशत्वं वा जडत्वम् , तच्च पूर्वमेवोपपादितमिति शिवम् ॥
॥ इति अद्वैतसिद्धौ जडत्वहेतूपपत्तिः ॥
परिच्छिन्नत्वमपि हेतुः । तच्च देशतः कालतो वस्तुतश्चेति त्रिविधम् । तत्र देशतः परिच्छिन्नत्वम् अत्यन्ताभावप्रतियोगित्वम् । कालतः परिच्छिन्नत्वं ध्वंसप्रतियोगित्वम् । वस्तुतः परिच्छिन्नत्वम् अन्योन्याभावप्रतियोगित्वम् । ननु – समवायसम्बन्धेनात्यन्ताभावप्रतियोगित्वम् आत्मनि व्यभिचारि; तस्याप्याकाशादिवत् क्वाप्यसमवेतत्वात् , संयोगसम्बन्धेनात्यन्ताभावप्रतियोगित्वमाकाशादावसिद्धम् ; तस्य यावन्मूर्तयोगित्वनियमात् , अमूर्तनिष्ठात्यन्ताभावप्रतियोगित्वाभिप्राये तु आत्मनि व्यभिचारस्तदवस्थः, सर्वसम्बन्धित्वाभावविवक्षायामपि सर्वसम्बन्धशून्ये परमात्मनि व्यभिचारः, अज्ञाने सर्वसम्बन्धिन्यसिद्धिश्च, ध्वंसप्रतियोगित्वमपि आकाशादावसिद्धम् , तेषां परैर्नित्यत्वाभ्युपगमात् , अन्योन्याभावप्रतियोगित्वं चात्मनि व्यभिचारि; तस्य जडनिष्ठान्योन्याभावप्रतियोगित्वात् , अन्यथा जडत्वापत्तेः – इति चेन्न ; अत्यन्ताभावे अन्योन्याभावे च प्रतियोगिसमसत्ताकत्वाविशेषणेन आत्मनि व्यभिचारपरिहारात् , अज्ञानाकाशादौ च स्वसमानसत्ताकात्यन्ताभावान्योन्याभावप्रतियोगित्वसत्त्वेन असिध्यभावात् । अविद्याकाशादेर्व्यावहारिकस्य पारमार्थिकाभावपक्षे ’स्वान्यूनसत्ताके’ति विशेषणं देयम् ; अत एव प्रातिभासिकशुक्तिरूप्यादेर्व्यावहारिकाभावप्रतियोगित्वेऽपि न साधनवैकल्यम् । निरुक्तमिथ्यात्वप्रकाराणामेवंरूपत्वाभावात् न साध्याविशिष्टता । ध्वंसप्रतियोगित्वं चाकाशादौ नासिद्धम् ; ’तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इति श्रुतिसिद्धजन्यत्वेनानुमितत्वात् , ’आकाशवत् सर्वगतश्च नित्य’ इत्यत्र चात्मनिदर्शनत्वं स्वसमानकलीनसर्वगतत्वेन आभूत सम्प्लवावस्थायित्वेन चेति द्रष्टव्यम् । ’अतोऽन्यदार्थ’मिति शृत्या अनात्ममात्रस्यैव विनाशित्वप्रतिपादनात् , अत एव । घटादयः स्वानुगतप्रतिभासे वस्तुनि कल्पिताः, विभक्तत्वात् , यथा सर्पमालादिकं स्वानुगतप्रतिभासे रज्ज्वा इदमंशे विभज्यते, एवं ब्रह्मण्यनुगच्छति घटादिकं विभज्यते, ’सन् घटः सन् पट’ इति – आनन्दबोधोक्तमपि साधु । विभक्तशब्देन स्वसमानसत्ताकभेदप्रतियोगित्वरूपवस्तुपरिच्छेदस्य विवक्षितत्वात् न ब्रह्मतुच्छयोर्व्यभिचारः । न च – ’खण्डो गौर्मुण्डो गौ’रित्येवमादिस्वानुगतप्रतिभासे गोत्वादौ व्यक्तीनामकल्पितत्वात् व्यभिचार इति – वाच्यम् ; सत्सामान्यातिरिक्तगोत्वादिसामान्यानभ्युपगमात् , गोत्वाद्यभ्युपगमेऽपि गोत्वादिव्यञ्जकतावच्छेदकसामान्यानभ्युपगमात् व्यक्तिविशेषाणामेवाननुगतानां सास्नादिमत्त्वाद्युपाध्यनुगतानां वा तद्व्यञ्जकत्ववत् व्यक्तिविशेषविशिष्टत्वेन सत्सामान्यस्यैव तत्तद्व्यवहारजनकत्वोपपत्तेः । अत एव – ’घटादिकं, सद्रूपे कल्पितम् , प्रत्येकं तदनुविद्धत्वेन प्रतीयमानत्वात् , प्रत्येकं चन्द्रानुविद्धजलतरङ्गचन्द्रवत् ’– इति ब्रह्मसिद्धिकारोक्तमपि साधु । ननु – सदर्थस्य ब्रह्मणः रूपादिहीनस्यासंसारमज्ञानावृतस्य शब्दैकगम्यस्य कथं घटः सन्नित्यादिबुद्धिविषयता स्यात् ? तथा च ’घटोऽनित्यः’ इत्यनेन घटगतानित्यतेव ’घटः सन्नि’त्यनेनापि घटगतमेव सत्त्वं गृह्यते । न च – स्वरूपेणाप्रत्यक्षस्य राहोश्चन्द्रावच्छेदेनेव ब्रह्मणोऽपि घटाद्यवच्छेदेनैव प्रत्यक्षतेति – वाच्यम् ; शब्दाद्यवच्छिन्नस्यापि गगनादेः श्रावणत्वाद्यापातात् , राहोस्तु दूरदोषेणाज्ञातस्य नीलस्य योग्यस्य शुक्लभास्वरचन्द्रसम्बन्धाच्चाक्षुषता उक्ता – इति चेन्न; यतः सदात्मना न ब्रह्मणो मूलाज्ञानेनावृतत्वम् ; किन्तु घटाद्यवच्छिन्नशक्त्यज्ञानेनैव ; तथा च चक्षुरादिजन्यवृत्त्या तदावरण भङ्गे सति ’सन्घट’ इत्यत्र ब्रह्मणः स्फुरणे बाधकाभावात् । न च – रूपादिहीनतया चाक्षुषत्वाद्यनुपपत्तिः बाधिकेति – वाच्यम् ; प्रतिनियतेन्द्रियग्राह्येष्वेव रूपाद्यपेक्षानियमात् , सर्वेन्द्रियग्राह्यं तु सद्रूपं ब्रह्म, नातो रूपादिहीनत्वेऽपि चाक्षुषत्वाद्यनुपपत्तिः, सत्तायाः परैरपि सर्वेन्द्रियग्राह्यत्वाभ्युपगमाच्च । तदुक्तं वार्तिककृद्भिः – ’अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः । अक्षादीनां स्वतःसिद्धो यत्र तेषां प्रमाणता ॥’ इति । कालस्य च रूपादिहीनस्य मीमांसकादिभिः सर्वेन्द्रियग्राह्यत्वाभ्युपगमात् । न च – शब्दावच्छिन्नस्याकाशस्यापि श्रावणत्वं स्यादिति – वाच्यम् ; स्वभावतो योग्यस्य हि केनचिन्निमित्तेन प्रतिरुद्धयोग्यताकस्यावच्छेदकादिना योग्यता सम्पाद्यते, यथा दूरदोषेण प्रतिरुद्धयोग्यताकस्य राहोश्चन्द्रसम्बन्धेन । एवञ्चावरणेन प्रतिरुद्धयोग्यताकं ब्रह्म घटाद्यवच्छेदेन योग्यं भवति, नभस्तु स्वभावायोग्यमेव ; न प्रतिरुद्धयोग्यताकम् , येन शब्दावच्छेदेन योग्यं भवेत् । यद्वा – द्रव्यग्रहे चक्षुषो रूपापेक्षा, नन्वन्यग्रहे, ब्रह्म तु न द्रव्यम् ; ’अस्थूलमनण्वह्रस्वमदीर्घ’मिति श्रुत्या चतुर्विधपरिमाणनिषेधेन द्रव्यत्वप्रतिषेधात् , अतो नानुपपत्तिः । अस्तु वा द्रव्यम् ; तथाप्यध्यस्तद्रव्यत्ववति गुणादौ रूपानपेक्षचाक्षुषत्वदर्शनेन धर्म्यन्यूनसत्ताकद्रव्यत्ववत्येव चक्षूरूपमपेक्षते । ब्रह्मणि च द्रव्यत्वं धर्म्यपेक्षया न्यूनसत्ताकमेवेति न तद्ग्रहे रूपाद्यपेक्षा । कल्पितत्वं च स्वाभाववति प्रतीयमानत्वं वा, स्वरूपज्ञाननिवर्त्यत्वं वेत्यन्यदेतत् । तस्मात् परिच्छिन्नत्वमपि भवति हेतुरिति सिद्धम् ॥
॥ इति परिच्छिन्नत्वहेतूपपत्तिः ॥
चित्सुखाचार्यैस्तु – ‘अयं पटः’, एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात्, इतरांशिवत् – इत्युक्तम् । तत्र तन्तुपदमुपादानपरम् , एतेनोपादाननिष्ठात्यन्ताभावप्रतियोगित्वलक्षणमिथ्यात्वसिद्धिः । न च – कार्यस्य कारणाभेदेन तदनाश्रितत्वात् सिद्धसाधनम् , अनाश्रितत्वेनान्याश्रितत्वेन वा उपपत्त्या अर्थान्तरं च इति – वाच्यम् ; अभेदे कार्यकारणभावव्याहत्या कथञ्चिदपि भेदस्यावश्याभ्युपेयत्वात् । न च ’तदनन्यत्वमारम्भणशब्दादिभ्य’ इत्यधिकरणविरोधः; उपादानव्यतिरेकेणोपादेयं नास्तीत्यस्यैव तदर्थत्वात् । बाधात्तन्मात्राश्रितत्वेन पक्षविशेषणाद्वा नार्थान्तरम् । न च प्रकृतेऽपि बाधः ; तस्योद्धरिष्यमाणत्वात् । न चात्यन्ताभावस्य प्रामाणिकत्वाप्रामाणिकत्वविकल्पावकाशः, तस्य प्रागेव निरस्तत्वात् । न च – कस्यचित् पटस्य संयोगवृत्त्यैतत्तन्तुषु सत्त्वेन तत्र व्यभिचार इति – वाच्यम् ; तत्समवेतस्य तन्निष्ठात्यन्ताभावप्रतियोगित्वमङ्गीकुर्वतः तत्संयोगिनस्तन्निष्ठात्यन्ताभावप्रतियोगित्वाङ्गीकारेण पक्षसमत्वात् । न चाव्याप्यवृत्तित्वेनार्थान्तरम् ; पटतदभावयोरेकाधिकरणवृत्तौ विरोधस्य जगति दत्तजलाञ्जलित्वप्रसङ्गात् , संयोगतदभावयोरप्येकाधिकरणवृत्तित्वानभ्युपगमात् । अभ्युपगमे वा एतत्तन्तुत्वावच्छिन्नवृत्तित्वमत्यन्ताभावस्य विशेषणं देयम् ; एवमेतत्कालीनत्वमपि । तेन कालान्तरीयाभावमादाय नार्थान्तरम् । न चेह तन्तुषु पट इति प्रत्यक्षबाधः; तस्य भ्रमसाधारणतया चन्द्रप्रादेशिकत्वप्रत्यक्षवदप्रामाण्यशङ्कास्कन्दितत्वेनाबाधकत्वात् । बाधोद्धारे च विस्तरेणैतद्वक्ष्यामः । न च – अन्यासमवेतस्यांशित्वमेतत्तन्तुसमवेतत्वं विना न युक्तमिति विरुद्धो हेतुरिति – वाच्यम् ; एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेऽप्येतत्तन्तुसमवेतस्य सत्त्वेनांशित्वस्य साध्येनाविरोधात् । एतन्निष्ठात्यन्ताभावप्रतियोगित्वं हि एतत्समवेतत्वे प्रयोजकं न भवति; परमते केवलान्वयिधर्ममात्रस्य एतत्समवेतत्वापत्तेः, किन्त्वेतन्निष्ठप्रागभावप्रतियोगित्वादिकम्; तच्चैतन्निष्ठात्यन्ताभावप्रतियोगित्वेऽपि न विरुद्धमित्युपपादितमधस्तात् । एतत्समवेतत्वं चैतदुपादानकत्वम् , न तु नित्यसम्बन्धशालित्वम् ; तस्यानभ्युपगमात् । ननु – अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न, एतत्तन्त्वारब्धत्वात् , व्यतिरेकेण पटान्तरवदिति प्रतिरोधः; नचाप्रसिद्धविशेषणत्वम् ; एतन्निष्ठात्यन्ताभावप्रतियोगित्वं, किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि, संसर्गाभावप्रतियोगित्वव्याप्यत्वात् , प्रागभावप्रतियोगित्ववदिति सामान्यतस्तत्प्रसिद्धेः । न च – आकाशात्यन्ताभावस्य घटादौ संसर्गाभावप्रतियोगित्वव्याप्यत्वग्रहात् तस्य च केवलान्वयित्वेन किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वाभावात् तत्र व्यभिचार इति – वाच्यम् ; संसर्गाभावप्रतियोगित्वानधिकरणे केवलान्वयिनि धर्मे सत्त्वेनाकाशात्यन्ताभावस्य संसर्गाभावप्रतियोगित्वाव्याप्यत्वेन व्यभिचाराभावात् – इति चेन्न ; यत्रैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं, तत्रैतत्तन्त्वारब्धत्वाभाव इति व्यतिरेकव्याप्तावेतन्निष्ठप्रागभावाप्रतियोगित्वस्योपाधित्वेन प्रतिरोधस्य हीनबलत्वात् , एतत्तन्त्वारब्धत्वाभावव्यापकस्यैतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वस्य पक्षावृत्तेः पक्षवृत्तितया सन्दिह्यमानैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाव्यापकत्वात् , दृश्यत्वाद्यनुपपत्तिप्रतिकूलतर्कपराहतेर्वक्ष्यमाणत्वाच्च । अत एव एतत्तन्त्वनारब्धत्वमपि नोपाधिः; उपाधिव्यतिरेकेण साध्यव्यतिरेके साध्यमाने सोपाधिकत्वस्योक्तत्वात् , अव्याप्यवृत्तिसंयोगाभ्युपगमे तत्र व्यभिचाराच्च । अत एव यत्रैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं तत्रैतत्तन्त्वनारब्धत्वमिति न साध्यव्यापकताग्रहोऽपि तत्रैव व्यभिचारादिति सर्वमनवद्यम् ॥ एवञ्च – ’विमतं, ज्ञानव्यतिरेकेणासत् , ज्ञानव्यतिरेकेणानुपलभ्यमानत्वात् , स्वप्नादिवदि’ति – विद्यासागरोक्तमपि साधु ज्ञानव्यतिरेकेणासत्त्वमुक्तमिथ्यात्वान्यतमत्वं साध्यम् । ज्ञानव्यतिरेकेणानुपलभ्यमानत्वं चिदाभासे सत्येवोपलभ्यमानत्वं हेतुरिति न किञ्चिदनुपपन्नम् । एवमन्येषामपि प्रयोगा यथायोगमुपपादनीया इति शिवम् ॥
॥ इत्यंशित्वहेतूपपत्तिः ॥
ननु – दृश्यत्वादिहेतवः सोपाधिकाः तथा हि – स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं स्वबाधकाबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं वा विपक्षाद्व्यावृत्तं समव्याप्तम् , अत एव व्यतिरेकव्याप्तिमदुपाधिः – इति चेन्न; ब्रह्मज्ञानमात्रबाध्ये देहात्मैक्ये मिथ्याभूते साध्याव्यापकत्वात् , पर्वतावयववृत्त्यन्यत्वादिवत् साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्त्वेन पक्षेतरत्वतुल्यत्वाच्च । न च बाधोन्नीतत्वात् सोऽप्युपाधिः; बाधस्याग्रे निरसिष्यमाणत्वात् । अपि च यद्व्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं तस्यैव साध्यव्यापकत्वम् ; इतरांशे अनुकूलतर्काप्रसरात् । तथा च ’क्षित्यादिकं, न कर्तृजन्यम् , शरीराजन्यत्वा’दित्यत्र यथाशरीरविशेषणवैयर्थ्यान्न शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम् , एवं ’वियदादिकं, न मिथ्या, स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वरहितत्वा’दिति साध्यव्यतिरेकसाधने स्वबाधकाभिमताबाध्यभागस्य वैयर्थ्यात् स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्वं न मिथ्यात्वव्यापकम् । दोषप्रयुक्तभानत्वं तु भवति साध्यव्यापकम् , तच्च साधनव्यापकमपीति नोपाधिः । दृश्यत्वादिनैव मिथ्यात्ववत्तस्यापि साधनात् । एवं द्वितीयोपाधावपि ’स्वबाधकाबाध्यबाधकं प्रती’ति विशेषणं व्यतिरेकसाधने व्यर्थम् । विशेष्यभागस्तु साध्यसाधनयोर्व्यापक इति नोपाधिः । अत एवाधिष्ठानत्वाभिमतसमसत्ताकदोषवद्धेतुजन्यज्ञानविषयत्वमुपाधिः । अत्र च ब्रह्मणोऽपि बौद्धकल्पितदोषवद्धेतुजन्यक्षणिकत्वादिज्ञानविषयत्वात् समव्याप्तिसिद्ध्यर्थमधिष्ठानसमसत्ताकेति विशेषणम् , न तु पक्षमात्रव्यावृत्त्यर्थम् , अतो न पक्षेतरतुल्यतेत्यपास्तम् । ब्रह्मणीव ब्रह्मणि कल्पिते क्षणिकत्वादावपि मिथ्याभूते धर्मे अधिष्ठानसमसत्ताकदोषवद्धेतुजन्यज्ञानाविषयत्वादुपाधेः साध्याव्याप्तेः, व्यतिरेकसाधने व्यर्थविशेषणत्वस्योक्तत्वाच्च । नापि श्रुतितात्पर्याविषयत्वमुपाधिः; श्रुतितात्पर्यविषयत्वस्य ब्रह्ममात्रनिष्ठतया तदभावस्य साधनव्यापकत्वात् । नापि प्रातिभासिकत्वमुपाधिः; तद्धि ब्रह्मज्ञानेतरबाध्यत्वम् , तस्य च देहात्मैक्ये मिथ्याभूतेऽप्यसत्त्वेन साध्याव्याप्तेः, व्यतिरेके व्यर्थविशेषणत्वाच्च । प्रातिभासमात्रशरीरत्वमुपाधिः; दृष्टिसृष्टिपक्षे साधनव्यापकत्वात् , परेषामसिद्धेश्चेति ॥
॥ इति दृश्यत्वादीनां सोपाधित्वभङ्गः ॥
ननु – विमतं, प्रातिभासिकम् , दृश्यत्वात् , ब्रह्म, मिथ्या, व्यवहारविषयत्वात् असद्विलक्षणत्वाद्वा शुक्तिरूप्यवदित्याद्याभाससाम्यम् – इति चेन्न ; जगतो व्यावहारिकसत्त्वबाधे व्यवहारानुपपत्तिः, ब्रह्मणो मिथ्यात्वे शून्यवादापत्तिश्चेति प्रतिकूलतर्कपराघातेन तयोरसाधकत्वात् , प्रकृते च प्रतिकूलतर्कस्य निरसिष्यमाणत्वात् । किञ्च प्रातिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वं, प्रतिभासमात्रशरीरत्वं वा । आद्ये साध्ये देहात्मैक्ये व्यभिचारः, अप्रयोजकत्वं च । द्वितीये दृष्टिसृष्टिमतेन सिद्धसाधनम् । एवं ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम् । निरुपाधिके व्यवहारविषयत्वरूपो हेतुरसिद्धः । वेदान्तजन्यवृत्तिविषयत्वाभ्युपगमेऽप्यप्रयोजकः । एवमसद्विलक्षणत्वमपि ब्रह्मण्यसिद्धमेव । क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यनर्हत्वं ह्यसत्त्वम् , तद्विलक्षणत्वं च क्वचिदप्युपाधौ सत्त्वेन प्रतीत्यर्हत्वरूपम् तच्च शुद्धे ब्रह्मणि नास्त्येव । न च – बाध्यत्वमसत्त्वं , तद्विलक्षणत्वं चाबाध्यत्वं, तच्च ब्रह्मण्यस्त्येवेति – वाच्यम् , अबाध्यत्वेन बाध्यत्वलक्षणमिथ्यात्वसाधने विरोधात् , शुक्तिरूप्यदृष्टान्तस्य साधनविकलत्वाच्च , शून्यवादस्याग्रे निराकरिष्यमाणत्वाच्च । तस्मान्न दृश्यत्वादीनामाभाससाम्यमिति सिद्धम् ॥
॥ इति आभाससाम्यभङ्गः ॥
ननु – ’सन् घट’ इत्याद्यध्यक्षबाधितविषया दृश्यत्वादय – इति चेन्न; चक्षुराद्यध्यक्षयोग्यमिथ्यात्वविरोधिसत्त्वानिरुक्तेः । तथा हि – न तावत् प्रमाविषयत्वं, तद्योग्यत्वं, भ्रमाविषयत्वं वा तादृक्सत्त्वम् ; चक्षुराद्यगम्यभ्रमप्रमाघटितत्वेन चक्षुराद्ययोग्यत्वात् , वक्ष्यमाणदूषणगणग्रासाच्च । तथा हि – नाद्यः; असति प्रमाणाप्रवृत्तेः प्रमाविषयत्वात्प्राक् सत्त्वस्य वक्तव्यत्वेन तस्य तदन्यत्वात् , सत्त्वनिरूपणं विना सदर्थविषयत्वरूपप्रमात्वस्य निरूपणे चान्योन्याश्रयात् , मिथ्याभूतस्य शुक्तिरजतसंसर्गस्य व्यवसायद्वारा साक्षाच्च निषेध्यत्वादिना प्रमाविषयत्वाभ्युपगमाच्च । नापि द्वितीयः; योग्यताया अनिरूपणात् । न तृतीयः; असिद्धेः, सर्वस्यैव क्षणिकत्वादिना भ्रमविषयत्वाभ्युपगमात् । अत एव नासत्त्वाप्रकारकप्रमाविषयत्वमपि; अन्योन्याश्रयाच्च । नापि सत्त्वप्रकारकप्रमाविषयत्वम् ; आत्माश्रयात् । नाप्यसत्त्वप्रकारकभ्रमाविषयत्वं सत्त्वम् , अन्योन्याश्रयात् । नापि प्रतिपन्नौपाधौ त्रैकालिकसत्त्वनिषेधविरहः; आत्माश्रयात् । नापि सत्ता जातिरर्थक्रियाकारित्वमसद्वैलक्षण्यं वा; एतेषां मिथ्यात्वाविरोधित्वेन तत्प्रत्यक्षेण मिथ्यात्वानुमाने बाधाभावात् । नापि वेदान्त्यभिमतमिथ्यात्वाभावः सत्त्वम् ; तुच्छेऽतिव्याप्तेः । नाप्यसद्विलक्षणत्वे सत्यनारोपितत्वम् ; अनारोपितत्वं हि आरोपाविषयत्वम् , तच्चासम्भवि । सर्वस्यापि क्षणिकत्वादिना आरोपविषयत्वात् । नाप्यस्तित्वप्रकारकप्रमां प्रति कदाचित् साक्षाद्विषयत्वं, कालसम्बन्धित्वं वा सत्त्वम् , अस्तित्वं च वर्तमानत्वम् , न तु सत्त्वमतो नात्माश्रयः; अतीतादिरपि कदाचिद्वर्तत एवेति नाव्याप्तिः, आरोपितत्वं च कालत्रयासम्बन्धित्वेन बाधेन बोधितमिति न द्वितीयलक्षणेऽतिव्याप्तिरिति वाच्यम् , प्रमात्वस्य सत्त्वघटितत्वेन चक्षुराद्ययोग्यत्वेन च पूर्वोक्तदोषात् , वर्तमानत्वप्रकारकप्रमाविषयत्वेऽपि मिथ्यात्वाविरोधाच्च । द्वितीयमपि न मिथ्यात्वविरोधि ; शुक्तिरूप्यस्यापि प्रतिभासकालसम्बन्धित्वात् , बाधेन तात्त्विककालत्रयसम्बन्धनिषेधेऽप्यतात्त्विककालसम्बन्धस्यानिषेधात् । नापि तात्त्विककालसम्बन्धित्वं तत् ; तात्त्विकस्याद्याप्यनिरूपणात् , निरूपणे वा शेषवैयर्थ्यात् । ननु – भवन्मते यत् सत्त्वं ब्रह्मणि, तदेवेह मम । उक्तं हि – ’यादृशं ब्रह्मणः सत्त्वं तादृशं स्याज्जगत्यपि । तत्र स्यात्तदनिर्वाच्यं चेदिहापि तथास्तु नः ॥’ इति । न च – तत्रापरिच्छिन्नत्वं सत्त्वम् , तच्च न जगतीति – वाच्यम् ; तुच्छस्यापरिच्छिन्नत्वेऽपि सत्त्वानभ्युपगमान्नापरिच्छिन्नत्वं सत्त्वम् , किं त्वन्यदेव; तच्च ब्रह्मणीव भ्रमाधिष्ठानत्वाच्छुक्तिकादेरपि भविष्यतीति – चेत् , नूनं विवाहसमये कन्यायाः पित्रा निजगोत्रं पृष्ठस्य यदेव भवतां गोत्रं तदेव ममापि गोत्रमिति वदतो वरस्य भ्राता भवान् , यतो जामातृश्वशुरयोरेकगोत्रत्वे विवाहानुपपत्तिवज्जगद्ब्रह्मणोरेकसत्त्वे जगतोऽसत्त्वमेव स्यात् । तथा हि – स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वम् ; तदेव चेज्जडस्यापि जगतस्तदा रजतत्वविरोधिशुक्तिसत्तया रजतस्येव जडत्वविरोधिस्वप्रकाशसत्तया जगतः स्वरूपतो मिथ्यात्वोपपत्तेः । चैतन्यस्यैवावच्छिन्नानवच्छिन्नाऽज्ञानविषयत्वेन सर्वभ्रमाधिष्ठानत्वाभ्युपगमान्न भ्रमाधिष्ठानत्वेन शुक्त्यादेः सत्त्वसिद्धिः । नन्वेवमपि सर्वदेशीयत्रैकालिकनिषेधप्रतियोगित्वमसत्त्वं तुच्छानिर्वचनीयसाधारणम् , तदभावः सत्त्वम् , तच्च ब्रह्मणीव जगत्यपीति ब्रूमः । न च संयोगेऽव्याप्तिः; तस्याव्याप्यवृत्तित्वानभ्युपगमात् । तदभ्युपगमे च व्याप्यवृत्तित्वेनाभावो विशेषणीयः । नापि वियत्यव्याप्तिः; तदत्यन्ताभावस्य केवलान्वयित्वानङ्गीकारेण लक्षणस्य विद्यमानत्वादेव । न हि कस्मिंश्चिद्देशे काले वा तस्याभावः, नित्यविभुत्वभङ्गप्रसङ्गात् । आकाशात्यन्ताभावस्य केवलान्वयित्वाभ्युपगमे च वृत्तिमत्प्रतियोगिकत्वेनाभावो विशेषणीय – इति चेन्न ; चक्षुराद्ययोग्यानेकपदार्थघटितत्वेनैतादृशसत्त्वस्य ग्रहणे चक्षुरादेरसामर्थ्यात् । न हि सर्वदेशीयत्रैकालिकवृत्तिमत्प्रतियोगिकव्याप्यवृत्तिनिषेधप्रतियोगत्व म् कस्यापि प्रत्यक्षम् , येन तदभावः प्रत्यक्षो भवेत् । वृत्तिमत्प्रतियोगिकत्वव्याप्यवृत्तित्वपरित्यागेऽपि सर्वदेशीयत्वत्रैकालिकत्वयोरयोग्यत्वात् । ननु – स्वदेशकालवृत्तिनिषेधप्रतियोगित्वाभावे गृह्यमाणे कालत्रयमध्ये वर्तमानकालस्य सर्वदेशमध्ये प्रकृतदेशस्यापि प्रवेशेन तत्र निषेधप्रतियोगित्वाभावस्य गृहीतत्वात्तत्संवलितं कालत्रयवृत्ति सर्वदेशीयनिषेधप्रतियोगित्वरूपं मिथ्यात्वं नानुमानेन ग्रहीतुं शक्यते – इति चेन्न ; स्वदेशकालवृत्तिसकलनिषेधप्रतियोगित्वस्य चक्षुराद्ययोग्यत्वेन तदभावस्य सुतरां तदयोग्यत्वात् , स्वदेशकालवृत्तियत्किञ्चिन्निषेधाप्रतियोगित्वस्य मिथ्यात्वाविरोधित्वात् , स्वप्रतियोगिकात्यन्ताभावासामानाधिकरणस्य च स्वप्रतियोगिकात्यन्ताभावाप्रसिद्ध्या केवलान्वयिनि, सम्बन्धभेदेन घटादौ चासिद्धेः; स्वात्यन्ताभावयावदधिकरणावृत्तित्वं वा , स्वात्यन्ताभावयत्किञ्चिदधिकरणावृत्तित्वं वेति विकल्पेन पूर्वोक्तदोषाच्च । तस्मात्तत्प्रकारान्तरस्य निरूपयितुमशक्यत्वान्मिथ्यात्वाविरोधित्वाच्च स्वसमानाधिकरणयावदत्यन्ताभावप्रतियोगित्वाभावरूपमेव सत्त्वमुपेयम् । तच्च न चक्षुरादियोग्यमित्युक्तम् । ननु – यस्मिन्कस्मिंश्चित् स्वदेशकालवृत्तिनिषेधे एतद्देशैतत्कालवृत्तिनिषेधत्वं ज्ञात्वा तेन प्रत्यासत्तिभूतेनोपस्थापितानां स्वदेशकालवृत्तिसकलनिषेधानां प्रतियोगित्वस्याभावो घटे ग्राह्यः, ततः सार्वदिक्सर्वदेशीयनिषेधप्रतियोगित्वस्य ग्रहणं घटे दुर्घटमिति – चेन्न; एवं सामान्यलक्षणया सर्वनिषेधेषूपस्थितेष्वपि तत्प्रतियोगित्वाभावस्य चक्षुरादिना ग्रहीतुमशक्यत्वात् । योग्यप्रतियोगिक एव हि संसर्गाभावो योग्यः । न चाशेषनिषेधानां प्रतियोगित्वमतीन्द्रियसाधारणं चक्षुरादियोग्यम् । वस्तुतस्तु – सामान्यं नेन्द्रियप्रत्यासत्तिः; मानाभावात् । न च – महानसीयधूमेन्द्रियसंयोगेन तत्रैव व्याप्तिग्रहे पर्वतीयधूमादनुमितिर्न स्यात् , सामान्यस्य च धूमत्वादेः प्रत्यासत्तित्वे तस्यापि प्रत्यासन्नत्वात्तत्र व्याप्तिग्रहे ततोऽनुमितिरिति – वाच्यम् ; पर्वतीयधूमेन्द्रियसन्निकर्षदशायां धूमत्वेन प्रकारेण गृहीतस्मृतव्याप्तेस्तत्र वैशिष्ट्यग्रहसम्भवात् , ’सुरभिचन्दनमि’तिवत् विशेष्येन्द्रियसन्निकर्षविशेषणज्ञानासंसर्गाग्रहरूपाया विशिष्टज्ञानसामग्र्याः पूर्णत्वात् । व्याप्तिस्मृतिप्रकारेण वा पक्षधर्मताज्ञानस्य हेतुता ; महानसीय एव धूमो धूमत्वेन व्याप्तिस्मृतिविषयो भवति, धूमत्वेन पर्वतीयधूमज्ञानं चापि जातम् , तच्च सामान्यलक्षणां विनैव ; तावतैवानुमितिसिद्धेः । न च – सामान्यप्रत्यासत्तिं विना धूमो वह्निव्यभिचारी न वेति अनुभूयमानसंशयो न स्यात् , प्रसिद्धधूमे वह्निसम्बन्धावगमात् अप्रसिद्धस्य चाज्ञानादिति – वाच्यम् ; प्रसिद्धधूम एव तत्तद्धूमत्वादिना व्याप्तिनिश्चयेऽपि धूमत्वेन तत्संशयोपपत्तेः । तथा चोक्तं मणिकृता – ’घटत्वेनेतरभेदनिश्चयेऽपि पृथिवीत्वादिना तत्र संशयसिषाधयिषे भवत एवे’ति । निश्चितेऽप्यर्थे प्रामाण्यसंशयाहितसंशयवत् धूमत्वं वह्निव्यभिचारिवृत्ति न वेति संशयादपि तादृशसंशयोपपत्तेश्च । एतेन वायू रूपवान्न वेति संशयोऽपि व्याख्यातः । ननु – सिद्धे नेच्छा, किन्तु असिद्धे, सा च स्वसमानविषयज्ञानजन्या, तच्च ज्ञानं न सामान्यप्रत्यासत्तिं विना । न च – सिद्धगोचरसुखत्वप्रकारकज्ञानादेवाज्ञाते सुखे भवतीच्छा, समानप्रकारकत्वमात्रस्य नियामकत्वादिति – वाच्यम् ; रजतत्वेन प्रकारेण रजतेऽनुभूयमाने घटादौ रजतत्वप्रकारकेच्छाप्रसङ्गात् । न च – प्रकाराश्रयत्वमपि नियामकम् ; रजतभ्रमाच्छुक्ताविच्छानुदयप्रसङ्गात् । तथा च समानप्रकारकत्वे सति समानविषयकत्वं तन्त्रम् । अत एवाख्यातिपक्षे रजतस्मरणस्यैव शुक्त्तौ प्रवर्तकत्वमित्यपास्तमिति – चेन्न ; यतो रजतभ्रमाच्छुक्ताविच्छा नास्त्येव, किं त्वनिर्वचनीये रजत इत्यनिर्वचनीयख्यातौ वक्ष्यते । प्रकाराश्रयत्वं नियामकं वदन्नख्यातिवादी परमेवं विभीषणीयः । तथा च प्रकाराश्रयत्वस्य नियामकत्वादन्यथाख्यातिपक्षोऽपि निरस्त एव । न च – तर्हि भ्रमत्वं न स्यात् इदं रजतमिति भ्रमत्वाभिमतज्ञानस्य व्यधिकरणप्रकारत्वानभ्युपगमादिति – वाच्यम् ; बाधितविषयत्वेन हि भ्रमत्वं न तु व्यधिकरणप्रकारत्वेन तस्यापि विषयबाधप्रयोज्यत्वादिति हि वक्ष्यते । ननु – अभावज्ञानस्य प्रतियोगिज्ञानजन्यत्वात् प्रौढप्रकाशयावत्तेजोविरहरूपस्य तमसः प्रत्यक्षता न स्यात् , सामान्यप्रत्यासत्तिं विना प्रतियोग्यनुपस्थितेः इति – चेन्न; अस्मन्मते तमसो भावान्तरत्वात् । न च – तथापि तद्व्यञ्जकत्वात्तदपेक्षेति – वाच्यम् ; स्वरूपसत एव तादृक्तेजोविरहस्य तमोव्यञ्जकत्वम् , न तु ज्ञानस्य मानाभावादित्यभ्युपगमात् । अन्येषां मते तादृक्तेजोविरहज्ञानस्यापेक्षितत्वेऽपि प्रतियोगितावच्छेदकप्रकारकज्ञानादेव तत्सम्भवेन तदर्थं सकलप्रतियोगिज्ञानजनिकायाः सामान्यप्रत्यासत्तेरनुपयोगात् । न च – गोत्वाभावज्ञानं गोत्वत्वप्रकारकज्ञानजन्यम् , तच्च गवेतरावृत्तित्वे सति सकलगोवृत्तित्वरूपं सामान्यप्रत्यासत्तिमन्तरेण न शक्यमवगन्तुमिति – साम्प्रतम् ; यत्किञ्चिद्गोव्यक्तेरेव गोत्वत्वरूपत्वात् । एतेन प्रागभावप्रतीतिरपि व्याख्याता । किं चानागतज्ञानस्यापेक्षितत्वे अनुमानादेव तद्भविष्यति ; तथा च न्यायकुसुमाञ्जलौ – ’शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥’ इत्यत्र शङ्कोपपादकमनागतज्ञानमनुमानादेवेत्युक्तम् , अनुमानं च वर्तमानपाकः, पाकपूर्वकालीनः, पाकत्वादतीतपाकवदित्यादि । न च चरमपाके व्यभिचारः; साध्यसिद्ध्युपजीवकस्य व्यभिचारज्ञानस्यादोषत्वात् , अन्यथा सिद्ध्यसिद्धिव्याघातात् । किञ्च शब्दादपि सकलधूमपाकादिगोचरज्ञानसम्भवः । न च – शङ्कादिपूर्वं शब्दस्योपस्थितिनियमाभाव इति – वाच्यम् ; कदाचिदेव शब्दादनुभूतस्य तदानीं प्रमृष्टतत्ताकस्मृतिसम्भवात् । ननु – अनुमितेर्विशेषणज्ञानजन्यत्वेन सामान्यप्रत्यासत्तिसिद्धिः, न चानुमानान्तरद्विशेषणज्ञानमनवस्थानात् – इति चेन्न ; विशेषणतावच्छेदकप्रकारकज्ञानादेव साध्यविशेषणकपक्षविशेष्यकानुमितिसम्भवात् । एतेन – ’सुरभि चन्दन’मित्यादिविशिष्टज्ञानाय कल्पिता ज्ञानलक्षणा प्रत्यासत्तिरपि – निरस्ता ; चन्दनत्वेन सुरभित्वानुमानोपपत्तेः ; अन्यथा साध्यविशिष्टपक्षप्रत्यक्षोपपत्तेरनुमानमात्रोच्छेदप्रसङ्गात् । न च – अभावसाध्यककेवलव्यतिरेकिणि साध्यप्रसिद्धेरनङ्गत्वात्तत्र कॢप्ताया अनुमितिसामग्र्याः प्रत्यक्षसामग्रीतो बलवत्त्वमिति – वाच्यम् ; अर्थापत्तिवादिभिरस्माभिस्तदनभ्युपगमात् । ’पर्वतवृत्तिधूमो वह्निव्याप्य’ इति परामर्शात् साध्यविशेष्यकपक्षविशेषणकानुमित्यभ्युपगमे तु नैव काप्यनुपपत्तिः । अनुमितेः पक्षविशेष्यत्वनियमे मानाभावात् । किञ्च धूमत्वादिसामान्यं न स्वरूपतः प्रत्यासत्तिः ; धूलीपटले धूमभ्रमानन्तरं धूमत्वेन सकलधूमनिष्ठवह्निव्याप्तिग्रहानुदयप्रसङ्गात् , तत्र स्वरूपतो धूमत्वाभावात् , न चेष्टापत्तिः तदुत्तरकालमनुमित्यनुदयापत्तेः, तथा च धूमत्वज्ञानं प्रत्यासत्तिरिति – वाच्यम् ; तच्च धूमेन्द्रियसन्निकर्षदशायां धूमज्ञानात्प्राङ्नास्त्येव । निर्विकल्पके मानाभावात् , विशिष्टज्ञानत्वेन विशेषणज्ञानत्वेन च कार्यकारणभावानभ्युपगमात् , अवश्यकॢप्तकार्यकारणभावविशेषेणैव सर्वव्यवहारोपपत्तेः । न च धूमत्वेन सन्निकृष्टधूमव्यक्तिज्ञानानन्तरं तत्समानाकारमसन्निकृष्टधूमगोचरं ज्ञानान्तरमुत्पद्यत इत्यत्र मानमस्ति ; धूमत्वेन पुरोवर्तिनं धूमं साक्षात्करोमि न व्यवहितमित्यनुभवाच्च । अन्यथा जगतीगतसकलधूमव्यक्तीरहं साक्षात्करोमीत्यनुव्यवसीयेत । न चैवमनुभवमात्रशरणैरभ्युपेयते । किञ्च सामान्यप्रत्यासत्त्यङ्गीकारे यत् प्रमेयं तदभिधेयं, यत्प्रमेयवत् , तदभिधेयवदित्यादिव्याप्तिपरिच्छेदे सार्वज्ञ्यापत्तिः । नचेष्टैव सा ; परज्ञानविषयो घटो न वेत्यादिसंशयानुपपत्तेः । न च – घटत्वप्रकारकघटविषयकनिश्चयो घटसंशयविरोधी, प्रमेयमिति निश्चयस्तु घटविषयोऽपि न घटत्वप्रकारक इति – वाच्यम् ; भासमानवैशिष्ट्यप्रतियोगिन एव प्रकारत्वात् , घटत्वस्यापि प्रमेयमिति ज्ञाने भासमानवैशिष्ट्यप्रतियोगित्वात् , घटत्वप्रकारकनिश्चयस्य घटत्वज्ञानजन्यत्वविशेषणाददोष इति चेत् , न विशेषणाज्ञानत्वेनैव तस्य जनकता वाच्या ; तस्याः प्रागेव निरासात् ; स्वरूपसम्बन्धविशेषाभ्युपगमे चानिर्वचनीयवादापत्तेः, इत्यादिदूषणानि बहुतरमूहनीयानि । तस्मात् सामान्यप्रत्यासत्त्या निषेधमात्रप्रतियोगित्वोपस्थितौ तदभावग्रहात् बाध इत्यनुपपन्नमेव ॥
॥ इति सामान्यप्रत्यासत्तिभङ्गेन लौकिकालौकिकप्रत्यक्षबाधोद्धारः ॥
ननु – प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे शुक्तिरूप्यादेः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वं कथं प्रत्यक्षं स्यात् ? अथ तत्र रजतत्वविरोधिशुक्तित्वे साक्षात्कृते तदन्यथानुपपत्त्या च रजतत्वाभावे निश्चिते मिथ्यैव रजतमभादिति तादृङ्निषेधप्रत्ययः स्वसम्बन्धसर्वाभासकेन साक्षिणैवोपपन्नः, तर्हि साक्षात् स्वविषयस्य गगनादेर्भाविकालनिषेधाप्रतियोगित्वं सकलकालग्राहिणा साक्षिणा गृह्यताम् इति – चेन्न; साक्षिणो विद्यमानसर्वावभासकत्वेनाविद्यमानभाविबाधाभावभासकत्वानुपपत्तेः, साक्षिज्ञानस्य भ्रमप्रमासाधारणत्वेन प्रमाणाबाधकत्वाच्च । ननु – ज्ञानप्रामाण्यं गृह्णन् साक्षी घटादिगतमबाध्यत्वं गृह्णात्येव, न हि विषयाबाधमनन्तर्भाव्य प्रामाण्यग्रहणं नाम इति – चेन्न ; व्यवहारकालाबाध्यत्वमात्रेण प्रवृत्तावपि संवादोपपत्तेः, तद्रूपगतप्रामाण्यस्य साक्षिणा ग्रहणेऽपि विरोधाभावात् । न हि घटादिज्ञानस्य संवादिप्रवृत्तिजनकतावच्छेदकं प्रामाण्यं त्रिकालबाध्यविषयकत्वम् , किन्तु शुक्तिरूप्यादिज्ञानव्यावृत्तं व्यवहारकालाबाध्यविषयकसकलज्ञानवृत्तिव्यवहारकालाबाध्यविषयकत्वमेव । तच्च न भाविकालबाधविरोधीत्युक्तम् । भाविकालबाधतदभावौ न च मानं विना साक्षिणा ग्रहीतुं शक्यौ, तस्य विद्यमानमात्रग्राहित्वादिति चोक्तम् । ननु – तर्हि देहात्मैक्यज्ञान’मुष्णं जल’मित्यादि ज्ञानं च प्रमा स्यात् , व्यवहारदशायां विषयाबाधात् – इति – चेन्न ; आब्रह्मज्ञानमबाधितत्वेन तेषामपि घटादिज्ञानसमानयोगक्षेमत्वात् । ननु – कालान्तरस्थमपि यत् बाधकं तदपि किं यत्कालावच्छेदेन अनेन स्वार्थो गृहीतस्तत्कालावच्छेदेनैव तन्निषेधति, उतान्यकालावच्छेदेन, आद्ये कथमस्य प्रामाण्यम् ? अन्त्ये अनित्यत्वादिकमेव – इति चेन्न ; अबाध्यत्वरूपप्रामाण्यस्य प्रपञ्चज्ञाने मयानङ्गीकारात् । यत्कालावच्छेदेनैवानेन स्वार्थो गृहीतस्तत्कालावच्छेदेनैव तन्निषेधाभ्युपगमात् । तच्च प्रामाण्यं मयाभ्युपेयते । तत् व्यवहारदशायां विपरीतप्रमारूपबाधकस्यानुत्पन्नत्वादस्त्येव । न च – यत् भवतां घटादिबुद्धेः प्रातिभासिकबुद्धितो वैलक्षण्यं विषयस्य व्यावहारिकसत्त्वसाधकं, तदेवेह मम विषयस्य पारमार्थिकसत्त्वसाधकमस्त्विति – वाच्यम् ; प्रातिभासिकबुद्धिवैलक्षण्यं हि घटादिबुद्धेः सप्रकारकज्ञानाबाध्यविषयत्वादिरूपम् , तन्न पारमार्थिकसत्त्वं घटादेः, साधयितुं शक्तम् ; देहात्मैक्यज्ञाने ब्रह्मज्ञानाव्यवहितभ्रमे च व्यभिचारात् । ननु – ’घटस्सन् ’ ’रूप्यं मिथ्ये’ति प्रतीत्योरविशेषे कथं ’घटो मिथ्या रूप्यमिथ्यात्वं न मिथ्ये’ति विशेषः ? न च तदपि मिथ्यैव ; रूप्यतात्विकत्वापत्तेः – इति चेन्न ; मिथ्यात्वमिथ्यात्वेऽपि यथा न रूप्यस्य तात्त्विकत्वं तत्रोपपत्तेरुक्तत्वात् । न च – पारमार्थिकसत्त्वस्य प्रत्यक्षागोचरत्वे तन्निषेधश्रुतीनामप्रसक्तप्रतिषेधकता स्यादिति – वाच्यम् ; तासां चक्षुरादिप्रसक्तद्वैतनिषेधपरत्वात् , पारमार्थिकत्वेन द्वैतनिषेधपरत्वेऽपि नाप्रसक्तनिषेधकत्वम् ; परोक्षप्रसक्तेः सम्भवात् , ’नान्तरिक्षेऽग्निश्चेतव्य ’ इत्यादिवदप्रसक्तप्रतिषेधस्याप्युपपत्तेश्च । न च – अतात्विकप्रपञ्चे यदि तात्त्विकत्वमप्यध्यक्षेण न गृह्यते, कथं तर्हि तस्यातत्त्वावेदकत्वम् ? न हि तदेव तत्त्वेनावेदयत्तात्त्विकं नाम, दृश्यते च सार्वलौकिकप्रपञ्चे पारमार्थिकत्वानुभव इति – वाच्यम् ; न ह्यस्माकं तत्त्वावेदकत्वं तद्वति तत्प्रकारकत्वम् , तद्भिन्नत्वमतत्त्वावेदकत्वम् , किन्त्वबाधितविषयत्वं तत्त्वावेदकत्वम् , बाधितविषयत्वं चातत्त्वावेदकत्वम् , अबाधितविषयत्वं च श्रौते ब्रह्मज्ञान एव, तद्भिन्नज्ञाने तात्पर्यवद्वेदत्वेनैव तत्त्वावबोधकत्वात् । तथाच प्रपञ्चप्रत्यक्षस्य तात्त्विकत्वागोचरत्वेऽप्यतत्त्वावेदकत्वं सङ्गच्छते । सार्वलौकिकी पारमार्थिकत्वप्रसिद्धिस्तु जलगतपिपासोपशमनसामर्थ्यप्रसिद्धिवत् परोक्षतयाप्युपपन्ना नापरोक्षत्वपर्यवसायिनी ॥ तस्मादध्यक्षयोग्यस्य सत्त्वस्येहानिरुक्तितः । नाध्यक्षबाधो मिथ्यात्वलिङ्गस्यात्रोपपद्यते । न लौकिकं न सामान्यजन्यं साक्ष्यात्मकं न च । प्रत्यक्षं बाधते लिङ्गं मिथ्यात्वस्यानुमापकम् ॥
॥ इति प्रत्यक्षयोग्यसत्त्वानिरुक्त्या प्रत्यक्षबाधोद्धारः ॥
’किञ्चेदं रूप्य’मित्यत्र इदमितिवत् ’सन् घट’ इत्यत्रापि सदित्यधिष्ठानभूतं ब्रह्मैव भासते । न च – चाक्षुषादिज्ञाने रूपादिहीनस्य ब्रह्मणः कथं स्फुरणमिति – वाच्यम् ; रूपादिहीनस्यापि कालादिन्यायेन स्फुरणस्य प्रागेवोपपादितत्वात् । नन्वेवं – ’नीलो घटः मिथ्या रूप्यमसन्नृशृङ्ग’मित्यादावपि ’नील ’ इत्यादिरधिष्ठानानुवेध इति स्यात् , न च – नैल्यं घटादिष्वस्ति, सत्त्वं तु नेति – वाच्यम् ; अस्यारोपितत्वसिद्ध्युत्तरकालीनत्वेनान्योन्याश्रयात् ; अन्यथा ’सत्यं ज्ञान’मित्यत्रापि सत्यमित्यधिष्ठानानुवेध एव स्यात् – इति चेन्न; सन्नित्यस्य ’घट’ इत्यनेन सामानाधिकरण्यस्य बाधित्वात् । तथा हि – सत्ताजातिस्फुरणनिबन्धनं वा स्वरूपसत्त्वनिबन्धनं वा कालत्रयाबाध्यत्वनिबन्धनं वा सामानाधिकरण्यं स्यात् । न चाभावादिसाधारणसत्प्रतीतौ सत्ताजातिस्फुरणं सम्भवति; अभावादिषु त्वयापि तदनङ्गीकारात् । न च क्वचित्साक्षात्सम्बन्धेन क्वचित् परस्परासम्बन्धेन सदिति प्रतीत्युपपत्तिः; विजातीयसम्बन्धेन समानाकारप्रतीत्यनुपपत्तेः, अन्यथा सम्बन्धभेद एव न सिद्ध्येत् । न च स्वरूपसत्त्वेनाभावादौ तत्प्रतीतिः; अननुगमात् , अननुगतेनापि अनुगतप्रतीतौ जातिमात्रोच्छेदप्रसङ्गात् । अत एव न सर्वत्रापि स्वरूपसत्त्वेनैव सद्व्यवहारः; एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ बहूनां सद्धेतुत्वकल्पने मानाभावात् । नापि कालत्रयाबाध्यत्वनिबन्धनं तत् ; तस्य चक्षुराद्यगम्यत्वस्योक्तत्वात् , ’सदिदं रजत’मित्यादिभ्रमे अभावाच्च । तस्मादेकं सर्वाधिष्ठानमेव सदिति सर्वत्रानुभूयत इति युक्तम् , नीलादेस्तु घटादिसामानाधिकरण्ये किमपि नास्ति बाधकम् , न वा नीलादेरधिष्ठानत्वं सम्भवति; प्रागसत्त्वात् , नीलपीतादिप्रातिस्विकानन्ताधिष्ठानकल्पने गौरवात् , अधिष्ठेयतुल्ययोगक्षेमत्वाच्च । अधिष्ठेयविषमसत्ताकमेव ह्यधिष्ठानं भवति; ’मिथ्या रूप्यमसन्नृशृङ्ग’मित्यादौ मिथ्यात्वासत्त्वयोरधिष्ठानत्वशङ्कापि नास्तीति शून्यवादापत्तेः । तत्र चानुपपत्तिरुक्ता; वक्ष्यते च । यत्तु – ’सत्यं ज्ञानमनन्त’मित्यत्रापि तथा स्यात् – इति । तन्न; यतो न तत्र सत्तासम्बन्धेन सत्त्वम् , किन्तु स्वरूपेणैवेत्युक्तदोषानवकाशात् । न चैवं घटादावपि स्वरूपेणैव तथात्वम् ; पूर्वमेव निराकृतत्वात् , ॥
॥ इति सन्घट इति प्रत्यक्षेऽधिष्ठानानुवेधनिरूपणम् ॥
किञ्च निश्चितप्रामाण्यमेव प्रत्यक्षमितरबाधकं भवेत् , न चात्र प्रामाण्यं निश्चितम् ; आगमविरोधात् , अनुमानविरोधात् , भाविबाधाभावानिर्णयाच्च ॥ ननु – प्रत्यक्षमेव प्रबलमनुमानागमबाधकम् , नानुमानागमौ; प्रत्यक्षाप्रामाण्ये तद्विरोधाभावेनानुमानागमयोः प्रामाण्यम् , तयोः प्रामाण्ये च तद्विरोधात् प्रत्यक्षाप्रामाण्यमित्यन्योन्याश्रयात् , न हि प्रत्यक्षस्य प्रामाण्येप्येवमन्योन्याश्रयः; तस्यानपेक्षत्वात् – इति चेन्न; चन्द्रतारकादिपरिमाणप्रत्यक्षे अनुमानागमविरोधेन तस्याप्रामाण्यदर्शनात् तेनापि स्वप्रामाण्यसिद्ध्यर्थमितराविरोधस्यावश्यमपेक्षणीयत्वात् । तथाचान्योन्याश्रयतुल्यत्वात् परस्परविरोधेन प्रामाण्यसन्देहे सत्यनाप्ताप्रणीतत्वादिना प्रमाजनकत्वव्याप्तेर्वेदप्रामाण्यनिश्चये जाते तेन स्वतस्सम्भावितदोषस्य प्रत्यक्षस्य बाधात् अस्मन्मते क्वान्योन्याश्रयः ? अन्यथा देहात्मैक्यप्रत्यक्षबुद्ध्या बाधाद्देहभिन्नत्वमप्यात्मनो नागमानुमानाभ्यां सिद्ध्येत् । ननु – प्रत्यक्षमनुमानाद्यपेक्षया जात्यैव प्रबलम् ; कथमन्यथा औष्ण्यप्रत्यक्षेण वह्निशैत्यानुमितिप्रतिबन्धः ? न च – तत्रोपजीव्यत्वनिबन्धनं प्रत्यक्षस्य बाधकत्वम् ; धर्म्यादेश्चक्षुरादिनैव सिद्धेस्त्वचोऽनुपजीव्यत्वात् , किञ्च प्रत्यक्षस्य प्राबल्यमनुमाद्यगृहीतरेखोपरेखादिग्राहकत्वादनुमानाद्यनिवर्तितदिङ्मोहादिनिवर्तकत्वाच्च – इति चेन्न ; त्वाचप्रत्यक्षस्याप्युपजीव्यत्वेनैव शैत्यानुमितिप्रतिबन्धकत्वसम्भवात् , चक्षुरादिना धर्म्यादिग्रहेऽपि त्वचं विना साध्यप्रसिद्धेरभावात् । तथा च न जात्या प्राबल्ये मानमस्ति । तदगृहीतग्राहित्वमपि न प्राबल्ये प्रयोजकम् ; प्रत्यक्षागृहीतधर्मादिग्राहकत्वेन परोक्षप्रमाणस्यैव प्राबल्यापत्तेः । नाप्यनुमानाद्यनिवर्तितदिङ्मोहनादिनिवर्तकत्वेन प्राबल्यम् ; एतावता हि वैधर्म्यमात्रं सिद्धम् । न च तावतेतरप्रमाणापेक्षया प्राबल्यं भवति ; अन्यथा त्वाचप्रत्यक्षानिवर्तितवंशोरगभ्रमनिवर्तकत्वाच्चक्षुषोऽपि त्वगपेक्षया प्राबल्यं स्यात् । ततश्च चित्रनिम्नोन्नतज्ञानस्य चाक्षुषस्य तद्विरोधित्वाचज्ञानात् बाधो न स्यात् । प्रत्युतागमस्यैव सर्वतः प्राबल्यं स्मार्यते । ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।‘ इति । न च – तद्वैदिकार्थविषयमिति – वाच्यम् ; अद्वैतस्यापि वैदिकार्थत्वात् । क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितमिति तु परीक्षितप्रामाण्यप्रत्यक्षविषयम् । ननु – प्रत्यक्षस्यासञ्जातविरोधित्वादुपक्रमन्यायेनैव प्राबल्यम् । उक्तं हि – ‘असञ्जातविरोधित्वादर्थवादो यथाश्रुतः । आस्थेयस्तद्विरुद्धस्य विध्युद्देशस्य लक्षणा‘ – इति चेन्न; यत एकवाक्यस्थ परस्परसापेक्षपदत्वेन उभयोः साम्ये सत्युपक्रमस्थवेदपदानुरोधेनोपसंहारस्थर्गादिपदानां मन्त्रमात्रवाचिनां कृत्स्नवेदपरत्वे निर्णीतेऽपि न प्रकृते तन्न्यायः सम्भवति; उभयोः साम्याभावात् , गृहीतप्रमाणभावश्रुत्यपेक्षया भ्रमविलक्षणत्वेनानिश्चितस्य प्रत्यक्षस्य न्यूनबलत्वात् , अन्यथा ‘इदं रजतमि’ति भ्रमोऽपि ‘इयं शुक्तिरि’ति आप्तोपदेशापेक्षया प्रबलं स्यात् । एतेन – लिङ्गात् श्रुतेरिव शीघ्रगामित्वात् प्रत्यक्षस्य प्राबल्यम् , तदुक्तम् – ‘प्रत्यक्षे चानुमाने च यथा लोके बलाबलम् । शीघ्रमन्थरगामित्वात्तथैव श्रुतिलिङ्गयोः –‘ इत्यपास्तम् ; परीक्षितस्य मन्थरगामिनोऽपि प्राबल्यात् । न च – ‘यदाहवनीये जुहोती‘त्यस्मात् ‘पदे जुहोती‘त्यस्य विशेषविषयत्वेन प्राबल्यवत्, घटविषयसत्त्वग्राहिणः प्रत्यक्षस्य सामान्यतो द्वैतनिषेधकश्रुत्यपेक्षया प्राबल्यमिति – वाच्यम् ; सामान्यविशेषन्यायस्य निश्चितप्रमाणभावोभयविषयत्वात् , अन्यथा ‘अयं गौरश्व‘ इत्यादेरपि गौरश्वो न भवतीत्यादितः प्राबल्यं भवेत् । न च – यथा ‘यत्किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरती‘त्यत्रत्यस्य यत्किञ्चिच्छब्दस्य यत्किञ्चित्प्रकृतवाचित्वेन सामान्यविषयत्वेऽपि दीक्षणीयाव्यतिरिक्ते सावकाशत्वात् ‘यावत्या वाचा कामयेत तावत्या दीक्षणीयायामनुब्रूयादि’त्यनेन निरवकाशेन सङ्कोचस्तथा प्रत्यक्षेण निरवकाशेन वृत्त्यन्तरेणानेकार्थत्वेन वा विषयान्तरपरत्वेन सावकाशायाः श्रुतेः सङ्कोचः किं न स्यादिति – वाच्यम् ; तात्पर्यलिङ्गैरुपक्रमादिभिर्द्वैतनिषेधपरत्वे अवधृते अद्वैतश्रुतेरपि निरवकाशत्वात् , प्रत्यक्षस्यापि व्यावहारिकद्वैतविषयतया सावकाशत्वात्, विरुद्धयोश्च द्वयो‘रहं मनुष्य‘ इत्यादिप्रत्यक्षे ‘आकाशवत्सर्वगतश्च नित्य‘ इत्यादिश्रुत्योरिव तात्त्विकप्रामाण्यानुपपत्त्या कस्यचिद्व्यावहारिकं कस्यचित्तात्विकं प्रामाण्यमभ्युपेयम् ; अत्यन्ताप्रामाण्यस्यान्याय्यत्वात् , तत्राद्वैतश्रुतेर्व्यावहारिकप्रामाण्यसम्भवे द्वैतग्राहिप्रत्यक्षादेस्तात्त्विकं प्रामाण्यं भवेत् , तदसम्भवे तु बलादेवाद्वैतश्रुतेस्तात्त्विकं प्रामाण्यमिति प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं पर्यवस्यतीति कृतबुद्धयो विदाङ्कुर्वन्तु । ननु – पञ्च दशरात्रे प्रथमेऽहन्यग्निष्टुन्नामके नामातिदेशेन एकाहाग्निष्टुद्धर्मभूता सुब्रह्मण्याग्नेयी प्राप्ता, तस्या अल्पविषयत्वाच्चतुर्दशाहस्सु चोदकेन प्राप्तया ऐन्द्र्या सुब्रह्मण्या बहुविषयया यथा बाधः, बहुबाधस्यान्याय्यत्वात् ; तथा द्वैतग्राहिप्रत्यक्षतदुपजीव्यनुमानकर्मकाण्डसगुणोपासनावाक्यादिरूपबहु-प्रमाणाबाधायाद्वैतवाक्यस्य प्रतीतार्थबाधः किं न स्यात् ? तदुक्तम् – ’बहुप्रमाणविरोधे चैकस्याप्रामाण्यम् । दृष्टं शुक्तिरजतादिज्ञाने’ इति – चेन्न ; दृष्टान्ते बहुविषयाबाधोऽत्र बहुभिरिति वैषम्यात् , देहात्मैक्ये प्रत्यक्षानुमानशब्दाभासादिसत्त्वेऽपि देहात्मभेदबोधकस्यानन्यपरत्वेन प्राबल्यवदत्रापि अनन्यपरत्वेनाद्वैतश्रुतेः प्राबल्यात् , विद्याविद्याभेदेन विद्वदविद्वत्पुरुषभेदेन च विरोधाभावादिति ॥
॥ इति प्रत्यक्षस्य जात्युपक्रमन्यायादिभिः प्राबल्यनिराकरणम् ॥
ननु – उक्तन्यायैः प्रत्यक्षस्य जात्या प्राबल्याभावेऽपि उपजीव्यत्वेन प्राबल्यम् ; उपजीव्यत्वं चानुमानागमापेक्षिताशेषार्थग्राहकतया, सा च क्वचित् साक्षात् क्वचित्परम्परया; दृष्टं चापेक्षितैकदेशग्राहिणामप्युपजीव्यत्वम् , तद्विरुद्धग्रहणे तेन बाधश्च ; यथा – घटविभुत्वानुमाने पक्षग्राहिणा अक्ष्णा , नरशिरश्शुचित्वानुमाने साध्यग्राहकेणागमेन, मनोवैभवानुमाने ज्ञानासमवाय्याधारत्वहेतुग्राहकेणानुमानेन, किमु वक्तव्यमपेक्षिताशेषग्राहिणा स्वविरुद्धग्राहकस्य बाधः ? चक्षुरादेश्च शब्दतज्जन्यज्ञानप्रामाण्याद्यग्राहित्वेऽपि तद्ग्राहिश्रोत्रसाक्ष्यादिसजातीयत्वादुपजीव्यत्वम् । दृष्टं च नरशिरःकपालाशुचित्वबोधकागमस्य तच्छुचित्वानुमानोपजीव्यशुचित्वागमसजातीयत्वेन तदनुमानात् प्राबल्यम् , न चेन्द्रियमपि स्वज्ञानार्थमनुमानमुपजीवतीति सम एवोपजीव्योपजीवकभावः, अज्ञातकरणतया ज्ञानजननार्थमनुमानानपेक्षणात् , अनुमानागमादिना तु ज्ञानजननार्थमेव तदपेक्षणादिति विशेषात् – इति चेन्न ; उपजीव्याविरोधात् । तथा हि – यत्स्वरूपमुपजीव्यते तन्न बाध्यते ; बाध्यते च तात्त्विकत्वाकारः, स च नोपजीव्यते ; कारणत्वे तस्याप्रवेशात् । तदुक्तम् – ’पूर्वसम्बन्धनियमे हेतुत्वे तुल्य एव नौ । हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ॥’ इति । किञ्चापेक्षितग्राहित्वमात्रेण चेदुपजीव्यता, तया च बाधकत्वम् , तदाऽपेक्षितप्रतियोगिग्राहकत्वेन ’इदं रजतमि’ति भ्रमस्य बाधोपजीव्यत्वात् , कथं ’नेदं रजतमि’ति बाधबुद्धिस्तद्विरुद्धोदीयात् ? अथ निषेध्यार्थसमर्पकतया प्रतियोगिज्ञानत्वेन तस्योपजीव्यत्वेऽपि तत्प्रामाण्यं नोपजीव्यम् , न हि प्रतियोगिप्रमात्वेनाभावज्ञानजनकता; गौरवात् , प्रतियोगिभ्रमादप्यभावज्ञानदर्शनाच्च, किन्तु तज्ज्ञानत्वेनैव; लाघवात् , अतस्तद्विरुद्धविषयकं ज्ञानमुदीयादेवेति ब्रूषे, तुल्यमिदं प्रकृतेऽपि, पक्षज्ञानत्वादिना कारणता, न तु तत्प्रमात्वादिनापीति । अथ – यत् प्रामाण्यं स्वरूपसिद्ध्यर्थमपवादनिरासार्थं च यत् प्रामाण्यमुपजीवति तत्तस्योपजीव्यम्; यथा स्मृतेरनुभवः, न च रजतभ्रमस्तथा – इति चेत् , तर्हि व्याप्तिधियोऽपि नानुमित्युपजीव्यत्वं स्यात् ; लिङ्गाभासादपि वह्निमति वह्निप्रमादर्शनात् । ननु – येन विना यस्योत्थानं नास्ति तत्तस्योपजीव्यमित्येव वक्तव्यम् ; तथाच रजतभ्रमस्योपजीव्यत्वमस्त्येव, न तु प्राबल्यम् ; नह्युपजीव्यत्वमात्रेण प्राबल्यम् , किन्तु परीक्षिततया । परीक्षा च सजातीयविजातीयसंवादविसंवादाभावरूपा । न च तौ रजतभ्रमे स्तः; प्रकृते चाक्षस्य परीक्षितत्वेन प्राबल्यम् । अस्ति हि ’सन्घट ’ इति विशेषदर्शनजन्यज्ञानान्तरं घटार्थक्रियाप्रत्यक्षे । क्लृप्तदूरादिदोषाभावाच्च । एवमेव जीवेशाभेदश्रुतौ निषेध्यार्पकभेदश्रुतिः साक्षिप्रत्यक्षं चादोषत्वात् परीक्षितमिति तदपि न बाध्यम् । एवमेव च दोषाभावादिज्ञानरूपपरीक्षायामपि अनाश्वासे वेदे पौरुषेयत्वाभावज्ञाने त्वदुक्तानुमाने च योग्यानुपलब्ध्यादिना हेत्वाभासादिराहित्यज्ञाने ब्रह्ममीमांसायां प्रत्यधिकरणं सिद्धान्त्यभिप्रेतार्थे उपक्रमाद्यानुगुण्यज्ञाने चानाश्वासः स्यादिति प्रमाणतदाभासव्यवस्था न स्यात् – इति चेन्न ; परीक्षा हि प्रवृत्तिसंवादविसंवादाभावदोषाभावादिरूपा, तया च स्वसमानदेशकालीनविषयाबाध्यत्वं प्रामाण्यस्य व्यवस्थाप्यते धूमेन स्वसमानदेशकालीनवह्निरिव । तथा च व्यवहारदशामात्राबाध्यत्वं देहात्मैक्यसाधारणं परीक्षितप्रमाणे व्यवस्थितमिति कथमत्यन्ताबाध्यत्वाभावग्राहकागमानुमानयोः प्रवृत्तिर्न स्यात् ? तस्माद्विश्वासप्रमाणतदाभासव्यवस्था जीवेशभेदादिकं च व्यावहारिकमित्युपपन्नमेव सर्वं जगन्मिथ्येति ॥ ननु – प्रत्यक्षाप्रामाण्ये तत्सिद्धस्य व्याप्त्यादेर्बाधेनानुमेयादेरनुमित्यादिप्रामाण्यस्य च बाधः; अनुमेयादेर्व्याप्त्यादिना अनुमितिप्रामाण्यादिना च समानयोगक्षेमत्वात् , अन्यथा प्रातिभासिकव्याप्त्यादिमता बाष्पाध्यस्तधूमेन तात्त्विको व्यावहारिको वाग्निर्व्यावहारिकव्याप्त्यादिमता धूमेन तात्त्विकोऽग्निर्व्यावहारिकेणाबाधेन विरुद्धधर्माधिकरणत्वेन च विश्वस्य जीवेशभेदस्य च तात्त्विकं सत्त्वं सिद्ध्येत् – इति चेन्न; एतावता हि व्याप्त्यादिसमानसत्ताकमनुमेयं सिद्ध्यत्वित्यापत्तेः फलितोऽर्थः, स चास्माकमिष्ट एव; न हि ब्रह्मभिन्नं क्वचिदत्यन्ताबाध्यमस्ति । न चायमनुमेयादेर्व्याप्त्यादिना समसत्ताकत्वनियमोऽप्यस्ति ; व्यभिचारिणापि लिङ्गेन साध्यवति पक्षे अनुमितिप्रमादर्शनात् , ध्वनिधर्मह्रस्वत्वदीर्घत्वादिविशिष्टत्वेन मिथ्याभूतैरपि नित्यैर्विभुभिर्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति मीमांसकैरभ्युपगमात् , गन्धप्रागभावावच्छिन्ने घटे तात्त्विकव्याप्त्यादिमतापि पृथिवीत्वेनातात्त्विकगन्धानुमितिदर्शनात् , प्रतिबिम्बेन च बिम्बानुमितिदर्शनात् । न च – तत्रापि बिम्बरहितावृत्तिरूपा व्याप्तिस्तात्त्विक्येवेति – वाच्यम् ; एवं सत्यवृत्तिगगनादेरपि व्याप्यतापत्तेः । न च – तत्र बिम्बपूर्वकत्वमेवानुमीयते, बिम्बव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपेणाप्रातिभासिकेन हेतुनेति – वाच्यम् ; प्रयुक्तत्वं हि न तज्जनकजन्यत्वादिरूपम् ; व्यतिरेकयोः परस्परं तदभावात् , किन्तु व्याप्यव्यापकभावः, तथा च बिम्बव्यतिरेकव्यापकव्यतिरेकप्रतियोगित्वं हेतुः, स चाकाशादौ व्यभिचार्येव । तस्मात्तत्र प्रतिबिम्बेनैव बिम्बानुमानम् , अनुमेयस्य लिङ्गव्याप्त्यादिसमानसत्ताकत्वनियमस्यापास्तत्वात् । एतेन – शब्देऽपि योग्यतासमानसत्ताकेन शब्दार्थेन भवितव्यम् , योग्यतावाक्यार्थयोः समानसत्ताकत्वनियमादिति कथं वेदान्तवाक्यार्थो योग्यताबाधेऽप्यबाधितः स्यादिति – परास्तम् ; वेदान्तवाक्ये अखण्डार्थरूपवाक्यार्थाबाधरूपाया योग्यताया अप्यबाधाच्च । न च – तथापि वेदान्ततज्ज्ञानप्रामाण्यमिथ्यात्वे कथं तात्त्विकाद्वैतसिद्धिरिति – वच्यम् ; शब्दतज्ज्ञानतात्त्विकत्वं हि न विषयतात्त्विकत्वे तन्त्रम्, इदं रजतमित्यनाप्तवाच्यस्य तज्जन्यभ्रमस्य च त्वन्मते तात्त्विकत्वेऽपि तद्विषयस्यातात्त्विकत्वात् । न च – ज्ञानप्रामाण्यस्य मिथ्यात्वे विषयस्यापि मिथ्यात्वं शुक्तिरूप्यज्ञाने दृष्टमिति प्रकृतेऽपि ज्ञानप्रामाण्यमिथ्यात्वे विषयस्यापि मिथ्यात्वं स्यादिति – वाच्यम् ; प्रामाण्यमिथ्यात्वं हि न विषयमिथ्यात्वे प्रयोजकम् , भ्रमप्रमाबहिर्भूते निर्विकल्पके विषयबाधाभावात् , किन्तु तदभाववति तत्प्रकारकत्वादिरूपमप्रामाण्यमेव तथा; तच्च प्रकृते नास्त्येव । न च – अर्थाबाधरूपप्रामाण्यस्य मिथ्यात्वादर्थस्यापि मिथ्यात्वं स्यादिति – वाच्यम् ; अबाधितार्थविषयत्वं हि यत् प्रामाण्यं तस्य मिथ्यात्वम् प्रकृते नार्थबाधात् ; तद्बाधकप्रमाणासम्भवात् , तस्य सर्वबाधावधित्वात् , किन्तु तद्विषयत्वरूपसम्बन्धबाधात्तथा । तथाचाबाधितार्थविषयत्वरूपप्रामाण्यमिथ्यात्वेऽपि नार्थो मिथ्या । विशिष्टस्यैकांशमिथ्यात्वेऽप्यपरांशसत्यत्वात् , यथा दण्डबाधनिबन्धनदण्डिपुरुषबाधेऽपि पुरुषो न बाधित एवेति ॥
॥ इति अद्वैतसिद्धौ प्रत्यक्षस्योपजीव्यत्वभङ्गः ॥
किञ्च विपक्षबाधकसचिवमनुमानमपि प्रत्यक्षबाधकम् । ननु – एवमपि ’औदुम्बरीं स्पृष्ट्वा उद्गायेत्’ ’ऐन्द्र्या गार्हपत्यमुपतिष्ठते’ ’शरमयं बर्हिर्भवती’ति श्रुतित्रयग्राहि प्रत्यक्षं यथाक्रमं ’औदुम्बरी सर्वा वेष्टयितव्ये’ति स्मृतिरूपेण सर्ववेष्टनश्रुत्यनुमानेन ’कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुष’ इति मन्त्रसामर्थ्यलक्षणेनेन्द्रशेषत्वश्रुत्यनुमानेन चोदनालिङ्गरूपेण कुशश्रुत्यनुमानेन च बाध्यते इति सर्वमीमांसोन्मृदिता स्यादिति – चेन्न ; वैषम्यात् , तथा हि – किमिदमापाद्यते, श्रुतित्रयग्राहिप्रत्यक्षमनुमानैर्बाध्येतेति वा, प्रत्यक्षविषयीभूतश्रुतित्रयमिति वा । नाद्यः विरोधाभावेन तद्बाध्यबाधकभावस्य शास्त्रार्थत्वाभावात् , अस्माभिरनभ्युपगमाच्च, अनुक्तोपालम्भमात्रत्वे निरनुयोज्यानुयोगापत्तेः । अत एव न द्वितीयः; प्रत्यक्षविषयीभूतश्रुतित्रयस्य लिङ्गबाधकत्वपरेऽपि शास्त्रे प्रत्यक्षस्य लिङ्गबाध्यत्वे विरोधाभावात् , न हि शब्दप्रत्यक्षयोरैक्यमस्ति; शब्दस्य च सर्वप्रमाणापेक्षया बलवत्त्वमवोचाम । तस्मान्मौढ्यमात्रमेतन्मीमांसाविरोधोद्भावनम् । ननु – प्रत्यक्षस्य लिङ्गबाध्यत्वे वह्न्यौष्ण्यप्रत्यक्षं शैत्यानुमानस्यात्मस्थायित्वप्रत्यभिज्ञानं च क्षणिकत्वानुमानस्य बाधकं न स्यात् , प्रत्युतानुमानमेव तयोर्बाधकं स्यात् – इति चेन्न; अर्थक्रियासंवादेन श्रुत्यनुग्रहेण च तत्र प्रत्यक्षयोः प्राबल्येनानुमानबाधकत्वात् । अपरीक्षितप्रत्यक्षं हि परीक्षितानुमानापेक्षया दुर्बलं, ’नीलं नभ’ इति प्रत्यक्षमिव नभोनीरूपत्वानुमानापेक्षया, अतो न सामान्यतो दृष्टमात्रेण सर्वसङ्करापत्तिः । नन्वेवं – पशुत्वेन शृङ्गानुमानमपि स्यात् ; लाघवात् पशुत्वमेव शृङ्गवत्त्वे तन्त्रम् , न तु तद्विशेषगोत्वादिकम्; अननुगतत्वेन गौरवादित्येतत्तर्कसध्रीचीनत्वेन प्रत्यक्षापेक्षया प्राबल्यात् , अनुकूलतर्कसाचिव्यमेव हि अनुमाने बलम् । एवं च येनकेनचित् सामान्यधर्मेण सर्वत्र यत्किञ्चिदनुमेयम् । लाघवतर्कसाचिव्यस्य सत्त्वात् , तावतैव प्रत्यक्षबाधकत्वादिति व्यावहारिक्यपि व्यवस्था न स्यात् , न ह्यत्र प्रत्यक्षबाधादन्यो दोषोऽस्ति – इति चेन्न ; अयोग्यशृङ्गादिसाधने प्रत्यक्षबाधस्यासम्भवेन तत्र व्याप्तिग्राहकतर्केष्वाभासत्वस्य त्वयाऽपि वक्तव्यत्वेन व्यवस्थाया उभयसमाधेयत्वात् , न हि तर्काभाससध्रीचीनमनुमानं प्रमाणमिति केनाप्यभ्युपेयते; अत उपपन्नं सत्तर्कसचिवमनुमानं प्रत्यक्षस्य बाधकमिति ॥
॥ इति प्रत्यक्षस्यानुमानबाध्यत्वसिद्धिः ॥
किञ्च परीक्षितप्रमाणभावशब्दबाध्यमपि प्रत्यक्षम् । ननु – प्रत्यक्षं यदि शब्दबाध्यं स्यात्तदा जैमिनिना ’तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चि’रित्याद्यर्थवादस्या ’दितिर्द्यौ ’रित्यादिमन्त्रस्य च दृष्टविरोधेनाप्रामाण्ये प्राप्ते गुणवादस्तु’ ’गुणादविप्रषेधः स्या’दित्यादिना गौणार्थता नोच्येत, ’तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवाया ’ इति तत्सिद्धिपेटिकायां ’यजमानः प्रस्तर’ इत्यादेर्गौणार्थता च नोच्येत, त्वयापि प्रत्यक्षाविरोधाय तत्त्वंपदयोर्लक्षणा नोच्येत, श्रुतिविरोधे प्रत्यक्षस्यैव प्रामाण्यसम्भवात् , न च – तात्पर्यलिङ्गानामुपक्रमादीनामत्र सत्त्वान्नाद्वैतश्रुतीनाममुख्यार्थत्वमिति — वाच्यम् ; ’यजमानः प्रस्तर’ इत्यादावपूर्वत्वाद्येकैकलिङ्गस्य तात्पर्यग्राहकस्य विद्यमानत्वात् । एकैकलिङ्गस्य तात्पर्यनिर्णायकत्वे लिङ्गान्तरमनुवादकमेव, त्वन्मते प्रत्यक्षसिद्धे भेदे श्रुतिरिव, किं बाहुल्येन इति — चेन्न ; वाक्यशेषप्रमाणान्तरसंवादार्थक्रियादिपरीक्षापरीक्षितस्य प्रत्यक्षस्य प्राबल्येन व्यवहारदशायामेव एतद्विरुद्धार्थग्राहिणो ’धूम एवाग्नेर्दिवा ददृशे’, अदितिर्द्यौ’र्यजमानः प्रस्तर’ इत्यादेस्तद्विरोधेनामुख्यार्थत्वेऽप्यद्वैतागमस्य परीक्षितप्रमाणविरोधाभावेन मुख्यार्थत्वोपपत्तेः । प्रत्यक्षादेर्हि परीक्षया व्यावहारिकप्रामाण्यमात्रं सिद्धम् ; तच्च नाद्वैतागमेन बाध्यते, बाध्यते तु तात्त्विकं प्रामाण्यम् , तत्तु परीक्षया न सिद्धमेव, अतो न विरोधः । ’धूम एवाग्ने’रित्यादेस्तु मुख्यार्थत्वे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं व्याहन्येत । अतो विरोधात्तत्रामुख्यार्थत्वमिति विवेकः । यत्तु — प्रत्यक्षाविरोधाय तत्त्वंपदयोर्लक्षणा नाश्रीयेतेति — तन्न ; षड्विधलिङ्गैर्गतिसामान्येन चाखण्ड एवावधार्यमाणस्य तात्पर्यस्यानुपपत्तेः जीवेशगतसर्वज्ञत्वकिञ्चिज्ज्ञत्वादीनामैक्यान्वयेऽनुपपत्तेश्च तात्पर्यविषयीभूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गीकरणस्यैवोचितत्वात् , तात्पर्यविषयीभूतान्वयनिर्वाहाय लक्षणाश्रयणस्य सर्वत्र दर्शनात् । न च – एवं सति अमुख्यार्थत्वं स्यादिति – वाच्यम् ; तद्धि प्रतीयमानार्थपरित्यागेनार्थान्तरपरत्वं वा, अशक्यार्थत्वं वा । नाद्यः; सामानाधिकरण्येन प्रतीयमानस्यैक्यस्यात्यागात् । नान्त्यः; जहदजहल्लक्षणाश्रयणेन शक्यैकदेशपरित्यागेऽपि ’सोऽयं देवदत्त’ इत्यादिवाक्य इव शक्यैकदेशस्यान्वयाभ्युपगमात् , विशेषणबाधेन विशेष्यमात्रान्वयस्यैवात्र लक्षणाशब्देन व्यपदेशात् । तथा चोक्तं वाचस्पतिमिश्रैः – ’प्रस्तरादिवाक्यमन्यशेषत्वादमुख्यार्थम् , अद्वैतवाक्यं त्वनन्यशेषत्वान्मुख्यार्थमेव । उक्तं हि शाबरभाष्ये – ’न विधौ परः शब्दार्थ इती’ति ॥ यथा चापूर्वत्वाद्येकैकतात्पर्यलिङ्गेन ’यजमानः प्रस्तर’ इत्याद्यर्थवादवाक्यानां न स्वार्थपरत्वं तथा वक्ष्यामः । ननु – अन्यशेषत्वानन्यशेषत्वे नामुख्यार्थत्वमुख्यार्थत्वयोः प्रयोजके, किं तु मानान्तरविरोधाविरोधौ ; अन्यशेषेऽपि मानान्तराविरोधे ’इयं गौः क्रय्या बहुक्षीरे’त्यादौ लोके ’सोऽरोदी ’दित्यादौ च वेदे प्रस्तरादिवाक्यवदमुख्यवृत्तेरनाश्रयणात् , अनन्यशेषेऽपि ’सोमेन यजेते’त्यादौ वैयधिकरण्येनान्वये विरुद्धत्रिकद्वयापत्त्या सामानाधिकरण्येनान्वये प्रत्यक्षाविरोधाय च सोमवता यागेनेति मत्वर्थलक्षणाया आश्रयणात् । एवं विचारविधायके ’अथातो ब्रह्मजिज्ञासे’ति सूत्रे ’तद्विजिज्ञासस्वे’ति श्रुतौ च मानान्तराविरोधेन विध्यन्वयाय जिज्ञासाशब्देन विचारलक्षणायाः ’सर्वं खल्विदं ब्रह्मे’त्यादौ चामुख्यार्थतायाः स्वीकृतत्वात्, सर्वस्यापि वाक्यस्यावाच्ये ब्रह्मणि लक्षणाया एवेष्टत्वेनामुख्यार्थत्वनिषेधायोगाच्च, अन्वयानुपपत्तेस्तात्पर्यानुपपत्तेर्वा लक्षणाबीजस्य विध्यविधिसाधारणत्वाच्च, शाबरं तु वचनमर्थवादमुख्यत्वाय विधौ न लक्षणेत्येवंपरम् ; तस्मान्न प्रत्यक्षं शब्दबाध्यं – इति चेन्न ; भावानवबोधात् । तात्पर्यविषयीभूतार्थबोधकत्वं हि मुख्यार्थत्वम् , न शक्यार्थमात्रबोधकत्वम् ; अन्यार्थतात्पर्यकत्वाच्चामुख्यार्थत्वम् ; न लाक्षणिकत्वमात्रम् । तथा चाद्वैतागमस्य स्वतात्पर्यविषयीभूतार्थबोधकत्वनिर्वाहाय लक्षणाश्रयणेऽपि मुख्यार्थत्वमुपपन्नमित्यवोचाम । एवं च ’सोमेन यजेते’त्यादिविशिष्टविधेर्विशेषणे तात्पर्याभावान्मत्वर्थलक्षणायामपि स्वार्थापरित्यागाच्च नामुख्यार्थत्वम् । जिज्ञासापदे तु ज्ञाधातुनेष्यमाणज्ञानलक्षणाङ्गीकारानङ्गीकारमतभेदेऽपि सन्प्रत्ययस्य विचारे जहल्लक्षणाभ्युपगमस्योभयत्र तुल्यत्वात् शक्यार्थपरित्यागेऽपि विधितात्पर्यनिर्वाहात् नामुख्यार्थत्वम् । न हि वाक्यार्थप्रतीत्यन्यथानुपपत्त्या पदमात्रे लक्षणायामपि वाक्यस्यामुख्यार्थत्वम् ; प्रतीतस्यार्थस्यानन्यशेषत्वेन मुख्यत्वात् । यत्र पुनः प्रतीत एव वाक्यार्थोऽन्यशेषत्वेन कल्प्यते, तत्र वाक्यस्यामुख्यार्थत्वमेव । अन्यद्धि पदतात्पर्यमन्यच्च वाक्यतात्पर्यम् ; ’सैन्धवमानय ’ , ’गङ्गायां वसन्ती’त्यादौ वाक्यतात्पर्यैक्येऽपि पदतात्पर्यभेदात् , ’विषं भुङ्क्ष्वे’त्यादौ पदतात्पर्याभेदेऽपि वाक्यतात्पर्यभेदात् । अत एव ’इयं गौः क्रय्या बहुक्षीरे’त्यादि वाक्यार्थस्यावश्यं क्रेतव्येति विधिशेषत्वेन तत्प्राशस्त्यलक्षकत्वात्, ’सोऽरोदी’दित्यादिवाक्यार्थस्य च ’बर्हिषि रजतं न देयं हिरण्यं दक्षिणे’ति विधिशेषत्वेन रजतनिन्दाद्वारा तत्प्राशस्त्यलक्षकत्वात् , ’सर्वं खल्विदं ब्रह्म तज्जलानि’ति वाक्यार्थस्य ’शान्त उपासीते’ति शमविधिशेषत्वेनात्यनायाससिद्धत्वरूपतत्प्राशस्त्यलक्षकत्वादमुख्यत्वमेव । अत एव – मानान्तरविरोध एव लक्षणेति – अपास्तम् ; ’इयं गौः क्रय्या बहुक्षीरे’त्यादिना प्राशस्त्यलक्षणायां व्यभिचारात् , किं तु परमतात्पर्यविषयीभूतार्थप्रतीतिनिर्वाहायैव सर्वार्थवादेषु लक्षणा, एतावांस्तु विशेषः – विधिप्राशस्त्ये लक्षणातः प्रागर्थवादवाक्यार्थज्ञानम् , तस्य प्रमाणान्तरविरोधे बाध एव ; यथा ’प्रजापतिरात्मनो वपामुदक्खिद’दित्यादौ । अत एव तत्र गुणवादमात्रम् , प्रमाणान्तरप्राप्तौत्वनुवादमात्रम् ’अग्निर्हिमस्य भेषजमि’त्यादौ । अत एव तदुभयत्राबाधिताज्ञातज्ञापकत्वरूपप्रामाण्यानिर्वाहादप्रामाण्यम् । यत्र पुनः प्रमाणान्तरप्राप्तिविरोधौ न स्तस्तत्र प्रामाण्यशरीरनिर्वाहात् भूतार्थवादत्वम् – यथा ’इन्द्रो वृत्राय वज्रमुदयच्छदि’त्यादौ, अयमेव देवताधिकरणन्यायः । ननु – ’तर्ह्यादित्यो यूप’ इत्यादौ वाक्यार्थप्रतीत्यर्थमेव लक्षणाङ्गीकारादमुख्यार्थत्वं न स्यात् ; न स्याद्यद्यादित्यसदृशो यूप इति वाक्यार्थपर्यवसानं स्यात् , किं तु गुणवृत्त्या प्रतीतस्यापि वाक्यार्थस्य यूपे पशुं बध्नातीति विधिशेषत्वेन तत्प्राशस्त्यलक्षकत्वमस्त्येव, तेनैवामुख्यत्वं, न त्वादित्यपदगौणतयेति तत्सिद्धिपेटिकायां सर्वोदाहरणेष्ववान्तरवाक्यार्थप्रतीतये गुणवृत्तिप्रकाराः प्रदर्शिता इति द्रष्टव्यम् । कर्मप्राशस्त्यलक्षणा च सर्वार्थवादसाधारणी तत्रास्त्येवेति नामुख्यार्थत्वानुपपत्तिः । अत उपपन्नं प्रस्तरादिवाक्यवैषम्यमद्वैतवाक्यस्य । यच्चोक्तमर्थवादमुख्यार्थत्वाय विधौ न लक्षणेत्येवंपरं शबरस्वामिवचनमिति, तन्न ; अश्वप्रतिग्रहेष्टौ ’प्रतिगृह्णीयादि’ति विधौ प्रतिग्राहयेदिति व्यवधारणकल्पनया अर्थवादानुसारेण प्रयोजकव्यापारलक्षणाया अङ्गीकरणात् ; तस्माद्विधौ तात्पर्यवति वाक्ये प्रतीयमानवाक्यातिरिक्तोऽन्यः शेषी नास्तीत्येवंपरमेव तद्वचनम् । अतः सिद्धमद्वैतागमस्य लाक्षणिकत्वेऽपि मुख्यार्थत्वात् प्रत्यक्षबाधकत्वमिति शिवम् ।
॥ इति प्रत्यक्षस्यागमबाध्यत्वम् ॥
किं चापच्छेदन्यायेनाप्यागमस्य प्राबल्यम् । यथा हि ’पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिव’दित्यधिकरणे उद्गात्रपच्छेदनिमित्तकादक्षिणयागेन परेण प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदक्षिणयागस्य पूर्वसिद्धनिमित्तकस्य बाध इति स्थितम् , तथेहापि उदीच्यागमेन पूर्वस्य प्रत्यक्षस्य बाधः । ननु – प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदक्षिणयागस्य प्रतिहर्तृमात्रापच्छेदे, युगपदपच्छेदे, क्रमेणापच्छेदेऽपि प्रतिहर्त्रपच्छेदस्य पाश्चात्ये चावकाश इति युक्तः उद्गात्रपच्छेदनिमित्तकादक्षिणयागेन बाधः; अन्यथा ’यदि प्रतिहर्ता अपच्छिद्येत सर्ववेदसं दद्यादि’ति शास्त्रमप्रमाणं स्यात् , अत एव ’विप्रतिषेधाद्विकल्पः स्यादि’त्यधिकरणे द्वयोर्युगपदपच्छेदे विकल्प उक्तः । किञ्च ’यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्यादथेतरस्मि’न्नित्यधिकरणे उद्गात्रपच्छेदस्य प्रतिहर्त्रपच्छेदात्परत्वे उद्गात्रपच्छेदनिमित्तं पूर्वं प्रयोगं दक्षिणाहीनं सम्पाद्य कर्तव्यज्योतिष्टोमस्य द्वितीयप्रयोगे ’तद्दद्याद्यत्पूर्वस्मिन् दास्यन् स्यात्’ इति श्रुत्युक्ता या दक्षिणा सा पूर्वभाविप्रतिहर्त्रपच्छेदनिमित्तकपूर्वप्रयोगस्थसर्वस्वदित्साया अबाधेन सर्वस्वरूपैव, न तु या ज्योतिष्टोमे नित्या द्वादशशतरूपा । तस्मान्न प्रतिहर्त्रपच्छेदस्य सर्वथा बाधः, किं तु प्रयोगान्तरे निक्षेप इत्युक्तम् , उक्तं हि टुप्टीकायां – ’तस्य प्रयोगान्तरे निक्षेप’ इति । अपि च क्रमिकनिमित्तद्वयेन क्रमेणादक्षिणसर्वस्वदक्षिणयोः प्रयोगयोः सम्भवेन विरोध एव नास्ति ; यथा बदरीफले क्रमिकनिमित्तवतोः श्यामरक्तरूपयोः । उक्तं ह्यपच्छेदाधिकरणे – ’नैमित्तकशास्त्रस्य ह्ययमर्थः, निमित्तोपजननात् प्रागन्यथाकर्तव्योऽपि क्रतुर्निमित्ते सत्येवं कर्तव्यः’ इति । तस्मादपच्छेदन्यायः सावकाशविषयः, अद्वैतागमेन प्रत्यक्षबाधे तु न प्रत्यक्षप्रामाण्यस्यावकाशोऽस्ति – इति चेन्न; उद्गात्रपच्छेदाभावे युगपदुभयापच्छेदे प्रतिहर्त्रपच्छेदस्य उद्गात्रपच्छेदे पाश्चात्ये च ज्योतिष्टोमद्वितीयप्रयोगे प्रतिहर्त्रपच्छेदनिमित्तसर्वस्वदक्षिणयागप्रतिपादकशास्त्रस्य सावकाशत्ववद्व्यावहारिकप्रामाण्ये प्रत्यक्षस्यापि सावकाशत्वात् , तत्रैकप्रयोगे विरोधवदत्रापि तात्त्विकत्वांशे विरोधात् । अत एव सगुणसप्रपञ्चश्रुत्योर्निर्गुणनिष्प्रपञ्चश्रुतिभ्यामपच्छेदन्यायेन बाध इति सुष्ठूक्तम् । तदुक्तमानन्दबोधाचार्यैः – ’तत्परत्वात्परत्वाच्च निर्दोषत्वाच्च वैदिकम् । पूर्वस्य बाधकं नायं सर्प इत्यादिवाक्यवत् ॥’ इति । ननु – मानान्तरविरोधे श्रुतेस्तत्परत्वमसिद्धम् , परत्वं तु प्रमानन्तरभ्रमे व्यभिचारि । दृश्यते च ’न क्त्वा सेडि’ति परं प्रति ’मृडमृदगुधकुषक्लिशवदवसः क्त्वे’इति पूर्वमपि बाधकम् , निर्दोषत्वं त्वर्थान्तरप्रामाण्येनान्यथासिद्धम् , तदुक्तम् – ’तत्परत्वमसिद्धत्वात्परत्वं व्यभिचारतः । निर्दोषताऽन्यथासिद्धेः प्राबल्यं नैव साधयेत्’ – इति चेन्न; प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं, श्रुतेस्तु तात्त्विकमिति विरोधाभावेन तत्परत्वसिद्धेः । परशब्देन च मानान्तराबाधितपरत्वं विवक्षितम् , तेन प्रमानन्तरभ्रमे न व्यभिचारः; तस्य तदुत्तरभाविमानबाधितत्वात् । ’न क्त्वा सेडि’त्यस्य तु पाठतः परत्वेऽपि स्वभावसिद्धकित्त्वस्यानेनापाकरणं विना पुनस्तत्प्रतिप्रसवार्थं ’मृडमृदे’त्यादेरप्रवृत्तेस्तदपेक्षया अर्थतः पूर्वत्वमेव; अपवादापवादे उत्सर्गस्यैव स्थिरत्वादतो निर्दोषत्वमपि नान्यथा सिद्धम् ; तात्पर्यविषय एव प्रामाण्यस्याभ्युपेयत्वात् इत्यबोधमात्रविजृम्भितमपच्छेदन्यायवैषम्याभिधानमिति ॥
॥ इत्यपच्छेदन्यायवैषम्यभङ्गः ॥
 । ननु – यदि प्रत्यक्षबाधितमप्यनुमानं साधयेत्तदा वह्न्यनौष्ण्यमपि साधयेत् ; तथा च कालात्ययापदिष्टकथा सर्वत्रोच्छिद्येत, न च – औष्ण्यप्रतियोगिकाभावे साध्ये पक्ष एव प्रतियोगिप्रसिद्धिरिति तत्र बाधः सावकाशः, प्रकृते तु सत्त्वं व्यावहारिकं प्रत्यक्षसिद्धम् , तदविरुद्धं च मिथ्यात्वम् ; तस्य पारमार्थिकसत्त्वविरोधित्वादतो न व्यावहारिकसत्त्वग्राहकेणाध्यक्षेण बाध्यत इति – वाच्यम् ; वह्निविशेषे औष्ण्याभावानुमाने शैत्यानुमाने वा तदभावात् , पक्षातिरिक्तस्य प्रतियोगिप्रसिद्धिस्थलस्य तत्र सत्त्वात् । न च – यत्र प्रत्यक्षं प्रबलं तत्र बाधव्यवस्था, न चात्र तथेति न बाध इति – वाच्यम् ; प्रकृतेऽप्यौष्ण्यप्रत्यक्षसमकक्ष्यस्य प्राबल्यप्रयोजकस्य विद्यमानत्वात् , अनौष्ण्यानुमितेर्मिथ्यात्वानुमितेश्च समानयोगक्षेमत्वात् । न च – मिथ्यात्ववादिनां प्रतिपन्नोपाधावौष्ण्यनिषेधग्राह्यनुमानेन मिथ्यात्वानुमितेः समत्वमिष्टमेवेति – वाच्यम् ; औष्ण्यानौष्ण्ययोर्भावाभावरूपतया तदनुमितिसाम्येऽपि शैत्यानुमितिसाम्यस्यानभ्युपगमात् , शैत्यस्यौष्ण्याभावरूपत्वाभावात् । तस्मात् बाधस्य दोषता वा त्याज्या, औष्ण्यप्रत्यक्षायजमानत्वप्रत्यक्षादेः सत्त्वप्रत्यक्षापेक्षया विशेषो वा वक्तव्यः । न च – औष्ण्यप्रत्यक्षं परीक्षितोभयवादिसिद्धप्रामाण्यं, सत्त्वप्रत्यक्षं तु न तथेति विशेष इति – वाच्यम् , सत्त्वप्रत्यक्षेऽपि प्रामाण्यासम्मतौ हेत्वभावात्, परीक्षायास्तुल्यत्वात् – इति चेन्मैवम् ; विरुद्धार्थग्राहित्वेन विशेषात् , प्रत्यक्षसिद्धायजमानत्वौष्ण्यादिवच्छब्दलिङ्गग्राह्ययजमानत्वानौष्ण्याद्यपि व्यावहारिकमिति समत्वात् प्रत्यक्षेण बाध्यते, प्रकृते तु सत्त्वं व्यावहारिकं प्रत्यक्षसिद्धं तद्विरुद्धं च न मिथ्यात्वम् ; तस्य पारमार्थिकसत्त्वाविरोधात् । अतो न तत् व्यावहारिकसत्त्वग्राहकेणाध्यक्षेण बाध्यते । ननु – एवं वदतस्तव को वाऽभिप्रायः? किं तात्त्विकविषयत्वात् बाधकतैव मिथ्यात्वानुमानादेर्न बाध्यता, उत सत्त्वमिथ्यात्वग्राहिणोर्व्यावहारिकतात्त्विकविषययोः परस्परविरुद्धविषयत्वाभावात् न बाध्यबाधकभावः । अन्त्येऽपि किमध्यक्षसिद्धव्यावहारिकसत्त्वमगृहीत्वैव तदसिद्धस्य तात्त्विकसत्त्वस्यैवाभावं गृह्णात्यनुमानादि, उत प्रत्यक्षविषयीकृतस्यैव तात्त्विकमभावम् । नान्त्यः; प्रत्यक्षविषयाभावग्राहिणि तदबाधकत्वोक्त्ययोगात् । न द्वितीयः; प्रत्यक्षागृहीतप्रतिषेधकत्वेनाप्रसक्तप्रतिषेधापत्तेः, प्रत्यक्षविषयस्य तात्त्विकत्वापत्तेश्च । न प्रथमः; उपजीव्यप्रत्यक्षविरोधेनानुमित्यादिविषयस्य तात्त्विकत्वासिद्धेः – इति चेन्न; प्रथमे द्वितीये च पक्षे अनुपपत्त्यभावात् । तथा हि – प्रथमे पक्षे न तात्त्विकत्वासिद्धि; यस्मा’दिदं रजत’मित्यनेन ’नेदं रजतमि’त्यस्य बाधादर्शनात् परीक्षितमेव बाधकमभ्युपेयम् । परीक्षा च प्रवृत्तिसंवादादिरूपा व्यवहारदशायामबाध्यत्वं विनानुपपन्ना तद्दशाबाधग्राहिणं बाधते, नाद्वैतश्रुत्यनुमानादिकमित्युक्तमेव । द्वितीयेऽपि पक्षे नाप्रसक्तप्रतिषेधः; परोक्षप्रसक्तेः सम्भवात् । यत्तु केचिदात्मनि तात्त्विकसत्त्वप्रसिद्ध्या प्रसक्तिमुपपादयन्ति । तन्न; न हि प्रतियोगिज्ञानमात्रं प्रसक्तिः, किं तर्हि निषेधाधिकरणकप्रतियोगिज्ञानम् । न चात्मा निषेधाधिकरणम् ; तस्मात्परोक्षप्रसक्तिरेव दर्शनीया । अथवा माभूत् प्रसक्तिः; अभावप्रत्यक्षे हि संसर्गारोपत्वेन सोपयुज्यते, शब्दानुमानयोस्तु, तस्याः क्वोपयोगः । न चाप्रसक्तौ निषेधवैयर्थ्यम् ; अनर्थनिवृत्तिरूपस्य प्रयोजनस्य विद्यमानत्वात् । न च प्रत्यक्षविषयतात्त्विकत्वापत्तिः, तद्विषयाधिकरणस्यैव पारमार्थिकत्वव्यतिरेकस्य बोधनात् । तथा च न काप्यनुपपत्तिः । तदुक्तं खण्डनकृद्भिः – ’पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः । विरोधादुपजीव्येन न बिभेति कदाचन ॥’ इति । ननु – एवमप्यनौष्ण्यं तात्त्विकमिति तदनुमितिरपि न बाध्येत व्यावहारिकौष्ण्यग्राहिणाध्यक्षेण; एवं ’चादित्यो यूप’ इत्यादावपि ’तात्त्विकादित्यतां यूपस्याश्रित्य शरणं श्रुतिः । विरोधादुपजीव्येन न बिभेति कदाचन ॥’ इत्याद्यपि स्यात् – इति चेन्न; अनौष्ण्यं तात्त्विकं स्यादिति कोऽर्थः ? यदि तत्त्वत औष्ण्यं नास्तीत्यर्थः, तदा अद्वैते पर्यवसानादिष्टापत्तिः । यदि व्यवहारतोऽपि नास्तीति, तदा व्यवहारादिसंवदादिरूपपरीक्षितत्वविशिष्टमौष्ण्यप्रत्यक्षं बाधकमिति नानौष्ण्यस्य तात्विकत्वसिद्धिः । एतेन शैत्यानुमानं व्याख्यातम् । एवमादित्ययूपभेदस्य तत्त्वतो व्यवहारतो वा निषेधे योज्यम् । श्रुतेरन्यशेषतया आदित्ययूपाभेदपरत्वाभावेन परीक्षितप्रत्यक्षविरोधेन गौणार्थतया स्तावकत्वोपपत्तेश्च । अत एव − ‘तात्त्विकादित्यतां यूपस्ये’त्यादिना अद्वैतश्रुते’रादित्यो यूप’ इत्यादिश्रुतिसाम्यापादनम् − अपास्तम् । न च − अनुमितिसिद्धमिथ्यात्वग्राहकत्वे सत्यद्वैतश्रुतिरनुवादिका स्यात् , यथा’ऽग्निर्हिमस्य भेषजमि’त्यादिश्रुतिः प्रमाणान्तरगृहीतहिमनिवारणशक्त्यनुवादिकेति − वाच्यम् ; स्वस्वचमत्कारानुसारिणोऽनुमानस्य सकलसाधारण्याभावेन तस्य श्रुत्यनुवादकत्वाप्रयोजकत्वात् । तदुक्तं − ‘तर्काप्रतिष्ठानादि’त्यत्र वाचस्पतिमिश्रैः − ‘यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥’ इति । दृष्टान्तीकृतश्रुतौ तु हिमनिवृत्तिकारणताया वह्नौ सर्वसाधारणप्रत्यक्षार्थापत्तिभ्यामवसेयत्वाद्वैषम्यम् ; तस्मान्मिथ्यात्वानुमानस्य न वह्निशैत्यानुमितिसाम्यम् ॥
॥ इति मिथ्यात्वानुमानस्य शैत्यानुमितिसाम्यभङ्गः ॥
किंच परीक्षितत्वेनैव प्राबल्यम्, नोपजीव्यत्वादिना; अनुमानशब्दबाध्यत्वस्य प्रत्यक्षेऽपि दर्शनात् । तथा हि – इदं रजतमिति प्रत्यक्षस्यानुमानाप्तवचनाभ्यां, नभोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानेन, ‘गौरोऽहमि’त्यस्या‘हमिहैवास्मि सदने जानान‘ इत्यस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य चानुमानागमाभ्यां ‘पीतः शङ्खस्तिक्तो गुड‘ इत्यादेश्चानुमानाप्तवचनाभ्यां बाधो दृश्यते । ननु –साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीत्यभ्युपेयम् ; अन्यथा परोक्षप्रमाया अपरोक्षभ्रमनिवर्तकत्वोपपत्तौ वेदान्तवाक्यानामपरोक्षज्ञानजनकत्वव्युत्पादनप्रयासो व्यर्थः स्यात् – इति चेन्न; ‘नायं सर्प‘ इत्यादिवाक्यादिना सविलासाज्ञाननिवृत्त्यभावेऽपि भ्रमगताप्रमाणत्वज्ञापनेन भ्रमप्रमाणत्वबुद्धेस्तद्विषयसत्यताबुद्धेश्च निवर्तनात्, तावता च भ्रमनिवर्तकत्वव्यपदेशात् , भ्रमे प्रामाण्यविभ्रमस्य तद्विषये सत्यताविभ्रमस्य च परोक्षत्वेनापरोक्षबाधानपेक्षत्वात् । नहि दुष्टकरणाजन्यत्वमबाधितविषयत्वं वा प्रामाण्यं कस्यचित् प्रत्यक्षम् । न वा सर्वदेशसर्वकालसर्वपुरुषाबाध्यत्वरूपं विषयसत्यत्वम् । अतस्तयोः परोक्षप्रमाबाध्यत्वमुचितमेव । तयोश्च बाधितयोः रजतादिभ्रमः स्वरूपेण सन्नपि स्वकार्याक्षमत्वादसन्निवेति बाधित इत्युच्यत इत्यनवद्यम् । ननु – ‘इदं रजत‘मित्यत्र सयुक्तिकं प्रत्यक्षं बाधकं, न युक्तिमात्रम् ; ‘गौरोऽह‘मित्यत्रापि मम शरीरमिति बलवत् प्रत्यक्षमेव बाधकम् , ‘अहमिहैवास्मि सदने जानान‘ इति तु प्रमाणमेव, जीवस्याणुत्वात् इति चेन्न; रजताभेदशरीराभेदप्रत्यक्षयोर्जाग्रतोः युक्त्याः प्रतिबन्धाक्षमत्वे तद्विषयप्रत्यक्षोत्पत्तेरेवानवकाशात् । न च तत्र परम्परासंबन्धेन कर्दमलिप्ते वस्त्रे ‘नीलं वस्त्रमि’तिवत् ‘गौरोऽहमि’ति गौणम् ; कर्दमवस्त्रयोरिव शरीरात्मनोर्भेदानध्यवसायेन दृष्टान्तदार्ष्टन्तिकयोर्वैषम्यात् । तथा चात्रैक्याध्यास एवोचितः । एवं‘चोष्णं जलमि’त्यत्रापि । यदि कर्दमवस्त्रयोरिव तोयतेजसोर्भेदग्रहः, तदा गौणतैव । यदि च शरीरात्मवत् भेदानध्यवसायस्तदाऽध्यास एव; तथा च युक्तिबाध्यमेवेति, तदप्युदाहरणम् । यत्त्वहमिहैवेति प्रमाणमित्युक्तम् , तन्न; आत्मन ‘आकाशवत् सर्वगतश्च‘ इति सर्वगतत्वेन इहैवेति व्यवच्छेदस्याप्रामाणिकत्वात् । न च जीवोऽणुः; युगपदेव पादशिरोऽवच्छेदेन सुखदुःखानुभवात् । नह्येकोऽणुरेकदा व्यवहितदेशद्वयावच्छिन्नो भवति। न च युगपत्प्रतीतिर्भ्रमः; उत्सर्गसिद्धप्रामाण्यपरित्यागे बीजाभावात् । विस्तरेण चैतदग्रे वक्ष्यामः । ननु – नभोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानेन न बाधः, लिङ्गाभावात्, न च परममहत्त्वद्रव्यानारम्भकत्वादेर्लिङ्गत्वम् ; त्वन्मते असिद्धेः। निस्पर्शत्वं तु तमसि व्यभिचारि । पृथिव्यादित्रयेतरभूतत्वादि चाप्रयोजकम् । तथा च नीरूपत्वग्राहकसाक्षिप्रत्यक्षमेव तद्बाधकं वाच्यम् ; न च – रूपग्रहणासमर्थस्य साक्षिणः कथं नीरूपत्वग्राहकत्वमिति – वाच्यम् ; पिशाचाग्राहकस्यापि चक्षुषस्तदभावग्राहकत्ववदुपपत्तेः, परेणापि साक्षिणोऽपि रूपवत्तमोग्राहकत्वाभ्युपगमाच्च, अचाक्षुषेऽपि नभसि वायाविव चक्षुषैव रूपाभावग्रहणसंभवेन चाक्षुषप्रत्यक्षबाधात् – इति चेन्न; ’नीलं नभ’ इति प्रत्यक्षे जाग्रति रूपाभावग्रहणस्य चक्षुषा साक्षिणा चासम्भवात् । तथा च बलवती युक्तिरेव तद्बाधिका । न च लिङ्गाभावः; चक्षुरन्वयव्यतिरेकानुविधायिरूपाविशेषितप्रतीतिविषयत्वात् रूपवदिति लिङ्गसंभवात् । न चाप्रयोजकत्वम्; नभो यदि सरूपं स्यात्तदा चक्षुरन्वयव्यतिरेकानुविधायिप्रतीतौ रूपासंबन्धितया विषयो न स्यादिति तर्कोपपत्तेः । न चेष्टापत्तिः; सविधे रूपासंबन्धितया नभसः सिद्धेः सर्वजनसंमतत्वात् । नभसः साक्षिवेद्यतायामपि चक्षुरन्वयव्यतिरेकानुविधानमवर्जनीयमेव; अन्यथाऽन्धस्यापि तद्ग्रहणं स्यात् । न च – पञ्चीकरणाद्रूपवदारब्धत्वेन नभसो नीरूपत्वं बाधितमिति – वाच्यम् , त्रिवृत्करणपक्षेऽस्य दूषणस्यानवकाशात् । पञ्चीकरणपक्षेऽपि अपञ्चीकरणदशायां यस्मिन् भूते यो गुणः स पञ्चीकरणाद्व्यवहारयोग्यो भवतीत्येतावन्मात्राभ्युपगमान्नाकाशे रूपारम्भप्रसङ्गः । न च – ’ नायं सर्प’ इत्युक्तेऽपि किमेवं वदसि परम् ? अपि पुनः परामृश्य पश्यसि ? इति प्रतिवचनदर्शनान्न शब्दमात्रं रज्जुसर्पादिभ्रमनिवर्तकम् ; किं तु प्रत्यक्षमेवेति –वाच्यम् ; प्रतिवचनस्थले भ्रमप्रमादादिशङ्काक्रान्तत्वेन ‘नायं सर्प’ इत्यादेर्दुर्बलतया न भ्रमनिवर्तकत्वम् । यत्र तु तादृक्शङ्कानाक्रान्तत्वं, तत्र भ्रमनिवर्तकतैव । अतएव तादृक्शङ्कानाक्रान्तपित्रादिवचसि नेदृक्प्रतिवचनम् , किं तु सिद्धवत्प्रवृत्त्यादिकमेव । ज्वालैक्यप्रत्यक्षमप्येवमेव युक्तिबाध्यम् । न च – निर्वापितारोपितस्थले स्पष्टतरभेदप्रत्यक्षबाधितमित्यन्यत्रापि दीर्घेयं न ह्रस्वेति भेदप्रत्यक्षमेव तद्बाधकमिति – वाच्यम्; निर्वापितरोपितातिरिक्तस्थले तावदयं विचारः, तत्र दीर्घेयं न ह्रस्वेति भेदप्रत्यक्षं वक्तुमशक्यम् ; यैव ह्रस्वा सैवेदानीं दीर्घेति ह्रस्वत्वदीर्घत्वाभ्यामुपस्थितयोरभेदस्य साक्षात्क्रियमाणत्वात् । तथाच ज्वालाप्रत्यभिज्ञा युक्तिबाध्यैव । सर्वदा पित्तदूषितनेत्रस्य ‘पीतः शङ्ख‘ इति प्रत्यक्षे चन्द्रप्रादेशिकत्वप्रत्यक्षे च परोक्षातिरिक्तस्य बाधकस्य शङ्कितुमप्यशक्यत्वात् युक्त्यादिबाध्यतैव वक्तव्या । ननु – सर्वत्रैवात्र प्रकारान्तरेणासत्कल्पे प्रत्यक्षे मानान्तरप्रवृत्तिः । तथा – हि द्विविधं ज्ञानं, द्विकोटिकमेककोटिकं च । अन्त्यमपि द्विविधम् अप्रामाण्यशङ्काकलङ्कितं तदकलङ्कितं च । तत्राद्यौ सर्वप्रमाणावकाशादौ; अर्थापरिच्छेदकत्वादप्रामाण्यशङ्काकलङ्कितत्वाच्च । अप्रामाण्यधीकलङ्कितत्वं च द्वेधा भवति; दुष्टकरणकत्वनिश्चयादर्थाभावनिश्चयाच्च । तथा च शैलाग्रस्थितविटपिनां प्रादेशिकत्वप्रतीतिर्दूरदोषनिबन्धना दृष्टेति दूरतरस्थस्य चन्द्रमसः प्रादेशिकत्वप्रत्ययो दोषनिबन्धन एवेति निर्णीयते । एवमाकाशे समीपे नीरूपत्वनिश्चयाद्दूरे रूपवत्त्वधीर्दूरदोषजन्येति प्रागेव निश्चीयते । ‘पीतः शङ्ख’ इत्यादि प्रत्यक्षं तु प्राथमिकपरीक्षितप्रत्यक्षेण ’शङ्खो न पीत’ इत्यर्थाभावनिश्चयादप्रामाण्यज्ञानास्कन्दितमेवोत्पद्यते । एवं सवितृसुषिरादिप्रत्यक्षमपि । तथा च चन्द्रादिप्रादेशिकत्वप्रत्यक्षं दूरादिदोषनिश्चयात् ’पीतः शङ्ख’ इत्यादिप्रत्यक्षं प्राथमिकार्थाभावनिश्चयादेव बाधितमिति पश्चादनुमानागमादिप्रसर इति न ताभ्यां तद्बाधः । येन हि यस्य भ्रमत्वं ज्ञायते, तत्तस्य बाधकमित्युच्यते । न च चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्यागमादिना भ्रमत्वं ज्ञायते; भ्रमत्वज्ञानोत्तरकालमेव तत्प्रवृत्तेः । अप्रामाण्यज्ञानाकलङ्कितं तु स्वार्थपरिच्छेदकं निःशङ्कप्रवृत्तिजननयोग्यम् । यथा ’वह्निरुष्ण एव’ ‘प्रस्तरो यजमानभिन्न एव’ ‘घटः सन्ने’वेत्यादि, तन्नान्यस्यावकाशदर्शनान्नान्येन बाद्ध्यम् । नह्यत्र प्रागिव दूरादिदोषधीर्वा अर्थाभावनिश्चयो वा कोट्यन्तरालम्बित्वं वास्ति । किं च क्वचित् प्रत्यक्षं प्रत्यक्षान्तरगौरवाद्युक्तिबाध्यं भवतु । क्वचिच्च लिङ्गादिकं श्रुतिगौरवाच्छ्रुत्यनुसारिप्रकरणादिबाध्यं भवतु । राजामात्य इव राजगौरवेण राजभृत्यबाध्यः, तथापि न युक्तिमात्रस्य प्रकरणमात्रस्य वा प्रत्यक्षलिङ्गादिबाधकत्वम् ; प्रत्यक्षाद्यनुसारित्वस्य सर्वत्राभावात्, न हि प्रधानभूताचमनादिपदार्थविषयया ‘आचामेदुपवीती दक्षिणाचार‘ इत्यादिस्मृत्या पदार्थधर्मभूतक्रमादिविषया ‘वेदं कृत्वा वेदिं करोती‘ति श्रुतिर्वेदकरणानन्तरं क्षुतनिमित्तकाचमनोपनिपाते बाध्यत इत्यन्यत्रापि तथा भवितव्यमिति - चेन्मैवम् ; यतो युक्तिरेवैषा । यत् यद्दूरस्थाल्पपरिमाणज्ञानं तत् तद्दूरदोषनिबन्धनमप्रमा, शैलाग्रस्थविटप्यल्पपरिमाणज्ञानवदिदमपि तथेति । तथा चैवंरूपया युक्त्यैव चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्य बाधं वदन् युक्त्या न प्रत्यक्षस्य बाध इत्यनेनाजैषीः परं मन्दबुद्धे मन्दाक्षं, न तु परम् । एवं ‘पीतः शङ्ख’ इति प्रत्यक्षेऽपि प्राचीनार्थाभावप्रत्यक्षं न बाधकम् ; तस्येदानीमभावात् । न च तत्स्मृतिर्बाधिका; तस्या अनुभवाद्दुर्बलत्वात् । केवलं युक्त्युत्पादन एव सोपयुज्यते । तेन युक्त्यागमाभ्यामेवोदाहृतस्थलेषु बाधः । यत्तु – क्वचिद्युक्त्यादेर्बाधकत्वदर्शनमात्रेण सर्वत्र न बाधकत्वं वक्तुं शक्यम्; युक्त्यादिबाधकताया अनुस्रियमाणप्रत्यक्षगौरवनिबन्धनत्वात् – इत्युक्तम् । एतदनुक्तोपालम्भनम् , नहि मया क्वचिद्दर्शनमात्रेण युक्तेर्बाधकता सर्वत्रोच्यते, अपितु चन्द्रप्रादेशिकत्वशङ्खपीतत्वप्रत्यक्षादौ यावदागमादेर्बाधकताप्रयोजकं दृष्टं तावत्सत्त्वेन । न च तत्रानुस्रियमाणं प्रत्यक्षमस्ति; यद्गौरवेण बाधकतायामन्यथासिद्धिं ब्रूयाः । तस्माच्चन्द्रप्रादेशिकत्वप्रत्यक्षस्य प्रपञ्चसत्त्वप्रत्यक्षस्य च तुल्यवदेव बाध्यता । युक्त्यागमयोश्च तुल्यवदेव बाधकतेति । न हि चन्द्रप्रादेशिकत्वप्रत्यक्षेऽपि प्रागेव दुष्टकरणत्वनिश्चयः; नैकट्यस्यापि क्वचिद्दोषत्वेन सर्वत्र परिमाणज्ञानाविश्वासप्रसङ्गात् , किंत्वागमादिना बाधानन्तरमेव ; तद्वत् प्रकृतेऽपि मिथ्यात्वसिद्ध्यनन्तरमेवाविद्यारूपदोषनिश्चयः । तथा च सर्वात्मना साम्यम् । यत्तु – दृष्टस्य वस्तुनो बलवद्दृष्टं विना अन्यद्बाधकं नास्तीत्युक्तम् –तत दुर्बलशब्दलिङ्गादिविषयम् । यदप्युक्तं विवरणे –’ यत्राविचारपुरस्सरमेव प्रत्यक्षावभासमप्यनुमानादिना बाधितमुच्छिन्नव्यवहारं भवति। तत्र तथा भवतु । यत्र पुनर्विचारपदवीमुपारूढयोर्ज्ञानयोर्बलाबलचिन्तया बाधनिश्चयस्तत्र नानुमानादिना प्रत्यक्षस्य मिथ्यात्वसिद्धिः’ इति, तदपि गृहीतप्रामाण्यकशब्दतदुपजीव्यनुमानातिरिक्तयुक्तिविषयम् ; एकत्र प्रामाण्यनिश्चये बलाबलचिन्ताया एवानवकाशात् ॥
॥ इति प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् ॥
एवं च ‘भाविबाधनिश्चयाच्चे’ति यदुक्तं, तदप्युपपन्नमेव ; प्रकारान्तरेणाबाधितस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य यथा आगमेन बाधः, तथा प्रकारान्तरेणाबाधितस्य ‘सन् घट’ इत्यादिप्रत्यक्षस्य मिथ्यात्वबोधकागमेन बाध इति निर्णयात् । एवं च – भाविबाधशङ्कामादाय यत्परैर्दूषणमुक्तं तदनुक्तोपालम्भनतया – अपास्तम् । वस्तुतस्तु – बाधशङ्कामादायापि प्रत्यक्षस्य बाधकतोद्धारः समीचीन एव; प्रत्यक्षशब्दयोर्बलाबलविचारात् प्राक् किमयं शब्द उपचरितार्थः, आहोस्वित् प्रत्यक्षमप्रमाणमिति शङ्कायामुभयोरबाधकत्वप्राप्तौ तात्पर्यलिङ्गैः श्रूयमाणार्थपरतया निश्चितस्यागमस्योपचरितार्थत्वशङ्काव्युदासेन लब्धावकाशत्वसंभवात् । न च – शब्दलिङ्गयोः प्रत्यक्षाबाधकतया प्रत्यक्षान्तरस्याप्रमाणतया शङ्क्यमानत्वेनाबाधकतया च बाधकसामान्याभावे निश्चिते बाधशङ्का न युक्तेति – वाच्यम्; शब्द लिङ्गयोः प्रत्यक्षबाधकत्वस्य व्यवस्थापितत्वात्प्रत्येकं विशेषाभावनिश्चयेऽपि विशेषाणामियत्तानवधारणदशायां संशयसंभवात् , प्रत्यक्षस्याप्रमाणतया शङ्क्यमानत्वेन शङ्काविरहोपपादनस्यासंभवदुक्तिकत्वाच्च । अथैवं – जाग्रदादिज्ञानस्याप्रमात्वे स्वप्नदृष्टस्य शुक्तिरूप्यादेश्च बाधासिद्धौ कथं दृष्टान्तसिद्धिः स्यादिति – चेन्न; आरोप्यसत्ताधिकसत्ताकविषयत्वेनापेक्षिकप्रमाणत्वेनान्यूनसत्ताकविषयत्वेन वा बाधकत्वात् । अत एव यदुक्तं बौद्धं प्रति भट्टवार्तिके – ’प्रतियोगिनि दृष्टे च जाग्रद्बोधे मृषा भवेत् । स्वप्नादिदृष्टिरस्माकं तव भेदोऽपि किंकृतः ॥’ इति तत्सङ्गच्छते । ननु – भ्रमकालीनापरोक्षबुद्ध्यविषयविशेषविषयैव धीर्बाधिका दृष्टा, न च विश्वबाधिका धीस्तथेति – चेन्न; अधिष्ठानतत्त्वज्ञानत्वेनैव भ्रमनिवर्तकत्वात् , विश्वनिवर्तकब्रह्मज्ञानस्य तथात्वात् । न च – सप्रकारिकैव धीर्भ्रमनिवर्तिका, इयं तु निष्प्रकारिका कथं तथेति – वाच्यम् ; निवर्तकतायां सप्रकारकत्वस्य गौरवादप्रवेशात् । ननु – आवश्यकः सप्रकारकत्वनियमः, व्यावृत्ताकारज्ञानत्वेनैव भ्रमनिवर्तकत्वात् , अन्यथा अनुवृत्ताकारज्ञानादपि तन्निवृत्त्यापत्तेरिति – चेत्, सत्यम् ; व्यावृत्ताकारत्वेन ज्ञानस्य भ्रमनिवर्तकता, न तु विशेषप्रकारकत्वनियमः । तथा हि – व्यावृत्ताकारता हि द्वेधा भवति । विशेषणादुपलक्षणाच्च । तत्राद्ये सप्रकारकत्वनियमः द्वितीयेऽपि धर्मान्तरस्य यदुपलक्षणं तस्माद्व्यावृत्ताकारत्वे सप्रकारकतैव । यदि तु स्वरूपोपलक्षणाद्व्यावृत्ताकारता, तथा निष्प्रकारकतैव; उपलक्षणस्य तत्राप्रवेशात्, स्वस्य च स्वस्मिन्नप्रकारत्वात् । न च – प्रमेयत्वादिवत् स्वस्यैव स्वस्मिन् प्रकारत्वमिति – वाच्यम्; त्वयापि केवलान्वयिन्येवागत्या तथाङ्गीकारात्, न तु सर्वत्र । अथ – आकारप्रकारयोरभेदात् ब्रह्माकारतैव ब्रह्मबुद्धेस्तत्प्रकारतेति – चेत्, न; विशिष्टबुद्धेर्विशेष्याकारत्वेऽपि तदप्रकारकत्वात् , आकारप्रकारयोर्भेदात् । आकारश्च वृत्तिनिष्ठः कश्चिद्धर्मोऽसाधारणव्यवहारहेतुरिति वक्ष्यते । तस्माद्यथाऽऽकाशपदाच्छब्दाश्रयत्वोपलक्षितधर्मिस्वरूपमात्रं ज्ञायते, तद्वदत्रापि द्वितीयाभावाद्युपलक्षितब्रह्मस्वरूपज्ञानं व्यावृत्ताकारं द्वैतनिवर्तकमपरोक्षम् । यथा च शब्दात्तादृग्ज्ञानसंभवस्तथा वक्ष्यते । न च –बाधकधियां भ्रमतद्धेत्वज्ञानदोषाध्यस्तद्रष्ट्रादीनामबाधकत्वं दृष्टमिति कथं ब्रह्मज्ञानस्य तद्बाधकत्वं घटतामिति – वाच्यम्; यत्र हि स्वप्ने द्रष्टारं दुष्टकरणवन्तं कल्पयित्वा तस्य भ्रमं कल्पयति, तत्र जागरज्ञानेन सर्वेषां निवृत्तिदर्शनात् । जाग्रद्दशायामपि यदा मनुष्यप्रतिकृतौ चैतन्यं कल्पयित्वा तत्समीपवर्तिन्यनादर्श एवादर्शत्वं कल्पयित्वा स्वप्रतिबिम्बमयं पश्यतीति कल्पयति, तदा नायं चेतनो न चायमादर्श इति प्रमया सर्वनिवृत्तिदर्शनाच्च नेयमदृष्टचरी कल्पना । तथाचेयं शुक्तिरित्याद्यधिष्ठानज्ञानं रज्ज्वां सर्पभ्रममिव द्रष्ट्राद्यध्यासं मा निवीवृतत् , तत्कस्य हेतोः ? तदधिष्ठानसाक्षात्कारत्वाभावात् , ब्रह्मज्ञानं त्वाकाशादिप्रपञ्चभ्रममिव द्रष्टुर्दोषादिभ्रममपि निवर्तयेदेव, तत्कस्य हेतोः ? अशेषभ्रमाधिष्ठानतत्त्वसाक्षात्कारत्वात् । एवं च बाधबुद्धित्वं न दोषाद्यबाधकत्वे प्रयोजकम् , अपि तु तद्भ्रमाधिष्ठानतत्वसाक्षात्कारभिन्नत्वमिति द्रष्टव्यम् । ननु –कल्पितत्वादुक्तदृष्टान्तेन तत् बाध्यताम् , इह तु कथमिति – चेत् , हन्त ब्रह्मव्यतिरिक्तस्य सर्वस्य कल्पितत्वमङ्गीकुर्वतामस्माकमिदमनिष्टं महदापादितं देवानां प्रियेण । ननु – साक्षिप्रत्यक्षं न बाध्यम् ; दोषाजन्यत्वात् , प्रत्युत श्रुतिजनिताद्वैतज्ञानमेव बाध्यम् ; तात्पर्यभ्रमरूपदोषजन्यत्वादिति – चेत्, न; चैतन्यस्य स्वरूपतो दोषाजन्यत्वेऽपि तदवच्छेदिकाया अविद्यावृत्तेर्दोषजन्यत्वात् ; तत्प्रतिफलितचैतन्यस्यैव साक्षिपदार्थत्वात् । अद्वैततात्पर्यग्रहस्य च प्रत्यक्षाद्यविरोधेन प्रमारूपतया दोषत्वाभावात् न तज्जन्यमद्वैतज्ञानं बाध्यम्; भ्रमजन्यत्वस्य विषयबाधाप्रयोजकत्वाच्च । न च – बाधकतुल्यमानताकद्वैतश्रुतिसंवादिद्वैतप्रत्यक्षं कथं बाध्यमिति – वाच्यम्; द्वैतस्य प्रत्यक्षादिलौकिकमानसिद्धत्वेन तद्बोधकश्रुतेरनुवादकतया फलवदज्ञातस्वार्थतात्पर्यकाद्वैतश्रुतिसाम्याभावात् । ननु – बाधकधीबोध्यं न बाध्यम् , भेदश्च बाधकधीबोध्यः, तया स्वविषयस्य भिन्नत्वेनैव ग्रहान्नेदं रजतमितिवदभिन्नतयोदासीनतया ग्रहणे बाधकत्वायोगादिति – चेत्, न; बाधकधियो भेदविषयत्वानभ्युपगमात्, इयं शुक्तिरित्येव बाधबुद्ध्युदयात् । तस्यास्तु नेदं रजतमिति भेदबुद्धिः फलम् । व्यावृत्ताकारतैव बाधधिय आवश्यकी। सा च स्वरूपोपलक्षणबलान्निष्प्रकारकब्रह्मज्ञानेऽपि अस्तीति न बाधकधीबोध्यत्वं भेदस्य । ननु – स्वप्नविलक्षणं फलपर्यन्तपरीक्षायामिति चेच्छङ्का स्यात्, तदा अद्वैतश्रुतिप्रत्यक्षतत्प्रामाण्यशङ्कायामद्वैतश्रुतिरपि न सिद्ध्येत् । बाधेऽपि बाधशङ्कायामबाधितबाधप्रसिद्धिरपि न स्यात् ; बाधितबाधशङ्कायाश्चाबाध्यत्वाविरोधित्वात् । भाविबाधेऽपि बाधशङ्कापातेन स्वक्रियाव्याघातश्च स्यात् । शङ्काप्रत्यक्षेऽपि शङ्कायां शङ्कापि न सिद्ध्येत् । एवं सर्वत्र शङ्काप्रसरात् सर्वविप्लवापत्तिरिति – चेत्, मैवं मंस्थाः । यतः समत्वेन प्रमाणान्तरे उपस्थित एव निश्चितेऽपि सत्त्वादौ शङ्का भवतीति ब्रूमः, न तु निश्चितमात्रे शङ्का भवतीति । तथाच यदुक्तं बौद्धं प्रति भट्टवार्तिके –‘दुष्टज्ञानगृहीतार्थप्रतिषेधोऽपि युज्यते । गृहीतमात्रबाधे तु स्वपक्षोऽपि न सिद्ध्यति ॥’ इति, तदपि न विरुध्यते; गृहीतमात्रबाधस्य तच्छङ्कायाश्चानुक्तेः । ननु – सत्त्वादिप्रत्यक्षे कॢप्तदूरादिदोषाभावनिश्चये कथं शङ्कोदयः, न च – कॢप्तानामभावनिश्चयेऽप्यकॢप्तस्य शङ्का स्यात् ; शब्दे कॢप्तवक्तृनिबन्धनदोषस्य नित्यत्वेन वेदे अभावेऽपि दोषान्तरशङ्कायाः सुवचत्वात् , न च – स्वाप्नप्रत्यक्षे तदा दूराद्यभावनिश्चयेऽप्यप्रामाण्यदर्शनेन तद्वदत्रापि शङ्केति – वाच्यम् ; शून्यमेव तत्त्वमिति स्वाप्नवेदेऽपि तदा भ्रान्त्यादिदोषाभावनिश्चयेऽप्यप्रामाण्यदर्शनस्य वेदेऽपि समानत्वात् ; स्वप्नवैषम्यानुभवस्तूभयत्रापि समान – इति चेत् ; न; सत्त्वप्रत्यक्षाद्वैतागमयोः कॢप्तदोषाभावनिश्चयस्य समानत्वेन प्रामाण्यशङ्कायामप्रतिबन्धकत्वात् । नहि सत्प्रतिपक्षे उभयत्र दोषाभावनिश्चयः किमत्र तत्त्वमिति जिज्ञासां प्रतिबध्नाति; विरुद्ध विशेषादर्शनकालिकस्यैव विशेषदर्शनस्य शङ्काप्रतिबन्धकत्वात् ; अवच्छेदकवृत्त्यनित्यत्वेन च साक्षिप्रत्यक्षस्य दोषजन्यत्वोक्तेः । अतएव यदुक्तं तार्किकैः–‘तदेव ह्याशङ्क्यते यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातादयो दोषा न भवन्ति’ । उक्तंच भट्टवार्तिके बौद्धं प्रति – ‘इह जन्मनि केषांचिन्न तावदुपपद्यते । योग्यवस्थागतानां तु न विद्मः किं भविष्यति ॥’ इति । तथा च प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वादिह चोत्पत्तिस्वतस्त्वापवादस्य दोषस्य ज्ञप्तिस्वतस्त्वापवादस्य बाधस्य चादर्शनात् , निर्मूलशङ्कायाश्च स्वक्रियाविरोधेनानुत्थानाभ्युपगमात् स्वस्थं प्रत्यक्षस्य प्रामाण्यमिति – तदपि निरस्तम् ; आगमादिप्रमाणमूलकशङ्काया एव स्वीकारात् । रूप्यादिनिषेधस्य तु ‘नेदं रजतमि’त्यादेरद्वैतश्रुत्यनुगुणत्वेन नाप्रामाण्यशङ्कास्कन्दनम् । अतो न वृद्धिमिच्छतो मूलहान्यापत्तिः । नापि ‘सन्घट’ इत्यादे’र्नेदं रजतमि’त्यनेन समानयोगक्षेमता; अद्वैतश्रुतिविरोधाविरोधाभ्यां विशेषात् । अत एव – सौषुप्तिकानन्दानुभवस्याप्यप्रामाण्ये कथमात्मन आनन्दरूपता तात्विकी, आनन्दश्रुतेरनुभूतातात्त्विकानन्दानुवादकत्वोपपत्तेरिति – अपास्तम् ; आनन्दस्य ब्रह्मरूपत्वेनाद्वैतश्रुतिविरोधाभावेन तदप्रामाण्यप्रयोजकाभावात् । अत एव नानन्दश्रुतेरप्रामाण्यम् । तदुक्तं खण्डने –‘अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि । अबाधात्तु प्रमामत्र स्वतः प्रामाण्यनिश्चलाम् ॥’ इति । उक्तं च सुरेश्वरवार्तिके –‘अतोऽवबोधकत्वेन दुष्टकारणवर्जनात् । अबाधाच्च प्रमाणत्वं वस्तुन्यक्षादिवच्छ्रुतेः ॥’ इति । अत्र चाक्षादिवदिति निदर्शनं व्यावहारिकप्रामाण्यमात्रेणेति द्रष्टव्यम् । एवं च तात्त्विकप्रामाण्याभावेऽपि प्रत्यक्षादीनां व्यावहारिकप्रामाण्याभ्युपगमात् न स्वक्रियाव्याघातः । न वा ‘प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥’ इत्यादि स्मृतिविरोधः । तस्मात्सिद्धं बाधनिश्चयेन तच्छङ्कया वा प्रत्यक्षादेरद्वैतागमानुमानाद्यविरोधित्वम् ॥
॥ इति भाविबाधोपपत्त्या प्रत्यक्षबाधोद्धारः ॥
स्यादेतत् - अध्यक्षस्य भिन्नविषयत्वादिना बाधाक्षमत्वेऽपि अनुमानमेव बाधकं स्यात् । तथा हि ब्रह्मप्रमान्येन वेदान्ततात्पर्यप्रमितिजन्यज्ञानान्येन वा मोक्षहेतुज्ञानान्येन वा अबाध्यत्वे सत्यसत्त्वानधिकरणत्वे सति ब्रह्मान्यत्, विमतं वा, सत्, परमार्थसद्वा, प्रातिभासिकत्वानधिकरणत्वे सत्यसद्विलक्षणत्वात् , ब्रह्मवत् , व्यतिरेकेण शशशृङ्गवद्वेति - चेन्न; त्वन्मते प्रातिभासिकस्याप्यसत्त्वेन व्यर्थविशेषणतया व्याप्यत्वासिद्धेः, अस्मन्मतमाश्रित्य हेतूकरणे च देहात्मैक्ये ब्रह्मज्ञानेतराबाध्ये व्यभिचारात् । न हि प्रतिभासिकत्वं ब्रह्मज्ञानेतरबाध्यत्वादन्यत् । त्वया हि प्रातिभासिकस्य शुक्तिरूप्यादेरपक्षत्वाय सत्यन्तमाद्यं विशेषणत्रयं विकल्पेन पक्षे प्रक्षिप्तम् । तत्र ब्रह्म वृत्तिव्याप्यमिति मतेनाद्यम्, तदनभ्युपगमे तु शाब्दप्रमां प्रति तात्पर्यप्रमा हेतुरिति मतेन द्वितीयम् , अन्योन्याश्रयत्वात् न सा हेतुरिति मतेन तृतीयम् । तथा च प्रातिभासिकस्यासत्त्वानधिकरणत्वमङ्गीकृतमेव; अन्यथा तुच्छवारकासत्वानधिकरणत्वविशेषणेनैव तद्व्यावृत्तावेतावत्प्रयासवैयर्थ्यापत्तेः । एवं च देहात्मैक्यस्यापि पक्षत्वे बाध एव । बाधे च सति पक्षविशेषणस्य पक्षत्वस्यासिद्ध्याश्रयासिद्विरपि । अत एव स्वबाधकाभिमताबाध्यदोषजन्यज्ञानाविषयत्वे सतीति वा स्वबाधकाभिमतबाध्यबाधाविषयत्वे सतीति वा स्वसमानाधिकरणकर्मप्रागभावसमानकालीनज्ञानावाध्यत्वे सतीति वा विशेषणप्रक्षेपेऽपि न निस्तारः; देहात्मैक्ये पूर्वोक्तदोषाव्यावृत्तेरेव । यत्तु - प्रथम साध्ये व्यावहारिकसत्त्वमादाय सिद्धसाधनम् , द्वितीयसाध्ये तु वादिनः परमार्थत्वविशेषणं व्यर्थम् ; व्यावर्त्या प्रसिद्धेः-इति । तन्न; व्यावहारिकसत्त्वं सत्त्वेन व्यवहारमात्रमिति मतेन प्रथमप्रयोगात् , अनुगतं पृथग्व्यावहारिकं सत्त्वमिति तु मते द्वितीयः प्रयोगः । न च विशेषणं व्यर्थम् । परार्थानुमाने परं प्रति सिद्धसाधनोद्धारस्य तत्प्रयोजनत्वात् , ईश्वरानुमाने जन्यकृत्यजन्यमित्यत्र जन्यत्वस्येव विश्वपरमार्थत्ववादिनं प्रति परमार्थत्वस्य प्रमेयत्वादिवदुपरञ्जकत्वेन विशेषणत्वोपपत्तेश्च । तस्मात् पूर्वोक्त एव दोषः । हेतौ च व्यर्थविशेषणत्वदोषः । यद्यपि मतद्वयेऽपि अप्रामाणिकस्यापि निषेधप्रतियोगित्वाभ्युपगमादारोपितत्वेनोभयसंमतत्वरूपस्य वा प्रातिभासमात्रशरीरत्वरूपस्य वा प्रातिभासिकत्वस्य प्रसिद्धिरस्ति, अन्यथा सिद्धान्तेऽपि मिथ्यात्वानुमाने प्रातिभासिकान्यस्यैव पक्षीकर्तव्यत्वाद्दोषसाम्यं स्यात् । तथापि हेतौ प्रातिभासिकत्वविशेषणं व्यर्थम् ; अनधिकरणत्वे सत्यसत्त्वानधिकरणत्वमात्रस्यैव परमार्थसत्त्वसाधकत्वोपपत्तेः; शुद्धमेव हि ब्रह्म दृष्टान्तत्वेनाभ्युपेयम्; धर्मवतो दृष्टान्तत्वे साध्यवैकल्यापत्तेः । साध्यं तु बाधाभावरूपत्वादधिकरणस्वरूपमेव न धर्मः; धर्म्यतिरिक्ताभावानभ्युपगमस्योक्तत्वात् तथाच चक्षुस्तैजसत्त्वानुमाने रूपादिषु मध्य इत्यस्यासिद्धिवारकस्यापि व्याप्तिग्रहौपयिकत्वेन व्यभिचारवारकविशेषणतुल्यतया यद्यपि सार्थकत्वम्, व्यभिचारवारकस्यापि सार्थकत्वे व्याप्तिग्रहौपयिकत्वमात्रस्य तन्त्रत्वात् ; तथापि ‘क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वादि’त्यत्र शरीरस्येव व्याप्तिग्रहानुपयोगित्वेन प्रातिभासिकत्वस्य वैयर्थ्यमेव ; आकाशादावजन्यत्वकर्तृजन्यत्वाभावयोरिव निर्धर्मके ब्रह्मण्यनधिकरणत्वपरमार्थसत्त्वयोर्व्याप्तिग्रहोपपत्तेः । तथा चैकामसिद्धिं परिहरतो द्वितीयासिद्ध्यापत्तिः । स्वरूपासिद्धिपरिहारार्थं विशेषणं प्रक्षिपतो व्याप्यत्वासिद्धिरित्यर्थः; व्याप्तावनुपयोगस्य दर्शितत्वात् । किं च व्यावहारिकसत्त्वमात्रेणैवोपपत्तेः उक्तहेतोरप्रयोजकत्वम् ; परमार्थसत्त्वे बाधानुपपत्तिलक्षणप्रतिकूलतर्कपरा घाताच्च । ननु ब्रह्मण्यसत्प्रातिभासिकव्यावृत्तिरूपं हेतुं प्रति व्यावर्तकतया प्रयोजकत्वेन परमार्थसत्त्वं क्लृप्तम् ; अपृथिवीव्यावृत्तिं प्रति पृथिवीत्वस्येवासद्व्यावृत्तिं प्रति तद्विरुद्धसत्वस्यैव प्रयोजकत्वात् । ज्ञानत्वानन्दत्वादिकं तु न तत्प्रयोजकम् ; साक्षादसत्त्वाविरोधित्वात् , प्रपञ्चे तदभावाच्च ; तथा च ब्रह्मविश्वसाधारणं परमार्थसत्त्वमेव तत्प्रयोजकम्; न च –विश्वमिथ्यात्वात्परमार्थसत्त्वमपि न विश्वसाधारणम्, ज्ञानत्वानन्दत्वादिवदिति वाच्यम्; अन्योन्याश्रयापत्तेः - इति चेत् । अयुक्तमेतत् ; न हि प्रातिभासिकासतोरेका व्यावृत्तिरुभयी वा समव्याप्ता; येनैकप्रयोजकप्रयोज्या भवेत् , किंतु प्रातिभासिकव्यावृत्तिप्रयोजकं ब्रह्मविश्वासत्साधारणमेव वक्तव्यम्; असत्यपि प्रातिभासिकत्वाभावात् , एवमसद्व्यावृत्तावपि प्रयोजकं ब्रह्मविश्वप्रातिभासिकसाधारणमेव वक्तव्यम् ; प्रातिभासिकेऽप्यसत्त्वाभावात् । तथाच तत्प्रयोजकद्वयसमावेशादेव ब्रह्मण्युभयव्यावृत्युपपत्तौ नीलत्वघटत्वरूपावच्छेदकद्वयसमावेशोपपन्ननीलघटत्ववन्नातिरिक्तप्रयोजककल्पनायामस्ति किञ्चिन्मानमिति कृतबुद्धय एव विदांकुर्वन्तु । नित्यत्वं चोपाधिः; तुच्छप्रातिभासिकयोर्नित्यत्वव्यतिरेके साध्यव्यतिरेकदर्शनात् । अत एवानिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वादित्यपि न हेतुः । किंच प्रमात्वं तद्वति तत्प्रकारकत्वं तत्त्वावेदकत्वं वा । आद्ये दृष्टान्तस्य साधनवैकल्यम् । नहि परमार्थसतः शुद्धस्य ब्रह्मणः सप्रकारकज्ञानविषयत्वम् । न च धर्मवतो दृष्टान्ततेत्युक्तम् । तस्य पक्षकुक्षिनिक्षिप्तत्वेन निश्चितसाध्यवत्त्वाभावात् । द्वितीये तत्त्वावेदकत्वस्याबाधितविषयत्वरूपत्वेन साध्याविशेषपर्यवसानाद्धेतुग्रहे सिद्धसाधनम् । हेत्वग्रहे तु स्वरूपासिद्धिः। यत्तु- प्रमाविषयत्वमात्रेणैव परमार्थत्वोपपत्तौ विशेषणे व्यर्थे; इति । तन्न; पुरोवर्तिनं रजततया जानामीत्याद्यनुव्यवसायरूपप्रमाविषये प्रातिभासिके व्यभिचारवारकत्वात् साक्षात्पदस्य, तत्रैव च मिथ्यात्वप्रमितेः साक्षाद्विषये व्यभिचारवारकत्वात् अनिषेध्यत्वेनेत्यस्य । नह्यनुव्यवसायमिथ्यात्वप्रमे भ्रमे भवतः । नाप्यनिषेध्यत्वेनेश्वरं प्रति साक्षादपरोक्षत्वं हेतुः; सत्यत्वसिद्धिं विना अनिषेध्यत्वेनेत्यस्यासिद्धेः । तथा चान्योन्याश्रयः । न चेश्वरज्ञानविषयस्य प्रपञ्चस्य मिथ्यात्वे तस्य भ्रान्तत्वप्रसङ्गः; मिथ्याभूतस्य मिथ्यात्वेनैव ग्रहणात् ऐन्द्रजालिकवत् भ्रान्तत्वायोगात्, अन्यथा सविषयकभ्रमज्ञातृत्वेन भ्रान्तत्वस्य दुर्वारत्वापत्तेः । अथ-निषेध्यत्वेन ज्ञाने तत्पालनार्थमीश्वरस्य प्रवृत्तिर्न स्यात्; न ऐन्द्रजालिकप्रवृत्तिवदीश्वरप्रवृत्तेरपि तथाविधत्वात् । नापि सप्रकाराबाध्यार्थक्रियाकारित्वं हेतुः; न सप्रकारक जाग्रद्बोधाबाध्यस्वप्नजलावगाहनप्रियासङ्गमादिविशेषिताप्रमाणीभूतज्ञानस्यार्थक्रियाकारित्वदर्शनेन तद्विषये तत्र व्यभिचारात् । अथ तत्र ज्ञानमेव सुखादिजनकं तच्चाबाध्यमेवेति मतं, तदसत् । ज्ञानमात्रस्य हि तादृक्सुखाजनकत्वेन किंचिद्विशेषितस्यैव तथात्वं वाच्यम्, ज्ञाने च विशेषो नार्थातिरिक्तः । तदुक्तम्-‘अर्थेनैव विशेषो हि निराकारतया धियाम् ।' इति । अर्थेनेत्यर्थ एवेत्यर्थः । तथाच मिथ्याभूतविशेषितस्य जनकत्वाभ्युपगमे मिथ्याभूतस्यापि जनकत्वाद्व्यभिचार एव । तथा चोक्तं शास्त्रदीपिकायां बौद्धं प्रति- ’अथ सुखज्ञानमेवार्थक्रिया तच्चाव्यभिचार्येव । नहि क्वचिदप्यसति सुखे सुखज्ञानमस्तीत्याशङ्कय सत्यमेतन्न तु तेन पूर्वज्ञानप्रामाण्याध्यवसानं युक्तम् ; अप्रमाणेनापि प्रियासङ्गमविज्ञानेन स्वप्नावस्थायां सुखदर्शनात् ।' इति । ननु– विषयविशेषोपलक्षितस्यैव ज्ञानस्य सुखजनकत्वमस्तु, तत् कुतो विषयस्य जनकत्वमिति–चेन्न; स्वरूपाणामननुगततया ज्ञानत्वादेश्चातिप्रसक्ततया अनुगतानतिप्रसक्तोपलक्ष्यतावच्छेदकाभावादुपलक्षणत्वासंभवात् । ननु विशेषणत्वमप्यसंभवि अनागतज्ञानजन्ये तत्कालाविद्यमानस्य विषयस्य पूर्वभावित्वरूपजनकत्वसंभवात् इति चेन्न; स्वव्यापारजन्ये व्यापारिणोऽसतो जनकत्ववत् स्वज्ञानजन्येऽप्यसतो जनकत्वसंभवात् , अतीतानागतावस्थस्यासत्त्वधर्माश्रयत्वेनैवाभ्युपगमात्, अन्यथा ध्वंसप्रागभावप्रतियोगित्वतज्ज्ञानविषयत्वादीनामनाश्रयत्वापत्तेः, प्रमाणबलात् कारणत्वाभ्युपगमस्यात्रापि तुल्यत्वात् । किंच खरूपाबाध्यस्य विषयाबाध्यत्वदर्शनेन विषयबाधे स्वरूपबाधस्यावश्यकतया स्वप्नादिज्ञानं सदेवेन्यस्य वक्तुमशक्यत्वात् , अनादित्वस्य विषमव्याप्तस्योपाधित्वाच्च । न च–अर्थक्रियाकारित्वं प्रति परमार्थत्वस्य ब्रह्मणि प्रयोजकत्वेनावधारणादकारणककार्योत्पत्तिरूपविपक्षबाधक तर्केण हेतोः साध्यव्यापकतया तदव्यापकतयोपाधेः साध्याव्यापकत्वमिति वाच्यम् ; प्रातिभासिकरज्जुसर्पादौ भयकम्पादिकार्यकारित्वदर्शनेन प्रातिभासिकसाधारणस्य तुच्छव्यावृत्तस्य प्रतीतिकालसत्त्वस्यैवार्थक्रियाकारित्वं प्रति प्रयोजकत्वात् ,प्रातिभासिकस्यार्थक्रियाकारित्वानभ्युपगमे सप्रकाराबाध्येति हेतुविशेषणवैयर्थ्यापत्तेः, कस्मिन्नपि देशे कस्मिन्नपि काले केनापि पुरुषेणाबाध्यत्वं हि परमार्थसत्त्वम् ; तदपेक्षया प्रतीतिकालसत्त्वस्य लघुत्वाच्च । किंच शुद्धस्यार्थक्रियाकारित्वाभावात् । साधनविकलत्वम् , उपहितस्य पक्षनिक्षेपात् साध्यविकलत्वम् । आरोपित मिथ्यात्वकत्वादित्यपि न हेतुः; आरोपितत्वं प्रातिभासिकत्वं चेत्, प्रपञ्चे हेतोरसिद्धिः; तत्सिद्धेः पारमार्थिकसिद्ध्युत्तरकालीनत्वात् । व्यावहारिकत्वं चेत्, शुक्तिरूपादौ व्यभिचारः: उभयसाधारण्येऽप्ययमेव दोषः । कल्पकरहितत्वादित्यपि न हेतुः; असति व्यभिचारात् यथाश्रुतस्यासिद्धेश्च । ननु-नासिद्धिः, शुद्धं हि चैतन्यं न कल्पकम् ; अदृष्टत्वात् , नोपहितम् ; कल्पितत्वादेवान्यथानवस्थानात् , तथाच यावद्विशेषाभावे कल्पकसामान्याभावसिद्धिः–इति चेन्न; शुद्धस्याप्यनाद्यविद्योपधानवशेन कल्पकत्वोपपत्तेः । कल्पकत्वं हि कल्पनां प्रत्याश्रयत्वं, विषयत्वं, भासकत्वं वा । तच्च सर्व कल्पनासमसत्ताकत्वेन शुद्धत्वाव्याघातकम् । तदुक्तं संक्षेपशारीरक - ‘आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥’ इति । अस्तु वोपहितस्य कल्पकत्वम्, नचानवस्था; अविद्याध्यासस्याध्यासान्तरानपेक्षत्वात् , स्वपरसाधारणसर्वनिर्वाहकत्वोपपत्तेः, अकल्पितस्य कल्पकत्वादर्शनाच्च कल्पितप्रतिबिम्ब विशिष्टादर्शादेरादर्शान्तरे प्रतिबिम्बकल्पकत्वदर्शनाच्च, बिम्बस्य द्वितीयादर्शसंमुखत्वाभावेन तत्र कल्पकत्वायोगात्; अन्यथा अतिप्रसङ्गात् । विस्तरेण चैतदग्रे वक्ष्यामः । तदेवं निराकृताः परमार्थसत्त्वे साध्ये षडमी हेतवः । एवमन्येऽपि निराकार्याः । अथ–विमतं, न सद्विलक्षणम् , असद्विलक्षणत्वादात्मवदिति अनुमानान्तरं भविष्यतीति-मतम् । तन्न ; प्रातिभासिके शुक्तिरूप्यादौ व्यभिचारात् न च- तत्रासद्विलक्षणत्वहेतुरेव नास्तीति वाच्यम् ; असद्विलक्षणत्वाभावे हि अपरोक्षतया प्रतीतिरेव न स्यात् । ननु – तर्ह्यसद्विलक्षणत्वे तद्विरुद्धसद्विलक्षणत्वायोगः, तथाच साध्यस्यापि विद्यमानत्वान्न व्यभिचार–इति चेन्न; सत्त्वे सर्वजनसिद्धबाधविरोधात्, गजादौ गोवैलक्षण्येऽपि तद्विरुद्धाश्ववैलक्षण्ययोगवत् सद्वैलक्षण्येऽप्यसद्वैलक्षण्ययोगोपपत्तेः प्रथममिथ्यात्वनिरुक्तावुक्तत्वात् । ननु–विमतं, न चैतन्याज्ञानकार्यम् , न तत्कार्यधीविषयः, न तत्कार्यसत्त्ववत् , न तज्ज्ञानबाध्यसत्त्ववद्वा, तस्मिन्नपरोक्षेऽप्यनिषेध्यत्वेन साक्षाद्भासमानत्वात् , यदेवं तदेवम् , यथा घटे अपरोक्षेऽप्यनिषेध्यत्वेन साक्षाद्भासमानः पटो न घटाज्ञानकार्यादिः, विपक्षे च तदापरोक्ष्ये तदज्ञानव्याहतिरेव बाधिका, नचासिद्धिः; अधिष्ठानतया सुखादिसाक्षित्वेन तदानीमपि चैतन्यापरोक्ष्यात् इति चेन्न; सामान्याकारेणापरोक्ष्येऽपि शुक्त्यादौ रजतादेरनिषेध्यत्वेन साक्षाद्भासमानतया तत्र व्यभिचारात् । अथ व्यावृत्ताकारेण यस्मिन्भासमाने यदनिषेध्यत्वेन साक्षात् भासते तन्न तदज्ञानकार्यादीति व्याप्तिरिति मन्यसे, तर्ह्यसिद्धिः, नहि चैतन्यमिदानीं भ्रमनिवर्तकत्वाभिमतव्यावृत्ताकारापरोक्षप्रतीतिविषयः; तथा सत्यधिष्ठानमेव न स्यात् । यदा तु वेदान्तवाक्यजन्यवृत्तौ व्यावृत्ताकारतया अपरोक्षं, तदा अनिषेध्यत्वेन प्रपञ्चे आपरोक्ष्यशङ्कापि नास्ति । अतः प्रमाणजन्यासाधारणाकारभानस्यैवाज्ञानविरोधित्वान्नापरोक्षतामात्रेणाज्ञानपराहतिप्रसङ्गः । यत्त्वज्ञानपदेन ज्ञानाभावोक्तौ सिद्धसाधनम् ; अनिर्वचनीयाज्ञानोक्तौ च तस्य खपुष्पायमाणत्वेन प्रतियोग्यप्रसिद्धिरिति । तत्तुच्छम् ; असत्प्रतियोगिकाभावं स्वीकुर्वतः पराभ्युपगममात्रेणैव प्रतियोगिप्रसिद्धिसंभवात् । ननु विमतं, नात्मन्यध्यस्तम्; आत्मसाक्षात्कारवत्प्रवृत्तिविषयत्वात् , यदेवं तदेवम् , यथा घटसाक्षात्कारवत्प्रवृत्तिविषयो घटो न तत्राध्यस्तः, न चासिद्धिः, ईशजीवन्मुक्तयोरात्मसाक्षात्कारवतोरपि जगद्रक्षणभिक्षाटनादौ प्रवृत्तेः, शङ्खे अध्यस्तमपि पीतत्वं न शङ्खश्वेतत्वसाक्षात्कारवत्प्रवृत्तिविषय इति न तत्र व्यभिचार - इति चेन्न; प्रतिविम्बे व्यभिचारात् । स हि मुखैक्यसाक्षात्कारवत्प्रवृत्तिविषयो मुखेऽध्यस्तः । तद्व्यतिरेकेणोपलभ्यमानत्वस्यो| पाधित्वाच्च । एवं च-विमतं, नेश्वरमायाकल्पितम् , तं प्रत्यपरोक्षत्वात् , यदेवं तदेवम् , यथा चैत्रं प्रत्यपरोक्षो घटो न चैत्रमायाकल्पितः; विमतं, न जीवकल्पितम् , तस्मिन् सुषुप्तेऽप्यवस्थितत्वात् , आत्मवत् , न चासिद्धिः; प्रत्यभिज्ञानात्; अदृष्टादेरभावे पुनरुत्थानायोगाच्च–इत्यपि निरस्तम् ; आद्य ऐन्द्रजालिकं प्रत्यपरोक्षे तन्मायाकल्पिते व्यभिचारात्, मायाविद्ययोरभेदेन देहात्मैक्यभ्रमे व्यभिचाराच्च । द्वितीये त्वसिद्धेः । न च प्रत्यभिज्ञया प्रपञ्चस्य स्थायित्वसिद्धेर्नासिद्धिः; सुषुप्तिकालस्थायित्वासाधकत्वस्य प्रत्यभिज्ञाया दृष्टिसृष्टिसमर्थने वक्ष्यमाणत्वात् , अद्दष्टादेः कारणात्मनाऽवस्थितत्वेन पुनरुत्थानसंभवाच्च । मिथ्यात्वम् आत्मन्यसर्ववृत्ति न, मिथ्यामात्रवृत्तित्वात् , शुक्तिरूप्यत्ववत् इत्यपि न; मिथ्यात्वन्यूनवृत्तित्वस्योपाधित्वात् । मिथ्यात्वं च सदसद्विलक्षणत्वं, सद्विलक्षणत्वमात्रं वा । आद्ये 'सिद्धसाधनम् , तस्यात्मन्यसर्वमध्यपतितासद्वृत्तित्वाभावात् । द्वितीये तु हेतौ मिथ्यापदस्य सदसद्वैलक्षण्यपरत्वे स्वरूपासिद्धिः; सद्वैलक्षण्यरूपे पक्षे तुच्छसाधारणे सदसद्विलक्षणेतरावृत्तित्वरूपहेत्वभावात् । तस्यापि सद्वैलक्षण्यमात्रपरत्वे संदिग्धानैकान्तिकता; साध्याभाववत्यात्मभेदे हेतुसन्देहात् । अप्रयोजकत्वादिकं च पूर्वोक्तं दूषणमनुवर्तत एव । आत्मा, परमार्थसदन्यः, पदार्थत्वादनात्मवत् । न च कल्पितात्मप्रतियोगिकभेदेनार्थान्तरम् ; कल्पितमिथ्यात्वेन मिथ्यात्वानुमानेऽपि सिद्धसाधनापत्तेरित्यपि न; व्यावहारिकपदार्थमादाय सिद्धसाधने अतिप्रसङ्गाभावात्, अनानन्दत्वस्योपाधित्वाच्च । अथ आत्मा, यावत्स्वरूपमनुवर्तमानानात्मवान्, यावत्स्वरूपमनुवर्तमानभावरूपानात्मवान् वा स्वज्ञानाबाध्यानात्मवान्, स्वज्ञानावाध्यभावरूपानात्मवान्वा, पदार्थत्वात् , भावत्वाद्रा घटादिवत् इति । अत्र पञ्चमप्रकाराविद्यानिवृत्त्यभ्युपगमपक्षे सिद्धसाधनपरिहाराय साध्ययोर्भावरूपपदमनात्मविशेषणमित्यपि मन्दम् । ‘यावत्स्वरूपमि’त्यस्य यत्किंचित्स्वरूपपरत्वे सिद्धसाधनात्, आत्मस्वरूपपरत्वे साध्याप्रसिद्धेः । नहि यावदात्मस्वरूपमनुवर्तमानोऽनात्मा प्रसिद्धोऽस्ति; तथा सत्यनुमानवैयर्थ्यात् । अथ—स्वरूपपदस्य समभिव्याहृतपरत्वाद्व्याप्तिग्रहदशायां दृष्टान्तस्वरूपं पक्षधर्मताग्रहदशायां चात्मस्वरूपमेव प्राप्यत इति न साध्याप्रसिद्धिर्न वा सिद्धसाधनमिति –चेन्न; शब्दस्वभावोपन्यासस्यानुमाने अनुपयोगात् । स्वज्ञानाबाध्येत्यत्र स्वशब्देऽपि तुल्योऽयं दोषः । अत एव–विमता, बन्धनिवृत्तिः, स्वप्रतियोगिविषयविषयकज्ञानाबाध्यानात्मसमकालीना, उक्तज्ञानाबाध्यभावरूपानात्मसमानकालीना वा; बन्धनिवृत्तित्वात्; निगलबन्धनिवृत्तिवदित्यपि–निरस्तम्: पक्षदृष्टान्तयोर्बन्धपदार्थस्यैकस्याभावेन स्वरूपासिद्धिसाधनवैकल्यान्यतरापातात् । स्वपदे चोक्तः साध्याप्रसिद्धिदोषः । हेतौ च बन्धेतिविशेषणवैयर्थ्यात् व्याप्यत्वासिद्धिः । अप्रयोजकत्वं च कस्याश्चिन्निवृत्तेरनात्मसमानकालीनत्वदर्शनं निवृत्तिमात्रस्य तथात्वसाधने; संसारकालीनाया दुःखनिवृत्तेः समानाधिकरणदुःखप्रागभावकालीनत्वदर्शनमिव दुःखनिवृत्तिमात्रस्य तथात्वसाधने । नन्वेवं — सामान्यानुमानेषु निराकृतेषु विशिष्यानुमानं भविष्यति । आत्मधीः, न स्वविषयविषयकधीबाध्या, धीत्वात् शुक्तिधीवत् - इत्यपि बालभाषितम्; स्वविरोध्यविषयकप्रत्ययविषयकत्वस्योपाधित्वात् , अन्धोऽयं रूपज्ञानवानित्यन्धस्य रूपविषयतया कल्पितं यत् ज्ञानं तस्य रूपं नान्धगम्यमिति स्वविषयविषयकप्रत्ययबाध्यत्वदर्शनेन व्यभिचारात् । कल्पितत्वात्तत्र तद्बाधने प्रकृतेऽपि वृत्तेः कल्पितत्वं समम् । धीपदेन चैतन्यमात्रविवक्षायां तु सिद्धसाधनमेव । आत्माधिष्ठानकभ्रमहेतुः, न स्वकार्यभ्रमाधिष्ठानज्ञानबाध्यः, भ्रमहेतुत्वात् , यदेवं तदेवम् , यथा ‘शुक्त्यधिष्ठानकभ्रमहेतुकाचादी’त्यपि न साधु; व्यावृत्ताकाराधिष्ठानज्ञानानवधित्वस्य स्वकार्यभ्रमाधिष्ठानानारोपितत्वस्य वा उपाधित्वात् , दूरादिदोषादुपलादौ यत्र चाकचक्यकल्पना तेन चाकचक्यदोषेण शुक्ताविव रजतकल्पना तत्राधिष्ठानज्ञानेन चाकचक्यरूप्ययोरुभयोरपि बाधदर्शनेन व्यभिचाराच्च । ब्रह्मान्यानादिपरमार्थसत् , अनादित्वात् , ब्रह्मवदित्यपि न भद्रम्; ध्वंसाप्रतियोगित्वस्योपाधित्वात् । ब्रह्म, देशकालसंबन्धं विना नावतिष्ठते, पदार्थत्वात् , घटवदित्यपि न; कालसंबन्धं विना नावतिष्ठत इत्यस्य यदा ब्रह्म तदावश्यं कालसंबन्ध इत्येवंरूपा व्याप्तिरित्यर्थः । तथा च सुस्थिरं सिद्धसाधनम् । नहि यस्मिन् काले ब्रह्म तस्मिन् काले ब्रह्मणः कालसंबन्धो नास्ति । एवं यत्रात्मा तत्र कालसंबन्ध इति दैशिकव्याप्तावपि सिद्धसाधनम् । नहि देशकालासंबन्धः कदाप्यस्ति । परममुक्तौ तु न देशो न काल इति सुस्थिरं सिद्धसाधनम् । ब्रह्मान्यद्वेदैकगम्यं धर्मादिपरमार्थसत् , श्रुतितात्पर्यविषयत्वात् , ब्रह्मवदित्यपि न साधु; पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्वस्योपाधित्वात् । साक्षिवेद्यं सुखादिपरमार्थसत् , अनिषेध्यत्वेन दोषाजन्यज्ञानं प्रति साक्षाद्विषयत्वात्; आत्मवदित्यपि न; शुक्तिरूप्यादिषु व्यभिचारात् । तेषां दोषजन्यवृत्तिविषयत्वेऽपि दोषाजन्यसाक्षिविषयत्वात् , शुद्धस्य वृत्तिविषयत्वानभ्युपगमे दृष्टान्तस्य साधनविकलत्वाच्च । दोषजन्यज्ञानाविषयत्वविवक्षायां वाऽसिद्धो हेतुः; साक्ष्यवच्छेदिकाया अविद्यावृत्तेर्दोषजन्यत्वात् । असद्गोचरशाब्दज्ञानात्मकविकल्पस्य दोषाजन्यत्वेनासति व्यभिचाराच्च । आत्मनो वृत्तिविषयत्वाभ्युपगमे दोषजन्यदेहात्मैक्यभ्रमविषयत्वात् साधनविकलो दृष्टान्तः, तदनभ्युपगमे तु अविषयत्वमात्रस्यैव परमार्थसत्त्वसाधकत्वोपपत्तौ दोषजन्यज्ञानेति विशेषणवैयर्थ्याद्व्याप्यत्वासिद्धिः, तावन्मात्रं च पक्षे स्वरूपासिद्धमित्यन्यत्र विस्तरः । विमतं परमार्थसत्, स्वविषयज्ञानात्पूर्वभावित्वात् , आत्मवदित्यपि न, दृष्टिसृष्टिपक्षे असिद्धेः । विषमव्याप्तस्यानादित्वस्योपाधित्वाच्च । अन्योन्याभावातिरिक्तैतद्घटसमानाधिकरणैतद्घटप्रतियोगिकाभावत्वं, एतद्घटसमानाधिकरणावृत्ति, अन्योन्याभावातिरिक्तैतद्घटसमानाधिकरणैतद्घटप्रतियोगिकाभावमात्रवृत्तित्वात् , एतद्घटप्रागभावत्ववत्, व्यधिकरणधर्मावच्छिन्नाभावपक्षे व्यधिकरणधर्मानवच्छिन्नेत्यपि विशेषणीयम् । अत्र च स्वसमानाधिकरणः स्वसमानकालीनो योऽत्यन्ताभावस्तदप्रतियोगित्वलक्षणसत्त्वसिद्धिरित्यपि न साधु ; साधनावच्छिन्नसाध्यव्यापकस्यैतद्घटप्रतियोगिकजन्यजनकान्यतरमात्रवृत्तित्वस्योपाधित्वात् । न च - पक्षीभूतधर्मस्यात्यन्ताभाववृत्तित्वसन्देहे साधनाव्यापकत्वसन्देह इति - वाच्यम्; विपक्षसाधकतर्कानवतारदशायां सन्दिग्धोपाधेरपि दूषणत्वसम्भवात् , घटात्यन्ताभावत्वे च व्यभिचारात्, संयोगसम्बन्धेन घटवत्यपि भूतले समवायसंबन्धेन घटात्यन्ताभावसत्त्वात् साध्याभाववति हेतोर्वृत्तेरित्यलमतिविस्तरेण ॥
॥ इत्यद्वैतसिद्धौ विश्वसत्यत्वानुमानभङ्गः ॥
मिथ्यात्वे च विशेषतोऽनुमानानि । (१) ब्रह्मज्ञानेतराबाध्यब्रह्मान्यासत्त्वानधिकरणत्वं पारमार्थिकसत्त्वाधिकरणावृत्ति, ब्रह्मावृत्तित्वात् , शुक्तिरूप्यत्ववत्, परमार्थसद्भेदवच्च, (२) विमतं, मिथ्या, ब्रह्मान्यत्वात् , शुक्तिरूप्यवत् , (३) परमार्थसत्त्वं, स्वसमानाधिकरणान्योन्याभावप्रतियोग्यवृत्ति, सदितरावृत्तित्वात् , ब्रह्मत्ववत् , (४) ब्रह्मत्वमेकत्वं वा सत्त्वव्यापकम् , सत्त्वसमानाधिकरणत्वात् , असद्वैलक्षण्यवत्, (५) व्याप्यवृत्तिघटादिः, जन्याभावातिरिक्तस्वसमानाधिकरणाभावमात्रप्रतियोगी, अभावप्रतियोगित्वात् , अभिधेयत्ववत् । अभिधेयत्वं हि परमते केवलान्वयित्वादन्योन्याभावमात्रप्रतियोगी । स च समानाधिकरण एव, अस्मन्मते तु मिथ्यैवेति, नोभयथापि साध्यवैकल्यम् । (६) अत्यन्ताभावः, प्रतियोग्यवच्छिन्नवृत्तिः, नित्याभावत्वादन्योन्याभाववत् । (७) अत्यन्ताभावत्वं प्रतियोग्यशेषाधिकरणवृत्तिमात्रवृत्ति, प्रतियोग्यवच्छिन्नवृत्तिमात्रवृत्ति वा, नित्याभावमात्रवृत्तित्वात् , अन्योन्याभावत्ववत् । (८) घटात्यन्ताभाववत्त्वं, स्वप्रतियोगिजनकाभावसमानाधिकरणवृत्ति, एतत्कपालसमानकालीनैतद्घटप्रतियोगिकाभाववृत्तित्वात् , प्रमेयत्ववत् । (९) एतत्कपालमेतद्घटात्यन्ताभावाधिकरणमाधारत्वात्पटादिवत् । (१०) ब्रह्मत्वं न परमार्थसन्निष्ठान्योन्याभावप्रतियोगितावच्छेदकम् , ब्रह्मवृत्तित्वादसद्वैलक्षण्यवत् , (११) परमार्थसत्प्रतियोगिको भेदो न परमार्थसन्निष्ठः परमार्थसत्प्रतियोगिकत्वात् , परमार्थसत्त्वावच्छिन्नप्रतियोगिकाभाववत् , (१२) भेदत्वावच्छिन्नं, सद्विलक्षणप्रतियोग्यधिकरणान्यतरवत् , अभावत्वाच्छुक्तिरूप्यप्रतियोगिकाभाववत् , (१३) परमार्थसन्निष्ठो भेदः, न परमार्थसत्प्रतियोगिकः, परमार्थसदधिकरणत्वात् , शुक्तिरूप्यप्रतियोगिकभेदवत् , (१४) मिथ्यात्वं, ब्रह्मतुच्छोभयातिरिक्तत्वव्यापकम् , सकलमिथ्यावृत्तित्वात् , मिथ्यात्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वाद्वा, दृश्यत्ववत्, (१५) दृश्यत्वं परमार्थसदवृत्ति, अभिधेयमात्रवृत्तित्वाच्छुक्तिरूप्यत्ववत् ,(१६) दृश्यत्वं, परमार्थसद्भिन्नत्वव्याप्यम् , दृश्येतरावृत्तिधर्मत्वात् , प्रातिभासिकत्ववत् , (१७) उभयसिद्धमसद्विलक्षणं मिथ्यात्वासमानाधिकरणधर्मानधिकरणम् , आधारत्वाच्छुक्तिरूप्यत्ववत्, (१८) प्रतियोग्यवच्छिन्नो देशः, अत्यन्ताभावाश्रयः, आधारत्वात्कालवत् , (१९) आत्मत्वावच्छिन्नं परमार्थसत्त्वानधिकरणप्रतियोगिकभेदत्वावच्छिन्नरहितं, परमार्थसत्वात्, परमार्थसत्त्वावच्छिन्नवत् , परमार्थसति परमार्थसद्भेदाङ्गीकारवादिमतेऽपि सद्भेदो न परमार्थसत्त्ववन्निष्ठः । किन्तु, घटत्वाद्यवच्छिन्ननिष्ठ एव । (२०) शुक्तिरूप्यं, मिथ्यात्वेन प्रपञ्चान्न भिद्यते, व्यवहारविषयत्वात् , ब्रह्मवत् । साध्यसत्त्वमत्र त्रेधा । स्वस्यामिथ्यात्वेनोभयोर्मिथ्यात्वेनोभयोरमिथ्यात्वेन वा । तत्रान्तिमपक्षस्यासंभवात् पक्षे साध्यसिद्धिपर्यवसानं मध्यमपक्षेण, दृष्टान्ते तु प्रथमपक्षेणेति विवेकः (२१) विमतं मिथ्या, मोक्षहेतुज्ञानाविषयत्वे सत्यसदन्यत्वात् , शुक्तिरूप्यत्ववत् , मोक्षहेतुज्ञानविषयत्वं, (२२) परमार्थसत्त्वव्यापकम् , परमार्थसत्त्वसमानाधिकरणत्वात् , पारमार्थिकत्वेन श्रुतितात्पर्यविषयत्ववत् (२३) एतत्पटात्यन्ताभावः, एतत्तन्तुनिष्ठः, एतत्पटानाद्यभावत्वात् , एतत्पटान्योन्याभाववत् , तन्तुनाशजन्यपटनाशस्य कदापि तन्तुवृत्तिता नास्तीति तत्र व्यभिचारवारणायानादिपदम् । यस्य पटस्याश्रयविभागेन नाशस्तदत्यन्ताभावस्य पक्षत्वे त्वनादिपदमनादेयमेव । अत्र चैतत्पटप्रतियोगिकात्यन्ताभावत्वावच्छिन्नस्य पक्षीकरणान्न संबन्धान्तरेणात्यन्ताभावमादायांशतः सिद्धसाधनम् ; पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् । समवायसम्बन्धावच्छिन्नो व्यधिकरणधर्मानवच्छिन्नश्च यः एतत्पटात्यन्ताभावः स एव वा पक्षः । तन्तुशब्देन च पटोपादानकारणमुक्तम् । तत्र च प्रागभावस्य सत्त्वान्न तेन व्यभिचारः । कार्यकारणयोरभेदेन सिद्धसाधनादिदूषणानि प्रागेव तत्त्वप्रदीपिकानुमानोपन्यासे निराकृतानि । (२४) यद्वा - समवायसम्बन्धावच्छिन्नोऽयमेतत्पटात्यन्ताभावः, एतत्तन्तुनिष्ठः, एतत्पटप्रतियोगिकात्यन्ताभावत्वात् , संबन्धान्तरावच्छिन्नैतत्पटात्यन्ताभाववदिति विशिष्यानुमानम् । (२५) अव्याप्यवृत्तित्वानधिकरणत्वे सत्युक्तपक्षतावच्छेदकवत् , स्वसमानाधिकरणात्यन्ताभावप्रतियोगि, अनात्मत्वात् , संयोगवत् । न च विश्वात्यन्ताभावे व्यभिचारः; तस्याधिकरणस्वरूपत्वे अनात्मत्वहेतोरेवाभावात् , अतिरिक्तत्वे तस्य मिथ्यात्वेनात्यन्ताभावप्रतियोगितया साध्यस्यैव सत्त्वात् । न च – अत्यन्ताभावस्यात्यन्ताभावे तत्प्रतियोगित्वलक्षणमिथ्यात्वासिद्धिरिति - वाच्यम् ; अभावे अभावप्रतियोगित्वस्य भावगताभावप्रतियोगित्वाविरोधित्वात् , प्रागभावस्यात्यन्ताभावप्रतियोगित्वेऽपि तत्प्रतियोगित्वस्य घटादौ सर्वसिद्धत्वात् । उपपादिञ्चैतन्मिथ्यात्वमिथ्यात्वे । अत्र चाव्याप्यवृत्तित्वानधिकरणशब्देनैकदेशावच्छेदेनाविद्यमानत्वं पक्षविशेषणं विवक्षितम् । एतेन – स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वोक्तौ बाधः । अवयववृत्तित्वानधिकरणत्वोक्तौ घटादीनामपक्षत्वापत्तिरिति दूषणद्वयमपास्तम् । अनात्मत्वहेतुस्तु जडत्वहेतुव्याख्यानेनैव व्याख्यातः । (२६) अत एव नित्यद्रव्यान्यदव्याप्यवृत्तित्वानधिकरणमुक्तपक्षतावच्छेदकवत्, केवलान्वय्यत्यन्ताभावप्रतियोगि, पदार्थत्वात् , नित्यद्रव्यवदित्यपि साधु । दृष्टान्तश्चायं पररीत्या । स्वमते तु शुक्तिरूप्यवदित्येव । न च - स्वरूपेणात्यन्ताभावप्रतियोगित्वे अत्यन्तासत्त्वापातः; तद्वैलक्षण्यप्रयोजकाभावादिति - वाच्यम् ; उत्पत्तिनिवृत्त्योरन्यतरप्रतियोगित्वेन परिहारात् । (२७) आत्मत्वावच्छिन्नधर्मिको भेदो न परमार्थसत्प्रतियोगिकः, आत्माप्रतियोगित्वात् , शुक्तिरूप्यप्रतियोगिकभेदवत् । न च घटपटसंयोगे व्यभिचारः; हेतुमत्तया निर्णीते अङ्कुरादाविव साध्यसन्देहस्यादोषत्वात् । एवमन्येऽपि प्रयोगा यथोचितमारचनीया विपश्चिद्भिरिति दिक् ‘हेतवोऽभीष्टसिद्ध्यर्थं सम्यञ्चो बहवश्च नः । अल्पाः परस्य दृष्टाश्चेत्यत्र स्पष्टमुदीरितम् ॥ अभीष्टसिद्धावनुकूलतर्कबलाबलं चात्र परीक्ष्य यत्नात् । प्रवक्ष्यते दोषगणः परेषां न खेदनीयं तु मनोऽधुनैव ॥’
॥ इत्यद्वैतसिद्धौ विश्वमिथ्यात्वे विशेषतोऽनुमानानि ॥
ननु - अस्तु शब्दबाधः, तथा हि – ‘विश्वं सत्यं’ ‘यच्चिकेत सत्यमित्तन्न मोघं’ ‘याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः’ इत्यादिश्रुतिभिः ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वर’मित्यादिस्मृतिभिः ‘नाभाव उपलब्धेः’ वैधर्म्याच्च ‘न स्वप्नादिव’दित्यादिसूत्रैश्च विश्वस्य सत्यत्वप्रतिपादनात् इति – चेन्न; श्रुतेस्तत्परत्वाभावात् । तथा हि - ‘विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिणन्ति व्रतं वाम् । अच्छेन्द्राब्रह्मणस्पती हविर्नो अन्नं युजेव वाजिना जिगात’मिति ऋक्संहिताद्वितीयाष्टकवाक्यस्यायमर्थः । हे इन्द्राब्रह्मणस्पती ! मघवाना मघवानौ मघमिति धननाम, धनवन्तौ मघवन्ताविति वा । विश्वं सर्वम् । सत्यं कर्म, सद्भूतत्वात् , फलस्यावश्यंभावित्वाद्वा । तादृशं कर्म । युवयोरित् युवयोः । इत् इत्थमवधारणे वा । युवामेवोद्दिश्य सर्वाणि कर्माण्यनुष्ठेयानीत्यर्थः । आपो व्यापनशीला देवताः । चनेत्येतत्पदद्वयसमुदायः, ऐकपद्यं त्वध्यापकसंप्रदायसिद्धम् । वां युवयोर्व्रतं संकल्पं कर्म वा । न प्रमिणन्ति न हिंसन्ति (मीङ् हिंसायां, क्रैयादिकः) किंत्वनुमोदन्त इति यावत् । नोऽस्माकं हविर्दध्यादिकम् अन्नं च पुरोडाशादिकं च । अच्छ अभिलक्ष्य वाजिना वेगवन्तावश्वाविव । युजा युक्तौ सन्तौ । जिगातं देवयजनमागच्छतम् । (जिगातिर्गतिकर्मा जौहोत्यादिकः) अन्नं घासं प्रति अश्वाविवेति वा । यद्वा - हे इन्द्राब्रह्मणस्पती ! विश्वं सत्त्वेन परिदृश्यमानं जगत् , युवयोरित् युवयोरेव, युवाभ्यामेव सृष्टम् । अथवा – युवयोरेव विश्वं सर्वं स्तोत्रं, सत्यं यथार्थम् । यद्यत् गुणजातं स्तुत्वा प्रतिपाद्यते तत्सर्वं युवयोर्विद्यमानमेव न त्वारोपितमित्यर्थः । आपो व्यापनशीला देवताः, अबुपलक्षितानि पञ्चभूतानि वा । युवयोर्व्रतं जगदुपादानाख्यं कर्म न हिंसन्ति । इत्थं महानुभावौ युवां जिगातम् । शेषं पूर्ववद्व्याख्येयम् । तथा च स्तुतिपरतया नास्य विश्वसत्यत्वे तात्पर्यम् ॥ ‘शाक्मना शाको अरुणः सुपर्ण आयो महः शूरः सनादनीलः । यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता’ इत्यस्याप्यष्टमातृकस्थस्येन्द्रस्तुतिपरतया न विश्वसत्यत्वे तात्पर्यम् । तथा हि - शाक्मना शाकैव शाक्मा तेन शाक्मना, बलेन । शाकः शक्तः, स्वशक्त्यैव सर्वं कर्तुं शक्त इत्यर्थः । नहीन्द्रस्य सहायान्तरापेक्षास्ति इन्द्रत्वादेव । अरुणः अरुणवर्णः कश्चित् शोभनवर्णः पक्षी आगच्छतीत्यध्याहारः; उपसर्गश्रुतेः । यो महो महान् शूरः विक्रान्तः, सनात् पुराणः, अनीलः अनीडः नीडस्याकर्ता । न हीन्द्रो अग्निवत् कुत्रचिदपि यज्ञे पक्षे निकेतनं करोति । एवं सुपर्ण इत्यादिरूपकेणेन्द्रमाह । स इन्द्र इदमिदानीं कर्तव्यमिति यच्चिकेत जानाति, तत्सत्यमित्सत्यमेव । न मोघं न व्यर्थम् । सः स्पार्हं स्पृहणीयं, वसु निवासार्हं, धनं जेता जयति । शत्रुभ्यः सकाशात् । उत अपि, दाता, ददाति च स्तोतृभ्यः । जेता दातेति तृजन्तेन ‘न लोके’त्यादिना षष्ठीप्रतिषेधः । एवमेवान्यदपि सत्यत्वप्रतिपादकमुन्नेयम् । ‘याथातथ्यतोऽर्थान्व्यदधा’दित्यपि वाक्यं न प्रपञ्चसत्यत्वे प्रमाणम् । तस्य पूर्वसृष्टप्रकारेण सर्जनमर्थः न तु जगत्सत्यत्वं जगत्सर्जनगतसत्यत्वं वा । यत्र च स्तुत्यादिपरत्वं नास्ति, तत्रापि प्रत्यक्षसिद्धानुवादकतया ‘अग्निर्हिमस्य भेषजमि’त्यादिवाक्यवन्न तत्परत्वम् । न च - त्वन्मते सर्वत्र ब्रह्मसत्त्वस्यैव स्फुरणात्तदतिरिक्तस्य कालत्रयाबाध्यत्वरूपस्य घटादिसत्त्वस्य प्रत्यक्षेणाप्राप्तेः तद्बोधकत्वेन श्रुतेर्नानुवादकत्वमिति – वाच्यम् ; इतरसत्त्वबाधपुरस्सरत्वात् ब्रह्मसत्त्वस्फुरणाभ्युपगमस्य तत्रैव सत्यादिपप्रवृत्तिस्वीकारेण तदतिरिक्तविश्वसत्यत्वस्य शाब्दबोधाविषयत्वात् तदादायानुवादकत्वापरिहारात् । अथ – ‘पृथिवी इतरभिन्ना’ ‘न हिंस्यात्सर्वा भूतानी’त्यादौ घटादावेकदेशे प्रत्यक्षेण, ब्राह्मणादावेकदेशे वाक्यान्तरेण, विधेयसिद्धावपि सर्वत्रासिद्धत्वात् यथा नानुवादकत्वं तथा विश्वमात्रसत्यत्वस्य प्रत्यक्षेणाप्राप्तत्वात् नानुवादकत्वमिति – मन्यसे, मैवम् ; दृष्टान्ते हि पृथिवीत्वं हिंसात्वं च एकोऽनुगतो धर्म इति तदवच्छेदेन विधेयस्याप्राप्तत्वेन तत्र नानुवादकत्वं युक्तम् , इह तु विश्वत्वं नाम नैको धर्मोऽस्ति, किंतु विश्वशब्दः सर्वनामत्वात्तेन तेन रूपेण घटपटादीनामुपस्थापकः । तेषु च प्रत्येकं सत्त्वं गृहीतमेवेति कथं नानुवादकत्वम् ; प्रकारवैलक्षण्याभावात् । न च - एकशाखास्थविधिवाक्यैकार्थशाखान्तरस्थविधिवाक्यस्य पुरुषान्तरं प्रतीव येन पुंसा वादिविप्रतिपत्त्यादिना घटादिसत्ता प्रत्यक्षेण न निर्णीता तं प्रत्यर्थवत्त्वेन नानुवादकत्वमिति - वाच्यम्; एवं सत्यनुवादस्थलस्यैवाभावप्रसङ्गात् । न च सर्वाविवादस्थलमेवोदाहरणम्; सर्वाविवादस्य निश्चेतुमशक्यत्वात् । पुरोवादपूर्वकत्वादनुवादस्यात्रायं पुरोवाद इत्यस्यैवाभावात् न शाखान्तरस्थवाक्यस्यानुवादकत्वप्रसङ्गः । यत्तु – बृहदारण्यकभाष्ये देहभिन्नात्मबोधिकायाः ‘अस्तीत्येवोपलब्धव्य’ इत्यादिश्रुतेः प्रत्यक्षप्राप्तानुवादित्वमाशंक्य वादिविप्रतिपत्तिदर्शनादित्यादिना तत्परिहृतम् ; तथा च प्रत्यक्षसिद्धसत्त्वग्राहकत्वेऽपि वादिविप्रतिपत्तिनिरासार्थकत्वेन नानुवादकत्वं प्रकृतेऽपीत्युक्तम् ; तदयुक्तम् ; भाष्यार्थानवबोधात् । तथा हि - तत्र वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्तत्वेनात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रामाण्यवादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तम् , न तु वादिविप्रतिपत्तिनिरासेनास्तीत्यादेस्सार्थकत्वम् , अननुवादकत्वं वा । तथा चोक्तं तत्रैव - तस्माज्जन्मान्तरसंबन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारविशेषोपाये च शास्त्रं प्रवर्तत इति । ननु - चातुर्मास्यमध्यपर्वणोः ‘द्वयोः प्रणयन्ती’ति वाक्यस्य चोदकप्राप्ताग्निप्रणयनव्यतिरिक्ताग्निप्रणयनविधायकत्ववत् प्रत्यक्षप्राप्तव्यावहारिकसत्त्वविलक्षणत्रिकालनिषेधाप्रतियोगित्वरूपसत्त्वप्रमापकत्वं प्रकृतेऽस्त्विति - चेन्न; त्रैकालिकसत्त्वनिषेधकश्रुतिविरोधेन विश्वसत्यत्वश्रुतेस्त्रैकालिकसत्त्वपरत्वाभावात् । न च - वैपरीत्यमेव किं न स्यात् ? विनिगमकाभावादिति - वाच्यम्; तात्पर्यान्यथानुपपत्तिगतिसामान्यानामेव विनिगमकत्वात् । अद्वैतश्रुतिर्हि षड्विधतात्पर्यलिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गं प्रामाण्यशरीरघटकमर्थनिष्ठमज्ञातत्वमबाधितत्वं प्रयोजनवत्त्वं च । त्रिविधं तु शब्दनिष्ठमतिप्रसङ्गवारकमुपक्रमोपसंहारयोरैकरूप्यम् अभ्यासः अर्थवादश्चेति । तत्र शब्दनिष्ठलिङ्गत्रये तावन्न विवादः; सर्वासामेवोपनिषदामेवं प्रवृत्तत्वात् । मानान्तरासिद्धतया मोक्षहेतुज्ञानविषयतया च अज्ञातत्वं सप्रयोजनत्वं च निर्विवादमेव । अबाधितत्वमात्रं सन्दिग्धम् । तच्चान्यथानुपपत्तिगतिसामान्याभ्यां च निर्णीयते । न हि सर्वप्रपञ्चनिषेधरूपमद्वैतं व्यावहारिकम् , येन तत्र श्रुतेर्व्यावहारिकं प्रामाण्यं स्यात् ; अतस्तत्र तात्त्विकमेव प्रामाण्यम् , द्वैतसत्यत्वं तु व्यावहारिकम् ; अतस्तत्र न श्रुतेस्तात्त्विकं प्रामाण्यम् ; परस्परविरुद्धयोर्द्वयोस्तात्त्विकत्वायोगात्, वस्तुनि च विकल्पासंभवात् , तात्त्विकव्यावहारिकप्रामाण्यभेदेन च व्यवस्थोपपत्तेः, अतत्परत्वेनावधारितस्य विश्वसत्यत्ववाक्यस्यैवान्यथा व्याख्यातुमुचितत्वात् । तथा हि - चतुर्धा हि सामानाधिकरण्यम् ; अध्यासे ‘इदं रजतमि’त्यादौ, बाधायां ‘स्थाणुः पुमानि’त्येवमादौ विशेषणविशेष्यभावेन ‘नीलमुत्पलमि’त्यादौ अभेदेन ‘तत्त्वमसी’त्येवमादौ । अत्र च बाधायामध्यासे वा सामानाधिकरण्योपपत्तेर्न सत्यत्वबोधकश्रुतेः षड्विधतात्पर्यलिङ्गोपेताद्वैतश्रुतिबाधकत्वम् । ननु - आत्मन आनन्दत्वबोधिका श्रुतिरपि ‘सुखं सुप्तोऽस्मी‘ति साक्षिप्रत्यक्षसिद्धानन्दानुवादिनी सत्त्वश्रुतिवद्भवेत् - इति चेन्न; साक्षिण उपहितानन्दविषयत्वेन श्रुतेश्च निरुपाधिकानन्दविषयत्वेन भिन्नविषयत्वादनुवादत्वायोगात् । तया हि स्वरूपानन्दो गृह्यते । स्वरूपं चाज्ञानोपहितमेव साक्षिविषयः । ननु - ‘तत्त्वमसी’त्यादौ नवकृत्वोऽभ्यासवत् पिपासितस्य जलगोचरप्रमाणसंप्लववदैक्ये षड्विधतात्पर्यलिङ्गवद्भावरूपाज्ञाने प्रत्यक्षसिद्धे ‘तम आसी’दित्यादिश्रुतिवत् सत्त्वश्रुतिदार्ढ्यार्था - इति चेन्न; अशेषविशेषग्राहिप्रत्यक्षप्राप्ते तद्दार्ढ्यार्थमन्यानपेक्षणात् । पिपासितस्य शब्दलिङ्गानन्तरं जले प्रत्यक्षमपेक्षितम्, न तु प्रत्यक्षानन्तरं शब्दलिङ्गे । न च - तर्हि ‘तम आसीदि’त्यादेः न किंचिदवेदिषमिति प्रत्यक्षसिद्धाज्ञानदार्ढ्यार्थत्वं न स्यादिति - वाच्यम् । ‘तम आसीदि’त्यस्य सृष्टिपूर्वकालसंबन्धित्वेनाज्ञानग्राहितया सुषुप्तिकालसंबन्धित्वेनाज्ञानग्राहकं प्रत्यक्षमपेक्ष्य भिन्नविषयत्वेनैव प्रामाण्यसंभवात् । ननु - ‘षड्विंशतिरस्य वङ्क्रयः’ इति मन्त्रस्याश्वमेधे चोदकप्राप्तस्य ‘चतुस्त्रिंशद्वाजिनो देवबन्धो’रिति वैशेषिकमन्त्रेणापोदितस्य षड्विंशतिरित्येव ब्रूयादिति वचनवत् प्रत्यक्षप्राप्तजगत्सत्त्वस्य मिथ्यात्वश्रुत्यापाततोऽपोदितस्य प्रतिप्रसवार्थं सत्त्वश्रुतिः – इति चेन्न; मिथ्यात्वश्रुतेः प्रत्यक्षबाधकत्वाभ्युपगमे तस्याः बलवत्त्वेन तद्विरोधात् सत्यत्वश्रुतेरन्यपरत्वाद्देवताधिकरणन्यायासंभवाच्च प्रतिप्रसवार्थत्वस्य वक्तुमशक्यत्वात् । ननु – सत्त्वप्रत्यक्षप्रामाण्ये तेनैव मिथ्यात्वश्रुत्यनुमानादिबाधः, तदप्रामाण्ये न तेन सत्त्वश्रुतेरनुवादकत्वम् - इति चेन्न; प्रत्यक्षाप्रामाण्येऽपि तत्सिद्धबोधकस्यानुवादकत्वसंभवात् । नहि प्रमितप्रमापकत्वमनुवादकत्वम् , किंतु पश्चाद्बोधकत्वमात्रम् । पश्चात्त्वं च प्रमाणावधिकमप्रमाणावधिकं चेति न कश्चिद्विशेषः । न च - श्रुतेः सर्वसिद्धप्रमाणभावायाः सदर्थत्वायाननुवादकत्वाय च प्रत्यक्षाप्राप्ततात्त्विकसत्त्वविषयत्वमवश्यं वक्तव्यम्, तथा चाप्रमाणेन प्रत्यक्षेण कथं श्रुतेरनुवादकत्वमिति - वाच्यम् ; सत्त्वांशस्य प्रत्यक्षसिद्धत्वेऽपि वाक्यार्थस्य क्रियादिसमभिव्याहारसिद्धस्यापूर्वत्वेन तद्विषयतयैवाननुवादकत्वोपपत्तावद्वैतश्रुतिविरुद्धतात्त्विकसत्त्वविषयत्वकल्पनायास्तदर्थमयोगात् । परमार्थसद्विषयता तु सर्वश्रुतीनां शुद्धब्रह्मतात्पर्यकत्वेनैव । अवान्तरतात्पर्यमादाय व्यावहारिकसद्विषयतेति कर्मकाण्डप्रामाण्योपपादने वक्ष्यते । न च – प्रत्यक्षं स्वप्रामाण्यनिर्णयार्थं श्रुतिसंवादमपेक्षत इति न तेन श्रुतेरनुवादकत्वम् ; अन्यथा ‘सत्यं ज्ञानं’ ‘नेह नाने’त्यादिश्रुतिरप्यनुवादिनी स्यात् , ब्रह्मसत्त्वस्य लोकतो भ्रमाधिष्ठानत्वेन लिङ्गेन च मिथ्यात्वस्य दृश्यत्वाद्यनुमानेनावेदमूलप्रवाहानादिविज्ञानवादिना च प्राप्तेरिति - वाच्यम्; यदि हि दृष्टेऽप्यर्थे प्रत्यक्षं स्वप्रामाण्यनिर्णयाय श्रुतिसंवादमपेक्षेत तदा श्रुतिसंवादविरहिणि दृष्टे कुत्रापि निश्शङ्कप्रवृत्तिः न स्यात् । न स्याच्चैव’मग्निर्हिमस्य भेषजमि’त्याद्यपि अनुवादकम् । न चेष्टापत्तिः; मानान्तरगृहीतप्रमाणभावप्रत्यक्षनिर्णीते मानान्तरस्याननुवादकत्वे जगत्यनुवादकत्वकथोच्छेदप्रसङ्गात् । न च ‘सत्यं ज्ञानं’ ‘नेह नाने’त्यादेरप्यनुवादकतापत्तिः; अनुवादकता हि न तावत् प्रत्यक्षेण; ब्रह्मत्वसामानाधिकरण्येन सत्त्वादिकं ह्यनेन प्रतिपादनीयम्, तच्च न प्रत्यक्षगम्यम् । नाप्यनुमानेन; न हि तर्कः सर्वदेशकालीनपुरुषसाधारण इत्यादिना प्रागेव निराकृतत्वात् । नापि प्रवाहानादिविज्ञानवादिमतेन; तस्यापौरुषेयश्रुत्यवधिकपूर्वत्वाभावात् । न च – सत्त्वश्रुतेः सत्त्वप्रत्यक्षानपेक्षत्वात् न सापेक्षानुवादकत्वम्, निरपेक्षानुवादकत्वं तु धारावाहनवन्नाप्रामाण्यहेतुः; उक्तं हि नयविवेके – ‘सापेक्षानुवादे हि न प्रमितिः, न तु दैवादनुवादे, धारावाहनवदिति’ इति वाच्यम्; यतो लाघवादनुवादकत्वमेवाप्रामाण्ये प्रयोजकम्, न तु सापेक्षानुवादकत्वम् ; अनधिगतार्थबोधकत्वस्य प्रामाण्यघटकत्वस्य तावतैव गतार्थत्वात् । न च तर्हि धारावाहनबुद्धावप्रामाण्यम् ; तस्याः वर्तमानार्थग्राहकत्वेन तत्तत्क्षणविशिष्टग्राहकतया अनुवादकत्वाभावात् , किंतु श्रुतेरतत्परत्वे प्राप्तत्वमात्रमेव प्रयोजकम् ; अन्यथा वैफल्येन स्वाध्यायविधिग्रहणानुपपत्तेः । अपि चेयं सत्त्वश्रुतिरपि सत्त्वप्रत्यक्षसापेक्षत्वात् सापेक्षानुवादिन्येव । नहि सत्त्वप्रत्यक्षं विना तन्मूलशक्त्यादिग्रहमूलकशब्दप्रवृत्तिसंभवः । अत एव यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादिवार्थवादादपि सोऽर्थः प्रसिद्ध्यति; द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमानयोरिवैकार्थप्रवृत्तेः, प्रमात्रपेक्षया त्वनुवादकत्वम् । प्रमाता ह्यव्युत्पन्नः प्रथमं प्रत्यक्षादिभ्यो यथार्थमवगच्छति, न तथाऽऽम्नायतः । तत्र व्युत्पत्त्यपेक्षत्वादिति वाचस्पतिमतमप्येतमर्थं संवादयति, तेनाम्नायस्य व्युत्पत्त्यपेक्षत्वेन प्रत्यक्षसापेक्षत्वस्यैवोक्तेः । न च – वादिविप्रतिपत्तिनिरासप्रयोजनकत्वेन न निष्प्रयोजनानुवादकत्वं, सप्रयोजनानुवादकत्वं तु न स्वार्थपरत्वविरोधि; विद्वद्वाक्ये समुदायद्वित्वापादनरूपप्रयोजनवत्त्वेनानुवाद्यस्वार्थपरताया दृष्टत्वात् , अत एव तत्र वाक्यैकवाक्यतोक्ता; अन्यथा अर्थवादवत् पदैकवाक्यतैव स्यादिति - वाच्यम् ; प्रत्यक्षसिद्धे वादिविप्रतिपत्तिनिरासरूपप्रयोजनवत्त्वेन प्रमाणान्तरस्य सप्रयोजनतया स्वार्थपरत्वोक्तौ ‘अग्निर्हिमस्य भेषजमि’त्याद्यपि तेनैव प्रयोजनेन सप्रयोजनं, स्वार्थपरं च स्यात् । तथा च न प्रत्यक्षसिद्धे वादिविप्रतिपत्तिनिरासार्थमन्यापेक्षा, दृष्टान्ते तु समुदायानुवादेन द्वित्वसम्पादनस्योद्देश्यस्यान्यतो लब्धुमशक्यतया तेन प्रयोजनेन स्वार्थपरत्वस्य वक्तुं शक्यत्वात् । एतदभिप्रायं च पूर्वोक्तं नयविवेकवाक्यम् । न च - अनुवादत्वेऽपि नैष्फल्यमात्रम्, नत्वप्रामाण्यम् , याथार्थ्यमेव प्रामाण्यं, नत्वधिगतार्थत्वे सति याथार्थ्यमिति - वाच्यम्; तात्पर्यविषये शब्दः प्रमाणम् ‘यत्परः शब्दः स शब्दार्थ’ इत्यभियुक्ताभ्युपगमात्, अन्यथा स्वाध्यायविधिग्रहणानुपपत्तेरुक्तत्वाच्च । न ह्यन्यतःसिद्धेऽर्थे शास्त्रतात्पर्यम्, अतो न तत्र प्रामाण्यम् । यदाहुर्भट्टाचार्याः – ‘अप्राप्ते शास्त्रमर्थवदि’ति । ननु - अयमनुवादः न ‘वायुर्वै क्षेपिष्ठा देवते’त्यादिवत् स्तुत्यर्थः; न वा ‘दध्ना जुहोती’त्यादिवदन्यविधानार्थः; अनुवाद्यत्वेऽप्यन्यविधानाय प्रमाणानूदितस्य तात्त्विकत्वनियमात्, न हि ‘व्रीहीन्प्रोक्षती’त्यादीवारोपितव्रीह्यादेर्धीः, अनुवाद्यस्यासत्त्वे ह्याश्रयासिद्धौ धर्मधर्मिसंसर्गरूपानुमितिवेद्य इवानुवाद्यविधेयसंसर्गरूपवाक्यार्थो बाधितः स्यात् - इति चेन्न; अस्यानुवादस्याप्राप्तान्यप्राप्त्यर्थत्वात् । न च प्रमाणानूदितस्य तात्त्विकत्वनियमः; स्वप्नाध्याये, शुक्तौ ‘नेदं रजतमि’ति वाक्ये च व्यभिचारात् । अथ तत्र ज्ञानविषयतया निषेध्यतया चानुवाद इति न तात्त्विकत्वम्, तर्हि प्रकृतेऽपि ‘नेह नाने’ति निषेधार्थत्वादस्यानुवादस्य न तात्त्विकत्वमिति गृहाण । अत एव न वाक्यार्थस्यासत्त्वप्रसङ्गः; तात्पर्यविषयस्य सत्त्वात् । अथ – ‘किंचने’त्यनेनैवानुवादस्य कृतत्वात् किमधिकेनेति – चेन्न; सामान्यतो निषेधस्य हि ‘किंचने’त्यनेन निषेध्यसमर्पणेऽपि विशिष्य निषेधे विशिष्य निषेध्यसमर्पणस्योपयोगात् । अथ - निषेधवाक्यस्य न निषेध्यसमर्पकवाक्यान्तरापेक्षा; अन्यथा ‘न कलञ्जं भक्षये’दित्यादावपि निषेध्यसमर्पणार्थं ‘कलञ्जं भक्षये’दित्यादिवाक्यान्तरसापेक्षत्वप्रसङ्गः – इति चेन्न; सर्वत्रापेक्षानियमाभावात् , सति संभवे प्रकृते त्यागायोगात्, ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाती’त्यादौ वाक्यान्तरप्राप्तस्य निषेधदर्शनाच्च । न च तद्वदेव विकल्पापत्तिः; सिद्धे वस्तुनि विकल्पायोगात्, ग्रहणाग्रहणवाक्ययोरुभयोरपि मानान्तराप्राप्तविषयत्वेन तुल्यबलत्ववदिह सत्त्वश्रुतेर्मानान्तरप्राप्तविषयत्वेन निषेधश्रुतेश्चाप्राप्तविषयत्वेन तुल्यबलत्वाभावाच्च । अत एव निषेधवाक्यप्राबल्यात्तदनुरोधेनेतरन्नीयते; अथ – अप्राप्तान्यप्राप्त्यर्थत्वेऽप्यलौकिकस्य ‘आपश्च न प्रमिणन्ती’त्यादिपदार्थसंसर्गस्य विधेयस्य सत्त्वान्न निषेध्यार्थानुवादकत्वमिति – चेन्न; तदन्यपरत्वस्य प्रागेवोक्तत्वात् । ननु ‘यत्तन्ने’ति निषेधानुवादलिङ्गाभावान्नानुवादः, न; यत्किंचिल्लिङ्गाभावेन लैङ्गिकाभावस्य वक्तुमशक्यत्वात् । ननु - तर्हि ‘तत्सत्यमि’त्याद्यपि ‘न सत्तन्नासदुच्यत’ इति, ‘असद्वा इदमग्र आसी’दिति च निषेधाय ‘सन्घटः’ ‘सद्धटज्ञानं’ ‘सत्सुखस्फुरण’मित्यादिसिद्धब्रह्मसत्त्वानुवादि स्यात् - इति चेन्न; ब्रह्मत्वसामानाधिकरण्येन सत्त्वस्य प्रत्यक्षादिभ्योऽप्राप्तेः शून्यवादप्रसङ्गेन तस्य निषेधायोगाच्च । ‘य इदं सर्वं यदयमात्मे’त्यत्रानुवादलिङ्गसम्भवेन कल्पनाच्च । एवमानन्दश्रुतेरापि, ‘अदुःखमसुखं सम’मिति निषेधाय न प्रत्यक्षप्राप्तानन्दानुवादित्वम् ; दुःखसाहचर्येण सुखस्यापि वैषयिकस्यैव ग्रहणेन तन्निषेधाय ब्रह्मरूपसुखानुवादायोगात् । एतच्च सर्वमुक्तं विवरणे - निष्प्रपञ्चास्थूलादिवाक्यानुसारेण ‘इदं सर्वं यदयमात्मे’त्यादीनि निषेध्यसमर्पकत्वेनैकवाक्यतां प्रतिपद्यन्ते; सुषुप्तौ निष्प्रपञ्चतायां पुरुषार्थत्वदर्शनादिति । अथ - निष्प्रपञ्चता न पुरुषार्थः; मूर्च्छायां तत्त्वादर्शनात् , न च - तदा तदज्ञानमात्रं न तु तदभाव इति - वाच्यम्; समं सुषुप्तावपीति – चेन्न; मूर्च्छायां स्वरूपसुखस्फुरणाभावात् । तथा च सूत्रम् - ‘मुग्धेऽर्धसंपत्तिः परिशेषा’दिति । सुषुप्तिमुक्तिकालीननिष्प्रपञ्चतायां स्वरूपसुखानुभवेन तस्याः पुरुषार्थत्वात् । तथा च श्रुतिः – ‘द्वितीयाद्वै भयं भवतीति ।’ अथ ‘तस्मादेकाकी न रमत’ इति श्रुतेः सप्रपञ्चतापि पुरुषार्थः, न; तस्या दुःखसाधनत्वेन पुरुषार्थत्वायोगात्, कर्मकाण्डवदस्याः श्रुतेः अविवेकपुरुषपरत्वाच्च । ननु – ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेती’ति भेदज्ञानस्य मोक्षहेतुत्वश्रवणात् कथं न सप्रपञ्चता पुरुषार्थ - इति चेन्न; मतेः पूर्वं ममापि प्रेरकपृथक्त्वद्दष्टेः सगुणब्रह्मज्ञानवत् प्रेरकत्वेन ब्रह्मज्ञानस्यापि परम्परयोपकारकत्वात् । ‘एकधैवानुद्रष्टव्य’मित्यादिवाक्यस्वारस्यादभेदज्ञानस्यैव साक्षात् मोक्षहेतुत्वात् । अत एव प्रेरकत्वज्ञानस्य जोषहेतुत्वमुक्तम् । तथोत्तरत्रापि ‘वेदविदो विदित्वा लीना ब्रह्मणि तत्परा ये विमुक्तास्तदात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोक’ इत्यभेद एव श्रूयते । अतो न भेदज्ञानस्य मोक्षहेतुत्वम् । एतेन – ‘नेह नाने’ति श्रुतिरेव ‘विश्वं सत्य’मित्यबाध्यत्वरूपबाधनिषेधाय विज्ञानवादिप्राप्तविश्वनिषेधानुवादिनी किं न स्यादिति – निरस्तम्; भावाभावयोः परस्परविरहरूपत्वे समेऽपि भावग्रहो ‘निरपेक्षत्वात् नाभावग्रहमपेक्षते, अभावग्रहस्तु सप्रतियोगितया भावग्रहमपेक्षते । अतो ‘नेति नेति’ श्रुतेरेव सत्त्वश्रुत्यपेक्षा, न तु सत्त्वश्रुतेर्नेति श्रुत्यपेक्षा; अन्यथा अन्योन्याश्रयापत्तेः । ननु - उत्सर्गापवादन्यायोऽस्तु, यथा हि ‘न हिंस्यात् सर्वा भूतानी’ति श्रुतिरविशेषप्रवृत्तापि हिंसात्वसामान्यस्य प्रत्यक्षादिप्राप्तत्वान्निषेध्योपस्थितौ नाग्नीषोमीयवाक्यमपि निषेध्यसमर्पणायापेक्षते, तथा ‘नेति नेत्या’दिश्रुतिरविशेषप्रवृत्तापि प्रत्यक्षप्राप्तघटादिसत्त्वरूपनिषेध्यमादाय निराकाङ्क्षा सती न प्रत्यक्षाप्राप्तधर्माधर्मादिसत्यत्वबोधिकां ‘विश्वं सत्यमि’त्यादिश्रुतिमपि निषेध्यसमर्पणायापेक्षितुमर्हति, यत्र तु मानान्तरेण निषेध्यस्याप्राप्तिस्तत्र निषेध्यसमर्पणाय श्रुत्यन्तरमपेक्षत एव; यथा षोडशिग्रहणाग्रहणयोः, मानान्तरेण निषेध्योपस्थितावापि वाक्यापेक्षणे अग्नीषोमीयहिंसाया अपि निषिद्धत्वेनाधर्मत्वं स्यात् - इति चेत्, मैवम् ; अग्नीषोमीयवाक्यस्य निषेधविषयन्यूनविषयत्वेनानन्यशेषतया स्वार्थतात्पर्यवत्त्वेन च न निषेध्यसमर्पणद्वारेण निषेधवाक्यशेषता, ‘विश्वं सत्यमि’त्यादेस्तु निषेधविषयसमविषयत्वेन स्वार्थतात्पर्यरहितत्वेन च निषेध्यसमर्पणद्वारेण निषेधवाक्यशेषतोचितैव । अत एव प्रत्यक्षाप्राप्तधर्मादिसत्त्वोपस्थापनेन वाक्यसाफल्यमपि । स्वार्थतात्पर्यरहितत्वेन च नाग्नीषोमीयवाक्यतुल्यत्वमित्युक्तम् । अतो दृश्यत्वादिहेतोर्धर्माद्यंशेऽपि श्रुत्या न बाधः । अथवा - व्यावहारिकसत्त्वपरेयं विश्वसत्यत्वश्रुतिः । न च व्यावहारिकसत्त्वे सर्वाविप्रतिपत्तेस्तत्प्रतिपादनवैयर्थ्यम्; दशाविशेषे स्वर्गनरकादिसत्त्वप्रतिपादनेन तत्प्राप्तिपरिहारार्थं प्रवृत्तिनिवृत्त्योरेव तत्प्रयोजनत्वात् । व्यावहारिकत्वं च ब्रह्मज्ञानेतराबाध्यत्वं न त्वबाध्यत्वम् ; मिथ्यात्वबोधकश्रुतिविरोधात् । न चैवं दृढभ्रान्तिजनकत्वात् अत्यन्ताप्रामाण्यापत्तिः; स्वप्नार्थप्रतिपादनवदुपपत्तेः । एतावानेव विशेषः – तत्प्रातिभासिकं, इदं तु व्यावहारिकमिति । ननु - मिथ्यात्वश्रुतेर्लक्षणया अखण्डचिन्मात्रपरत्वेन सत्त्वबोधनात् अविरोधित्वमेव, न; अखण्डार्थबोधस्य द्वितीयाभावबुद्धिद्वारकत्वेन जगत्सत्यत्वविरोधित्वात् । न च प्रपञ्चसत्यत्वश्रुतेरप्रामाण्यप्रसङ्गः; अतत्त्वावेदकत्वस्यावान्तरतात्पर्यमादायेष्टत्वात् , परमतात्पर्येण तु तत्त्वावेदकत्वं सर्वश्रुतीनामपि समम् ; प्रातिभासिकव्यावृत्तस्य व्यावहारिकस्य तद्वति तत्प्रकारकत्वादिरूपस्य निराकर्तुमशक्यत्वात् । आसां व्यावहारिकं प्रामाण्यमव्याहतमेव । ‘असद्वा इदमग्र आसीदि’त्यादिश्रुत्यनुरोधेनापि ‘तत्सत्यमि’त्यादिश्रुतिर्न ब्रह्मणि व्यावहारिकसत्त्वपरा; ब्रह्मणो व्यवहारातीतत्वात् , तस्यापरमार्थत्वेन च निरधिष्ठानतया शून्यवादापत्तेः, किंचित्तत्त्वमगृहीत्वा च बाधानुपपत्तेः । अत एव सत्यत्वश्रुतिविरोधेन मिथ्यात्वश्रुतिरेवान्यपरेत्यपि न; षड्विधतात्पर्यलिङ्गोपेतत्वेन मिथ्यात्वश्रुतेरनन्यपरतया प्रबलत्वात् , वैदिकतात्पर्यविषयस्य च तात्त्विकत्वनियमेन तात्पर्यज्ञापकानामपि लिङ्गानामर्थतथात्व एव पर्यवसानात् । सत्त्वश्रुतिवाक्यस्थपदानां चान्यपरत्वान्न सत्त्वे तात्पर्यलिङ्गाशङ्का । ननु – यदि सत्त्वश्रुतिः प्रत्यक्षप्राप्तार्थत्वान्न स्वार्थपरा, तर्हि मिथ्यात्वश्रुतिरपि तद्विरुद्धार्थत्वात् स्वार्थपरा न स्यात् , तत्प्राप्तितद्विरोधयोस्तात्पर्याभावहेत्वोरुभयत्रापि समत्वात् - इति चेन्न; प्रत्यक्षापेक्षया चन्द्राधिकपरिमाणबोधकागमस्येव मिथ्यात्वबोधकागमस्यापि बलवत्त्वेन प्रत्यक्षप्राप्तानुवादिसत्त्वश्रुत्यपेक्षयापि बलवत्त्वात् ; अन्यथोभयोरपि अप्रामाण्यापत्तेः । तदुक्तं संक्षेपशारीरके – ‘अतत्परा तत्परवेदवाक्यैर्विरुध्यमाना गुणवाद एवेति ।’ अत एवानन्यशेषमिथ्यात्वश्रुतिविरोधात् न प्रत्यक्षागृहीतत्रिकालाबाध्यत्वरूपसत्यत्वपरा जगत्सत्यत्वश्रुतिरित्युक्तम् । अद्वैतश्रुतेश्च प्राबल्ये निरवकाशत्वतात्पर्यवत्त्वादिकमेव प्रयोजकम्, न निषेधवाक्यत्वम् । एतेन – निषेधवाक्यत्वेन प्राबल्ये किति तद्धिते वृद्धिविधायकात् ‘किति चे’ति सूत्रात् सामान्यतो गुणवृद्धिनिषेधकं ‘क्ङिति चे’ति सूत्रं बलवत्स्यात् , अग्नीषोमीयवाक्यादहिंसावाक्यं षोडशिनो ग्रहणवाक्यादग्रहणवाक्यं ‘सत्यं ज्ञानमि’त्यादिवाक्यात् ‘असद्वा इदमग्र आसीदि’त्यादिवाक्यं च बलवत्स्यादित्यपास्तम् । सामान्यविशेषभावादिना सावकाशत्वनिरवकाशत्वादिरूपबलवैपरीत्यात्, ‘विश्वं सत्यमि’त्यादेस्तु व्यावहारिकसत्यविषयतया अन्यशेषतया च सावकाशत्वादेः प्रागुक्तत्वात् । तस्मान्न सत्त्वश्रुतिविरोधः ॥ नापि असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । एतां बुद्धिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥’ इत्यादिस्मृतिविरोधः; सद्विविक्तत्ववादिनो मम जगत्यसद्वैलक्षण्याङ्गीकारेण तत्प्रतिपादकस्मृतिविरोधाभावात् । ननु - ‘नाभाव उपलब्धेः’ ‘वैधर्म्याच्च न स्वप्नादिवदि’ति सूत्रद्वयेन जगतः पारमार्थिकसत्त्वबोधनेन विरोधः, न चानेन शून्यवादिनिरासार्थेनासद्वैलक्षण्यमात्रप्रतिपादनान्न विरोधः; अर्थक्रियाकारित्वलक्षण्यस्यासद्वैलक्षण्यस्य शून्यवादिमतेऽपि सत्त्वेन तन्मतनिरासार्थत्वानुपपत्तेः, निषेधाप्रतियोगित्वरूपस्यासद्वैलक्षण्यस्य त्वयाप्यनङ्गीकारात् असद्वैलक्षण्यमात्रस्य साधने सूत्रे स्वप्नवैलक्षण्योक्त्ययोगाच्च, व्यावहारिकसत्यत्वमात्रेण स्वप्नवैलक्षण्यस्य त्वयाप्यङ्गीकारात्, असद्वैलक्षण्यमात्रस्य तन्मतेऽपि सत्त्वाच्च, तदुक्तं बौद्धैः – ‘द्वे सत्त्वे समुपाश्रित्य बुद्धानां धर्मदेशना’ इति – चेन्न; सूत्रार्थानवबोधात् तथा हि - सद्रूपात् ब्रह्मणो जगत्सर्गं वदतः समन्वयस्य सर्वमसदित्यनुमानेन विरोधसन्देहे ‘न सन्नासन्न सदसत् न चानुभयतत्त्वकम् । विमतं तर्कपीड्यत्वान्मरीचिषु यथोदकम् ॥’ इति ब्रह्मसाधारण्यान्निस्तत्त्वतायां प्राप्तायां सूत्रेण परिहारः । सतो ब्रह्मणो नाभावः न शून्यत्वं, उपलब्धेः सत्त्वेन प्रमाणात् प्रतीतेः । तथा च किंचित्परमार्थसदवश्यं शून्यवादिनापि स्वीकार्यम्; अन्यथा बाधस्य निरवधिकत्वप्रसङ्गादिति सूत्रार्थः स च न प्रपञ्चमिथ्यात्वविरोधी । तथा चोक्तं - ‘बाधितोऽपह्नवो मानैः व्यावहारिकमानता । मानानां तात्त्विकं किंचित् वस्तु नाश्रित्य दुर्भणे’ति । नापि स्वप्नवैधर्म्योक्त्ययोगः; तस्याः ‘विमतं निस्तत्त्वं तर्कपीड्यत्वात् मरुमरीचिकाजलव’दित्यनुमाने बाध्यत्वप्रमाणागम्यत्वदोषजन्यत्वाद्युपाधिप्रदर्शनपरत्वात् विज्ञानवादनिराकरणपरेणापि नानेन सूत्रेण विरोधः । रूपादिरहितब्रह्मजगदुपादानत्वप्रतिपादकसमन्वयस्य नीलाद्याकारं विज्ञानं साधयता अनुमानेन विरोधसन्देहे ‘स्वप्नधीसाम्यतो बुद्धेर्बुद्ध्याऽर्थस्य सहेक्षणात् । तद्भेदेनानिरूप्यत्वात् ज्ञानाकारोऽर्थ इष्यताम् ॥ विमता धीः, न ज्ञानव्यतिरिक्तालम्बना, धीत्वात् , स्वप्नधीवत् । विपक्षे च ज्ञानाभानेऽप्यर्थभानप्रसङ्गो बाधकः । न हि भिन्नयोरश्वमहिषयोः सहोपलम्भनियमोऽस्ति । तस्मान्न ज्ञानातिरिक्तं सदिति प्राप्ते परिहारसूत्रं ‘नाभाव उपलब्धेरि’त्यादि । बाधेन सोपाधिकतानुमाने उपायाभावेन सहोपलम्भः सारूप्यतो बुद्धितदर्थभेदस्थूलार्थभङ्गो भवतोऽपि तुल्यः । सूत्रार्थस्तु, नाभावः – ज्ञानातिरिक्तस्यार्थस्य नासत्वम् , किंतु व्यवहारदशाबाध्यार्थक्रियाकारित्वरूपं सत्त्वमेव । उपलब्धेः – ज्ञानातिरेकेण प्रमाणैरुपलब्धेः । स्वप्नवैधर्म्योक्तिः बाध्यत्वाद्युपाधिप्रदर्शनाय । तेन बाधात् सोपाधिकत्वाच्च पूर्वानुमानं दुष्टमित्यर्थः। तस्मान्नैवमपि विरोधशङ्का । तदुक्तं तस्मान्न ज्ञानाकारोऽर्थः, किंतु बाह्यः । स चार्थक्रियाकारित्वसत्त्वोपेतोऽपि अद्वैतश्रुतिवशात् ब्रह्मणि कल्पितो न परमार्थसन्निति सिद्धान्तस्य सुगतमताद्भेदः इति । उक्तं चात्मतत्त्वविवेके – 'न ग्राह्यभेदमवधूय धियोऽस्ति वृत्तिस्तद्बाधने बलिनि वेदनये जयश्रीः । नोचेदनित्यमिदमीदृशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः ॥” इति । धर्मिग्राहकमानबाधश्च प्रागेव परिहृत इति शिवम् ॥
॥ इति विश्वमिथ्यात्वस्यागमादिबाधोद्धारः ॥
ननु–सत्त्वसाधकानां मिथ्यात्वसाधकानुमानेभ्यः प्राबल्यम् ; मिथ्यात्वसाधकप्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वाबोधने सर्वमिथ्यात्वासिद्धिः, तद्बोधने परस्परव्याहतिराश्रयासिद्ध्यादिकं चेति चेन्न; मिथ्यात्वसाधकप्रतिज्ञाद्युपनीतपक्षादीनां मिथ्यात्वबोधनेऽपि व्याहत्यभावात् , प्रतिज्ञादिभिस्तेषां त्रिकालाबाध्यत्वरूपसत्त्वाप्रतिपादनात् । ननु-साधकत्वान्यथानुपपत्त्या परमार्थसत्त्वमायाति परमार्थसत एव साधकत्वात् , साधकतायाः प्राक् सत्त्वघटितत्वात् , न तु धीमात्रविषयत्वम् , अपरोक्षधीविषयत्वं, सत्त्वेन तादृशधीविषयत्वं वा साधकताप्रयोजकम् , तुच्छे नित्यातीन्द्रिये चातिव्याप्त्यव्याप्तिभ्याम् । तत्त्वेन ज्ञानमपि न तत्र प्रयोजकम् ; वह्नित्वेनाज्ञातेऽपि वह्नौ दाहकत्वदर्शनात्' वह्नित्वेन ज्ञातेऽपि गुञ्जापुञ्जे तददर्शनाच्च, नापि त्रिचतुरकक्ष्यास्वबाधितासत्त्वप्रतीतिस्तन्त्रम् ; आत्मनो गौरत्वेनानित्यत्वस्य नभसो नैल्येन स्पर्शवत्वस्य चापत्तेः, गौरोऽहं, ‘नीलं नभ' इत्यादिप्रतीतावपि त्रिचतुरकक्ष्यास्वबाधात् , यौक्तिकबाधस्य त्वन्मते प्रकृतेऽपि भावादिति-चेन्न; याद्दश्या बुध्या तव नभोनैल्यादिधीव्यावृत्तया घटादौ सत्त्वसिद्धिः, तादृक्बुद्धिविषयत्वस्यैव साधकत्वे तन्त्रत्वात् । अत एव लोकप्रसिद्धिस्तन्त्रमितीष्टसिद्ध्युक्तमप्युक्ताभिप्रायेण सम्यगेव । एवं त्रिचतुरकक्ष्यास्वबाधितावादिप्रतिवादिप्राश्निकादीनां सत्त्वबुद्धिस्तन्त्रमित्युपपन्नमेव । गुञ्जापुञ्जस्य वह्नित्वे आत्मनो गौरत्वे नभसो नीलत्वे च तादृग्बुद्धिविषयत्वस्य तवाप्यसंप्रतिपत्तेः; अन्यथा तेषामपि तत्र सत्त्वसिद्धिप्रसङ्गात् । अथ—यादृश्या शब्दे क्लप्तदोषरहितया बुद्ध्या तव ब्रह्मणि सत्त्वसिद्धिः, तादृश्या प्रत्यक्षे कृप्तदोषरहितया मम जगति सत्त्वसिद्धिरस्तु साधकतुल्यत्वादिति-चेन्न; ब्रह्मसत्त्वबुद्धिवत् जगत्सत्त्वबुद्धेरवाधितत्वाभावात् , त्रिकालाबाध्यत्वरूपस्य सत्त्वस्य प्रत्यक्षाविषयताया उक्तत्वाच्च । न च–बुद्धिविषयत्वस्य तन्त्रत्वे वह्नित्वेनाज्ञातस्य वह्नेरदाहकत्वप्रसङ्गः, अमृतत्वेन ज्ञातस्य च विषस्य सञ्जीवकत्वप्रसङ्ग इति वाच्यम्; वह्नौ तादृग्वुद्धिविषयत्वस्येश्वरादिसाधारणस्य सत्त्वात् , विषे सञ्जीवकत्वप्रसङ्गस्य नभोनैल्यादितुल्यत्वात् । वस्तुतस्तु–ज्ञाताज्ञातसाधारणं व्यावहारिकं सत्त्वमेव साधकत्वे तन्त्रम् । तच्च ब्रह्मज्ञानेतराबाध्यत्वमेव; तच्च न मिथ्यात्वघटितम् ; अत्यन्ताबाध्ये ब्रह्मज्ञानबाध्ये च तुल्यत्वात् अत एव नेदं परमार्थसत्त्वव्याप्यम् । एवं च परमार्थसत्त्वस्य साधकतायामतन्त्रत्वेन तदभावेऽपि न साधकतानुपपत्तिः । एतेन–व्यावहारिकत्वं ब्रह्मज्ञानबाध्यत्वं वा, व्यावहारिक विषयत्वे सति सत्त्वं वा, सत्त्वेन व्यवहारमात्रं वा । नाद्यः; मिथ्यात्वसिद्धेः प्राक् तदसिद्ध्या अन्योन्याश्रयात् । नापि द्वितीयः; तस्यास्माकं मिथ्यात्वाविरोधित्वेनेष्टत्वात् । न तृतीयः; सत्त्वाभावे साधकत्वानुपपत्तेरिति—निरस्तम् । उक्त निरुक्तेरदुष्टत्वात् । न च हेत्वादीनां व्यावहारिकसत्त्वे साध्यस्यापि व्यावहारिकसत्त्वमेव स्यादनुमितिविषयसाध्यस्य परामर्शविषयहेतुना समानसत्ताकत्वनियमादिति वाच्यम् ; दृश्यत्ववन्मिथ्यात्वस्यापि व्यावहारिकत्वेन समानसत्ताकत्वस्येष्टत्वात् , समानसत्ताकत्वनियमासिद्धेश्च, धूलीपटले धूमभ्रमादपि वह्न्यनुमितिप्रमादर्शनात्, गन्धव्याप्यपृथिवीत्वप्रमातोऽपि गन्धप्रागभावावच्छिन्ने घटे पक्षे बाधास्फूर्तिदशायामनुमितिभ्रमदर्शनाच्च । मिथ्यात्वस्य मिथ्यात्वेऽपि तत्त्वावेदकश्रुतिवेद्यत्वोपपत्तिः सत्त्वेन सत इव मिथ्यात्वेन मिथ्याभूतस्यापि प्रमाणगम्यत्वाविरोधात्, एकांशे तत्त्वावेदकत्वाभावेऽपि अपरांशे तत्त्वावेदकत्वोपपत्तेः । ननु व्यावहारिकत्वं साधकतायामतन्त्रम् ; अज्ञानादिसाधके परमार्थसति साक्षिणि तदभावादिति चेन्न; ब्रह्मज्ञानेतराबाध्यत्वस्यात्यन्ताबाध्येऽपि सत्त्वस्योक्तत्वात् । त्रैविध्यविभागे पारमार्थिकव्यावृत्तव्यावहारिकत्वनिरुक्तावपि जनकतायां तत्साधारण्येऽप्यदोषात् । वस्तुतस्तु-साक्ष्यप्यज्ञानोपहित एवाज्ञानादिसाधकः, स च व्यावहारिक एव; अनुपहितेन परमार्थ सदाकारेण तस्यासाधकत्वात् , एवं च व्यावहारिकसत्त्वमेव सर्वत्र साधकतायां प्रयोजकमिति स्थितम् । यथा चाज्ञानोपहितस्य साक्षित्वेऽपि नात्माश्रयादिदोषः, तथोक्तं दृश्यत्वहेतूपपादने प्राक्; अग्रे च वक्ष्यते । यत्र च यत्साधकं व्यावहारिकं, तत्र तद्व्यावहारिकम् ; यत्र तु साधकं प्रातीतिकं, तत्र फलमपि तथैव; न तु व्यावहारिकमिति सर्वविधिप्रतिषेधादिव्यवहारासङ्करः । अत एव लोकस्यापि व्यतिक्रमे विचारस्य यादृच्छिकबाधात् भ्रान्तत्वापत्तिरित्युदयनोक्तमपि–निरस्तम् ; व्यावहारिकसत्त्वेन लोकमर्यादानतिक्रमात् । भट्टाचार्यवचनानि विरुद्धत्वेन भासमानानि सत्त्वविध्यानिरूपणायामविरोधेन व्याख्यास्यन्ते । तस्मात् पक्षादिसर्वमिथ्यात्वसाधनेऽपि न व्याहतिः ॥
॥ इत्यद्वैतसिद्धौ असतः साधकत्वोपपत्तिः ॥
ननु–सत्त्वापेक्षया तुच्छविलक्षणत्वादेरगौरवतरत्वेन साधकत्वे कथं तन्त्रत्वमिति–चेन्न; त्रिकालबाधविरहरूपस्य सत्त्वस्य लघुत्वाभावात् , जात्यादिरूपस्य तस्य मिथ्यात्वाविरोधित्वात् , उभयसिद्धे सद्विविक्ते साधकत्वदर्शनेन पारमार्थिकसत्त्वस्य साधकत्वाप्रयोजकत्वाच्च । तथा हि-प्रतिबिम्बे बिम्बसाधकत्वं तावदस्ति । तस्य बिम्बात्मना सत्त्वेऽपि प्रतिबिम्बाकारेणासत्वात् परमार्थसत्त्वं न साधकत्वे प्रयोजकम् । एवं स्वप्नार्थस्यासतोऽपि भाविशुभाशुभसूचकत्वम् । यद्यपि तत्रत्यदर्शनस्यैव सूचकत्वम् : “पुरुषं कृष्णं कृष्णदन्तं पश्यती"त्यादिश्रुतिबलात्; तथापि दर्शनमात्रस्यातिप्रसक्तत्वेन विषयोऽप्यवश्यमपेक्षणीय एव । एवं स्फटिकलौहित्यस्य उपाधिसन्निधानसाधकत्वं च । न च लौहित्यं स्फटिके न मिथ्या, किंतु धर्ममात्रप्रतिबिम्ब इति न पृथगुदाहरणमिति वाच्यम् । धर्मिभूतमुखादिनैरपेक्ष्येण तद्धर्मभूतरूपादिप्रतिबिम्बादर्शनात् , प्रतिबिम्बस्याव्याप्यवृत्तित्वनियमेन लौहित्यस्य स्फटिके व्याप्यवृत्तिप्रतीत्ययोगाच्च । लौहित्ये स्फटिकस्य त्वारोपे तस्य प्रतिबिम्बत्वम् , स्फटिके लौहित्यारोपे तु तस्य मिथ्यात्वमिति विवेकः । स्फटिकमणेरिवोपधाननिमित्तो लोहितिमेति लोहितिम्नः मिथ्यात्वं दर्शितं प्रतिबिम्बसत्यत्ववादिभिः पञ्चपादिकाकृद्धिः । एवं रेखातादात्म्येनारोपितानां वर्णानामर्थसाधकत्वम् । न च-रेखास्मारिता वर्णा एवार्थसाधका इति–वाच्यम् । आशैशवमयं ककारोऽयं गकार इत्यनुभवात् अभेदेनैव स्मरणात् , विवेके सत्यपि दृढतरसंस्कारवशात् नारोपनिवृत्तिः । अत एव ककारं पठति लिखति चेति सार्वलौकिको व्यवहारः । वर्णरोपितदीर्घह्रस्वत्वादीनां च नगो नाग इत्यादावर्थविशेषप्रत्यायकत्वम् । न च-वर्णेष्वनारोपितध्वनिसाहित्यं तदभिव्यक्तिरूपं वा दैर्घ्यं प्रत्यायकम्, एवं ह्रस्वत्वादिकमपीति–वाच्यम् ; ध्वनीनामस्फुरणेऽपि दीर्घो वर्ण इत्यादिप्रत्ययात् । ननु-आरोपितेन वर्णदैर्घ्यादिना कथं तात्त्विकार्थसिद्धिः, न ह्यारोपितेन धूमेन तात्त्विकवह्रिसिद्धिरिति-चेन्न; साधकतावच्छेदकरूपवत्वमेव साधकतायाः प्रयोजकम्, न त्वारोपितत्वमनारोपितत्वं वा, धूमाभासस्य त्वसाधकत्वम् ; साधकतावच्छेदकरूपव्याप्त्यभावात् , नासत्त्वात्; अनाभासत्वग्रहश्च तत्र बहुलोर्ध्वतादिग्रहणवद्व्याप्तिग्रहणार्थमेवापेक्षितः । तदुक्तं वाचस्पतिमिश्रैः–“यथा सत्यत्वाविशेषेऽपि चक्षुषा रूपमेव ज्ञाप्यते न रसः, तथैवासत्त्वाविशेषेऽपि वर्णदैर्घ्यादिना सत्यं ज्ञाप्यते, न तु धूमाभासादिनेति । दृष्टं हि मायाकल्पितहस्त्यादेः रज्जुसर्पादेश्च भयादिहेतुत्वं सवितृसुषिरस्य च मरणसूचकत्वं शङ्काविषस्य च मरणहेतुत्वम् । ननु-तत्र शङ्कैव भयमुत्पाद्य धातुव्याकुलतामुत्पादयतीति सैव मरणहेतुः, न तु शङ्कितं विषमपि; एवं सवितृसुषिरमायाकल्पितगजादीनामपि ज्ञानमेव तत्तदर्थक्रियाकारि, न त्वर्थोऽपि; तथा च सर्वत्रोदाहृतस्थलेषु ज्ञानमेव हेतुः, तच्च स्वरूपतः सत्यमेव; अन्वयव्यतिरेकावपि ज्ञानस्यैव कारणता ग्राहयतः, नहि सन्निहितं सर्पमजानानो बिभेति । न च–अर्थानवच्छिन्नस्य ज्ञानस्य हेतुत्वेऽतिप्रसङ्गादर्थावच्छिन्नमेव ज्ञानं हेतुः, तथा चार्थोऽपि हेतुरेवेति वाच्यम्; अर्थावच्छिन्नस्य ज्ञानस्य हेतुत्वेऽपि अवच्छेदकस्यार्थस्य ताटस्थ्येनाहेतुत्वोपपत्तेः (१) घटावच्छिन्नस्य तदत्यन्ताभावतद्ध्वंसादेर्घटदेशकालभिन्नदेशकालादित्वेऽप्यवच्छेदकस्य घटस्य तदभाववत्, (२) घटेच्छाब्रह्मज्ञानयोर्घटज्ञानवेदान्तसाध्यत्वेऽपि घटब्रह्मणोः तदभाववत्, (३) घटप्रागभावस्य घटं प्रति जनकत्वेऽपि घटस्याजनकत्ववत् , (४) विशेषादर्शनस्य भ्रमं प्रति जनकत्वेऽपि विशेषदर्शनस्य तदभाववत्, (५) विहिताकरणस्य प्रत्यवायजनकत्वेऽपि विहितकरणस्य तदभाववत्, (६) स्वर्गकामनायाः यागजनकत्वेऽपि स्वर्गस्य तदजनकत्ववत् , (७) अतीतादिस्मृत्यादेर्दुःखादिजनकत्वेऽप्यतीतादेस्तदजनकत्ववत्, (८) असद्विषयकपरोक्षज्ञानस्य तद्व्यवहारहेतुत्वेऽप्यसतस्तदभाववत्, (९) चिकीर्षितघटबुद्धेर्घटहेतुत्वेऽपि घटस्य तदहेतुत्ववत् , (१०) ब्रह्मज्ञानस्य तदज्ञाननिवर्तकत्वेऽप्युदासीनस्वभावस्य ब्रह्मणस्तदभाववत्, (११) ब्रह्माज्ञानस्य जगत्परिणामिकारणत्वेऽपि ब्रह्मणस्तभाववच्च । न च-तथापि मिथ्यार्थे ज्ञानव्यावर्तकताऽस्तीत्यसतोऽपि हेतुत्वमिति वाच्यम्; नहि व्यावृत्तधीहेतुत्वं व्यावर्तकत्वम्, किंतु व्यावृत्तिधीहेतुधीविषयत्वमेव; सत्यपि दण्डे तदज्ञाने व्यावृत्त्यज्ञानात् । अथावच्छेदकस्य मिथ्यात्वे अवच्छिन्नस्यापि तन्नियमः, न; तुच्छज्ञाने तुच्छवैलक्षण्ये च तुच्छत्वस्य, प्रतिभासिकाद्वैलक्षण्ये प्रतिभासिकत्वस्य, पञ्चमप्रकारायामात्मस्वरूपभूतायां वा अनिर्वचनीयाज्ञानस्य निवृत्तौ चतुर्थप्रकारानिर्वचनीयत्वस्य, पारमार्थिकात्मस्वरूपे तद्भिन्ने वा अनृतद्वैतस्याभावेऽनृतत्वस्य चादर्शनात् तत्रावच्छेदकानामसदादीनां ताटस्थ्येऽत्रापि तथास्त्विति चेत्, अत्रोच्यते यदुक्तं ताटस्थ्यलक्षणमुपलक्षणत्वमेव सर्वत्रावच्छेदस्येति । तन्न; विशेषणत्वे संभवत्युपलक्षणत्वायोगात् । विशेषणबाधपूर्वकत्वादुपलक्षणत्वकल्पनायाः; अन्यथा 'दण्डी प्रैषवानन्वाह’ ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ती'त्यादावपि वेदे दण्डलौहित्यादेरुपलक्षणत्वात् तदभावेऽपि अनुष्ठानप्रसङ्गः, ‘सर्वादीनि सर्वनामानी'त्यत्र सर्वशब्दस्य सर्वनामसंज्ञा न स्यात्, ‘जन्माद्यस्य यत' इत्यत्र जन्मनो ब्रह्मलक्षणत्वं न स्यात् ; विशेषणार्थत्वेन तद्गुणसंविज्ञानबहुव्रीहिसंभवेऽप्युपलक्षणार्थत्वेनातहुणसं विज्ञानबहुव्रीहिस्वीकारप्रसङ्गात् । एवं ‘असिपाणयः प्रवेश्यन्तामि’त्यादिलौकिकप्रयोगेऽपि प्रतिबिम्बादिज्ञानानां जनकत्वे च विशेषणतया प्रतिबिम्बादीनामपि जनकत्वे बाधाभावात् नोपलक्षणत्वपक्षो युज्यते, उदाहृतस्थलेषु सर्वत्र बाधकमस्त्येवेति विशेषः । तथा हि-प्रथमे घटदेशकालौ गृहीत्वा तद्भिन्नदेशकालत्वं तदत्यन्ताभावादौ ग्राह्यम् ; घटस्यापि तत्संबन्धे तद्देशकालभिन्नदेशकालत्वमेव व्याहतं स्यात् । द्वितीये त्विष्टापत्तिः; क्वचित् घटज्ञानस्य घटेच्छाजनकत्ववत् घटं प्रत्यपि जनकत्वात् , ब्रह्मणो वेदान्तसाध्यत्वे तु नित्यत्वविरोधः । तृतीये प्रागभाववत् घटस्य स्वजनकत्वे प्रतियोगिप्रागभावयोः समानकालीनत्वापत्तिः स्वावधिकपूर्वत्वघटितजनकत्वस्य स्वस्मिन्व्याहतत्वं च । चतुर्थे पञ्चमे च प्रतियोगितदभावयोः सहावृत्त्या भ्रमप्रत्यवाययोरनुत्पत्तिप्रसङ्गः । षष्ठे कामनावत् कामनाविषयस्य यागजनकत्वे तस्य प्राक्सत्तया तत्कामनैव व्याहन्येत; सिद्धे इच्छाविरहात्। सप्तमे अतीतस्य जनकत्वे कार्याव्यवहितपूर्वकाले स्वस्वव्याप्यान्यतरसत्त्वापत्तिः। अष्टमे असतो जनकत्वे निःस्वरूपत्वव्याघातः । नवमे चिकीर्षितघटज्ञानवत् स्वस्य जनकत्वे पूर्ववद्व्याघातः । दशमे उदासीनस्य ब्रह्मणो न निवर्तकत्वम् : स्वरूपतः उपहितस्यैव वृत्तिविषयत्वेन तस्या विषयत्वात् । उपहितस्य च निवर्तकत्वमस्त्येव । एकादशे ब्रह्माज्ञानस्य परिणामिकारणत्वेऽपि न ब्रह्मणो जगत्कारणत्वम् ; कार्ये जडत्वोपलम्भात् । एवंविधबाधकबलेन तत्रोपलक्षणत्वस्वीकारात् न च प्रकृते बाधकमस्ति; अव्यवहितदेशकालादिवृत्तित्वस्य प्रतिभासिकसाधारणत्वात् । इदानीमत्र सर्प इत्यादिप्रतीत्यविशेषात् । न हि क्वचित् बाधकबलेन मुख्यपरित्यागः कृत इति सर्वत्र तथैव भविष्यति; उत्कर्षाद्यनुविधानाच्च । तथा हि स्वप्ने जागरे चोत्कृष्टकलधौतदर्शनात् उत्कृष्टं सुखम् उत्कृष्टसर्पादिदर्शनाच्चोत्कृष्टं भयादि दृश्यते; विषयस्याकारणत्वे तदुत्कर्षानुविधानं कार्ये न स्यात् । न ह्यकारणोत्कर्षः कार्यमनुविधत्ते इति न्यायात् । न च ज्ञानप्रकर्षादेव तत्प्रकर्षं ; ज्ञानेऽपि विषयगतप्रकर्ष विहायान्यस्य प्रकर्षस्याभावात् । अथ ज्ञानगता जातिरेव प्रकर्षः । न, चाक्षुषत्वादिना सङ्करप्रसङ्गात्, विषयप्रकर्षेणैवोपपत्तौ चाक्षुषत्वादिव्याप्यनानाजात्यङ्गीकारे गौरवान्मानाभावाच्च । किंच ज्ञानस्य भयादिजनकत्वे सर्पाद्यवच्छिन्नत्वमेव कारणतावच्छेदकमाथेयम् । ज्ञानत्वेन जनकत्वे अतिप्रसङ्गात् । तथाच मिथ्यात्वावच्छिन्नत्वाकारेण ज्ञानस्य मिथ्यात्वात् भ्रमस्थले ज्ञानमात्रस्य जनकत्वेऽपि मिथ्याभूतस्य जनकत्वमागतमेव । जनकतावच्छेदकरूपेण च मिथ्यात्वे रूपान्तरेण सत्त्वमपसत्त्वात् नातिरिच्यते; अनुपयोगात् । तदुक्तं खण्डनकृद्भिः -“अन्यदा सत्त्वं तु पाटच्चरलुण्ठितवेश्मनि यामिकजागरणवृत्तान्तमनुसरतीति । स्वरूपेणापि तु भ्रमज्ञानस्य मिथ्यात्वमस्त्येव; स्वरूपतो बाधाभावे विषयतोऽप्यबाधप्रसङ्गात् । न च गुणजन्यत्वमुपाधिः; तस्याप्यापाद्यत्वेन वह्न्यनुमाने वह्निसामग्र्या इव साधनव्यापकत्वेनानुपाधित्वात् , विषय इव मिथ्यात्वप्रयोजकदोषादिसमवहितसामग्र्या अज्ञानेऽपि अविशेषाच्च । तुच्छज्ञानतद्वैषम्यादौ च तुच्छत्वादर्शनमबाधकम् । अवच्छेद्यावच्छेदकयोः सर्वत्र सारूप्यनियमानभ्युपगमात्, प्रकृते चावच्छेदक इवावच्छेद्येऽपि मिथ्यात्वप्रयोजकरूपतुल्यत्वेन सारूप्योपपत्तेः । सर्वसाधारणं चैकं कारणत्वमभ्युपगम्यैतदवोचाम । वस्तुतस्तु दण्डतन्त्वादिसाधारणमेकं कारणत्वं नास्त्येव; यत्र तव सत्त्वमवच्छेदकं, तत्र न मम तुच्छविलक्षणत्वादिकम् , किं तु कार्यतावच्छेदकं घटत्वपटत्वादिकारणतावच्छेदकंच दण्डतन्त्वादि । तद्भेदाच्च कारणत्वं भिन्नम् । यथा गोगवयसादृश्यमन्यत् भ्रातृभगिन्यादिसादृश्यमन्यत् । तत्र नैकमवच्छेदकम् , किंतु गवयत्वभगिनीत्वादिकमेव तद्वदत्रापि दण्डत्वादिकमेव सत्त्वासत्त्वोदासीनमवच्छेदकं वाच्यम् । तथाच जनकत्वानुसारेण न सत्त्वासत्त्वासिद्धिः। तदुक्तं खण्डनकृद्भिः–“पूर्वसंबन्धनियमे हेतुत्वे तुल्य एव नौ। हेतुसत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ॥” इति । ‘अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः । नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः । इति च । न चैवम्-‘अन्तर्भावितसत्त्वं चेदधिष्ठानमसत्ततः ।। नान्तर्भावितसत्त्वं चेदधिष्ठानमसत्ततः ॥ इति तवापि समानमिति वाच्यम्; ममाधिष्ठाने स्वरूपत एव सत्ताङ्गीकारः, तव तु कारणे स्वरूपातिरिक्तसत्ताङ्गीकार इति विशेषात् । यत्तु–अर्थो न ज्ञानस्य। जनकतायामवच्छेदकोऽपिः मानाभावात् , न चातिप्रसङ्गः; विषयावच्छेदकमनपेक्ष्यैव सर्पज्ञानस्यासर्पज्ञानाद्व्यावृत्तिसिद्धेः । तथा हि-सर्पज्ञानस्यासर्पज्ञानाद्व्यावृत्तिर्यावर्तकाधीना । न च विषयस्तत्सम्बन्धो वा व्यावर्तक स्वरूपातिरिक्तद्विनिष्ठसंबन्धस्याभावात् ; असंबन्धस्य चाव्यावर्तकत्वात् । अथ संबन्धान्तरमन्तरेण विशिष्टव्यवहारजननयोग्यं ज्ञानस्वरूपमेव वा ज्ञानमात्रनिष्ठः कश्चिद्धर्मो वा संबन्धः, तर्हि विषयमनन्तर्भाव्यैव ज्ञानात्तद्गतधर्माद्वा विशेषसिद्धिरित्यायातम् । किंच सर्पज्ञानमसर्पज्ञानाद्धर्म्य॑न्तरसंबन्धमनपेक्ष्य विलक्षणम् ; तज्जनकविलक्षणजन्यत्वात् ,यवाङ्कुरात् कलमाङ्करंवत्, तज्जन्यविलक्षणजनकत्वाद्वा, यवबीजात्कलमबीजवत् । न च विलक्षणविषयसंबन्धेनैव हेत्वोरुपपत्तावप्रयोजकत्वम् ; तथात्वे हि यवबीजतदङ्कुरविलक्षणजन्यजनके कलमाङ्करतद्वीजेऽपि यवाङ्कुरतद्बीजाङ्कुराभ्यां कलमाङ्कुरतद्बीजत्वरूपस्वाभाविकवैलक्षण्यं विना कदाचिदुपलक्षणीभूतचैत्रादिसंबन्धित्वमात्रेण विलक्षणे स्याताम् । साक्षात्कारोऽपि परोक्षज्ञानादन्यसंबन्धितामात्रेण विलक्षणः स्यात् । एवं च यथा प्रतियोगिनमनन्तर्भाव्यैव घटस्याभावो भावान्तरात् , यथा च विषयमनन्तर्भाव्यैव शिलोद्धरणकृतिर्माषोद्धरणकृतितः, यथा चातीतादिज्ञानमसद्विषयकपरोक्षज्ञानव्यवहारौ च ज्ञानान्तरादितः, अन्यथा तत्कार्यसङ्करः स्यात् ; एवं सर्पज्ञानमपि रज्जौ सर्पज्ञानस्य भ्रमत्वेनाधिकजन्यत्वेऽपि सर्पज्ञानत्वेन तद्धेतुजन्यत्वात् स्वत एव वा असर्पज्ञानाद्विलक्षणमिति न कोऽपि दोषः । न चाभावादावपि प्रतियोग्यादेरवच्छेदकत्वं; ध्वंसादेः कृतेरतीतादिज्ञानस्य च सत्तासमये प्रतियोगिविषययोरसत्त्वात् इति । तन्न सर्पज्ञानत्वावच्छिन्नस्यासर्पज्ञानाद्व्यावृत्तौ प्रयोजकं न तत्तत्स्वरूपमेव सर्वज्ञानसाधारण्याभावात् , किंत्वनुगतो धर्मः कश्चित् । सोऽपि सर्पज्ञानमात्रे न जातिरूपः; प्रत्यक्षत्वानुमानत्वादिना सङ्करप्रसङ्गात्, किंतूपाधिरूपः, । स च स्वरूपसंबन्धेनाध्यासिकसंबन्धेन वा संबन्धिभूतविषयादन्यो न भवति; मानाभावात् । अत एव धर्म्यन्तरसंबन्धमनपेक्ष्य विलक्षणमित्युक्तानुमानं बाधितं द्रष्टव्यं व्यभिचारि च। तथा हि घटसंयोगः, पटसंयोगान्न जात्या भिद्यते, तदवृत्तिजात्यनधिकरणत्वात् , किंतु घटरूपोपाधिनैवेति धर्म्यन्तरसम्बन्धमपेक्ष्यैव विलक्षणे घटसंयोगत्वावच्छिन्ने साध्याभाववति उक्तहेतुसत्त्वाद्व्यभिचारः, अप्रयोजकं च । न च-- उपलक्षणीभूतचैत्रसंबन्धेनापि कलमाङ्कुरादेर्व्यावृत्ततापत्तिः; विपक्षबाधायामिष्टापत्तेः । न हि जातेर्व्यावर्तकत्वे उपाधिरव्यावर्तको भवति । एवं शिलोद्धरणमाषोद्धरणकृत्योः परस्परं जात्या व्यावृत्तावपि विषयरूपोपाधिनापि व्यावृत्तिरविरुद्धा । शिलोद्धरणे च जातिविशेषविशिष्टायाः कृतेर्जनकत्वेन तद्रहिताया माषोद्धरणकृतेस्तदनिष्पत्तिरविरुद्धा । व्यावृत्तेरन्यतोऽपि सिद्धिसंभवे कार्यकारणभावादिनिर्वाहाय जातिविशेषस्यापि कल्पनात् , अतीतासद्विषयकज्ञानव्यवहारादौ चातीतासतोरेव व्यावर्तकत्वम् । न हि व्यावृत्तिधीजनकत्वं तत्; येन सत्त्वाभावे प्राक्सत्त्वशरीरतया न स्यात्, किं तु व्यावृत्तिधीजनकधीविषयत्वमित्युक्तम् । तच्चातीतादौ सुलभमेव । अत एवाभावादिनिदर्शनमपि निरस्तम्; उक्तरूपव्यावर्तकत्वस्यात्यन्तासत्यपि सम्भवेन कदाचित् सति संभवस्य कैमुतिकन्यायसिद्धत्वात् । ननु–विषयस्य व्यावर्तकत्वेऽपि सर्वत्र विशेषणत्वासंभवात् उपलक्षणत्वमेव वाच्यम्; उपलक्षणेन चोपलक्ष्यगतस्वसंबन्धव्यतिरिक्तः कश्चिद्धर्म एवोपस्थाप्यते, काकेनेव गृहसंबन्धिना तद्गतसंस्थानविशेषः। तथाच स एव व्यावर्तक इति विषयसंबन्धमनपेक्ष्य स्वगतेनैव धर्मेण ज्ञानस्य व्यावृत्तिरिति चेन्न; विषयस्य विशेषणत्ववदुपलक्षणत्वस्याप्यनभ्युपगमात् । येन हि स्वोपरागाद्विशेष्ये व्यावृत्तिबुद्धिर्जन्यते, तद्विशेषणं व्यावृत्तिबुद्धिकाले विशेष्योपरञ्जकमित्यर्थः। यथा गोत्वादि । येन च स्वोपरागमुदासीनं कुर्वता विशेष्यगतव्यावर्तकधर्मोपस्थापनेन व्यावृत्तिबुद्धिर्जन्यते तदुपलक्षणम् , यथा काकादि । यत्तु–विशेष्ये नोपरञ्जकम् , न वा धर्मान्तरोपस्थापकम् , अथ च व्यावर्तकं तदुपाधिः यथा पङ्कजशब्दप्रयोगे पद्मत्वं, यथा वोद्भिदादिशब्दप्रयोगे यागत्वावान्तरजातिविशेषः । अत्र हि पद्मत्वयागत्वावान्तरधर्मो पङ्कजनिकर्तरि फलोद्भेदनकर्तरि च न धर्मान्तरमुपस्थापयतः; अप्रतीतेः; न वा स्वोपरक्तां बुद्धिं जनयतः; समुदाये शक्त्यन्तरानभ्युपगमात्, अथ च कुमुदज्योतिष्टोमादिभ्यो व्यावर्तकावित्युपाधी एव । इदं च प्राभाकराणां भाट्टानां च संमतमुदाहरणयुगलम् । तार्किकाणां त्वाकाशशब्दप्रयोगे शब्दाश्रयत्वमुदाहरणम् । अत एवाविद्यादिकं साक्षित्वादावुपाधिरिति सिद्धान्तो वेदान्तिनाम् । अतो यत्र विषयस्य विशेषणत्वं न संभवति, तत्कालासत्त्वात् , तत्रोपाधित्वाभ्युपगमान्नोपलक्षणत्वनिवन्धनदोषावकाशः, सन्देहे तु विशेषणत्वमेवाभ्यर्हितत्वादुपेयते । तस्माद्विषय एव सर्वत्र ज्ञाने व्यावर्तकः । एकविषयकस्मृत्यनुभवयोः परोक्षापरोक्षयोश्च विषयमनपेक्ष्य जात्या परस्परव्यावृत्तिदर्शनात् । सर्वत्र विषयनिरपेक्षा जातिरेव व्यावर्तकेति न युक्तम् ; भिन्नविषयके समानजातीये तसंभवात् । न च तत्रापि जातिरस्तिक्षीरा दिमाधुर्यवदिति वाच्यम् ; चाक्षुषत्वादिना सङ्करस्योक्तत्वात् । न च–तव मते तत्तद्वृत्तेस्तत्तदाकारत्वेन चैतन्यस्य तत्प्रतिबिम्बितत्वेन वा मम तु तत्तज्ज्ञानस्य तत्तदीयस्वभावत्वेन तत्तद्व्यवहारजननशक्तत्वेन वा स्वत एव वैलक्षण्यमिति वाच्यम्; विषयस्यैवाकारसमर्पकत्वेन स्वभावव्यवहारयोः परिचायकत्वेन च तन्नैरपेक्ष्येण व्यावर्तकताया वक्तुमशक्यत्वात् । अस्माभिश्च तुच्छे जनकत्वस्यानुक्तत्वात् । विशेषणत्वोपाधित्वयोः संभवे च नोपलक्षणत्वमित्युक्तम् । न च ‘कथमसतः सज्जायेतेति श्रुत्या ‘नासतोऽदृष्टत्वादिति सूत्रेण शशविषाणादिभ्यः सदुत्पत्त्यदर्शनादित्यादिभाष्येण च विरोधः; तेषां तुच्छे जनकत्वनिषेधपरत्वात् , अस्माभिश्च तुच्छे जनकत्वस्यानुक्तत्वात् । तस्मात् सद्विविक्तत्वं साधनमिति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ असतः साधकत्वाभावे बाधकम् ॥
ननु–मिथ्यात्वानुमानमप्रयोजकं, सत्यत्वेऽपि दृश्यत्वोपपत्तेरिति-चेन्न; दृग्दृश्यसंबन्धानुपपत्तेः । नहि ज्ञानं ज्ञेयासंबद्धमेव प्रकाशकम्; अतिप्रसङ्गात् । नापि संबद्धम् ; आत्मस्वरूपस्य तद्गुणस्य वा ज्ञानस्य ज्ञेयेन संयोगसमवाययोरभावात् , अन्यस्य चानाध्यासिकस्य संबन्धस्याभावात् । न च विषयविषयिभावः सः; तस्य विषयित्वविषयत्वरूपस्य एकैकमात्रनिष्ठत्वेन द्विनिष्ठसंबन्धात्मकत्वासंभवात् , दुर्निरूपत्वाच्च । तथा हि (१) विषयत्वं किं ज्ञानजन्यफलाधारत्वं, (२) किंवा ज्ञानजन्यहानादिबुद्धिगोचरत्वं, (३) उत ज्ञानकर्मत्वं, (४) ज्ञानाकारार्पकत्वं वा, (५) दृश्यमानत्वे सति तत्त्वं वा; (६) ज्ञानजन्यव्यवहारयोग्यत्वं वा, (७) सन्निकृष्टकरणेन यज्ज्ञानमुत्पाद्यते तत्त्वं वा, (८) यस्यां संविदि योऽर्थोऽवभासते स तस्या विषयः; तथाच संविदि भासमानत्वमिति वा, (९) संबन्धान्तरमन्तरा ज्ञानावच्छेदकत्वं वा । आद्ये फलं न तावत् ज्ञातता, अनङ्गीकारात्; अतीतादावभावाच्च । नापि हानादिः; गगनादौ तदभावात् , कलधौतमलादेरपि तज्ज्ञानविषयत्वप्रसङ्गाच्च । नाप्यभिज्ञाभिलपने; तयोर्ज्ञेयावृत्तित्वात् । न च-विषयविषयिभावेन ते तत्र स्त इति वाच्यम्। तस्यैव विचार्यमाणत्वात् । अत एव न द्वितीयोऽपि । न तृतीयः; ईश्वरज्ञानस्यातीतादिज्ञानस्य च कर्मकारकाजन्यत्वेन निर्विषयत्वप्रसङ्गात् । न चतुर्थः; ज्ञानतदाकारयोरभेदेन सर्वेषां ज्ञानहेतूनां विषयत्वापातात्, अनुमित्यादिविषये तदभावाच्च । ने पञ्चमः; दृश्यमानत्वस्य विषयत्वघटितत्वेनात्माश्रयात् । न षष्ठः; योग्यतायां योग्यतान्तराभावात् । न च योग्यता योग्यतां विनैव योग्या, यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्यमिति–वाच्यम् ; अवच्छेदकरूपापरिचये योग्यताया एव ग्रहीतुमशक्यत्वात् । न च ज्ञानविषयत्वं तदवच्छेदकम् ; आत्माश्रयात् । न सप्तम; नित्येश्वरज्ञानस्य निर्विषयत्वप्रसङ्गात् । नाष्टमः; संविदीति न तावदधिकरणसप्तमी; ज्ञानस्य ज्ञेयानधिकरणत्वात् । नापि विषयसप्तमी; तस्यैव निरूप्यमाणत्वात् , संविदो विषयत्वं संवेद्यस्य च विषयित्वमिति वैपरीत्यापाताच्च । नापि सति सप्तमी; भासमानत्वस्य विषयताघटितत्वेनात्माश्रयात् । नापि नवमः; मत्समवेतं रूपज्ञानमित्यत्र रूपज्ञानसमवायस्य संबन्धान्तरं विनैव रूपज्ञानावच्छेदकस्य ‘इदं रूपमि’ति ज्ञानेऽपि विषयत्वापातात् । ननुज्ञानविषय इत्यभियुक्तप्रयोग एव ज्ञानविषययोः संबन्धः; यथा अभियुक्तस्य मन्त्र इति प्रयोगविषयत्वमेव मन्त्रलक्षणम् , न चान्योन्याश्रयः; पूर्वपूर्वप्रयोगमपेक्ष्योत्तरोत्तरप्रयोगादिति चेन्न; एतावता हि ज्ञेयत्वमात्रं सामान्यतः स्यात्, न त्वेतदज्ञानविषयत्वम् । न चास्मिन् सादौ पूर्वप्रयोगमपेक्ष्य उत्तरोत्तरप्रयोगो वक्तुं शक्यते; तस्यानादिमात्रविश्रान्तत्वात् । किं च प्रयोगोऽपि स्वविषये संबन्ध इत्यात्माश्रयोऽपि । ननु यद्ज्ञानं यदभिलपनरूपव्यवहारकारणं स तस्य विषयः; करणपाटवाद्यभावेन व्यवहारानुदयेऽपि सहकारिविरहप्रयुक्तकार्याभाववत्त्वरूपं कारणत्वमस्त्येव, न च निर्विकल्पकविषये अव्याप्तिः तस्याङ्गीकारात्, न च यत्तद्भ्यामननुगमो दोषः; कस्य को विषय इति अननुगतस्यैव प्रश्नविषयत्वेन तस्यादोषत्वात् , न घटज्ञानानन्तरं प्रमादाय यद्यत्र पट इति व्यवहारस्तत्र घटज्ञानस्य पटाभिलपनरूपव्यवहारजनकत्वेन पटविषयत्वापत्तिः; समानविषयाभिलापं प्रत्येव ज्ञानस्य जनकतया भिन्नविषयतया तत्राजनकत्वादिति–चेन्नः अभिलपनरूपव्यवहारजननयोग्यत्वं न प्रातिस्विकरूपेण निर्णेयम् । अवच्छेदकत्वस्य फलनिर्णेयत्वात् ; प्रतिस्वं च फलादर्शनात्, अजनितफले प्रातिस्विकयोग्यतायां मानाभावात् , किंतु तत्र तत्रानुगततत्तवृत्तिविषयत्वेन । तथाच आत्माश्रयः । अतएवज्ञानकर्मत्वं विषयत्वम् , कर्मत्वं च न कारकविशेषः; येनातीतादौ तदभावो भवेत् , किंतु क्रियाधीनव्यवहारयोग्यत्वरूपातिशयवत्त्वम् ; अन्यथा घटं करोतीत्यादावसिद्धं घटादिजनकं सिद्धं च न कृतिकर्मेति द्वितीयाविभक्तिरनर्थिका स्यादिति निरस्तम्; व्यवहारयोग्यत्वं न व्यवहाररूपफलोपहितत्वम् ; कुत्रचित् प्रतिरुद्धे व्यवहारे अव्याप्तेः । नापि तत्स्वरूपयोग्यत्वम् ; विषयत्वादन्यस्य तस्यासंभवादिति पूर्वोक्तदोषात् । न च–अवच्छेदकात् भिन्नं सहकारि विरहप्रयुक्तकार्याभाववत्वं तदिति वाच्यम्। अनुगतावच्छेदकधर्मं विना तस्यापि ग्रहीतुमशक्यत्वात् । घटं करोतीत्यत्र सिद्धस्यैव कपालादेः कृतिकर्मता; व्यापारकार्यतया सिद्धस्यैव कृतिकर्मताङ्गीकारात् । अतएव निष्पादनावाचिधातुसभभिव्याहृतकर्मपदे शक्यावयवे निरूढलक्षणामाहुरसत्कार्यवादिनः । सत्कार्यवादिनां तु पूर्वसतोऽप्यभिव्यञ्जनीयतया न कारकत्वकृतिकर्मत्वयोरनुपपत्तिः । एतेन-‘यस्यां संविदी'त्यादिपूर्वोक्तेऽपि न दोषः संविदीति सति सप्तमी, भासमानत्वं च व्यवहारयोग्यत्वम् , तच्च सति कारणान्तरे व्यवहारावश्यम्भाव इत्येतदपि–निरस्तम् । ननु–यः संबन्धान्तरमनपेक्ष्य यज्ज्ञानावच्छेदको यज्ज्ञानानवच्छिन्नस्वभावश्च स तस्य विषयः; यद्यप्यात्मा स्वविषयज्ञानसमवायवान्; तथापि न तस्य ज्ञानावच्छेदे समवायापेक्षा, ज्ञानासमवायिनोऽपि घटादेस्तदवच्छेदकत्वदर्शनात् , यद्यपि च रूपज्ञानं मत्समवेतं ध्वस्तमिष्टमित्यादौ रूपज्ञानाविषया अप्यात्मसमवायेच्छाध्वंसादयः संबन्धान्तरमनपेक्ष्य ज्ञानावच्छेदकाः; तथापि समवेतेष्यमाणप्रतियोग्यात्मकरूपज्ञानावच्छिन्नस्वभावा एव; संबन्धेच्छादीनां संबन्धीष्यमाणाद्यवच्छिन्नस्वभावत्वादिति नातिव्याप्तिः । ज्ञानविषयस्तु न ज्ञानावच्छिन्नस्वभावः; ज्ञानस्य घटाद्यवच्छिन्नस्वभावत्ववत् घटादेर्ज्ञानावच्छिन्नस्वभावत्वादर्शनात् । यद्यपि स्वग्राहकज्ञानविषयीभूतं ज्ञानविषयकानुमित्यनुव्यवसायादिकं ज्ञानं ज्ञानावच्छिन्नस्वभावम् ; तथापि स्वयं यत् ज्ञानं प्रति विषयस्तदवच्छिन्नस्वभावं नेति नाव्याप्तिरिति चेन्न; मत्समवेतं रूपज्ञानमित्याकारकज्ञानस्यात्मसमवायविषयकत्वाभावप्रसङ्गात् आत्मसमवायस्य संबन्धत्वेन संबन्धिभूतस्वज्ञानावच्छिन्नत्वात् , घटस्य ज्ञानमिति प्रतीत्या घटावच्छिन्नस्वभावत्वं यथा ज्ञानस्य, तथा ज्ञातो घट इति प्रतीत्या घटस्यापि ज्ञानावच्छिन्नस्वभावत्वेनासंभवाच्च । अथ यज्ज्ञानं यदीयस्वभावं, स तस्य विषयः, मत्समवेतं रूपज्ञानमित्यत्र तु समवाय एव रूपज्ञानावच्छिन्नस्वभावो, न तु रूपज्ञानं तदवच्छिन्नस्वभावम् ; इदंच ज्ञानस्यैव विषयत्वमुक्तम् ; नत्विच्छादिसाधारणमिति नाव्याप्तिरिति चेन्न; यदीयस्वाभावमिति तद्धितस्य यद्विषयकत्वार्थकत्वे आत्माश्रयात्, अर्थान्तरस्य निरूपयितुमशक्यत्वात् , रूपज्ञानाभावाभावस्य रूपज्ञानरूपत्वेन रूपज्ञानस्याप्यभावीयतया तद्विषयत्वापत्तेः । ननु–ज्ञानजनककरणसन्निकर्षाश्रयत्वं तद्विषयत्वम् , न च रूपज्ञानकरणमनस्सन्निकर्षाश्रयस्यात्मनस्तद्विषयत्वापत्तिः; करणपदेनासाधारणज्ञानकरणस्यैव विवक्षितत्वात् , न च साधारणज्ञानकरणचक्षुस्सन्निकर्षाश्रयस्य मनसोऽपि रूपज्ञानविषयत्वापत्तिः; सन्निकर्षपदेनाप्यसाधारणज्ञानजनकसन्निकर्षस्यैवोक्तत्वादिति चेन्न; चक्षुर्मनस्संयोगस्यापि चाक्षुषज्ञानासाधारणकारणत्वेन मनसोऽपि चाक्षुषज्ञानविषयत्वापत्तेः, परोक्षविषये अव्याप्तेश्च । न च-तत्र लिङ्गज्ञानं करणम्, तत्र च लिङ्गिनः तद्व्याप्तत्वं संबन्धोऽस्तीति वाच्यम् ; लिङ्गस्यापि स्वज्ञानसंबन्धित्वेनानुमितिविषयत्वापत्तेः । न चानुमितौ तद्व्याप्ततारूपसंबन्ध एव विषयतानियामकः; व्यापकतावच्छेदकव्यापकसंबन्धादीनामविषयत्वापत्तेः । न च-ज्ञानकरणसन्निकर्षसमानाधिकरणो ज्ञानावच्छेदकत्वसाक्षाद्व्याप्यधर्मो विषयत्वम्, इदंच नित्यपरोक्षसाधारणमिति-वाच्यम् । वस्तुत्वादिकमेव विषयत्वमित्यापत्तेः, ज्ञानावच्छेदकत्वस्य रूपज्ञानाविषये समवायेऽपि सत्त्वेनातिव्याप्तेश्च । न च–ज्ञानज्ञेययोः स्वरूपसंबन्ध एव विषयत्वमिति वाच्यम् ; असिद्धेः । तथा हि–स्वरूपसंबन्ध इत्यस्य स्वरूपं संबन्ध इत्यर्थत्वे संयोगादावतिव्याप्तिः, न च तदुभयान्यत्वं विशेषणम् ; हिमवद्विन्ध्ययोरपि स्वरूपसंबन्धापत्तेः, संबन्धान्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यत्वं स्वरूपसंबन्ध इति चेन्न; आत्मानं जानामीत्यत्राव्याप्तेः, तत्र संबन्धान्तरस्य समवायस्यैव सत्त्वात् अतीन्द्रियाभावादावव्याप्तेश्च, न हि तस्य विशिष्टप्रतीतिजननयोग्यत्वे मानमस्ति । अन्यथा तेन विशिष्टप्रत्ययजननापत्तेः । किंच विशिष्टप्रतीतिजननयोग्यत्वं धर्मो वा संबन्धः, तादृशस्वरूपद्वयमेव वा । आद्ये स्वरूपस्य संबन्धत्वव्याघातः, प्रतीतिघटितस्याप्यचाक्षुषादिज्ञानागोचरत्वप्रसङ्गश्च । न द्वितीयः; अननुगमात् । किंचैवमभावभ्रमानुपपत्तिः। तत्रापि विशिष्टप्रतीतिसंभवे स्वरूपसंबन्धस्य सत्त्वात् । नच प्रमात्वघटितं तल्लक्षणं; वास्तवसंबन्धसत्त्वे प्रमात्वस्याप्यापाद्यत्वात् । अन्यथा तत्र तस्याप्रमात्वे संबन्धाभावः तस्मिंश्च तस्य प्रमात्वमित्यन्योन्याश्रयात् । ननु–संबन्धान्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यतावच्छेदकावच्छिन्नस्वरूपस्य संबन्धत्वं संयोगत्वावच्छिन्नस्य दण्डीत्यादौ संबन्धत्ववत्, विशिष्टबुद्धिश्चावच्छेदिकाविषयिण्येवावच्छेद्यविषया, अतो न स्वरूपसंबन्धगोचरविशिष्टबुद्धेश्चाक्षुषत्वविरोधः; नच–तर्ह्यभावप्रमभ्रमयोः स्वरूपद्वयमात्रविषयत्वाविशेषात् प्रमाभ्रमव्यवस्थानुपपत्तिरिति वाच्यम् : घटाभाववति घटाभावज्ञानत्वेन तद्भिन्नज्ञानत्वेन च व्यवस्थोपपत्तेः । ननु–अतिरिक्ताविषयत्वे तस्यैवानुपपत्तिः, नहि भवद्रीत्या तस्योभयात्मकत्वेन तदुभयसत्त्वेन व्यधिकरणप्रकारत्व रूपभ्रमत्वस्यैवाभावे भ्रमतदन्यत्वाभ्यां व्यवस्था संभवतीति--चेन्न; घटाभावाभावस्य घटत्वेन तद्वति घटाभावज्ञानस्य व्यधिकरणप्रकारकत्वसंभवात् । किंच भ्रमस्य वस्तुगत्या यत् घटवत्स विषयः, न तु प्रमाया इत्यतिरिक्तविषयत्वमस्त्येव; नचातीन्द्रियाभावे अव्याप्तिः। अत्यन्ताभावे प्रतियोगिदेशान्यदेशत्वं, प्रागभावादौ प्रतियोगिदेशत्वे सति प्रतियोगिकालान्यकालत्वम्, अन्योन्याभावे प्रतियोगितावच्छेदकदेशान्यदेशत्वं, विशिष्टप्रत्ययजननयोग्यतावच्छेदकम् । तदवच्छिन्नत्वं च विशिष्टप्रतीत्यजनकेऽप्यतीन्द्रियाभावे सुलभम् , न ह्यरण्यस्थो दण्डो न घटजननयोग्यतावच्छेदकावच्छिन्न इति चेत्, मैवम् ; नित्यस्यातीन्द्रियस्याकाशात्यन्ताभावादेर्विशिष्टप्रतीतिजननयोग्यतावच्छेदकावच्छिन्नत्वे अवश्यं विशिष्टप्रत्ययजनकत्वप्रसङ्गात् । नित्यस्य स्वरूपयोग्यस्य सहकारिसमवधाननियमात् । किंच विशिष्टस्य प्रत्यय इत्यत्र स्वरूपसंबन्धस्य षष्ठ्यर्थत्वे आत्माश्रयः, संबन्धमात्रस्य तदर्थत्वे आत्मत्वादिविशिष्टात्मसंबन्धिसमूहालम्बनविषये घटपटादावतिव्याप्तिः; तयोरपि विशिष्टसंबन्ध्यविशिष्टविषयज्ञानजनकत्वात् । ज्ञानस्याभावः ज्ञातोऽभाव इति प्रतीत्योर्वैलक्षण्यं न स्यात्; ज्ञानाभावयोरुभयोरेवोभयत्र स्वरूपसंबन्धत्वे विषयकृतविशेषाभावात् । अतएवविशिष्टप्रतीतिजननयोग्यत्वं ज्ञानज्ञेयादिस्थले अतिरिक्तमेव संबन्ध इति–निरस्तम्; अतीन्द्रिये नित्याभावेऽव्याप्तेः । न हि तत्र विशिष्टप्रतीतिजननयोग्यता; फलोपधानापत्तेः, प्रतीतिघटितस्य चाक्षुषादिप्रतीतावविषयत्वप्रसङ्गाच्च । तस्मात्सत्यत्वे संबन्धानुपपत्तेराध्यासिक एव दृग्दृश्ययोः संबन्ध इति ॥
॥ इत्यद्वैतसिद्धौ प्रपञ्चसत्यत्वे दृग्दृश्यसंबन्धभङ्गः ॥
स्यादेतत् सर्वस्यापि दृश्यस्य ब्रह्मात्मकदृगध्यस्तत्वेऽपि कस्यचित् कदाचित् किंचित् प्रतिप्रकाशाय त्वयाऽपि तत्तत्सन्निकृष्टेन्द्रियजन्यतत्तदाकारवृत्तिद्वारक एवानावृतदृक्संबन्धः स्वीकृतः; तथाच सत्यत्वेऽपि तद्वारक एव संबन्धोऽस्तु, किमाध्यासिकसंबन्धदुर्व्यसनेन, न हि भवतां विज्ञानवादिनामिव तत्तज्ज्ञाने तत्तदर्थाध्यासस्वीकारः, शुद्धदृशः स्वतो भेदाभावात् उपाधिविशिष्टाया भेदेऽपि घटादिवत्तस्या अपि मिथ्यात्वेनाधिष्ठानत्वायोगादिति चेन्न; प्रकाशस्य साक्षात् स्वसंसृष्टप्रकाशकत्वनियमेन चैतन्यस्य परम्परासंबन्धेन विषयप्रकाशकत्वायोगात् । नहि प्रदीपः परम्परासंबद्धं प्रकाशयति; अतो विषयाधिष्ठानचैतन्यमनावृतमेव प्रकाशकम् , आवरणभङ्गश्च वृत्त्या; अतो वृत्तेः पूर्वमाध्यासिकसंबन्धे विद्यमानेऽपि दृश्याऽप्रतीतिरुपपन्ना ।२ अत एव – वृत्तिप्रति बिम्बितचैतन्यस्य घटप्रकाशकत्वे आध्यासिकसंबन्धस्यातन्त्रतापातः, घटाभिव्यक्तचैतन्यस्य घटप्रकाशकत्वे आवश्यकेन वृत्तिप्रतिबिम्बितचैतन्येनैव घटप्रकाशकत्वोपपत्तौ तदधिष्ठानचिदभिव्यक्तिकल्पनायोग इति–निरस्तम्: परोक्षविलक्षणस्फुटतरव्यवहारार्थ विषयाधिष्ठानचैतन्याभिव्यक्तिकल्पनाया युक्तत्वत् । न च–शुद्धचैतन्यस्य चरमसाक्षात्कारात्पूर्वं नाभिव्यक्तिः, अभिव्यक्तस्य च घटाद्यवच्छिन्नचैतन्यस्य न तदधिष्ठानत्वम्, आत्माश्रयादिति वाच्यम्; चरमसाक्षात्कारात् पूर्वमपि शुद्धचैतन्यस्याविद्यावशादधिष्ठानभूतस्य मूलाज्ञाननिवृत्तिलक्षणाभिव्यक्त्यभावेऽपि तदवस्थाविशेषादिनिवृत्तिलक्षणाभिव्यक्त्या विषयप्रकाशकत्वोपपत्तेः । नच-घटप्रकाशिकायाः दृशो मिथ्यात्वेनाधिष्ठानत्वं सत्यत्वे दोषाजन्यत्वेन प्रमात्वात् सत्यं स्वविषयं प्रति नाधिष्ठानत्वमित्युभयतःपाशा रजुरिति-वाच्यम्; यतो दोषजन्यत्वं न प्रमात्वप्रयोजकम्; चैतन्यस्य सर्वत्र दोषाजन्यत्वात् , किंतु दोषजन्यवृत्त्यवच्छिन्नत्वम् ; प्रकृते च तदभावात् न विषयस्य सत्यत्वम् । अतो मिथ्याभूतविषयं प्रत्यधिष्ठानत्वं सत्याया दृशो युक्तम् । ननु तात्त्विकसंबन्धासंभवे आध्यासिकसंबन्धकल्पनम् ? स एव तु कुतः; क्लृप्तसंयोगबाधे गुणगुणिनोः समवायवत्तदुभयबाधे तृतीयस्य संभवात्, नच तत्र मानाभावः; समवायवदनुमाध्यक्षयोः सत्त्वात् । तथा हि परस्परासंयुक्तासमवेतविशेषणविशेष्यकविशिष्टधीर्विशेषणविशेष्यसंबन्धविशिष्टविषया, विशिष्टधीत्वात्, दण्डीति विशिष्टधीवत् ; उक्ता जन्यप्रमा, विशेषणविशेष्यसंबन्धनिमित्तका, अबाधितजन्यविशिष्टधीत्वात् , संमतवत्; विमता धीः, अबाधितविशेषणविशेष्यसंबन्धविषया अबाधितविशिष्टधीत्वाद्दण्डीति विशिष्टधीवत्। गोमांश्चैत्र इत्यादेरपि पक्षकुक्षिनिक्षेप एवेति न तत्र व्यभिचारशङ्का । तथा च संयोगसमवायातिरिक्तसंबन्धसिद्धिरिति चेन्न; प्रथमे द्वितीये चार्थान्तरम् ; आध्यासिकसम्बन्धस्यैव विषयत्वेन निमित्तत्वेन चोपपत्तेः । द्वितीये परोक्षधीषु व्यभिचारश्च । तृतीये ब्रह्मज्ञानपर्यन्ताबाधितत्वेन सिद्धसाधनमेव। सर्वथा अबाधितधीविषयत्वे साध्ये साध्यवैकल्यम् । न च–तात्त्विकसंबन्धबाधे आध्यासिकसंबन्धसिद्धिः, तथाच संयोगसमवायातिरिक्ततात्त्विकसंबन्धबाधपर्यन्तं नाध्यासिकसंबन्धसंभावना, तथाच कथमर्थान्तरसिद्धसाधनसाध्यवैकल्यानीति वाच्यम् ; तात्त्विकसंबन्धस्य व्यापकानुपलब्ध्याबाधात् । तथा हि तात्त्विकसंबन्धस्य व्यापको देशकालविप्रकर्षाभावः । स चातीतादिविषयकज्ञानादीनां नास्त्येवेति कथं तात्त्विकस्तेषां संबन्धः । न च-समवायवत् संबन्ध्यभावविप्रकर्षाद्यविरुद्धत्वेनैव तत्सद्धिरिति-वाच्यम् ; समवायस्यापि देशकालविप्रकृष्टयोः संबन्धव्यवहाराप्रयोजकत्वात् । नहि संबन्ध्यभावेऽपि सन् समवायोऽद्य नष्टं घटं श्वस्तनेन रूपेण विशिनष्टि। न चाध्यासिकत्वे संबन्धस्य साध्ये धर्मिग्राहकमानबाधः; विशिष्टबुद्धित्वेन प्रथमतात्त्विकातात्त्विकसाधारणसंवन्धत्वस्यैव सिद्धेः । किंच संबन्धग्राहक एव तात्त्विकसंबन्धव्यापकानुपलब्धिरूपबाधसहकृताध्यासिकसंबन्धे पर्यवस्यति । अतो न धर्मिग्राहकबाधशङ्कापि । न चैवं– युतसिद्धयोरेव संयोगरूपसंबन्धदर्शनादयुतसिद्धिरपि संयोगस्य बाधिका स्यादिति वाच्यम्; अयुतसिद्धयोरपि क्वचित्संबन्धादर्शनेन युतसिद्धत्वस्य संबन्धाप्रयोजकत्वात् , यस्मिन् सत्यवश्यं संबन्धः स एव संबन्धस्य प्रयोजक इति समव्याप्तत्वाभावेन युतसिद्ध्यनुपलब्धेरबाधकत्वात् , यत्र संबन्धस्तत्रावश्यं युतसिद्धिरिति विषमव्याप्तिकल्पनेऽपि मानाभावात् , अनुकूलतर्कादर्शनात्, देशकालविप्रकर्षाभाववतां तु सर्वेषां संबन्धदर्शनेन विप्रकर्षे तदर्शनेन च समव्याप्ततया प्रयोजकस्य देशकालविप्रकर्षाभावस्यानुपलब्धेः संबन्धबाधकत्वस्यावश्यमङ्गीकरणीयत्वात् । नहि प्रयोजकाभावे प्रयोज्यसंभवः । नन्वेवं–ध्वंसादेरतीतादिना, मिथ्यात्वलक्षणान्तर्गतस्यात्यन्ताभावस्य प्रतियोगिना, शक्तेः शक्येन अज्ञानस्याज्ञेयेन, इच्छाया इष्यमाणेन, व्यवहारस्य व्यवहर्तव्येन, वाक्यस्यार्थेन, वृत्तिरूपज्ञानस्य ज्ञेयेन, संबन्धो नेति त्वद्वाक्योक्तसंबन्धाभावस्य ज्ञानेनासंबन्धात् स्वन्यायस्वक्रियास्ववचनविरोधाः स्युः; नहि ज्ञाने ज्ञेयमिव प्रतियोग्यादिकमभावादावध्यस्तमिति–चेन्न; यद्यप्युक्तन्यायसाम्येन ध्वंसादीनां स्वप्रतियोग्यादिभिस्तात्त्विकः संबन्धो नास्त्येव, अध्यासोऽपि न ज्ञानज्ञेयन्यायेन, उभयोरपि मिथ्यात्वात्; तथापि प्रतीयमानं प्रतियोग्यनुयोगिभावादिकं सर्वथा न निराकुर्मः, किंतु तात्त्विकाध्यासाभ्यां भिन्नमेव ज्ञेयकुक्षिनिक्षिप्तत्वात् मिथ्याभूतमङ्गीकुर्मः । सच संयोगादिवदतिरिक्तो वा स्वरूपं वा पराङ्गीकृतपदार्थान्तर्गतो वा तदतिरिक्तो वेत्यस्यां काकदन्तपरीक्षायां न नो निर्बन्धः । न च मिथ्यात्वसिद्धेः प्राक् तदसिद्ध्या अन्योन्याश्रयः; दृग्दृश्यसंबन्धानुपपत्त्या ज्ञेयमात्रस्याध्यासिकत्वे सिद्धे तन्मध्यपतितस्य प्रतियोग्यभावादिसंबन्धस्यापि मिथ्यात्वं, न तु प्रतियोग्यभावादिसंबन्धमिथ्यात्वसिद्ध्यनन्तरं दृश्यमिथ्यात्वसिद्धिरिति व्यवहारोपयुक्तसंबन्धसामान्यस्याप्रतिक्षेपात् न स्ववचनादिविरोधः। तदुक्तं खण्डनकृद्भिः ‘बाधेऽदृढेऽन्यसाम्यात् किं ? दृढे तदपि बाध्यताम् । क्व ममत्वं मुमुक्षूणामनिर्वचनवादिनाम् ॥ इति । न चादृढत्वं बाधस्य; व्यापकानुपलब्धिरूपतर्कस्योक्तत्वात् । स्वक्रियादिविरोधरूपप्रतिकूलतर्कस्य परिहृतत्वाच्च । अतएव न जातिवादिसाम्यम्; तेन हि नियमसापेक्षानित्यत्वसाधककृतकत्वादौ नियमानपेक्षणदर्शनमात्रेण रूपवत्वादिकमापाद्यते, न त्वस्माभिस्तथानियमनिरपेक्षेण साहचर्यमात्रेण किंचिदापाद्यते । न चैवं-ज्ञानज्ञेययोरपि प्रतियोग्यभावादिसमकक्ष्य एव संबन्धोऽस्त्विति-वाच्यम्; परस्पराध्यासात्मकसंबन्धासंभवेनैव संबन्धान्तरकल्पनात्, तत्सम्भवे तस्यैव संबन्धत्वात् । न च–अज्ञानविषयस्य ब्रह्मणो विषयिण्यज्ञानेऽनध्यासेन विषयस्य विषयिण्यध्यासनियमो न सिद्ध इति वाच्यम् ; एवं नियमानभ्युपगमात्, किं तु ज्ञानाज्ञानयोरध्यास एव विषयेण संबन्धः । स च ज्ञाने ज्ञेयस्याज्ञेये चाज्ञानस्याध्यासात् उपपद्यते । अत एवाध्यासिकसंबन्धव्यतिरेकप्रदर्शने अज्ञानस्याज्ञेयेनेत्यनुदाहरणम् । ननु–श्रवणादीनां चरमसाक्षात्कारान्तानां स्वविषयेण ब्रह्मणा संबन्धानुपपत्तिः; नहि श्रवणादौ साक्षात्कारे वा ब्रह्माऽध्यस्तमिति–चेन्न; साक्षात्कारो हि वृत्तिर्वा, तदभिव्यक्तचैतन्यं वा । आद्ये तस्याः ब्रह्मण्यध्यस्तत्वेनाज्ञानाज्ञेययोरिव संबन्धोपपत्तेः । अतएव श्रवणादिनापि मानसक्रियारूपेण न संबन्धानुपपत्तिः, द्वितीये तु अभेदेन संबन्धानुपयोगात् तत्संबन्धानुपपत्तिर्न दोषाय । अतएव चरमसाक्षात्कारस्य ब्रह्मण्यध्यस्तत्वात् यदि तद्विषयत्वं, तदा घटसाक्षात्कारस्यापि ब्रह्मण्यध्यस्तत्वात् तद्विषयत्वापत्तिरिति-निरस्तम् ; घटसाक्षात्कारस्य घटाभिव्यक्तचैतन्यरूपत्वे ब्रह्मण्यनध्यासात् , वृत्तिरूपत्वे तस्याः ब्रह्मण्यध्यासेऽपि नाधिष्ठानभूतब्रह्मणो विषयत्वम् ; ब्रह्मविषयताप्रयोजकस्याध्यासविशेषस्य तत्राभावात् , तस्य च फलबलकल्प्यत्वात् , न हि चरमवृत्तौ ब्रह्माकारतावदत्राऽपि साऽनुभूयते, इच्छेष्यमाणयोस्तु ज्ञानद्वारक एव संबन्ध इति न पृथक्संबन्धापेक्षा । न च ज्ञाने सन्निकर्षाधीनस्येव स्मृतावनुभवाधीनस्येवेच्छायां ज्ञानाधीनस्य विषयसंबन्धस्यानुभवात् सन्निकर्षादिभ्यो भिन्न इव ज्ञानात् भिन्न एव संबन्धो वक्तव्य इति वाच्यम्; संबन्धानुभवस्य ज्ञानद्वारकसंबन्धेनाप्युपपत्तेरतिरिक्तसंबन्धकल्पने मानाभावात् , ज्ञानाधीनसंबन्धान्तरस्याननुभवात् । ज्ञाने त्विन्द्रियसन्निकर्षादिना न संबन्धानुभवोपपत्तिः, इन्द्रियसन्निकर्षादीनामतीन्द्रियत्वेन तेषामनुमित्यादिनोपस्थितिं विनैव घटज्ञानमित्यादि संबन्धानुभवात् । स्मृतौ तु अनुभवाधीनसंबन्धस्य शङ्कैव नास्ति; अनुभवस्य तदानीमसत्त्वात् , उभयोरपि ज्ञानत्वेन तुल्यवदेव संबन्धसंभवाच्च । न च-समूहालम्बनजन्यैकविषयेच्छायामुभयविषयत्वापत्तिः जनकज्ञानस्योभयविषयत्वादिति वाच्यम्; अतिरिक्तसंबन्धपक्षेऽपि तुल्यत्वात् । अथैकविषयावच्छेदेनैव ज्ञानस्य जनकत्वात् नोभयविषयत्वं, समं ममाऽपि; जनकज्ञाने जनकतावच्छेदकविषयत्वस्यैव संबन्धत्वात् । न च नित्येश्वरेच्छाया विषयत्वसंबन्धानुपपत्तिः तस्याः अस्माभिरनङ्गीकारात्, तार्किकाणामपि तत्साधकमानबलेन विलक्षणसंबन्धकल्पनेऽपि जन्यज्ञानजन्येच्छयोरुक्तप्रकारेणैव विषयताभ्युपगमात् , न च-पुत्रादिधीजन्यसुखादेः पुत्रादिविषयत्वापत्तिः, इच्छान्यायादिति वाच्यम्; वैषम्यात् । ज्ञानस्य समानत्वेऽपि इच्छादावेव सविषयत्वप्रतीतिः, न तु सुखादौ । वस्तुस्वाभाव्यात् त्वयाप्यस्यैवार्थस्य वक्तव्यत्वात् । अन्यथा स्फटिके जपाकुसुमसन्निधानाल्लौहित्यवल्लोष्टेऽप्यापद्येत । अथ धर्मे तात्पर्यस्यानध्यासात्तापर्यसंबन्धो न स्यात्, न; तात्पर्यं हि तत्प्रतीत्युद्देश्यकत्वम्, प्रतीतेश्च ज्ञेयान्तरेणेव धर्मेणाऽपि संबन्धोऽध्यस्य एव, प्रतीतिद्वारा च धर्मतात्पर्ययोः संबन्ध इत्यनुपपत्त्यभावात् । न च-ज्ञानस्य प्रकाशत्वेन प्रदीपसाम्येऽपि आन्तरत्वेन तद्वैलक्षण्यमङ्गीकर्तव्यम् । अत इच्छादिवद्विप्रकृष्टेनापि संबन्धः स्यात्, अन्यथा प्रदीपवदेवाध्यासिकसंबन्धोऽपि न स्यात्, परोक्षवृत्तौ विप्रकृष्टसंबन्धदर्शनाच्चेति वाच्यम् ; देशकालविप्रकर्षाभावस्य संबन्धसामान्यप्रयोजकत्वे संभवत्यान्तरप्रतियोगिकसंबन्धभिन्नसंबन्ध एवास्य प्रयोजकत्वमिति कल्पनाबीजाभावात् । इच्छायास्तु नेष्यमाणेन साक्षात्संबन्धः, किं तु ज्ञानद्वारकः परंपरासंबन्ध एवेत्युक्तम् । परोक्षस्थले तु यद्यप्यधिष्ठानचैतन्येन साक्षादेव संबन्धः; तथापि विषयाकारवृत्त्या साक्षात्संबन्धाभावात् वृत्यवच्छिन्नचैतन्येन विषयस्य परंपरासंबन्ध एव । ननु तवापि मते ज्ञेयस्य न स्वज्ञानेऽध्यस्तत्वनियमः; अनध्यस्तस्य तुच्छस्य पञ्चमप्रकारत्वपक्षे अविद्यानिवृत्तेः भावाद्वैतपक्षे अभावस्य दृग्रूपत्वेऽपि स्वज्ञानेऽनध्यासात्, अपरोक्षैकरसे ब्रह्मण्यध्यस्तस्य व्यावहारिकस्यातीतादेर्नित्यातीन्द्रियस्य च परोक्षानुभवरूपे स्वज्ञानेऽनध्यासात्, स्मर्यमाणस्य च स्मृतिरूपे स्वज्ञानेऽनध्यासात्, प्रतिभासिकस्य च प्रतिभासिके स्वज्ञानेऽनध्यासात्, त्वन्मते भ्रमरूपज्ञानस्यापि कल्पितत्वादिति चेत्, मैवम् ; तुच्छस्याज्ञेयत्वेन ज्ञाने अध्यासाभावाद् ज्ञेयस्य हि ज्ञानेऽध्यासः, तुच्छस्य तु न ज्ञेयतेत्यग्रे वक्ष्यते । पञ्चमप्रकाराविद्यानिवृत्तेरपि प्रतियोग्यधिकरणे ध्वंसस्यापि तत्र वृत्तेरवश्यंभावात् अध्यास एव संबन्धः । वस्तुतस्त्वविद्यानिवृत्तेः पञ्चमप्रकारत्वं च भावाद्वैतं चानभ्युपगमपराहतम् । यथा चाविद्यानिवृत्तेर्ब्रह्मरूपत्वं सर्वाद्वैतं च तथोपरिष्टाद्वक्ष्यते । अपरोक्षेकरसे ब्रह्मण्यध्यस्तस्यातीतादेरनुमित्यादिरूपज्ञाने अनध्यासेऽपि यस्मिंश्चैतन्ये तदध्यस्तं तदेव चैतन्यमनुमित्यादिरूपवृत्त्यवच्छिन्नमिति नाध्यासानुपपत्तिः । अतिप्रसङ्गपरिहारार्थं चैतन्यस्य विषयसंबन्धे वृत्त्युपरागापेक्षायामपि नाधिष्ठानत्वेन तदपेक्षा । एवमेव नित्यपरोक्षस्थले स्मृतिस्थलेऽपि प्रतिभासिकस्य प्रतिभासिक्यां वृत्तावनध्यासेऽप्यधिष्ठानविषयकवृत्यभिव्यक्तचैतन्य एवाध्यास इति न काप्यनुपपत्तिः । न च-रूप्यादिकमिदमंशावच्छिन्नचैतन्येऽध्यस्तं, भासते च अविद्यावृत्तिप्रतिबिम्बितचैतन्येनेति विषयिणि ज्ञाने विषयस्याध्यासः कथमिति–वाच्यम् ; एकावच्छिन्न एवापरावच्छेदेन निरपेक्षोपाधेरिवात्र भेदकत्वाभावात् , अत एव अभियुक्तैः फलैक्यादैक्यं ज्ञानस्योच्यते । न च–रूप्यादेः स्वज्ञानेऽध्यस्तत्वे रूप्यज्ञानस्य ज्ञाने भ्रमोत्पत्तिस्तज्ज्ञानेन तन्निवृत्तिरिति च स्यात्, अधिष्ठानाज्ञानज्ञानाभ्यामध्यासस्य जन्मनिवृत्त्योर्नियतत्वात् , ज्ञानं रजतमिति प्रतीतिप्रसङ्गाच्चेति वाच्यम्; रजताकारवृत्त्यवच्छिन्नचैतन्यस्य रजतभ्रमाधिष्ठानत्वानभ्युपगमात्, इदमंशावच्छिन्नचैतन्यमेव तु रजतभ्रमाधिष्ठानम् , तच्च दैवाद्रजताकारवृत्त्यवच्छिन्नचैतन्यमपि, नैतावता भ्रमाधिष्ठानत्वे तदपेक्षा । तस्य च भ्रमविरोधिशुक्तिवाद्याकारणाज्ञानं भ्रमकारणम् । तेनाकारेण ज्ञानं भ्रमनिवर्तकम् । अतएव न ज्ञानं रजतमिति भ्रमाकारापत्तिः; वृत्त्यवच्छिन्नस्यैव ज्ञानत्वात्तस्य चाधिष्ठानत्वाभावात् । अधिष्ठानतादात्म्येन चारोप्यप्रतीतिरिति इदं रजतमित्येव भ्रमाकारः । ननु-घटादेः खसन्निकृष्टेन्द्रियजन्यस्वज्ञानात् पूर्व सत्त्वेन तत्राध्यासो न युक्तः । न च या घटेन्द्रियसन्निकर्षजा वृत्तिस्तया घटो न प्रकाश्यः । येन च प्रकाश्यो घटाधिष्ठानचैतन्येन न तत्सन्निकर्षजमिति वाच्यम्; वृत्त्यतिरिक्तज्ञाने मानाभावात् । अज्ञाननिवृत्तेरपि तत एव भावादिति-चेन्न; वृत्त्युदयात् प्रागज्ञातार्थसिद्ध्यर्थं वृत्त्यतिरिक्तज्ञानस्यावश्यमभ्युपेयत्वात् । अन्यथा तस्य साधकाभावेन शशशृङ्गतुल्यतया सन्निकर्षतज्जन्यज्ञानहेतुत्वेन प्राक् सत्त्वकल्पना निष्प्रामाणिकी स्यात् । तस्माद्यादृशस्य घटादेरिन्द्रियसन्निकर्षाश्रयत्वेन ज्ञानकारणत्वं तादृशस्य साधकं किञ्चिन्मानमवश्यमभ्युपेयम् । अन्यथाऽन्वयव्यतिरेकयोरग्रहेण कार्यकारणभावाग्रहात् सर्वमानमेयादिव्यवस्थोच्छिद्येत । तच्च मानं न वृत्तिरूपम् । तदानीं वृत्तिकारणाप्रवृत्तेरिति तद्विलक्षणं नित्यं स्वप्रकाशमेव लाघवात् , वृत्तिगतोत्पत्तिविनाशजडत्वादिभिस्तदसंस्पर्शात् । तदेव च नानाविधोपाधिसंबन्धान्नानाविधव्यवहारभाक् भवति नभ इव घटमणिमल्लिकाद्युपाधिभेदेन; तच्चाज्ञानसाधकत्वात्स्वरूपतो नाज्ञाननिवर्तकं, वृत्युपरक्तं त्वज्ञाननिवर्तकमिति न वृत्तेरनुपयोगः । तथा च सर्वाज्ञानसाधके साक्षिचैतन्ये तस्मिन् घटादेरध्यास इति काऽनुपपत्तिः ? तदुक्तं सुरेश्वराचार्यैः–‘सर्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः । यदभ्युपगमादेव तत्सिद्धिर्वार्यते कुतः ॥” इति । ‘सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम् । अज्ञातार्थावगमनं त्वदुक्ते तन्न युज्यते ॥ स्वतः सिद्धोऽथवासिद्धो देहादिस्ते भवन्, भवेत् । प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते ॥ प्रमाणान्यन्तरेणापि देहादिश्चेत् प्रसिध्यति । वद प्रमाणैः कोऽन्वर्थो न हि सिद्धस्य साधनम् । स्वतोऽसिद्धे प्रमेये तु नासतो व्यञ्जिका प्रमा । नाभिव्यनक्ति सविता शशशृङ्गं स्फुरन्नपि ॥' इति न च–‘घटोऽयमित्यसौ वृत्तिराभासस्य प्रसादतः । विज्ञातो घट इत्युक्तिर्ब्रह्मानुभवतो भवेत् ॥” इति वदता वृत्तिप्रतिबिम्बितस्य घटानधिष्ठानचैतन्यस्य घटानुभवत्वोक्तिविरोध इति वाच्यम् । वृत्तिप्रतिविम्बितचैतन्यस्य घटाधिष्ठानचैतन्येन सह भेदाभावात् , चैतन्यस्यैकत्वात् । यथा चैकस्यैव चैतन्यस्य सर्वभासकत्वं तथा विस्तरेणोपपादितं नाभाव उपलब्धेरित्यस्मिन्नधिकरणे भाष्यकृद्भिः । ननु-दृश्यत्वान्यथानुपपत्त्या मिथ्यात्वमित्यर्थापत्तिर्विवक्षिता, किं वा सत्यत्वे दृश्यत्वं न स्यादित्यनुकूलतर्कमात्रम् । नाद्यः; तत्सामग्र्यभावात् । तथा हि-आक्षेप्यस्योपपादकत्वं; प्रमाणाविरुद्धत्वम्, आक्षेपकस्यानुपपद्यमानत्वं, प्रमितत्वं चेत्यर्थापत्तिसामग्री। प्रकृते चाक्षेप्यसंबन्धिनो मिथ्यात्वं नाक्षेपकस्य संबन्धस्योपपादकम् , प्रत्युत प्रतिकूलमेव । नचाध्यस्तत्वरूपसंबन्धस्य न तत्प्रतिकूलत्वम्। तस्याद्याप्यसिद्धेरनाक्षेपकत्वात् । प्रत्यक्षादिविरुद्धं चेदमाक्षेप्यम् । नाप्येकस्य दृश्यत्वस्योपपत्तये प्रमितानेकस्य त्यागो युक्तः । आक्षेपकं च न दृगध्यस्तत्वम् : तस्यैव फलत आक्षेप्यत्वात् । नापि दृग्विषयत्वरूपो दृग्संबन्धः; तवासिद्धेः । दृगधीनसिद्धिकत्वम् ; दृग्विषयत्वातिरिक्तस्य तस्यासिद्धेः । नान्त्यः; सत्त्वेऽप्युक्तरीत्या संबन्धान्तरेणैव दृश्यत्वस्योपपन्नतया अनुपपत्तेरेवाभावादिति–चेन्न; अनुकूलतर्कस्यैव प्रक्रान्तत्वेनार्थापत्तिर्वेत्यादिविकल्पानवकाशात् , उभयथाप्यदोषाच्च । तथा हि सत्यत्वे दृग्दृश्यसंबन्धानुपपत्तिः । मिथ्यात्वं च तदुपपादकं , न तत्संबन्धप्रतिकूलम् ; मिथ्यात्वेऽपि शुक्तिरूपस्येदमंशेऽध्यस्तत्वरूपसंबन्धदर्शनेन संबन्धसामान्ये प्रतिकूलत्वाभावात् । आक्षेपकोऽपि दृग्विषयत्वरूपो दृग्संबन्ध एव अध्यासरूपस्य दृग्विषयत्वस्य ममाऽपि संप्रतिपत्तेः, तात्त्विकस्यैव तस्य निषेधात् । न चाध्यस्तत्वस्याद्याप्यसिद्धिः; दृक्संबन्धसामान्यस्याक्षेपकस्य प्रसक्तविशेषनिषेधेऽप्यध्यस्तत्वरूपविशेषपर्यवसानेनासिद्ध्यभावात् । न हि अध्यस्तसंबन्धत्वेनाक्षेपकता, किं तु संबन्धत्वेन । स चाध्यस्तत्वसंबन्धसंभावनयाप्यबाधित एवेति । नच घटस्य ज्ञानमिति धीसिद्धसंबन्धसामान्यस्याध्यस्तत्वं न विशेषः, न हि रूप्यस्य शुक्तिरिति प्रतीतिरस्तीति वाच्यम्; रूप्यस्य शुक्तिरिति प्रतीत्यभावेऽपि रूप्यस्य शुक्तिरधिष्ठानमिति प्रतीत्या अध्यस्तत्वस्य संबन्धविशेषत्वसिद्धेः, चैत्रस्य मैत्र इति प्रतीत्यभावेऽपि चैत्रस्य पिता मैत्र इति प्रतीतिवत् आक्षेप्यमत्र प्रमाणाविरुद्धमेव; अध्यक्षादिविरोधस्य प्रागेव परिहृतत्वात् । आक्षेपके च प्रमितत्वमनपेक्षितमेव; अप्रमितेनापि प्रतिबिम्बेन बिम्बाक्षेपदर्शनात् । तर्कपरतायामपि नाप्रयोजकता; सत्यत्वे संबन्धानुपपत्तेर्भवदुक्तन्यायखण्डनेन प्रथमत एवोपपादितत्वात् । दृश्यत्वाभावस्यापादकमत्र सत्त्वमनिर्वाच्यत्वाभावो वा त्रिकालाबाध्यत्वं वा । उभयथाऽपि न दोषः । न चानिर्वाच्यत्वाभावस्य तुच्छे परोक्षधीवेद्यतया दृश्येऽपि सत्त्वेन व्यभिचारः कारणासामर्थ्येन तत्र तदाकारवृत्तिसमुल्लासेऽपि दृक्संबन्धरूपस्य दृश्यत्वस्य तुच्छविरोधिनस्तत्राभावात् , तुच्छाकारताया वृत्तिगतत्वेऽपि वृत्तिसंबन्धस्य तुच्छगतत्वाभावोपपत्तेः । नापि यथा सतो ब्रह्मणः स्वव्यवहृत्या संबन्धः, तथा घटादेरपि सत एव स्वज्ञानेन संबन्धोऽस्त्विति वाच्यम् ; दृष्टान्ते ब्रह्मण्यध्यासस्यैव व्यवहृतिसंबन्धत्वात् । तथाच उभयसंबन्धिसत्वे विषयविषयिभावानुपपत्तिः नाप्रयोजकत्वादिना परिभूयते । एतेन-आध्यासिकः संबन्धो नाम अध्यस्तसंबन्धो वा, अध्यस्तत्वमेव वा, आद्ये संबन्धस्य मिथ्यात्वेऽपि संबन्धिनो दृश्यस्य दृश इव मिथ्यात्वानुपपत्तिः । द्वितीये ज्ञानस्याप्यध्यस्तत्वेन तत्र अध्यासानुपपत्तिः स्वज्ञानपरंपरायामध्यासस्वीकारे अनवस्था चेति–निरस्तम्, ज्ञानं हि वृत्त्यवच्छिन्नं चैतन्यम्, तत्रावच्छेदिकाया वृत्तेर्जडाया अध्यस्तत्वेऽप्यवच्छेद्यस्य चैतन्यस्य प्रकाशरूपस्य अनध्यस्तत्वेन तत्र दृश्यस्याध्यासाद् दृश्यमिथ्यात्वेऽप्यनवस्थाविरहस्योपपत्तेः । अत एव शाब्दवृत्तिविषयो ब्रह्म न वृत्तौ कल्पितमविद्याविषयो ब्रह्माविद्यायां न कल्पितं यथा, तथा दृश्यं न दृशि कल्पितम् । तथाच दृग्दृश्यादेस्तात्त्विक एव संबन्धः, सामान्यसंवन्धेनैवातिप्रसङ्गे निरस्ते विशेषजिज्ञासा विशेषोक्तिश्च विशेषजिज्ञासादिवदनर्थिकैवेति–निरस्तम्, वृत्त्यविद्ययोः ब्रह्मणोऽनध्यासेऽपि तयोरेव ब्रह्मण्यध्यासात् संबन्धोपपत्तेः, अतस्तत्र तात्त्विकसंबन्धाभावात् , कथं तद्दृष्टान्तेन दृग्दृश्ययोरपि तात्त्विकसंबन्ध इत्युच्यते ? तथाच प्रसिद्धविशेषे बोधिते सामान्यस्यैव बाधकशङ्काया अतिप्रसङ्गे प्राप्ते विशेषजिज्ञासाया विशेषोक्तेश्च साफल्यात् न ते निरर्थिके। एतेन संबन्धस्य प्रामाणिकत्वे यथाकथंचन लक्षणं भविष्यति । तथा हि–संयोगसमवायान्तर्भावे तल्लक्षणमेव लक्षणं भविष्यति, तदनन्तर्भावे तु तदुभयभिन्नसंबन्धत्वमेव लक्षणमस्त्विति–निरस्तम्; उक्तयुक्त्या प्रामाणिकसंवन्धस्य संयोगसमवायान्तर्भावस्य च दूषितत्वात् । तदुभयबहिर्भूतसंबन्धत्वं तु वयमपि न निराकुर्मः, किं तु तस्य प्रामाणिकत्वम् । किंच दृग्दृश्ययोः न तात्त्विकसंबन्धः; संबन्धिभिन्नत्वे अनवस्थानात् । न च दृश्यत्वान्तरहीनस्य दृश्यत्वादेरिव संबन्धस्यापि सनिर्वाहकत्वं क्वचित् भविष्यतीति वाच्यम् ; दृश्यत्वमपि दृक्संबन्ध एव । तस्य च स्वनिर्वाहकत्वं न मायिकत्वं विनेति नास्माकं प्रतिकूलमभ्यधायि देवानांप्रियेण; अभिन्नत्वे संबन्धत्वायोगात् । न चैवमाध्यासिकसंबन्धत्वेऽप्येतद्दोषप्रसङ्गः, तस्य मायिकत्वेन मायायाश्चाघटितघटनापटीयस्त्वेन सर्वानुपपत्तेर्भूषणत्वात् । न च–अतिप्रसङ्गनिराकरणार्थं दृग्दृश्ययोः संबन्धनिर्वचनं प्रकृतम्, न तु विषयत्वनिर्वचनम्, अतो विषयत्वखण्डनमनुक्तोपालम्भनमिति वाच्यम्; विषयत्वखण्डनेन निरुच्यमानप्रकृतसंबन्धस्यैव खण्डनात् । न च-विषयित्वानिरुक्तावपि विषयिणः सत्यत्ववत् विषयित्वानिरुक्तावपि विषयः सत्यः स्यादितिवाच्यम् ; विषयित्वानिरुक्तावपि विषयाध्यासेनैव तदुपपत्त्या विषयिणः सत्यत्वं युक्तम् , विषयत्वानिरुक्तौ तु विषयस्य सत्यत्वं न युक्तम् ; विषयिणोऽनध्यस्तत्वे विषयाध्यासमन्तरेणान्यस्योपपादकस्याभावात् । यत्र तु विषयिण एवाध्यासः । तत्र विषयः सत्य एव; यथा ज्ञानविषयो ब्रह्म । न चोभयाध्यासः; शून्यवादप्रसङ्गात् । अन्यतराध्यासे च विनिगमकमनुवृत्तत्वव्यावृत्तत्वप्रकाशजडत्वादिकमेव । तस्माद्विषयिणो नित्यदृशोऽनध्यासात् विषयस्यैवात्राध्यासः । न च-‘प्रमाणजातं स्वविषयावरणे'त्यादियुक्त्या दृग्विषयत्वरूपदृश्यत्वस्य हेतूकरणेन च त्वयाऽपि विषयत्वं निर्वाच्यमेवेति वाच्यम् । तत्त्वतोऽनिर्वाच्यत्वेऽप्यध्यस्तत्वेन घटादिसमकक्षनिर्वाच्यत्वस्य संभवात् । ननु-कथं प्रमाणज्ञानविषयोऽध्यस्त इति–चेन्न; प्रपञ्चविषयकज्ञाने तत्त्वावेदकत्वलक्षणप्रामाण्याभावादिति गृहाण । अतएव यादृशं विषयत्वं ते वृत्तिं प्रति चिदात्मनः । तादृशं विषयत्वं मे दृश्यस्यापि दृशं प्रतीतिनिरस्तम् ; चिदात्मनोऽनध्यासेऽपि वृत्तेस्तत्राध्यस्तत्वेन तद्दृष्टान्तेन प्रकृतेऽप्यनध्यासस्य वक्तुमशक्यत्वात् । स्यादेतत् मिथ्यात्वनिर्वचनात्तत्साधनं दृश्यत्वादिकं निर्वक्तव्यमेव, नहि घटाद्यसङ्कीर्णाकारज्ञानं विना तद्विलक्षणव्यवहारः। अथ निरुक्तासङ्कीर्णाकारज्ञानमात्रेण तदुपपत्तिः, तर्हि तुल्यं ममापि । इयांस्तु विशेषः; यत्तव स आकारः सद्विलक्षणः, मम तु त्वन्मतसिद्धप्रातिभासिकवैलक्षण्यसाधकमानसिद्धमसत्ताकः, न हि लक्षणोक्त्यनुक्तिभ्यां सदसद्वैलक्षण्यरूपानिर्वचनीयत्वहानिलाभौ; ब्रह्मण्यपि श्रौतस्यापि जगत्कारणत्वादिलक्षणस्य खण्डनरीत्या असंभवात् , त्वयैव‘कीदृक्तत्प्रत्यगिति चेतादृगीदृगिति द्वयम् । यत्र न प्रसरत्येतत्प्रत्यगित्यवधारये'तिब्रह्मणोऽपि दुर्निरूपत्वोक्तेश्च, प्रपञ्चेऽपि त्वदुक्तानिर्वाच्यत्वसमकक्षलक्षणसंभवाच्च, ‘यत्कठिनं सा पृथिवी'त्यादिश्रुत्या पृथिव्यादीनामपि लक्षणत्वोक्तेश्च । तस्मादनिर्वाच्यत्वं न सत्त्वविरोधि । सत्त्वेऽप्यनुद्भूतत्वादेवानिर्वाच्यत्वोपपत्तेः । न च निर्वाच्यत्वमपि सत्त्वप्रयोजकम् ; नहि शुक्तिरूप्यस्यापीतरभेदसाधकं रूप्यत्वं प्रातीतिकजातिरूपतया सुवचमपि सत्यम् । किंच ब्रह्मण आनन्दत्वज्ञानत्वसत्यत्वस्वप्रकाशत्वादि खण्डनोक्तरीत्या दुर्वचमिति ब्रह्म तत्त्वतोऽनानन्दाद्यात्मकं स्यात् । तस्मादिक्षुक्षीरादिमाधुर्यवदनिर्वाच्यमपि विषयत्वं सदेवेति, अत्रोच्यते-दृश्यत्वादेरनिर्वचनीयत्वं किं सत्त्वेन, उत स्वरूपेण । नाद्यः; सत्त्वेनानिर्वचनीयत्वेऽपि तत्तदाभासलक्षणानालिङ्गितत्वमात्रेण हेतुत्वोपपत्तेः तन्निर्वचनानपेक्षणात् । न द्वितीयः; तात्त्विकातात्त्विकसाधारणेन दृक्संबन्धित्वादिना रूपेण दृग्विषयत्वस्य निर्वक्तुमशक्यत्वात् । लक्षणोक्त्यनुक्त्योर्न सदसद्वैलक्षण्यरूपानिर्वाच्यत्वहानिलाभकरत्वमिति यदवोचः, तदपि न; पूर्वोक्तव्यापकानुपलब्धिसहिताया लक्षणानिरुक्तेः उक्तरूपानिर्वचनीयत्वप्रयोजकत्वात् । यत्त्वानन्दत्वादिना धर्मेण कीदृगित्यादिना स्वरूपेण च दुर्निरूपत्वात् ब्रह्मणोऽप्यनिर्वचनीयत्वप्रसङ्ग इति तन्न; आनन्दत्वादिधर्मवत्तया दुर्निरूपत्वेऽपि दुःखप्रत्यनीकत्वाद्युपलक्षितस्वरूपस्य सत्त्वेन निर्वक्तुं शक्यत्वात् । न चैवं प्रपञ्चे सत्त्वं शक्यनिर्वचनम् ; बाधकसद्भावात् । अतएव–कठिनस्पर्शवत्वादिना पृथिवीत्वादीनां निर्वचनमस्त्येव, सत्त्वेऽप्युद्भूतत्वादिना निर्वाच्यत्वोपपत्तिरिति—निरस्तम्; नहि निरुक्तिविरहमात्रेणानिर्वाच्यत्वं ब्रूमः, किंतु सत्त्वादिना निरुक्तिविरहेण । स च प्रपञ्चे बाधकादस्त्येव । न च–ज्ञाने विषयस्याध्यस्तत्वे तदज्ञानजन्यं तज्ज्ञाननिवर्त्यं चाध्यासं प्रति विषयत्वं तदनुविद्धतया प्रतीत्यभावश्च न संभवतीति वाच्यम्; चैतन्यमात्राज्ञानजन्यत्वात् । तज्ज्ञाननिवर्त्यत्वाच्च घटादिप्रपञ्चस्येत्युक्तत्वात् । सदिति प्रतीयमानाधिष्ठानचैतन्यानुविद्धतया प्रतीयमानत्वमप्यस्त्येव । तस्मात्सत्यत्वे दृग्दृश्यसंबन्धत्वानुपपत्तिर्दृढैव ॥
ननु विश्वस्याध्यासिकत्वे प्रातिभासिकस्थल इव विषयेन्द्रियसन्निकर्षाधीनायाः प्रतिकर्मव्यवस्थाया अनुपपत्तिरिति - चेन्न ; वृत्तेः पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासिकस्थलापेक्षया वैलक्षण्यात् । तथा हि - अन्तःकरणं चक्षुर्वत्तेजोवयवि । तच्चेन्द्रियद्वारेण तत्संयुक्तं विषयं व्याप्य तदाकारं भवति । यथा नद्याद्युदकं प्रणाड्या निःसृत्य केदाराद्याकारं भवति, सैव वृत्तिरित्त्युच्यते । तत्र जीवचैतन्यमविद्योपाधिकं सत् सर्वगतम् अन्तःकरणोपाधिकं सत् परिचिन्नमिति मतद्वयम् । तत्राद्ये विषयप्रकाशकं जीवचैतन्यम् । द्वितीये ब्रह्मचैतन्यम् । आद्ये पक्षेऽपि जीवचैतन्यमविद्यानावृतम् आवृतं च । तत्राद्ये वृत्तिर्जीवचैतन्यस्य विषयोपरागार्था। द्वितीये त्वावरणाभिभवार्था । परिच्छिन्नत्वपक्षे तु जीवचैतन्यस्य विषयप्रकाशकतदधिष्ठानचैतन्याभेदाभिव्यक्त्यर्था । अनावृतत्वपक्षे ह्यनावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्त्यैवोपरज्यते, न तु विषयैः; असङ्गत्वात् , यथा गोत्वं सर्वगतमपि सास्नादिमद्व्यक्त्याऽभिव्यज्यते, न तु केसरादिमयक्त्या; यथा वा प्रदीपप्रभा आकाशगन्धरसादिव्यापिन्यपि तान्न प्रकाशयन्ती रूपसंसर्गितया रूपमेव प्रकाशयति तद्वत् ; केवलाग्न्यदाह्यस्यापि अयःपिण्डादिसमारूढाग्निदाह्यत्ववच्च केवलचैतन्याप्रकाश्यस्यापि घटादेस्तत्तदाकारवृत्युपारूढचैतन्यप्रकाश्यत्वं युक्तम् । एवञ्चानावृतत्वपक्षे तत्तदाकारवृत्तिद्वारा चैतन्यस्य तत्तदुपरागे तत्तदर्थप्रकाशः । आवृतत्वपक्षे तत्तदाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्यावरणाभिभवेन तत्तदर्थप्रकाशः । अन्तःकरणावच्छिन्नचैतन्यरूपत्वे जीवस्यावच्छेदकान्तःकरणतत्तद्विषयाकारवृत्त्या तत्तद्विषयावच्छिन्नचैतन्याभिव्यक्तौ तत्तत्प्रकाशः । यद्यपि प्रकाशकमधिष्ठानचैतन्यं सर्वगतं जीवचैतन्यं चान्तःकरणावच्छिन्नम् ; तथापि चैतन्याभेदेनाभिव्यक्तत्वात् व्यवस्थोपपत्तिः । ननु–इयं प्रतिकर्मव्यवस्था नोपपद्यते, तथा हि स्वसन्निकृष्टेन्द्रियजन्यस्वज्ञानात् पूर्वं घटादेः सत्त्वे प्रतीतिमात्रशरीरत्वव्याप्तकाल्पनिकत्वायोगः । न च काल्पनिकत्वविशेषः प्रातिभासिकत्वादिरेव तद्व्याप्तः; गौरवात् , न च प्रतीतिमात्रशरीरत्वाभावेऽपि ज्ञाननिवर्त्यत्वादिनैव कल्पितत्वं भविष्यति; प्रतीतिमात्रशरीरत्वाभावेन ज्ञाननिवर्त्यत्वाभावस्याप्यापाद्यत्वात् , प्रतीतेर्विश्वसत्यत्वेन वा मिथ्यात्वेऽपि स्वप्नादिवदिन्द्रियसन्निकर्षनिरपेक्षतया वोपपत्तेः, व्यावहारिकत्वस्यापि भ्रान्तिदैर्घ्यमात्रेणोपपत्तेश्चेति चेत्, मैवम् । प्रतीतिमात्रशरीरत्वस्य कल्पितत्वं न व्याप्यम् ; दृग्दृश्यसंबन्धानुपपत्त्यादिसहकृतोक्तानुमानात् प्रपञ्चे कल्पितत्वे सिद्धे प्रत्यभिज्ञाबलाच्च स्थायित्वे तत्रैव व्यभिचारात् । न च–शुक्तिरूप्यादिप्रत्यभिज्ञासाम्यं प्रकृतप्रत्यभिज्ञाया इति वाच्यम् ; प्रतीत्यविशेषेऽपि वणिग्वीथीस्थशुक्तिरूप्ययोः परीक्षितत्वापरीक्षितत्वाभ्यां स्थायित्वास्थायित्वरूपविशेषसंभवात् । तथापि वा परोक्षवृत्तेरिवापरोक्षवृत्तेरपि प्रकाशत्वमस्तु, किं तदुपरक्तचैतन्येनेति चेन्न ; परोक्षस्थलेऽपि परोक्षवृत्त्युपरक्तचैतन्यस्यैव प्रकाशकत्वात् । अथ तत्राप्यपरोक्षैकरसचैतन्योपरागे विषयापरोक्ष्यप्रसङ्गः न; विषयचैतन्याभिव्यक्तावेव विषयस्यापरोक्ष्यम् । न च परोक्षस्थले तदस्ति; विषयेन्द्रियसन्निकर्षाभावेन विषयपर्यन्तं वृत्तेरगमनात्, अन्तरेव तत्र धीसमुल्लासात् । अपरोक्षस्थले तु प्रमातृचैतन्याभेदाभिव्यक्ताधिष्ठानचैतन्योपरागो विषयेऽस्ति; तत्र विषयस्य कर्मकारकत्वात् । न च वृत्तिगतविशेषादापरोक्ष्यम्। तत्र हि विशेष विषयकृतश्चेदोमिति ब्रूमः । जातिकृतस्तु विशेषो न संभवति; सोऽयमिति प्रत्यभिज्ञायां परोक्षत्वापरोक्षत्वयोः संकरप्रसङ्गात् , अव्याप्यवृत्तित्वात् , प्रमात्वादिना संकरप्रसङ्गाच्च । किंच वृत्तेर्जडत्वादेव न प्रकाशकत्वम् । न च–वृत्तावन्तःकरणावृत्त्यापि स्वप्रकाशत्वं ज्ञानत्ववदिति वाच्यम्; स्वप्रकाशात्मसंबन्धेनैव तस्याः प्रकाशत्वोपपत्तौ तत्स्वप्रकाशत्वे मानाभावात् । किंच घटं जानामीत्यनुभूयमानसकर्मकवृत्त्यन्या संवित् घटप्रकाशरूपा घटः प्रकाशत इत्याकारकानुभवसिद्वैव । न च करोति यतते चलति गच्छतीत्यादावेकार्थत्वेऽपि सकर्मकाकर्मकस्वभावत्वदर्शनात् अत्राप्येकार्थत्वेऽपि तथा स्यादिति-वाच्यम्। तत्राप्येकार्थत्वाभावात् । अनुकूलयत्नो हि कृञ्धात्वर्थः, यत्यर्थस्तु यत्नमात्रम् , एवं गम्यर्थ उत्तरसंयोगफलकः स्पन्दः, चलत्यर्थस्तु स्पन्दमात्रम्; तथाचैकार्थकत्वे कुत्रापि न सकर्मकत्वाकर्मकत्वव्यवस्था । न च- त्वन्मते परिणतेरकर्मकत्वात् परिणतिविशेषभूताया वृत्तेः कथं सकर्मकत्वमिति–वाच्यम् , एकस्य हि सकर्मकत्वाकर्मकत्वे एकरूपेण विरुद्धे न तु रूपान्तरेणापि; मानाभावात् , यथा स्थितेरकर्मिकाया अपि अगमनत्वेन रूपेण सकर्मकत्वम् ; तथा परिणतित्वेन रूपेणाकर्मिकाया अपि वृत्तेः ज्ञानत्वेन सकर्मकत्वं भविष्यतीत्यदोषः । ननु तर्ह्यतीतः प्रकाशते इति धीर्न स्यात्, न; इष्टापत्तेः, तत्रापि वृत्तिप्रतिबिम्बितचैतन्यसत्त्वेन प्रकाशत इत्यादिप्रयोगसंभवाच्च । ननु यथा ज्ञानविरोधिवृत्तावनुभवत्वं नास्ति, किंतु अन्यत्र; तथा द्वेषविरोधिवृत्तेरन्यत्रेच्छात्वमित्यपि स्यादिति-चेन्न; बाधकसत्त्वासत्त्वाभ्यां विशेषात्, अत्रैव तत्र सकर्मकाकर्मकविलक्षणक्रियाननुभवाच्च । यथा च वृत्त्यतिरिक्तभानसिद्धिस्तथा स्वयं ज्योतिष्ट्वप्रस्तावे विस्तरेण वक्ष्यामः । ननु अस्तु चैतन्यस्य विषयप्रकाशकत्वं, तथाप्यन्तःकरणस्य देहान्निर्गतिः न कल्प्या; परोक्षवैलक्षण्याय विषयस्याभिव्यक्तापरोक्षचिदुपराग एव वक्तव्यः, चिदुपरागादौ चापरोक्षवृत्तेस्तदाकारत्वमेव तन्त्रम्; तस्य च तत्संश्लेषं विनापि परोक्षवृत्तेरिव तत्सन्निकृष्टकरणजन्यत्वेनैवोपपत्तिः, न तु प्रभाया इव वृत्तेस्तदावरणनिवर्तकत्वादौ तत्संश्लेषस्तन्त्रम् , नेत्रान्निर्गच्छद्ध्रुवाद्याकारवृत्त्यैव स्वसंश्लिष्टनेत्रस्थकज्जलादेर्ध्रुवनेत्रमध्यवर्तिनः परमाण्वादेश्चापरोक्षत्वापातादिति चेत्, न; विषयेष्वभिव्यक्तचिदुपरागे न तदाकारत्वमात्रं तन्त्रम् ; परोक्षस्थलेऽपि प्रसङ्गात् , किंतु तत्संश्लेषः; प्रभाया विषयसन्निकृष्टतेजस्त्वेनावरणाभिभावकत्वदर्शनात् तैजसस्य मनसोऽप्यज्ञानरूपावरणाभिभवाय तत्संश्लेष आवश्यकः;ध्रुवादिदेहमध्यवर्तिपरमाण्वादावतिप्रसङ्गस्तु तदाकारत्वप्रयोजकसामग्रीविरहादेव परिहरणीयः; अन्यथेन्द्रियसन्निकर्षादेर्विद्यमानत्वात् परमाण्वाद्याकारताया दुर्निवारत्वापत्तेः । तस्मात् प्रभाविशेषान्वयव्यतिरेकाभ्यां यत् क्लृप्तं सन्निकृष्टतेजस्त्वेनावरणाभिभावकत्वं, तस्य तदाकारत्वरूपविशेषापेक्षायामपि न त्यागः । नहि पृथिवीत्वगन्धत्वादिना कार्यकारणभावे आवश्यके अनित्यगुणत्वद्रव्यत्वादिना तत्त्यागः । अतएव—तदितरहेतुसाकल्ये सति घटचक्षुःसन्निकर्षस्यैव घटानुभवजनकत्वम्, न तु घटमनःसन्निकर्षस्य, तद्विलम्बेन तद्विलम्बाभावादिति–निरस्तम्; आवरणभङ्गे सन्निकृष्टतेजःकारणत्वावधारणेन तस्याप्यावश्यकत्वात् । न च–स्पर्शनप्रत्यक्षे चक्षुरादिवन्नियतगोलकद्वाराभावेनान्तःकरणनिर्गत्ययोगादावरणाभिभवानुपपत्तिरिति वाच्यम्; सर्वत्र तत्तदिन्द्रियाधिष्ठानस्यैव द्वारत्वसंभवात् । न च–अन्तःकरणवृत्तित्वाविशेषादिच्छाद्वेषादिरूपवृत्तयोऽपि देहान्निर्गत्य विषयसंसृष्टा भवन्तीति कथं न स्वीक्रियत इति वाच्यम्, आवरणाभिभावकतेजस्त्वस्य तत्प्रमापकस्य ज्ञानवत् तत्राभावात् । ननु–घटप्रकाशकं चैतन्यमुपदेशसाहस्र्यनुसारेण घटाकारधीस्था चिद्वा; परागर्थप्रमेयेष्वित्यादिवार्त्तिकोक्तरीत्या धीप्रतिबिम्बितचैतन्याभेदाभिव्यक्तविषयाधिष्ठानचैतन्यं वा, नाद्यः; आध्यासिकसंबन्धस्यातन्त्रतापातात् । न द्वितीयः; आवश्यकेन विषयसंश्लिष्टवृत्तिप्रतिबिम्बितचैतन्येनैव तदज्ञाननिवृत्तिवत् तत्प्रकाशस्याप्युपपत्तौ किं विषयाधिष्ठानचैतन्याभिव्यक्तिकल्पनेनेति–चेन्न; प्रकाशकं तावत् अधिष्ठानचैतन्यम् । तच्चाध्यासेन विषयैः सह साक्षात्संबद्धं प्रकाशस्य च स्वयं भासमानस्य स्वसंबद्धसर्वभासकत्वमपि क्लृप्तमेव; एतदनभ्युपगमे कल्पनान्तरगौरवापत्तेः । तच्चानभिव्यक्तं निर्विकल्पकरूपमाच्छादितदीपवन्न प्रकाशकमिति तदभिव्यक्तिरपेक्षिता । तच्च परोक्षस्थले वृत्त्यवच्छेदेनैवाभिव्यज्यते । अपरोक्षस्थले तु वृत्तिसंपर्कादावरणाज्ञानाभिभवे विषयोऽभिव्यज्यते; वृत्तेर्विषयपर्यन्तत्वात् । न च परोक्षस्थलेऽप्येवं प्रसङ्गः; द्वाराभावेनान्तःकरणनिर्गत्यभावात् । ननु वृत्तेस्तदाकारत्वं न तावत्तद्विषयत्वम् ; त्वयैव निरासात् । नापि तस्मिन् चैतन्योपरागयोग्यतापादकत्वं, तदज्ञानाभिभावकत्वं वा; उभयोरपि तदाकारत्वप्रयोज्यत्वेन तत्त्वायोगात् । नापि घटादिवत् पृथुबुध्नोदराद्याकारत्वम् ; साकारवादापातात्, संस्थानहीनजातिगुणादिवृत्तेर्निराकारत्वप्रसङ्गाच्च; घटपटाविति समूहालम्बने विरुद्धनानाकारत्वापत्तेश्चेति–चेन्न; अस्तीत्यादितद्विषयकव्यवहारप्रतिबन्धकाज्ञाननिवर्तनयोग्यत्वस्य, तत्सन्निकृष्टकरणजन्यत्वस्य वा तदाकारत्वरूपत्वात् तदुभयं च स्वकारणाधीनस्वभावविशेषात् । न चात्माश्रयः; निवृत्तिजननस्वरूपयोग्यतया फलोपधानस्य साध्यत्वेन स्वानपेक्षणात् । ननु–दृशि विषयाध्यासस्वीकर्तुर्जीवचैतन्यं वा विषयदृक् ब्रह्मचैतन्यं वा । नाद्यः; जीवे अवच्छिन्नचित्स्वरूपे कल्पिते अध्यासायोगात् । न च–विषयदृक् जीवचैतन्यमेव, अध्यासस्तु ब्रह्मचैतन्य इति वाच्यम् ; दृश्ययोरेवाध्यासिकसंबन्धापत्तेः, अध्यस्ताधिष्ठानयोरुभयोरपि दृग्भिन्नत्वात् । अत एव न द्वितीयोऽपि; ब्रह्मणोऽपि कल्पितत्वेन तत्राध्यासायोगाच्च । न च शुद्धचैतन्यमेकमेव; तदेवाधिष्ठानम्, तत्रावच्छेदकमविद्यादिकं नाधिष्ठानकोटौ प्रविशति; तदेव च जीवशब्देन ब्रह्मशब्देन च व्यपदिश्यते । उपाधिविशेषात् , तथाच जीवचैतन्यस्य दृक्त्वेऽपि दृश्याध्यासो नानुपपन्न इति वाच्यम्; शुद्धचैतन्यस्य आसंसारमावृतत्वेन जगदान्ध्यप्रसङ्गादिति चेन्न; मूलाविद्यानिवृत्त्यभावेन सर्वत आवरणाभिभवाभावेऽपि घटाद्यवच्छेदेनावरणाभिभवात् आन्ध्यविरहोपपत्तेः । ननु- तर्हीदानीमपि ब्रह्मस्फुरणे चरमवृत्तिवैयर्थ्यम् अधिकभागेऽपि तस्य स्फुरणात् । न ह्यखण्डार्थवेदान्तजन्यायां वृत्तौ भावो अभावो वा विशेषणमुपलक्षणं वा प्रकारः प्रकाशत, इति चेन्न; उपाध्यविषयकब्रह्मस्फुरणस्य चरमवृत्तिप्रयुक्तत्वेन तस्याः साफल्यात्, प्रकारास्फुरणं तु तस्याः भूषणमेव; इदानीन्तनस्फुरणस्य सप्रकारत्वेनोपाधिविषयत्वात् , 'एकधैवानुद्रष्टव्य'मित्यादि श्रुतिबलात् स्वसमानविषयज्ञानादेव चाज्ञानवृत्तेरखण्डचिन्मात्रज्ञानस्यैव मोक्षहेतुत्वावधारणात् । न च-अन्तःकरणावच्छिन्नचैतन्यस्य जीवत्वे सुषुप्तिदशायां तदभावेन कृतहान्याद्यापत्तिरिति वाच्यम् । तदाप्यस्य कारणात्मनाऽवस्थानात्, स्थूलसूक्ष्मसाधारणस्यान्तःकरणस्योपाधित्वात् । ‘तदपीतेः संसारव्यपदेशा'दित्यस्मिन् सूत्रे चायमर्थः स्पष्टतरः । न च-वृत्त्युपरक्तत्वं चैतन्यस्य न तत्प्रतिबिम्बितत्वम् ; दर्पणे मुखस्येवानुद्भूतरूपेऽन्तःकरणे शब्दान्यप्रतिबिम्बनोपाधिताया अचाक्षुषचैतन्यस्य प्रतिबिम्बितायाश्चायोगादिति वाच्यम् ; उद्भूतरूपवत्वं न प्रतिबिम्बितोपाधिताप्रयोजकम् । अस्वच्छेऽपि लोष्टादौ प्रतिबिम्बापत्तेः, किंतु स्वच्छत्वम् , तच्च प्रकाशस्वभावत्वेन मनसस्तत्परिणामभूताया वृत्तेश्चास्त्येव; त्रिगुणात्मकस्याप्यज्ञानस्य स्वच्छसत्त्वात्मकताया अपि सत्त्वेन तत्रापि प्रतिविम्बितोपाधितायाः सत्त्वात् । नापि चाक्षुषत्वं प्रतिबिम्बितत्वप्रयोजकम् । अचाक्षुषस्याप्याकाशादेः प्रतिबिम्बितत्वदर्शनात् । ननु चाक्षुषवृत्त्युपारूढचितः कथं रूपमात्रप्रकाशकत्वम् ? न च प्रभावन्नियमः। वैषम्यात् , तथा हि प्रभायां तमोविरोधित्वं रूपं प्रतीव गन्धादीन् प्रत्यपि समम् ; नहि सा गन्धदेशस्थं तमो न निवर्तयति, न च–अज्ञाननिरोधित्वलक्षणप्रकाशकत्वं रूपं प्रत्येव, न तु रसादीन्प्रतीति वाच्यम् ; अज्ञाननिवर्तकत्वस्य वृत्तिभिन्नेऽनङ्गीकारात्, प्रभाया रूपग्राहकचक्षुःसहकारित्ववत् गन्धादिग्राहिघ्राणादिसहकारित्वाभावेऽपि चितो ग्राहकान्तरासहकारित्वेन तद्वत्सहकारिविलम्बेन विलम्बस्य वक्तुमशक्यत्वात् । तथाच चितः सर्वगतत्वेन सर्वसंबन्धाद्रूपादिवत् गुरुत्वादेरप्याश्रयद्वारा साक्षाद्वा संबन्धित्वात् प्रकाशापत्तिः; वृत्त्युपरक्तचित्संबन्धस्यैव प्रकाशकत्वात् , ‘असङ्गो ह्ययं पुरुष’ इति श्रुतिस्तु तत्कृतलेपाभावपरा, न तु संबन्धनिषेधिका; ‘स यत्तत्र यत्किंचित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्यात्, ‘यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महानित्यादिस्मृतेश्चेति–चेन्न; प्रभाया रूपरसादिदेशगततमोनाशकत्वं तत्संबन्धाद्युज्यते, चैतन्यस्य तु स्वभावतोऽसंबद्धत्वात् तदाकारवृत्त्या तदेकसंबन्धस्योपादानात् कथमन्यावभासकत्वप्रसङ्गः? स्वभावतो ह्यसङ्गत्वे ‘असङ्गो ह्ययं पुरुष' इति श्रुतिः प्रमाणम् । न चैषा लेपाभावपरा; अकर्तृत्वप्रतिपादनाय संबन्धाभावपरत्वात् । यथा चैतत्तथा व्यक्तमाकरे । एवं स्मृतिरप्येतच्छृत्यनुरोधेन नेया । अतः सर्वैः सह संबन्धाभावात् न सर्वावभासः, किंतु यदाकारा वृत्तिस्तस्यैव । अत एवं ‘इदं रजत' मिति भ्रमे इदमाकारवृत्यवच्छिन्नचैतन्येन रजतभानानुपपत्तेः रजताकाराप्यविद्यावृत्तिरभ्युपेयते; स्वतश्चिद्विम्बाग्राहके चैतन्यस्य तदाकारत्वायोगात्, स्वतश्चिद्बिम्बग्राहके त्वन्तःकरणवृत्त्यादौ न वृत्त्यपेक्षेति नानवस्था । न च आश्रयसंबन्धाविशेषेऽपि रूपाकारा वृत्तिर्न गन्धाद्याकारेति कुत इति–वाच्यम् ; यथा तव चाक्षुषज्ञाने आश्रयसंबन्धाविशेषेऽपि न गन्धो विषयः, तथाऽस्माकमपि चक्षुर्द्वारकवृत्तौ न गन्धाद्याकारत्वम् , इन्द्रियविषयसंबन्धानां स्वभावस्य नियामकस्य समानत्वात् । ननु–आध्यासिकसंबन्धो वृत्तेः पूर्वमप्यस्त्येव, अन्यस्तूपरागो न दृश्यत्वे तन्त्रमिति किं तदर्थया वृत्त्येति-चेन्न; जीवचैतन्यस्याधिष्ठानचैतन्यस्य वाऽभेदाभिव्यक्त्यर्थत्वाद्वृत्तेः । अन्यथा मयेदं विदितमिति संबन्धावभासो न स्यात् । ननु-जीवचैतन्यस्यासङ्गत्वे ब्रह्मचैतन्यं सुतरामसङ्गम् , तथाच मायोपाधिकविषयोपरागत्वात् स्वतः सार्वज्ञ्यं न स्यात् , न च–ब्रह्म सर्वोपादानत्वादुपाधिं विनैव स्वस्वरूपवत्स्वाभिन्नं जगदवभासयतीति वाच्यम् । उपादानत्वं न तावद्विशिष्टनिष्ठं परिणामित्वम् ; आध्यासिकसंबन्धस्यातन्त्रतापत्तेः, अनाद्यविद्यादिकं प्रति तदभावाच्च, नापि शुद्धनिष्ठमधिष्ठानत्वम् ; शुद्धस्य सर्वज्ञत्वसर्वशक्तित्वादेरभावादिति चेन्न; ब्रह्मणोऽसंगत्वेऽपि सर्वेषां तत्राध्यासेन मायोपाधिं विनैव तस्य सर्वप्रकाशकतया सार्वज्ञ्योपपत्तेः । न च–शुद्धनिष्ठमधिष्ठानत्वं नोपादानत्वं सार्वज्ञ्याभावादित्युक्तमिति वाच्यम्; अविद्याकल्पितानां सर्वज्ञत्वादीनां शुद्धे सत्त्वात् । अन्यथा तेषां तटस्थलक्षणत्वमपि न स्यात् । ननु आवरणाभिभवार्थत्वपक्षो न युक्तः; विवर्ताधिष्ठानस्य चिन्मात्रस्याज्ञानादिसाक्षित्वेन सदा प्रकाशनात्, अन्यस्याज्ञानकल्पितस्यावरणस्याभावादिति-चेन्न; अज्ञानादिसाक्षित्वेन स्वप्रकाशेऽप्यशनायाद्यतीतत्वादिना प्रकाशाभावादावरणस्यावश्यत्वात् ननुअज्ञानस्य नयनपटलवत् पुंगतत्वे चैत्रस्याज्ञाननाशेऽपि मैत्रस्य तदनाशात् अप्रकाशो युक्तः, विषयगतत्वे तु चैत्रार्जितया वृत्त्या अज्ञाने दीपेन तमसीव नाशिते मैत्रस्यापि प्रकाशः स्यादिति-चेन्न; चैत्रावरणशक्तेरेवाज्ञानगतायाश्चैत्रार्जितवृत्त्या नाशितत्वेन स पश्यति, न मैत्रः; तत्प्रतियोगिकावरणशक्तेरनाशात्, आवरणशक्तीनां द्रष्टृविषयभेदाभ्यां भिन्नत्वात् , तमस्तु, न तथेत्येकानीतप्रदीपेनाप्यन्यान्प्रति प्रकाशो युज्यते । एतेन–एकज्ञानपक्षे शुक्तिज्ञानेन तदज्ञाननिवृत्तौ सद्य एव मोक्षापातः, अनिवृत्तौ रूप्यादेः सविलासाविद्यानिवृत्तिरूपबाधायोग इति–निरस्तम्; आवरणशक्तिनाशेऽपि मूलाज्ञाननाशाभावेन सद्यो मोक्षाभावस्य रूप्यादौ सविलासशक्तिमदविद्यानिवृत्तिरूपबाधस्यचोपपत्तेः । ननु—एकाज्ञानपक्षे रूप्यादेः शुक्तिज्ञानेन स्वकारणे प्रविलयमात्रं क्रियते, मुद्गरप्रहारेणेव घटस्य, न त्वज्ञानं निवर्त्यत इति ते मतं न युक्तम् । यतो ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिबलात् ज्ञानस्याज्ञाननिवृत्तिद्वारैवान्यविरोधित्वेनाज्ञानमनिवर्त्य रूप्यादिनिवर्तकत्वायोगात्, शुक्तिज्ञानेनाज्ञाननिवृत्तावभिव्यक्तचैतन्यसंबन्धाभावेन भ्रान्ताविव बाधेऽपि शुक्तेरप्रकाशापत्तेश्चेति-चेन्न; यतो ज्ञानमज्ञाननिवर्तकमिति व्याप्तेरुच्छेदविषयत्वात् , स्वकारणे सूक्ष्मरूपेणावस्थाने तदनङ्गीकारात्, शुक्तिज्ञानस्य चानवच्छिन्नचैतन्यावरणरूपमूलाज्ञानानिवर्तकत्वेऽपि अवच्छिन्नचैतन्यावरणरूपतूलाज्ञाननिवर्तकत्वेनाभिव्यक्तचैतन्यसंबन्धात् बाधदशायां रूप्यनिवृत्तिशुक्तिप्रकाशयोरप्युपपत्तेः । नच-उपादेयभूतया वृत्त्योपादानभूताविद्याभिभवो न घटते; उपादेयेनोपादानाभिभवादर्शनादिति वाच्यम्; वृश्चिकादिना गोमयादेरुपादानस्याप्यभिभवदर्शनात् । आरम्भवादानभ्युपगमाच्च न गोमयावयवानामुपादानत्वशङ्का । ननु चक्षुरादिजन्यशक्त्यादिवृत्तेः सप्रकारिकायाः निष्प्रकारकशुद्धचैतन्याविषयतया तदावरणरूपमूलाज्ञानाभिभवाभावेऽप्यवच्छिन्नविषयया तया अवच्छिन्नचैतन्यावरणरूपतूलाज्ञानाभिभवो युज्यत इति ते मतमयुक्तम् । अवच्छिन्ने अविद्याकल्पिते अप्रसक्तप्रकाशे मूलाविद्याया इव तदावरणशक्तेरयोगात्, त्वयानभ्युपगतत्वाच्च, जडविशिष्टात्मानं प्रति तदभ्युपगमे च विशेषणानावारकविशिष्टावारकशक्त्यभिभवस्य विशेष्यावारकशक्त्यभिभवं विनाऽयोगेन शुक्त्याकारवृत्त्यैव शुद्धात्मप्रकाशापातादिति चेन्न; अनवबोधात् । न ह्यविद्याकल्पितेऽवच्छिन्ने अस्माभिरविद्या वा तच्छक्तिर्वाभ्युपेयते, किंतु चैतन्यमात्र एव; तस्मिंस्तु सर्वं जडमध्यस्तमस्तीत्येकाश्रयाश्रितत्वसंबन्धात् जडावच्छिन्नचैतन्यमावृतमिति व्यपदेशः, घटाद्याकारवृत्त्या तु तदधिष्ठानचैतन्याभिव्यक्तौ तदवच्छेदेनैव तन्निष्ठावरणाभिभवो जायत इति न शुद्धात्मप्रकाशापत्तिः । तदुक्तं संक्षेपशारीरके–‘आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥' ‘बहु निगद्य किमत्र वदाम्यहं शृणुत संग्रहमद्वयशासने । सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसव्यवहारभाक् ॥' इति च । तस्मादविद्यायां सत्यामपि शक्त्यभिभवाद्वा तूलाज्ञाननाशाद्वा अवस्थाविशेषप्रच्यवाद्वा, एकदेशनाशाद्वा, भीरुभटवदपसरणाद्वा, कटवत्संवेष्टनाद्वा, आवरणभङ्गानिर्मोक्षबाधानामुपपत्तिः । ननु-अवस्थाशेषाणामज्ञानाभिन्नत्वे एकाज्ञानपक्षक्षतिः, अज्ञानभिन्नत्वे च साक्षात् ज्ञानेन निवृत्तिः भ्रमाद्युपादानत्वं च न स्यात्, तेषामिव रूप्यस्यैवोपादाननाशं विना नाशप्रसङ्गश्च, शुक्त्यज्ञानं नष्टमित्यनुभवविरोधश्चेति–चेन्न; यतोऽवस्था तावदवस्थावतोऽभिन्नैव, अज्ञानैक्यं तु सर्वावस्थानुस्यूतैकाकारमादाय । एवं चाज्ञानावस्थाया अज्ञानत्वेन न ज्ञानसाक्षान्निवर्त्यत्वाद्यनुपपत्तिः । यत्त्ववस्थाविशेषाणामिव रूप्यस्यैवोपादाननिवृत्तिं विना निवृत्त्यापादानं, तदयुक्तम् ; अज्ञान एव ज्ञानस्य साक्षाद्विरोधावधारणेनाज्ञानावस्थायास्तभिन्नायाः ज्ञानसाक्षान्निवर्त्यत्वार्हत्वात्, न तु रूप्यादीनाम्; अनीदृक्त्वात् । अनेकाज्ञानपक्षे तु शङ्कापि नोदेति । ननु–अस्मिन्पक्षे एकया वृत्त्या सर्वतदज्ञानस्य निवृत्तिः, उत एकतदज्ञानस्य; आद्ये पुनः शुक्तेः कदाप्यप्रकाशो न स्यात् , अन्त्ये वृत्तिकालेऽपि प्रकाशो न स्यात् , एकस्यावरणस्य निवृत्तावप्यावरणान्तरानिवृत्तेरिति-चेन्न; एकया वृत्त्या एकाज्ञाननाशेऽपि तयैवावरणान्तराणां प्रतिरुद्धत्वात् यावत् सा तिष्ठति तावत्प्रकाशः, तस्यामपगतायां पुनरप्रकाशश्चोपपद्यते; अज्ञानस्य ज्ञानप्रागभावस्थानीयत्वात् । यथा तव एकं ज्ञानमेकमेव प्रागभावं नाशयति, तन्नाशरूपेणोदयात् प्रागभावान्तरनिबन्धनमज्ञातत्वादिव्यवहारं च प्रतिबध्नाति; तथा ममाप्येकं ज्ञानमेकमेवाज्ञानं निवर्तयति, अज्ञानान्तरनिबन्धनं च प्रयोजनं प्रतिबध्नातीति किमनुपपन्नम् अत्र च प्रतिवन्धपदेन कार्यानुत्पत्तिप्रयोजकत्वं कारणाभावप्रतिबन्धकसाधारणमभिहितम् । एवमवस्थाविशेषपक्षेऽपि प्रकाशाप्रकाशावुपपादनीयौ । एवममूर्तस्याज्ञानस्य यद्यपि दण्डादिना गवादीनामिवापसरणं करादिना कटादीनामिव संवेष्टनं च न संभवति; तथापि कार्याक्षमत्वसाम्येनावरणसंवेष्टनपक्षौ योजनीयौ । यथाहि उत्तेजकाभावसहकृतस्य मणेः प्रतिबन्धकतायामुत्तेजकसत्वे प्रतिबन्धककार्याक्षमत्वम् ; तथा वृत्त्यभावसहकृतस्याज्ञानस्य प्रतिबन्धकतायां वृत्तौ सत्यां तत्कार्यानुदय इति द्रष्टव्यम् । ननु चैतन्यस्य निरवयवत्वात् तस्यैकदेशेन प्रकाशो न युज्यते; अथाकाश इव तत्तदर्थावच्छिन्नत्वमेकदेशशब्दार्थः, तर्हि नागन्तुकपदार्थावच्छिन्नचैतन्यमनाद्यज्ञानस्य विषयः निर्विषयस्यावरणस्यायोगात्, प्रागनवच्छिन्नावरणमेवेदानीमवच्छिन्नावरणं जातमित्यपि न; अवच्छिन्नचैतन्यज्ञानेनैवानवच्छिन्नावरणनाशापत्तेः; एतेन व्यक्तितः पूर्वं जातिरिव विषयात्पूर्वमज्ञानमस्तीति निरस्तमिति–चेन्न; अनाद्यज्ञानविषये अनादिचैतन्ये तत्तदागन्तुकपदार्थावच्छेदाभ्युपगमात्, ‘आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवले त्युक्तत्वात् । यदवच्छिन्नगोचरा च वृत्तिस्तदवच्छेदेनैवावरणापसरणात् नानवच्छिन्नचैतन्यावरणभङ्गप्रसङ्गः । अत एव वृत्तिविषयावच्छिन्नचैतन्यात् प्रागज्ञानमस्तीत्यभिप्रायेण विषयात्प्रागज्ञानमस्तीति साधूक्तम् । तस्मादधिष्ठानचैतन्यं स्वाध्यस्तं भासयतीति सिद्धम् । तदयमत्र निष्कर्षः–यद्यपि विषयप्रकाशकं विषयाधिष्ठानभूत प्रमेयचैतन्यम् , अन्तःकरणावच्छिन्नचैतन्यं तु तस्य प्रमातृ, अन्तःकरणवृत्त्यवच्छिन्नचैतन्यं तु प्रमाणम् । तथापि यदीयान्तःकरणवृत्त्या विषयपर्यन्तं चक्षुरादिद्वारा निस्सृतया यत्प्रकाशकं चैतन्यं यत्प्रमातृचैतन्याभेदेनाभिव्यज्यते तमेव स एव जानाति नान्यं नान्यो वा । अत एवैकवृत्त्युपारूढलक्षणैकलोलीभावापन्नं प्रमातृप्रमाणप्रमेयचैतन्यं भवति । ततस्तदवच्छेदेनाज्ञाननिवृत्त्या (निवृत्त्या) भासमानं प्रमेयचैतन्यमपरोक्षं फलमित्युच्यते । तत् स्वयं भासमानं सत् स्वाध्यस्तं घटाद्यपि भासयतीति तत् फलव्याप्यमित्युपेयते । यन्निष्ठा च यदाकारा वृत्तिर्भवति तन्निष्ठं तदाकारमज्ञानं सा नाशयतीति नियमात् प्रमातृप्रमेयोभयव्यापिन्यपरोक्षवृत्तिः स्वावच्छेदेनावरणमपसारयति; प्रकाशस्य स्वावच्छेदेनावरणापसारकत्वदर्शनात् । अतः प्रमात्रवच्छिन्नस्यासत्त्वावरणस्य प्रमेयावच्छिन्नस्याभानावरणस्य चापसरणात् घटोऽयं मे स्फुरतीत्याद्यपरोक्षव्यवहारः । परोक्षस्थले तु इन्द्रियसन्निकर्षलक्षणद्वाराभावान्तःकरणनिस्सरणाभावेन विषयपर्यन्तं वृत्तेरगमनाद्विषयावच्छिन्नप्रमेयचैतन्येन सह प्रमातृचैतन्यस्यैकवृत्त्युपारूढत्वाभावेनापरोक्षतयाऽभिव्यक्त्यभावेऽपि प्रमातृप्रमाणचैतन्ययोरेकलोलीभावापत्त्या प्रमात्रवच्छिन्नमसत्त्वावरणमात्रं निवर्तते; तावन्मात्रस्य वृत्त्यवच्छिन्नत्वात् । इदमेव सुषुप्तिव्यावृत्तिशब्देन विवरणाचार्यैर्व्याख्यातम् । विषयावच्छिन्नाभानावरणतत्कार्यसद्भावेऽपि प्रमात्रवच्छिन्नासत्त्वावरणनिवृत्त्या अनुमानादौ व्यवहारोपपत्तिः । अत एव जानाम्यहं पर्वते वह्निरस्तीति, स तु कीदृश इति मे न भातीत्यादिव्यवहारः । त्रयाणामेकलोलीभावे अपरोक्षत्वम्, द्वयोरेकलोलीभावे तु परोक्षत्वमिति न सङ्करः । वृत्तेश्च विषयेण सर्वं साक्षादेवापरोक्षस्थले संबन्धः, परोक्षस्थले त्वनुमितेरनुमेयेन तद्व्याप्यज्ञानजन्यत्वम्, शाब्द्याः संसर्गेण सह तदाश्रयवाचकपदजन्यत्वम्, स्मृतेः स्मर्तव्येन सह तद्विषयानुभवजन्यत्वम् । एवमन्यत्रापि परम्परासंबन्ध एवेति परोक्षापरोक्षविभागः । विस्तरेण व्युत्पादितास्माभिरियं प्रक्रिया सिद्धान्तबिन्दौ । तस्माद्विषयस्य मिथ्यात्वेऽपि प्रतिकर्मव्यवस्थोपपन्नेति दिक् ॥
॥ इत्यद्वैतसिद्धौ प्रतिकर्मव्यवस्थोपपत्तिः ॥
॥ इत्यद्वैतसिद्धौ प्रपञ्चमिथ्यात्वानुकूलतर्कनिरूपणम् ॥
ननु–मिथ्यात्वानुमानं प्रतिकूलतर्कपराहतम् । तथा हि विश्वं यदि कल्पितं स्यात् , सत्याधिष्ठानं स्यात्, न चैवम् ; सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्त्वस्याधिष्ठानत्वप्रयोजकस्य निर्विशेषे निस्सामान्ये च ब्रह्मण्यसंभवादिति चेन्न; स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वस्याधिष्ठानत्वप्रयोजकत्वेन ज्ञातविशेषवत्त्वस्याप्रयोजकत्वात् । ‘पुरुषो न वेति संशयधर्मिणः स्थाणोरप्यन्यत्र ज्ञातस्थाणुत्वरूपविशेषवत्वात् तत्राज्ञातविशेषवत्त्वमपि न प्रयोजकम् ; विशेषवत्वेनाज्ञातत्वस्यैव लघुत्वेन प्रयोजकत्वात् । तथाच निस्सामान्ये निर्विशेषे च ब्रह्मणि स्वप्रकाशत्वेन ज्ञानात् परिपूर्णत्वानन्दत्वादिना चाज्ञानादधिष्ठानत्वमुपपन्नम् । वस्तुतस्तु कल्पितसामान्यविशेषवत्त्वं ब्रह्मण्यपि सुलभमेव; अकल्पितसामान्यविशेषवत्वं चाप्रसिद्धम् । न च तत्कल्पने अन्योन्याश्रयः; कल्पितसामान्यविशेषाणां प्रवाहानादित्वात् , सत्यत्वानन्दत्वादीनामेव कल्पितव्यक्तिभेदेन सामान्यत्वात् , परिपूर्णानन्दत्वादीनां च विशेषत्वात् । अत एव सामान्याकारज्ञानं विना संस्कारानुद्बोधात् कथमध्यास इति न वाच्यम्; सदात्मना स्वरूपज्ञानस्यैव सामान्यज्ञानत्वात् । न ह्यध्यसनीयं सदात्मना न भाति । एतावानेव विशेषः–यदधिष्ठानं स्वत एव सदात्मना भाति, अध्यसनीयं तु तत्संबन्धात् । ननु अधिष्ठानतिरोधानं विना भ्रमासंभवः, प्रकाशरूपतिरोधाने तु तदध्यस्ताविद्यादेः प्रकाशानुपपत्तिरिति चेत्, न; एकस्यैवानन्दाद्यात्मना तिरोहितस्य सदात्मना प्रकाशसंभवात् । तदुक्तं वार्तिककारपादैः–'यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम् । तमप्यपह्नुतेऽविद्या नाज्ञानस्यास्ति दुष्करम् ॥” इति । न च–बाधकालेऽपि सद्विशेषज्ञानमस्तीति वाच्यम् ; परिपूर्णानन्दत्वादेः सत एव विशेषत्वेन तदा तदज्ञानाभावात् , धर्मत्वमात्रस्यैव कल्पितत्वात् । यद्वा–भ्रमविरोधिज्ञानाभाव एव तन्त्रं, न तु विशेषाज्ञानम् ; विश्वोपादानगोचराज्ञानस्य श्रवणादिजन्यमात्ममात्रविषयकं वृत्तिरूपं ज्ञानं विरोधि, न तु चिद्रूपं स्वतःसिद्धं ज्ञानम् ; भ्रमविरोधिनश्च वृत्तिरूपस्य ज्ञानस्येदानीमभावोऽस्त्येव । ननु–आत्मानात्मनोर्द्रष्टृदृश्यत्वात्मनात्मत्वादिना भेदज्ञानात् कथमध्यस्ताधिष्ठानभाव इति चेन्न; इदमनिदं न भवतीति पुरोवर्त्यपुरोवर्तिनोर्भेदग्रहेऽपीदं रजतमित्यध्यासवत् सन् घट इत्याद्यध्यासो भविष्यति । न हि रूपान्तरेण भेदग्रहो रूपान्तरेणाध्यासविरोधी; सन्घट इत्यादिप्रत्यये च सद्रूपस्यात्मनो घटाद्यनुविद्धतया भानान्न तस्य घटाद्यध्यासाधिष्ठानतानुपपत्तिः, सद्रूपेण च सर्वज्ञानविषयतोपपत्तेर्न रूपादिहीनस्याप्यात्मनः कालस्येव चाक्षुषत्वाद्यनुपपत्तिः । ननु–विश्वं यदि कल्पितं स्यात्तदा सप्रधानं स्यात् , न चैवम् ; तस्मात् न कल्पितमिति–चेन्न; अत्रापि प्रधानस्य सजातीयस्य सत्त्वात् , पूर्वप्रपञ्चसजातीयस्यैवोत्तरप्रपञ्चस्याध्यसनात् । अध्यासो हि स्वकारणतया संस्कारमपेक्षते, न तु संस्कारविषयस्य सत्यताम्; अनुपयोगात् । न च–प्रमाजन्य एव संस्कारो भ्रमहेतुः, अतो विषयसत्यत्वमावश्यकमिति वाच्यम्; मानाभावात् , विपरीते लाघवाच्च । अतएव–अध्यस्तसजातीयं पूर्वमध्यस्तापेक्षयाऽधिकसत्ताकमपेक्षणीयमित्यपि–निरस्तम् ; सत्यतावधिकसत्ताया अप्यनुपयोगात् । पूर्वं तु ज्ञानमात्रमपेक्षते, तच्चास्त्येव । ननु–एवमधिष्ठानस्यापि ज्ञानमात्रमेव हेतुः, न तु तदिति न सदधिष्ठानापेक्षा स्यादिति शून्यवादापत्तिरिति-- चेन्न; अधिष्ठानस्य ज्ञानद्वारा भ्रमहेतुत्वेऽप्यज्ञानद्वारा भ्रमहेतुत्वेन सत्त्वनियमात् । भ्रमोपादानाज्ञानविषयो ह्यधिष्ठानमित्युच्यते, तच्च सत्यमेव; असत्यस्य सर्वस्याप्यज्ञानकल्पितत्वेनाज्ञानाविषयत्वात् , तदसत्यत्वे तज्ज्ञानस्य भ्रमाबाधकत्वप्रसङ्गात् , जगति भ्रमबाधव्यवस्था च न स्यात् । बाधेन हि किंचिद्विरुद्धं तत्त्वमुपदर्शयता आरोपितमतत्वं बाधनीयम्, उभयाध्यासे तु किं केन बाध्यते ? अत एव भगवता भाष्यकारेण–“सत्यानृते मिथुनीकृत्ये'त्युक्तम् ॥ ननु–एतत्प्रपञ्चसध्यार्थक्रियाकारिणः प्रपञ्चान्तरस्याभावेन स्वोचितार्थक्रियाकारिणोऽस्य न मिथ्यात्वमिति–चेन्न; स्वाप्नमायादौ व्यभिचारात्, स्वोचितार्थक्रियाकारित्वस्य पारमार्थिकसत्त्वाप्रयोजकत्वात् । नापि श्रुत्यादिसिद्धोत्पत्त्यादिमत्त्वं सत्त्वे तन्त्रम् ; स्वप्नप्रपञ्चे व्यभिचारात्, तस्यापि “न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथस्सृजत” इत्यादिश्रुत्योत्पत्त्यादिप्रतिपादनात् । न च कल्पाद्यभ्रमायोगः; कल्पान्तरीयसंस्कारस्य तत्र हेतुत्वात् । न च जन्मान्तरीयसंस्कारस्य कार्यजनकत्वे अतिप्रसङ्गः; अदृष्टादिवशेन क्वचिदुद्बोधेऽप्यन्यत्रानुद्बोधोपपत्तेः, कार्योन्नेयधर्माणां यथाकार्यमुन्नयनात्, अन्यथा जातस्य स्तन्यपानादौ प्रवृत्तिने स्यात् । ननु चैत्रेण मैत्रे संस्काराध्यासेऽपि मैत्रस्य भ्रमादर्शनात् जगद्भ्रमहेतुसंस्कारस्य सत्त्वं दुर्वारम्, न च स्वेनाध्यस्तात्संस्काराद्भ्रमः; भ्रमात् पूर्वं स्वस्य कार्यानुमेयसंस्काराध्यासनियमाभावादिति-चेन्न; शुक्तिरूप्यस्य कुण्डलाजनकत्ववञ्चैत्राध्यस्तसंस्कारस्य मैत्रभ्रमाजनकत्वेऽपि वणिग्वीथीस्थरूप्यस्य कुण्डलजनकत्ववत्स्वेनाध्यस्तस्य संस्कारस्य वियदाद्यध्यासजनकत्वोपपत्तेः तत्प्रतीत्यभावेऽपि तदध्यासस्य पूर्वं सत्त्वात् कृत्स्नस्यापि व्यावहारिकपदार्थस्याज्ञातसत्त्वाभ्युपगमात् । ननु- प्रातिभासिकरूप्ये त्रैकालिकनिषेधस्य त्वन्मते व्यावहारिकरूप्यविषयत्ववद्व्यावहारिकप्रपञ्चेऽपि ‘नेह नाने’ति त्रैकालिकनिषेधस्य पारमार्थिकप्रपञ्चान्तरविषयताऽवश्यं वाच्येति चेन्न; भ्रमबाधवैयधिकरण्यापातेनास्य पक्षस्यानङ्गीकारपराहतत्वात् । अङ्गीकारेऽपि व्यावहारिकनिषेधे पारमार्थिकनिषेधत्वं न संभवति; अप्रतीतस्य निषेधायोगात् । प्रतीत्या सहाध्यासातिरिक्तसंबन्धाभावेन पारमार्थिके प्रतीतत्वाभावात् । ननु–प्रधानाधिष्ठानयोः सादृश्याभावात्कथमध्यासः ? अथ निर्गुणयोरपि गुणयोः सादृश्यवदत्रापि किंचित्सादृश्यं भविष्यतीति, तन्न; निर्धर्मके ब्रह्मणि तस्याप्यध्यासाधीनत्वेनान्योन्याश्रयात् । यद्यपि सादृश्यं सोपाधिकाध्यासे न कारणम्, व्यभिचारात्; तथापि निरुपाधिकाध्यासेऽन्वयव्यतिरेकाभ्यां तस्यावश्यमपेक्षणीयत्वात् सोपाधिकेऽपि ‘रक्तः स्फटिक' इत्यादौ द्रव्यत्वादिना सादृश्यस्य सत्त्वाच्चेति-चेन्न; अविद्याध्यासस्यानादित्वेन कारणानपेक्षस्य सादृश्यानपेक्षत्वात् , अन्तःकरणाध्यासेऽप्यविद्यासंबन्धित्वस्यैव सादृश्यस्य विद्यमानत्वात् । वस्तुतस्तु न भ्रमे सादृश्यापेक्षानियमः; निरुपाधिकेऽपि ‘पीतः शङ्ख' इत्यादौ व्यभिचारात् । ‘रक्तः स्फटिक' इत्यादावपि द्रव्यत्वादिना सादृश्यमस्तीत्यपि न; प्रधानमात्रवृत्तितया प्रागवगतमध्याससमये चाधिष्ठानवृत्तितया गृहीतं यत् तदेव हि सादृश्यं विपर्ययप्रयोजकमिति त्वयापि वाच्यम्, न तु प्रागेव प्रधानाधिष्ठानोभयवृत्तितया गृहीतम्; तस्य सांशयिकत्वात् । द्रव्यत्वादि च लोहितालोहितवृत्तितया प्राग्गृहीतमिति न विपर्ययप्रयोजकम् । किंच सादृश्यं न स्वतो भ्रमकारणम् ; मानाभावात् , किंतु संस्कारोद्बोधेन सामग्रीसंपादकतया, संस्कारोद्बोधश्च न सादृश्यैकनियतः; अदृष्टादिनापि तत्संभवात् । तदुक्तम्-‘सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' । इति । चिन्तादिकं च प्रणिधानसूत्रे व्याख्यातम् । तथाचान्यतः संस्कारोद्बोधे सति सादृश्यमनुपयोगि। तदुक्तं विवरणे-‘निरुपाधिकभ्रमकार्यदर्शनमेव गुणावयवसामान्याभावेऽपि केतकीगन्धसदृशः सर्पगन्ध इतिवत् सादृश्यान्तरं वा, शङ्खपीतिमादाविव कारणान्तरं वा कल्पयतीति । ननु दोषं विना भ्रमस्वीकारे तदप्रामाण्यस्य स्वतस्त्वापत्तिः, दोषजन्यत्वस्वीकारे तु दोषस्याप्यध्यसनीयत्वेनानवस्थापत्तिरिति चेन्न; अनाद्यविद्याध्यासस्य दोषानपेक्षत्वात् । साद्यध्यासस्य चाविद्यादोषजन्यत्वात् नाप्रामाण्यस्य स्वतस्त्वम् । नाप्यनवस्था । अन्यथा तार्किकाणामप्यनादिप्रमा गुणं विनापीति प्रामाण्यपरतस्त्वं भज्येत । जन्यप्रमामात्रस्य गुणजन्यत्वं तु जन्याध्यासमात्रस्य दोषजन्यत्वेन समम् । ननु लाघवेन प्रथमोपस्थितत्वेन च प्रवृत्तिमात्रं प्रति संसर्गधिय इव धूममात्रं प्रति दोषादीनां जनकत्वादविद्याध्यासोऽपि कथं क्लृप्तकारणेन विना भवतु ? अन्यथा संसर्गधीरपि प्रवृत्तिविशेषे वह्निरपि धूमविशेषे हेतुरिति स्यात् । तथाचाख्यातिवादश्चानुमानमात्रोच्छेदश्चापद्येयाताम् । किंच अविद्यारूपविषयस्यानादित्वेऽपि तत्प्रतीतेर्दोषाजन्यत्वेऽप्रामाण्यापातः; अप्रामाण्यप्रयोजकस्य दोषजन्यत्वस्याभावात् , अर्थ भेदवदविद्याख्यदोषस्य स्वपरनिर्वाहकत्वम् , एवमपि भेदो भिन्न इतिवत्, ‘अज्ञानज्ञात'मिति व्यवहारो भवतु; प्रतीतिमात्रशरीरस्य स्वविषयधीहेतुत्वं कुतः? स्वस्य स्वस्मात् पूर्ववृत्तित्वासंभवादिति चेन्न; अध्यासत्वस्य लघुत्वेऽपि प्रथमोपस्थितत्वेऽपि न दोषजन्यतायां तन्त्रत्वम् ; दोषस्यापि दृश्यत्वेनाध्यसनीयतयाऽनवस्थापत्तेः । यथा नित्यज्ञानवादिनां ज्ञानत्वस्य न शरीरजन्यतादाववच्छेदकत्वम्, नवा गुणजन्यत्वस्य प्रामाण्यप्रयोजकत्वम् ; बाधकबलात्, तद्वत् जन्याध्यासं प्रत्येव दोषादीनां कारणत्वम् ; गुणाजन्यत्वेऽप्यबाधितविषयतया नित्यज्ञानप्रामाण्यवत् दोषाजन्यत्वेऽपि बाधितविषयतयाऽनाद्यध्यासस्याप्यप्रामाण्योपपत्तिः । बाधितविषयत्वेऽपि न दोषजन्यत्वमवच्छेदकम् । दोषजन्यत्वेऽप्यवच्छेदकान्तरान्वेषणेऽनवस्थापातात् । बाधितविषयत्वस्य दोषाजन्यवृत्तित्वेऽपि दोषजन्यत्वस्य तद्व्याप्यत्वोपपत्तेः । अत एव शबरस्वामिना ‘यस्य दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनो नान्य' इति वदता दुष्टकरणजन्यत्वमन्तरेणापि अर्थान्यथात्वमप्रामाण्यप्रयोजकमुक्तम् । अविद्याध्यासरूपस्य साक्षिचैतन्यस्याविद्याजन्यत्वानभ्युपगमात् न प्रतीतिमात्रशरीरत्वव्याघातः; ‘अहमज्ञ' इत्याद्यभिलापकारणीभूतवृत्तिरूपाध्यासं प्रति त्वविद्यायाः कारणत्वमस्येव, घटादीनामिव स्वप्रत्यक्षं प्रति । वह्निविशिष्टधियोस्तु बाधकाभावात् सामान्येनैव धूमप्रवृत्ती प्रति हेतुतेति न पूर्वोक्तदोषापातः । ननु अविद्याध्यासस्यानादित्वेन दोषाद्यनपेक्षावदधिष्ठानानपेक्षापि स्यादिति चेन्न; जनकत्वेनाधिष्ठानानपेक्षायामप्याश्रयत्वेन तदपेक्षानियमात् । परममहत्त्वादेराश्रयापेक्षावत् अध्यासस्य साधिष्ठानकत्वनियमेनात्रापि परतन्त्रत्वस्य समत्वात् , भास्यस्याविद्याध्यासस्य भासकतयाप्यधिष्ठानापेक्षणाच्च । अविद्यावच्छिन्नचैतन्यस्याविद्यादिसकलद्वैतद्रष्टृत्वात् तस्यैव चान्तःकरणावच्छेदेन प्रमातृत्वात्, भ्रमप्रमयोः सामानाधिकरण्योपपत्तेर्भ्रमस्य समानाधिकरणप्रमानिवर्त्यत्वमुपपद्यते । ननु देहेन्द्रियादिकं विना कथमन्तःकरणाध्यासः ? काऽत्रानुपपत्तिः ? अधिष्ठानापरोक्षत्वं हि अपरोक्षभ्रमे कारणम्, तत् यत्राधिष्ठानं स्वतो नापरोक्षम्, यथा शुक्त्याद्यवच्छिन्नचैतन्यम्, तत्र तदपरोक्षतार्थं देहेन्द्रियाद्यपेक्षा, प्रकृतेचाविद्यावच्छिन्नं चैतन्यमधिष्ठानम्, तत्र चैतन्यस्य स्वप्रकाशत्वेनाविद्यायाश्च तदध्यस्तत्वेन तेनैव साक्षिणा अपरोक्षत्वात् कुत्र देहेन्द्रियाद्यपेक्षा ? अथैवं प्रलये देहेन्द्रियाद्यभावेऽप्यज्ञानसद्भावेनान्तःकरणाध्यासप्रसङ्गः, न; तदा देहेन्द्रियादिसर्जनविलम्ब हेतुनैव तद्विलम्बसंभवात् , अन्यथा तदा देहेन्द्रियादिकमपि कुतो नोत्पद्येत ? न च-दोषादीनामध्यस्तत्वेन तदभावस्य तात्त्विकत्वात् अतात्त्विकेन तात्त्विककार्यप्रतिबन्धस्यायुक्तत्वात् बौद्धेन दुष्टतया कल्पितस्य वेदजन्यज्ञानस्येव कल्पितदोषजन्यस्य द्वैतविज्ञानस्य प्रामाण्यापात इति वाच्यम् । बौद्धकल्पितस्य प्रातिभासिकदोषस्य व्यावहारिकवेदापेक्षया न्यूनसत्ताकत्वेन तदप्रामाण्याप्रयोजकत्वेऽप्यविद्याख्यदोषद्वैतप्रपञ्चयोः समसत्ताकत्वेन कार्यकारणभावनियमेन च कारणीभूताविद्याख्य दोषाभावे कार्यभूतद्वैतप्रपञ्चतद्विज्ञानयोरभावनियमेन नाविद्यामिथ्यात्वेन द्वैतज्ञानसत्यतापातः कारणमिथ्यात्वे कार्यमिथ्यात्वस्यावश्यकत्वात् , ब्रह्मज्ञानेतराबाध्यत्वरूपव्यावहारिकत्वस्य बाध्याबाध्यसाधारणस्य मिथ्यात्वसिद्ध्यनपेक्षत्वात् न सत्त्वविभागासिद्धिः । ननु दोषादीनां रूप्यादिभ्रमहेतूनां पारमार्थिकसत्त्वमौत्सर्गिकप्रामाण्येन सिद्धमिति परमार्थसतामेव तेषां हेतुत्वमिति चेन्न; व्यावहारिकप्रामाण्यस्य साक्षिणा ग्रहणेऽपि त्रिकालाबाध्यत्वरूपतात्त्विकप्रामाण्यं न केनापि गृह्यत इति प्रत्यक्षबाधोद्धारे प्रागेवाभिहितत्वात् । न च–रूप्याद्यध्यासे दोषादीनामधिष्ठानसमसत्ताकत्वं दृष्टमिति इहापि तथेति वाच्यम्; साधर्म्यसमजात्युत्तरत्वात् । वस्तुतस्तु सर्वत्र चैतन्यस्यैवाधिष्ठानत्वेन कुत्रापि दोषादीनामधिष्ठानसमसत्ताकत्वाभावात् । न च–बाधकज्ञानं सत्यमेव वक्तव्यम्, अन्यथा बाधपरम्पराया अनवस्थापत्तेरिति वाच्यम् ; वेदान्तवाक्यजन्यचरमचित्तवृत्तेः कतकरजोन्यायेन स्वपरबाधकतयाऽनवस्थाया अभावात् । दृश्यत्वमात्रेण युगपत्कृत्स्नबाधसंभवात् । नहि गुहायां न शब्द इति शब्दः स्वं न निषेधति; अन्यथा स्वस्य स्वेनानिषेधे तत्राप्यनवस्थापत्तिः, शब्दमात्रनिषेधानुभवविरोधश्च । यद्यपि बाधकज्ञानं वृत्त्युपरक्तचैतन्यरूपं स्वतः सत्यमेव; तथापि तदवच्छेदिकाया वृत्तेर्दृश्यत्वेन मिथ्यात्वात् बाधोपपत्तिः । ननुबन्धस्यात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वे तदभावार्थं यत्नो न स्यात् । अत्यन्ताभावस्यासाध्यत्वात् , अतएव न तत्प्रतीत्यभावार्थमपि यत्नः; तस्या अपि मिथ्यात्वात् , अन्यथा मोक्षेऽपि बन्धप्रतीत्या तद्दशायामपि प्रातिभासिकबन्धापातात् । अथ पारमार्थिकत्वाकारेण मिथ्यात्वम् , स्वरूपेण तु निवृत्तिरेव, न; तस्याः स्वरूपाबाधेनाप्युपपत्तेरिति-चेन्न; सत्यस्य ब्रह्मणो निवृत्त्यदर्शनेन स्वरूपतो मिथ्यात्वाभावे निवृत्त्ययोगात् मिथ्यात्वं निवृत्त्यनुकूलमेव । न च तदर्थं प्रवृत्त्यनुपपत्तिः; अधिष्ठानसाक्षात्कारानन्तरं तथैव, ततः पूर्वं तु कण्ठगतविस्मृतचामीकरप्राप्तय इव भ्रमबाधकज्ञानोत्पत्तये प्रवृत्त्युपपत्तेः । अत्यन्ताभावाधिकरणे च प्रतियोगिवत्तन्निवृत्तिरप्युपपादितैव । न च-त्रैकालिकनिषेधप्रतियोगिनि तुच्छे निवृत्तिर्न दृष्टेति कथं तादृशि प्रपञ्चे सा स्यादिति वाच्यम्; यथाकथंचित् सजातीयेऽदर्शनस्याप्रयोजकत्वात् । अन्यथा अनुत्पन्ने निवृत्तिर्न दृष्टेति प्रागभावोऽपि न निवर्तेत । तस्मात् स्वभावविशेष एव तुच्छनित्यविलक्षणो निवृत्तिप्रयोजक इति वाच्यम् । सा च निवृत्तिरधिकरणस्वरूपेति पक्षे घटनाशार्थं मुद्गरपातादाविव मननादौ प्रवृत्तिरूहनीया । अतिरिक्तेति पक्षे त्वनिर्वचनीया, पञ्चमप्रकारा चरमवृत्तिरूपा वा सा; सर्वथा जन्यैवेति न काप्यनुपपत्तिः । ननु बन्धस्य ब्रह्मण्यध्यस्तत्वे तन्निदिध्यासनसाध्यतत्साक्षात्कारनिवर्त्यत्वं श्रवणादिनियमादृष्टसापेक्षब्रह्मज्ञाननिवर्त्यत्वं च न स्यात् ; नहि देवतानिदिध्यासनसाध्यतत्साक्षात्कारनिवर्त्यं दुरितं तत्राध्यस्तम्; न वा दूरागमनादिनियमादृष्टसापेक्षसेतुदर्शननिवर्त्यं दुरितं तत्राध्यस्तमिति–चेन्न; आत्माध्यस्तगौरत्वादेः शुक्त्याद्यध्यस्तरूप्यादेश्च तत्तत्साक्षात्कारनिवर्त्यत्वदर्शनेन प्रपञ्चस्यापि ब्रह्मण्यध्यस्ततया तत्साक्षात्कारनिवर्त्यत्वस्यावश्यकत्वात् । नहि शुक्त्याद्यध्यस्तं रूप्यादि शुक्त्यादिज्ञानं विना निवर्तते । देवतादर्शनादिना तु प्रायश्चित्तसमयकक्ष्येण दुरितस्य कारणात्मनावस्थानमात्रं क्रियते, न तु शुक्तिज्ञानेन रूप्यस्येव निवृत्तिः; अधिष्ठानाज्ञानरूपोपादानकस्यारोपितस्य तन्निवृत्तिं विना निवृत्त्ययोगात्, अज्ञाननिवृत्तिश्चाधिष्ठानज्ञानादेवेत्युक्तं प्राक् । श्रवणादिनियमादृष्टं च न मुक्तिं प्रति कारणम् , किंतु ब्रह्मापरोक्ष्यं प्रति । ननु–अवघातसाध्यवैतुष्यान्यापूर्वस्येव श्रवणादिसाध्यापरोक्ष्यान्यमुक्तेरेव तत्साध्यत्वम् ; अन्यथा श्रवणनियमादृष्टसाध्ये साक्षात्कारे श्रवणनिरपेक्षस्योपायान्तरस्याप्रसक्त्या तत्प्रसक्त्यधीननियमविध्ययोगात्, न च-परोक्षज्ञानं श्रवणात्, अपरोक्षं तु नियमादृष्टादिति–युक्तम् ; श्रवणादिविधौ परोक्षज्ञानप्रवाहरूपनिदिध्यासनसाध्यापरोक्षस्यैव दृशिनोद्देशात् , त्वन्मते परोक्षज्ञाने कामनाया अयोगेन तस्योद्देश्यत्वायोगाच्चेति चेन्न; तत्र क्रत्वर्थस्य नियमापूर्वस्य परमापूर्वसाधकत्वेऽपि पुरुषार्थहिरण्यधारणादिनियमादृष्टस्य तदभाववत् श्रवणादिसाध्यसाक्षात्कारान्यफलाभावेऽपि तेनैव फलवत्वोपपत्तेः, ’सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदि’ति न्यायात्, ‘सर्वं कर्माखिलं पार्थ ! ज्ञाने परिसमाप्यते' इति स्मृतेश्च । अत्र सर्वाखिलपदाभ्यां कर्मशब्दवाच्यापूर्वमात्रस्य ज्ञाने समाप्तिर्दर्शिता; मोक्षस्याविद्यानिवृत्तिरूपस्य ज्ञानातिरिक्तासाध्यत्वनियमाच्च । ज्ञाने त्वसंभावनादिनिवृत्त्या प्रतिबन्धकदुरितनिवृत्त्या च दृष्टादृष्टांशोपयोगः । सामान्यपुरस्कारेण च प्रसक्तस्य साधनान्तरस्य निवृत्तिः सर्वत्र नियमविधेः फलम् , विशेषरूपेण त्वपूर्वविधित्वमेव । यथाहि ‘व्रीहीनवहन्ती'त्यादावपूर्वसाधनीभूतव्रीहिवैतुष्ये विशिष्यावघातातिरिक्तसाधनान्तराप्रसक्तावपि व्रीहिवैतुष्यमात्रे प्रसक्तस्य नखविलनादेर्निवृत्तिः; विशिष्य कार्यकारणभावबोधनात् , तथा निर्विशेषब्रह्मात्माभेदसाक्षात्कारप्रतिबन्धनिवृत्तौ श्रवणाद्यतिरिक्तसाधनान्तराप्रसक्तावप्यात्मज्ञानमात्रप्रतिबन्धनिवृत्तौ साङ्ख्यादिशास्त्रस्यापि प्रसक्तेः तन्निवृत्तिर्विशिष्य वेदान्तवाक्यविचारविधानादिति परमगम्भीरोऽयं ग्रन्थार्थः । ननु–यदि विश्वं कल्पितं स्यात् , तदा ‘जन्माद्यस्य यत' इति सूत्रे ‘यतो वा इमानी’त्यादिश्रुतौ च जन्माद्युक्तिः, ‘ईक्षतेर्नाशब्दमि’ति सूत्रे ’तदैक्षते’त्यादिश्रुतौ च ईश्वरस्येक्षापूर्वककर्तृत्वोक्तिः, ‘लोकवत्तु लीलाकैवल्यमि’ति सूत्रे ‘आप्तकामस्य का स्पृहे’त्यादिश्रुतौ च प्रयोजनाभावेऽपि लीलया सृष्ट्याद्युक्तिः, ‘वैषम्यनैर्घृण्ये न सापेक्षत्वादि’ति सूत्रे ‘पुण्येन पुण्यं लोकं नयती'त्यादिश्रुतौ च कर्मसापेक्षत्वेनावैषम्योक्तिः, ’तेजोऽतस्तथा ह्याहे’तिसूत्रे 'वायोरग्निरित्यादिश्रुतौ च तेजआदेर्वाय्वादिजन्यत्वोक्तिः; ‘विपर्ययेण तु क्रमोऽत उपपद्यते चेति सूत्रे ‘पृथिव्यप्सु प्रलीयत' इत्यादिस्मृतौ च पृथिव्यादीनामबादौ लयोक्तिरित्याद्ययुक्तं स्यात् , न हि कल्पिते तत्तद्विरोधशङ्का तन्निराकरणं च युक्तमिति–चेन्न; प्रपञ्चस्य कल्पितस्यापि व्यावहारिकसत्त्वाभ्युपगमेन तद्दशायां विरोधशङ्कातत्परिहारयोरुचितत्वात् , इन्द्रजालादावध्यस्तेऽप्यैन्द्रजालिकादेरीक्षापूर्वकस्रष्टृत्वादेर्दर्शनाच्च । यथा च कल्पितस्यापि जन्माद्युपपत्तिस्तथाऽनिर्वचनीयवादे वक्ष्यते । स्वप्नेऽपि सृष्ट्यादेः श्रुत्या प्रतिपादनाच्च । अध्यस्तस्यापि सर्पस्य भयकम्पादिजनकत्ववत् वाय्वादीनां तेजआदिजनकत्वमप्युपपन्नम् ; “तदभिध्यानादेव तु तल्लिङ्गात्स' इति सूत्रे च तत्तद्भावापन्नस्य ब्रह्मण एव कारणत्वाभिधानात् । अबादौ पृथिव्यादिलयोक्तिरपि तत्तद्भावापन्नचैतन्ये व्याख्येयेति नाधिष्ठानातिरिक्ते लयोक्तिः । वैषम्यनैर्घृण्यप्रयोजनादिशङ्कापरिहारादिकं तूपासनावस्थायाम् । “भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवदि’ति आपाततः परिणामवादाभ्युपगमेन, ‘तदनन्यत्वमारम्भणशब्दादिभ्य’ इति तु विवर्तवादे परमसिद्धान्तदशायां न शङ्का न चोत्तरम्; मायाविन इवेश्वरस्य स्वप्रतिबिम्बभूतजीवभ्रमयितृत्वेन सर्वविरोधनिरासोपपत्तेः । ननु—ईश्वरस्यापि सपरिकरस्य जीवेनाध्यस्तत्वात् कथं भ्रमयितृत्वम् । न; अविद्योपहितचित एवानादेरीश्वरत्वेनान्तःकरणोपहितजीवकल्पितत्वायोगात्, जीवकल्पितत्वपक्षेऽपि तादृग्धर्मविशिष्टतयैव कल्पनेन तस्य भ्रमयितृत्वाद्युपपत्तेः, ‘परिकल्पितोऽपि मरणाय भवेदुरगो यथा न तु नभो मलिनमिति न्यायात् । ननु–जीवानां वाय्वादिभ्योऽग्न्याद्युत्पत्तिरिति भ्रमोऽस्ति, यः स्वाप्नभ्रम इव श्रुतेरालम्बनं स्यात्, न च भ्रान्तिं विना कल्पितमस्ति; न चैतद्वाक्यजभ्रान्तिकल्पितमेव एतद्वाक्यालम्बनम् ; वेदस्य भ्रमजनकत्वप्रसङ्गात् , अनुवादे तु न दोषः, न चेश्वर एव तत्कल्पकः; तस्य भ्रान्तत्वप्रसङ्गात् , तदभ्युपगमेऽपि न विस्तारः; भ्रान्तेर्देहेन्द्रियादिकार्यत्वात् तेषां च पृथिव्यादिकार्यत्वात् पृथिव्याद्युत्पत्तेः प्राक् भ्रान्त्ययोगादिति चेन्न; भ्रान्तिमात्रे देहेन्द्रियाद्यपेक्षायाः प्रागेव निरासात्, ईश्वराध्यस्तवाय्वादिहेतुकाग्न्याद्युत्पत्त्यालम्बनत्वेन वेदस्य भ्रमाजनकत्वात् , अध्यस्तस्य चाध्यस्तत्वेन स्फुरणान्न मायाविन इव ईश्वरस्य भ्रान्तत्वप्रसङ्गः । न चाध्यस्तत्वे उत्पत्त्याद्यनुपपत्तिः; अनध्यस्तस्य क्वाप्युत्पत्त्याद्यदर्शनेनाध्यस्तत्वस्यैव तदुपपादकत्वात् , सत्कार्यवादासत्कार्यवादनिषेधेनानिर्वचनीयकार्यवादमात्रे कार्यकारणभावपर्यवसानात् । तदेवं कृत्स्नस्य प्रपञ्चस्याद्वये ब्रह्मणि कल्पनोपपत्तेर्न प्रतिकूलतर्कपराहतिः ॥
॥ इत्यद्वैतसिद्धौ ब्रह्मणि प्रपञ्चकल्पनोपपादनेन प्रतिकूलतर्कनिराकरणम् ॥
एतदनुमानमेकमेवाद्वितीय'मित्यादिश्रुतिरप्यनुगृह्णाति । ननु–श्रुत्या स्वस्वरूपस्वप्रामाण्यस्वयोग्यतादेर्मिथ्यात्वाबोधनेन प्रत्यक्षादिसिद्धतत्सत्त्वोपजीवनेन च ब्रह्मेतरसकलमिथ्यात्वासिद्धिः, ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न्यायेन प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिश्च, योग्यतादिमिथ्यात्वबोधने च श्रुत्यर्थस्यातात्त्विकत्वापत्तिः; शाब्दबोधस्य शब्दतत्प्रामाण्ययोग्यतादिना समसत्ताकत्वनियमात्, न च सदर्थस्वाप्नदेवतावाक्ये व्यभिचारः; आप्तत्वापौरुषेयत्वायोगेन तस्य शब्दत्वेन प्रामाण्यायोगात्, किं तूपश्रुतिवत्तादृशशब्दज्ञानं लिङ्गत्वेन प्रमाणमिति–चेन्न; निर्दोषशब्दत्वेन तस्य शब्दविधयैव प्रामाण्यसंभवात् , आप्तत्वापौरुषेयत्वयोर्दाषाभाव एवोपक्षयात् व्याप्त्याद्युपस्थितिकल्पने गौरवात्, वक्तुः कल्पितत्वेऽपि तद्गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वाच्च । तथाच शब्दसमसत्ताकत्वस्य व्यभिचारात् योग्यतादिसमसत्ताकत्वनियमसिद्धेरप्रयोजकत्वाच्च परोक्षत्वानित्यत्वाद्युपाधिसंभवाच्च श्रुत्या योग्यतादिसकलमिथ्यात्वबोधनेऽपि तदर्थस्य न मिथ्यात्वम् ; मिथ्यात्वप्रयोजकरूपाभावात् । महाभाष्योक्तन्यायोदाहरणमपि न युक्तम् ; विषयवैषम्यात् ॥ तथा हि ‘शतानि सहस्राणी'त्यत्र सर्वनामस्थानसंज्ञकशिसन्निपातेन विहितो नुम् ‘ष्णान्ता षडिति षट्संज्ञाद्वारा ‘षड्भ्यो लुगिति शिस्वरूपसर्वनामस्थानस्य पञ्चेत्यादाविव लुङ्निमित्तं न भवति; तत्सन्निपातेनैव विहितत्वात् , तत्सद्भावनियमेनैव विहितत्वादित्यर्थः । अलुप्तस्यैव सर्वनामस्थानस्य नुन्निमित्तत्वात् , 'न लुमताङ्गस्ये’ति लुमता लुप्तेऽङ्गकार्यनिषेधात् । तथा चालुप्तप्रत्ययत्वेन यत्र निमित्तता तत्र सन्निपातलक्षणन्यायावतारः, यत्र तु ‘प्रत्ययलोपे प्रत्ययलक्षणमि’ति न्यायेन लुप्तेऽपि प्रत्यये कार्यं भवति, तत्रालुप्तत्वविशेषणनैरपेक्ष्येण प्रत्ययत्वमात्रेणैव निमित्तत्वात् न सन्निपातलक्षणन्यायावतारः; प्रत्ययसद्भावस्य तत्रानुपजीव्यत्वात् । एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता स्यात् , तदा प्रत्ययस्यालुप्तत्वेन निमित्ततायामिव भवेदेतन्न्यायावतारः । प्रत्यक्षादेस्तु स्वरूपेणैव निमित्तता स्वप्नाद्यर्थस्याप्यर्थक्रियाकारित्वदर्शनेन प्रागेवोपपादिता । अतो यत् बाध्यते तात्त्विकत्वं तन्नोपजीव्यम् , यच्चोपजीव्यमर्थक्रियासामर्थ्यलक्षणव्यावहारिकप्रामाण्यं तच्च न बाध्यत इति किं केन सङ्गतम् ? तदुक्तं टीकाकृद्भिः–‘उत्पादकाप्रतिद्वन्द्वित्वादिति । अतएव–ज्योतिष्टोमादिविधेरुपजीव्याग्निविद्यावद्विषयत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्ययोग्यतादीतरविषयत्वेन सङ्कोचस्य वा सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वस्य वोपपत्तौ न तात्त्विकसर्वमिथ्यात्वपरत्वकल्पनं युक्तमिति अपास्तम् ; दृष्टान्ते अग्निविद्यादेरिव दार्ष्टान्तिके योग्यतादेस्तात्त्विकस्यानुपजीव्यत्वात् । न हि योग्यता तात्त्विकयोग्यतात्वेन निमित्तम् , किंतु योग्यतात्वेनैव । सकलद्वैताभावस्याधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘तत्सत्यं स आत्मे’त्यादिश्रुत्या सत्यत्वप्रतिपादनात् । न सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वोपपत्तिः । तस्माद्योग्यतादेर्मिथ्यात्वेऽपि वेदान्तबोध्यं सत्यमेवेति स्थितम् । यथा चाविद्यातत्कार्यस्य स्वरूपतो निषेधेऽपि तुच्छवैलक्षण्यं, पारमार्थिकत्वाकारेण निषेधे वा पारमार्थिकत्वधर्मशून्यस्यापि ब्रह्मणः स्वरूपेण सत्त्वं, तथोपपादितमधस्तात् । ननु-तत्त्वमस्यादिवाक्येन प्रत्यक्षाद्यविरोधाय तत्त्वंपदलक्षितयोरैक्यमिव मिथ्यात्वश्रुत्यापि तदविरोधाय प्रत्यक्षादिसिद्धादन्यस्यैव मिथ्यात्वं बोध्यम्; अन्यथा प्रत्यक्षाद्यनुग्रहाय व्यावहारिकमपि सत्त्वं न कल्प्येत, ‘नेह नाने'त्यादिनिषेधेनात्यन्तसत्त्ववोधनात् इति चेन्न; विशिष्टयोरैक्ये विशेषणयोरप्यैक्यापातेन सर्वत्र विशिष्टाभेदपरवाक्यस्य लक्षितविशेष्यैक्यपरत्वनियमेन ‘तत्त्वमसी'त्यत्रापि तथाभ्युपगमात् । तदुक्तम्-‘अविरुद्ध विशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः घटते न यदैकता तदा नतरां तद्विपरीतरूपयोः ॥” इति । मिथ्यात्वबोधकश्रुतौ तु नास्ति प्रत्यक्षादिविरोधः; तात्त्विकत्वांशस्यानुपजीव्यत्वात् , व्यावहारिकसत्त्वस्य चोपजीव्यत्वान्नात्यन्तासत्त्वकल्पनमित्यस्याप्युक्तप्रायत्वात् । ननु–श्रुतेस्तात्पर्यं चैतन्यमात्रे वा, द्वितीयाभावविशिष्टे वा, तदुपलक्षिते वा, नाद्यः; विश्वमिथ्यात्वासिद्धेरिष्टापत्तेः, तस्य स्वप्रकाशतया नित्यसिद्धत्वेन श्रुतिवैयर्थ्याच्च । न द्वितीयः; अखण्डार्थत्वहानात् । अतएव न तृतीयः; काकवदितिवत् द्वितीयाभाववदित्यनेनापि सप्रकारकज्ञानजननेनाखण्डार्थत्वायोगात्, चिन्मात्रस्य नित्यसिद्धत्वेन तदन्यस्य च मुमुक्ष्वज्ञेयत्वेन काकेन संस्थानविशेषस्येव द्वितीयाभावेनोपलक्ष्यस्यान्यस्याभावात् तस्योपलक्षणत्वायोगाच्चेति-चेन्न; काकस्य संस्थानविशेष इव द्वितीयाभावस्य स्वरूपमेवोपलक्ष्यमित्युपलक्ष्याभावनिबन्धनोपलक्षणत्वानुपपत्तेरभावात् । उपलक्षणत्वे हि उपलक्ष्यसत्त्वमात्रं तन्त्रम् , न तु तस्य स्वरूपातिरिक्तत्वमपि; गौरवात् , उपलक्ष्यतावच्छेदकरूपाभावेऽपि स्वतो व्यावृत्तजातिवदुपलक्ष्यत्वसंभवात् । अतएव न सप्रकारकत्वापत्तिः; काकवदित्यत्राप्युपलक्षणस्याप्रकारत्वात् , किंतु स्वरूपातिरिक्तधर्मस्य तत्रोपलक्षणत्वेन सप्रकारत्वम् , इह तु तन्नेति वैषम्यम् । न चोपलक्षणवैयर्थम् ; अनर्थनिवृत्तिहेतुत्वेन द्वितीयाभावद्वारकस्वरूपज्ञानस्योद्देश्यत्वात् , तस्य प्रागसिद्धत्वात् । न च मिथ्यात्वासिद्ध्येष्टापत्तिः; अवान्तरतात्पर्यस्य तत्रापि सत्त्वात् , तद्द्वारैव स्वरूपचैतन्ये महातात्पर्यात् । अतएव-श्रुतिबोध्यस्य विशेषणस्योपलक्षणस्य वा द्वितीयाभावस्य सत्त्वे अद्वैतहानिः, असत्त्वे चादण्डे दण्डीति वाक्यवत् काकहीने काकवदिति वाक्यवच्चाद्वैतवाक्यस्यातवावेदकत्वापत्तिरिति-निरस्तम् ; आद्ये द्वितीयाभावसत्त्वेन द्वितीयाभावासिद्ध्यापादनस्यानुचितत्वात् , अभावस्याधिकरणातिरेकानभ्युपगमाच्च । द्वितीये तु सृष्ट्यादिवाक्यवदुपलक्ष्यस्वरूपसत्यत्वमादाय तत्त्वावेदकत्वात् , मुख्यतात्पर्यविषयस्यासत्यतायामेवातत्त्वावेदकत्वाभ्युपगमात् । अतएव महातात्पर्याभिप्रायेण चैतन्यमात्रे तात्पर्यमित्याद्यपक्षेऽपि न दोषः; अवान्तरतात्पर्येण मिथ्यात्वसिद्धेरपि स्वीकारेणेष्टापत्तेरप्यसंभवात् । ननु–द्वितीयाभावे महातात्पर्याभावः किं प्रमाणान्तरप्राप्त्या, यथा वायुक्षेपिष्ठत्वादौ, उत तद्विरोधित्वेन; यथात्मवपोत्खननादौ, उतोद्देश्यविशेषणत्वादिना यथा ग्रहैकत्वादौ, नाद्यः; त्वयैव द्वितीयाभावस्य प्रमाणान्तरप्राप्त्यनभ्युपगमात् । द्वितीयेऽपि विरोधिमानं न तावत्प्रत्यक्षादि द्वैतग्राहि त्वन्मते तस्यैव श्रुतिबाध्यत्वात् , नाद्वैतवाक्यान्तरम् । तस्यात्ममात्रपरत्वे द्वितीयाभावाविरोधित्वात् , न हि विशेष्यविषयं ‘अग्निहोत्रं जुहोती'ति वाक्यं विशिष्टविषयेण ‘दध्ना जुहोतीति वाक्येन विरुध्यते, द्वैताभावपरत्वे त्वेकविषयत्वेन सुतरामविरोधात् । नापि तृतीयः; ‘ग्रहं संमार्टी'त्यत्र संमार्जनस्येवाखण्डार्थपरे वाक्ये विधेयान्तरस्याभावेन विशेष्यस्य शास्त्रगम्यस्य चिन्मात्रस्याप्राप्तत्वेनोद्देश्यत्वायोगाच्च द्वितीयाभावस्योद्देश्यविशेषणत्वानुपपत्तेः, अविवक्षाहेतोरनुवाद्यत्वस्याप्यभावाच्चेति–चेन्न; स्वयमेव स्वबोधितमपि द्वितीयाभावं द्वितीयत्वादेव निषेधतीति स्वविरोधादेव श्रुतेस्तत्रातात्पर्यात् । मानविरोधित्वमात्रस्य तात्पर्याभावे प्रयोजकत्वात् स्वविरोधेऽपि न क्षतिः । ननु-एकेनैव प्रमाणेनैकस्य प्राप्तिनिषेधावनुपपन्नौ, न; रूपभेदेनाविरोधात् । द्वितीयाभावस्वरूपं हि शास्त्रेण प्राप्यते । तस्य च प्राप्यतावच्छेदकरूपं द्वितीयाभावत्वम् । तच्च न निषेध्यतावच्छेदकम् , किंतु द्वितीयत्वमेव निषेध्यमात्रानुगतम् । तत्र तदनभ्युपगमे तु न तस्य निषेध्यत्वम्, न वा तेनात्मनः सद्वितीयत्वापत्तिरित न कोऽपि दोषः । यत्र तु प्राप्यतावच्छेदकमेव निषेध्यतावच्छेदकं, तत्र प्राप्तिनिषेधशास्त्रयोरतुल्यविषयत्वेऽपि विशेषशास्त्रविषयपरित्यागेन सामान्यशास्त्रप्रवृत्तिः, तुल्यविषयत्वे त्वगत्या विकल्प इति न निषेधस्यासङ्कोचेन प्रवृत्तिः; यथा ‘न हिंस्यात्सर्वा भूतानी’ति निषेधशास्त्रस्य ‘अग्नीषोमीयं पशुमालभेते'त्यादिप्राप्तिशास्त्रविषयेतरविषयत्वं “अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाती' त्यादिप्राप्तिनिषेधशास्त्रयोस्तु विकल्पेनैकविषयत्वम् ; एकस्यैव हिंसात्वस्य षोडशिग्रहत्वस्य च प्राप्तिनिषेधयोरवच्छेदकत्वात् , तत्र निषेधशास्त्रस्यासंकुचद्वृत्तित्वे प्राप्तिशास्त्रस्य सर्वात्मना वैयर्थ्यापत्तिः; प्रकृते च द्वितीयत्वेन रूपेण निषेधस्यैव शास्त्रार्थत्वान्न कस्यापि वैयर्थ्यशङ्का । अतएव द्वितीयाभावनिषेधे पुनर्द्वितीयोन्मजनापत्तिरिति-निरस्तम् । उपपादितमेतत् मिथ्यात्वमिथ्यात्वसाधने । यथा प्रतियोग्यभावयोर्निषेध्यतावच्छेदकैक्ये नैकनिषेधेऽपरसत्त्वापत्तिरिति । न च- स्वेनैव निषिद्धस्य द्वितीयाभावस्य द्वितीयस्येव विशेषणत्वेनोपलक्षणत्वेन वा पुनरुपादानं न युक्तमिति वाच्यम्; अभावबुद्धौ निषिद्धस्यापि प्रतियोगिनः ‘सा शुक्तिरि’त्यत्र प्रतिषिद्धस्यापि पूर्वप्रतीतरजतस्योपलक्षणतयोपादानदर्शनात्, असङ्कीर्णज्ञानप्रयोजकत्वस्य प्रकृतेऽपि तुल्यत्वात् । तस्मात् ‘एकमेवाद्वितीयमित्यादिश्रुतिर्विश्वमिथ्यात्वे प्रमाणमिति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ सामान्येन मिथ्यात्वश्रुत्युपपत्तिः ॥
ननुआपातप्रतिपन्न एव न तावच्छृत्यर्थः; ‘कश्छन्दसां योगमावेद धीर' इति श्रुत्या ‘बिभेत्यल्पश्रुताद्वेद' इति स्मृत्या च वेदार्थस्यातिगहनतोक्तेः, मीमांसावैयर्थ्यप्रसङ्गाच्च, किंतु मानान्तरेण पूर्वोत्तरेण चाविरुद्ध एवार्थः; अविरोधग्रहणार्थं च मीमांसासाफल्यम्, अत एव ‘आज्यैः स्तुवते’ ’आकाशादेव समुत्पद्यन्त' इत्यादावापातप्रतीतघृतगगनादिपरित्यागेनाज्याकाशादिपदानां सामपरमात्माद्यर्थत्वं स्थापितं पूर्वोत्तरमीमांसयोश्चित्राकाशाद्यधिकरणेषु; अन्यथा तत्तत्पूर्वपक्षाभ्युपगमापत्तेः, तथा चोक्तं वार्तिककारैः शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानमित्यत्र-“असन्निकृष्टवाचा च द्वयमत्र जिहासितम् । ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि च ॥ विषयाविषयौ ज्ञात्वा तेनोत्सर्गा पवादयोः । बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ॥ अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते । अन्यस्तु परिपूर्णेन समस्ताङ्गोपसंहृतौ ॥' इति । अन्यत्राप्युक्तम्-‘विरुद्धवत्प्रतीयन्त आगमा यत्र ये मिथः । तत्र दृष्टानुसारेण तेषामर्था विवक्षिताः ॥” इति, तथाच प्रत्यक्षादिविरोधात् पूर्वोत्तरविरोधाच्च नाद्वैतपरत्वमेकमेवेत्यादिवाक्यानामिति–चेन्न; द्वैतप्रत्यक्षस्य चन्द्रप्रादेशिकत्वप्रत्यक्षवत् संभाविताप्रामाण्यतया अद्वैतश्रुतिविरोधित्वाभावात् । यथा च श्रुत्या प्रत्यक्षं बाध्यते, तथा प्रपञ्चितमधस्तात् । किंच प्रत्यक्षं नियतविषयम्, श्रुतिः सर्वविषया; तथाच यत्र प्रत्यक्षेण भेदो न गृहीतः, तत्रैवाभेदश्रुतेरवकाशः । ननु–ययोरैक्यं श्रुत्या बोध्यते तयोर्भेदः प्रसक्तो, न वा । नान्त्यः; अप्रसक्तप्रतिषेधापातात्, नाद्यः; प्रसञ्जकप्रमाणविरोधेनैक्यस्य बोधयितुमशक्यत्वादिति-चेन्न; अन्त्यपक्षाभ्युपगमे दोषाभावात् । अप्रसक्तप्रतिषेध इति च किमप्रसिद्धप्रतियोगित्वं, किं वा निष्प्रयोजनत्वमिति विवेचनीयम् । नाद्यः; अन्यत्र प्रसिद्धस्यैव भेदस्य भेदत्वेनोपस्थितस्य परस्परप्रतियोग्यनुयोगिभावेनान्यत्र निषेधसंभवात् । न च तत्रैव प्रसिद्धिस्तन्त्रम्; निषेधप्रमामात्रोच्छेदप्रसङ्गात् । न द्वितीयः; अनर्थनिवृत्तेरेव प्रयोजनत्वात् , 'नान्तरिक्षेऽग्निश्चेतव्य' इत्यादौ स्तुतिमात्रप्रयोजनेनाप्यप्रयोजनेनाप्यप्रसक्तनिषेधदर्शनाच्च । अथ श्रुत्या ययोरभेदो बोध्यते तयोरुपस्थितिरस्ति, न वा, नान्त्यः; अनुपस्थितयोरभेदबोधनायोगात् । आद्ये सा किं श्रुतिजन्या, प्रत्यक्षादिजन्या वा । नाद्यः; श्रुतेर्मानान्तरागोचराभेदमात्रपरत्वेन घटाद्युपस्थितेस्तज्जन्यत्वाभावेन सर्वाद्वैतासिद्धेः, श्रुतिस्थकिंचनेत्यादिपदानामनुवादकत्वाभ्युपगमात् । द्वितीये तु तयोर्भेदोऽपि प्रत्यक्षादिसिद्ध इति क्वाद्वैतश्रुत्यवकाशः ? मैवम् ; यत् प्रत्यक्षादिना गृह्यते, तद्भदोऽपि तेन गृह्यत एवेति नियमाभावात् । तथा हि – न तावत्पदार्थस्वरूपज्ञानमेव भेदज्ञानम्; अभेदभ्रमोच्छेदप्रसङ्गात् । स्वरूपभेदवादिनामपि स्वरूपज्ञानात् घटत्वादिप्रकारकात् भेदत्वप्रकारकं भेदज्ञानं विलक्षणमेव; अन्यथा भेदाग्रहनिबन्धनव्यवहारानुदयप्रसङ्गात् । अतएव स्वरूपज्ञानोत्तरकालमवश्यं भेदज्ञानमित्यपि न ; अनवस्थाप्रसङ्गाच्च । तथा हि-‘घटपटौ भिन्नौ जानामीति घटपटभेदधीः स्वप्रकाशा वा, अनुव्यवसायसिद्धा वा, साक्षिसिद्धा वा, न स्वप्रतियोगिकभेदविषया; भेदधियः प्रतियोगिधीजन्यत्वनियमेन प्रतियोगिधीव्यक्तिभिन्नव्यक्तित्वावश्यकत्वात् स्वस्या एव स्वजन्यत्वानुपपत्तेः । ज्ञानान्तरेण च तद्भेदग्रहे क्वचित् भेदधीधारा विश्रान्तिरवश्यं वाच्या; अन्यथा सुषुप्तिविषयान्तरसञ्चारादिकं न स्यात् । अतः तत्रापि चरमभेदधीरेवोदाहरणम् । तथा च बाधकत्वाभिमता या घटपटभेदधीः स्वभेदाविषया भासते, तया सह बाध्यत्वाभिमताया ऐक्यधिय ऐक्यं बोधयित्वा निर्बाधा सती श्रुतिः सर्वाभेदे पर्यवस्यति । न ह्यभेदेऽपि बाध्यबाधकभावः; स्वस्यापि स्वबाधकतापत्तेः । तदुक्तं खण्डनकृद्भिः–‘सुदूरधावनश्रान्ता बाधबुद्धिपरम्परा । निवृत्तावद्वयाम्नायैः पार्ष्णिग्राहैर्विजीयते ॥” इति । न च–सिद्धान्ते घटतद्धीभेदग्राहिणा स्वप्रकाशेन साक्षिणा स्वस्मिन्नितरभेदस्यापि ग्रहणान्नानवस्था, अन्यथा स्वस्य घटादिभ्योऽभेदसंशयः स्यादिति वाच्यम् ; साक्षिणः स्वप्रकाशत्वेऽपि स्वनिष्ठेतरप्रतियोगिकभेदग्रहे इतरप्रतियोग्युपस्थितिसापेक्षत्वात् । अन्यथा स्वस्यान्तःकरणाद्यभेदभ्रमो न स्यात् । स्वप्रकाशेन भेदाग्रहेऽपि मानान्तरेण भेदग्रहात् न घटाद्यभेदसंशय इति न किंचिदेतत् । स्यादेतत्-‘घटपटौ भिन्नाविति प्रत्यक्षं स्वस्याद्वैतज्ञानादिना भेदं विनानुपपत्तेस्तमप्याक्षिपतीति सर्वत्र भेदस्याप्रत्यक्षत्वेऽपि नाद्वैतश्रुतेरवकाशः – अत्रोच्यते; आक्षेपो हि अनुमानमर्थापत्तिर्वा । तत्र विवादाध्यासिता बुद्धिः सर्वतो भिन्नेति नानुमानं संभवति; स्वतोऽपि भेदसाधने बाधात् , दृष्टान्तस्य च साध्यविकलत्वात् । यतः कुतश्चित् भेदसाधने त्वनुमानाविषये लब्धावकाशा श्रुतिरभेदं बोधयिष्यति । न च स्वव्यतिरिक्तात् सर्वतो भिन्नेति साध्यम्; अद्वैतवादिनं प्रत्यप्रसिद्धविशेषणत्वात् । एतेन–सर्वं सर्वस्माद्भिन्नमिति वाक्यमपि–निरस्तम्; तदुक्तम्-‘हेत्वाद्यभावसार्वज्ञ्ये सर्वं पक्षयताऽऽस्थिते । किंचित्तु त्यजता दत्ता सैव द्वारद्वयश्रुतेः ॥ इति । नाप्यर्थापत्तिः सर्वभेदविषया; स्वाविषयत्वात् । ययोर्हि भेदं विना यत्रानुपपत्तिर्गृहीता, तयोस्तत्र भेदग्रहेऽप्यनुपपत्तावनुपपत्त्यन्तराग्रहणात् । सर्वत्र तद्ग्रहणे तु धाराविश्रान्तौ चरमधीरुदाहरणम् । तदुक्तम्-‘आद्यधीवेद्यभेदीयाप्यन्यथानुपपन्नता । स्वज्ञानापेक्षणादन्ते बाधते नाद्वयश्रुतिम् ॥ इति । ननु–’यावदुपपादकं तत्सर्वमर्थापत्तेर्विषयः, न तु यत्किञ्चिदुपपादकम् ; तथा चार्थापत्तेरितरस्मात् भेदाभावे तत्रैवाभेदश्रुतेर्लब्धावकाशत्वात् घटपटभेदासिद्ध्यापत्तेरर्थापत्तिभेदस्यापि घटपटभेदोपपादकत्वेनार्थापत्तिविषयत्वं वाच्यम्, अन्यथा दृग्दृश्यसंबन्धानुपपत्तिज्ञाननिवर्त्यत्वानुपपत्तिश्च स्वमिथ्यात्वविषया न स्यात् ; ‘सर्वं खल्विदं ब्रह्मे’ति श्रुतिः ‘नेह नाना’इति ब्रह्मणि भेदमात्रनिषेधानुपपत्तिश्च स्वाभेदविषया न स्यात् । तथाच तत्रापि श्रुत्यन्तरमर्थापत्त्यन्तरं वा वाच्यमिति तवाप्यनवस्थापत्तिः–इति । मैवं वोचः; वस्तुत उपपादकत्वं नार्थापत्तिविषयत्वे तन्त्रम्, किंतूपपादकत्वेन ज्ञातत्वम् ; अन्यथा अर्थापत्तिभ्रमानुपपत्तेः । तथाच येन रूपेणोपपादकत्वं गृहीतं, तद्रूपावच्छिन्नमुपपादकमर्थापत्तेर्विषयः । तत्र यद्यर्थापत्तिगतभेदसाधारणमुपपादकतावच्छेदकमेकं भवेत् , तदा सोऽपि भायादेव । न चैवमस्ति; तदनिरूपणात् । तथा हि—घटपटभिन्नत्वमुपपाद्यम् , तदुपपादकं च न सर्वभिन्नत्वम् ; स्वतोऽपि भेदापत्या तदसंभवात् । नापि स्वातिरिक्त सर्वभिन्नत्वम् ; अद्वैतवादिनं प्रति स्वातिरेकविशेषणासिद्धेः, स्वत्वाननुगमाच्च । तथाच तेन तेन रूपेण तत्तद्भिन्नत्वमेव उपपादकमुपेयम् । अत उपपादकतावच्छेदकनानात्वान्न सर्वमुपपादकमर्थापत्तेर्विषय इति पृथक्पृथगनुपपत्तिज्ञानापेक्षायां सर्वत्रानुपपत्तिज्ञाने अनवस्थानात् क्वचिद्धाराविश्रान्तौ तत्रैव लब्धावकाशा श्रुतिः सर्वाद्वैते पर्यवस्यतीति किमनुपपन्नम् ? दृष्टान्ते च सर्वत्र स्वसाधारणमुपपादकतावच्छेदकमेकमेवेति तदवच्छिन्नतया स्वस्यापि भानमिति वैषम्यम् । तथा हि-दृश्यत्वावच्छिन्नमिथ्यात्वं विना दृक्संबन्धानुपपत्तिग्रहात्तदवच्छिन्न मिथ्यात्वमर्थापत्तेर्विषय इति स्वमिथ्यात्वमपि स्वविषयः । एवमेव ज्ञाननिवर्त्यत्वानुपपत्तेरपि स्वविषयत्वम् ; तत्रापि दृश्यत्वादेरेकस्यैवावच्छेदकत्वात् । एवं च ब्रह्मणि सर्वाभेदबोधिकायाः श्रुतेर्भेदमात्रनिषेधान्यथानुपपत्तेश्च स्वाभेदविषयत्वमविरुद्धम् । न हि सर्वभेदे स्वभेदापत्तिरिव सर्वाभेदे स्वाभेदो दोषाय । तस्मादद्वैतश्रुतिर्बाध्यबाधकयोरैक्यबोधनेन निराबाधा सर्वाद्वैतं प्रतिपादयति । ननु–शब्दबुद्धिकर्मणां विरम्य व्यापाराभावात् कथमादावल्पविषया बुद्धिः पश्चात् बहुविषयापि भवतीत्युच्यत इति–चेन्न; श्रुतितो द्रागेव जातायाः सर्वविषयाया अद्वैतबुद्धेः प्रामाण्यं व्यवस्थापयन्तीनामस्मद्बुद्धीनामेव क्रमेण जायमानत्वात् । अयोग्यताज्ञानं च न शाब्दबोधे प्रतिबन्धकम् , न वा योग्यताज्ञानं हेतुः; येन प्रथमं सर्वाद्वैतबुद्धिर्न स्यात् । तदुक्तम्-‘अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि । अबाधात्तु प्रमामत्र स्वतःप्रामाण्यनिश्चलाम् ॥” इति । वेदान्तकल्पलतिकायामस्यार्थस्य प्रपञ्चो द्रष्टव्यः । एतेन–चरमज्ञानमिथ्यात्वेऽपि न तद्विषयस्य मिथ्यात्वम् ; ज्ञानमिथ्यात्वस्य विषयमिथ्यात्वासाधकत्वात् , अद्वैतज्ञाने व्यभिचारादिति–निरस्तम् ; श्रुत्यैव द्वैतमात्रनिषेध्यत्वबोधनात् । अद्वैतज्ञानविषये च मिथ्यात्वबोधकाभावादेव सत्यत्वम्, न तु ज्ञानमिथ्यात्वादिति न किंचिदेतत् । ननु-द्वैतज्ञानाद्वैतज्ञानयोरभेदे कथं बाध्यबाधकभावः ? न च व्यावहारिकभेदमात्रेण सः; द्वैतज्ञानस्यापि बाधकत्वापत्तेः-इति चेन्न; व्यावहारिकभेदमात्रस्य बाधकत्वाप्रयोजकत्वात् । यद्धि परीक्षितप्रमाणभावत्वेन बलवत् , तत् बाधकम् , यत्तु सन्दिग्धप्रमाणभावत्वेन दुर्बलं तत् बाध्यमिति व्यवस्थायां द्वैतज्ञानस्य दुर्बलत्वेनाबाधकत्वस्याद्वैतज्ञानस्य च बलवत्त्वेन बाधकत्वस्य शब्दप्रत्यक्षबलाबलविचारे दर्शितत्वात् । यत्तु–“आपो वा इदं सर्वं भूतमि’त्यादिश्रुतिः ‘विमतं जलाभिन्नं प्रतीतत्वात् जलवदित्यनुमानं वा स्वबाधकस्य जलाभेदं गृहीत्वा निर्बाधं सत् त्वदुक्तन्यायेन सर्वस्य जलाभेदं बोधयेत् इति, तन्न; जलाभेदबोधनेऽपि बाध्यबाधकयोरैक्याबोधनात् बाधकस्य बाधकत्वोपपत्तेः, ऐक्यज्ञानभेदज्ञानयोर्बाध्यबाधकभावस्य जलाभेदज्ञानेनानपायात् । बाधकाभेदो हि बाधकत्वाभावे प्रयोजकः; बाधकस्य स्वबाधकत्वादर्शनात् । अतो न बाध्यबाधकैक्यज्ञानस्य जलाभेदज्ञानसाम्यम् । एतेन–सर्वं सर्वस्माद्भिन्नमिति मद्वाक्यमद्वैतवाक्यतद्भानतद्विषयाणां तेभ्यो भेदमादौ गृहीत्वा निर्बाधं सत्सर्वभेदे पर्यवस्यतीति–निरस्तम् ; बाध्यबाधकयोरभेदे बाधकत्वाभाववत् भेदेऽपि बाधकत्वं न स्यादित्यत्र हेत्वभावात् पूर्वोक्तदोषाच्चेति दिक् । सर्वासत्त्वं सर्वमिथ्यात्वान्नातिरिच्यते; अतः ‘सर्वमसदिति प्रत्यवस्थानमनवकाशम् । ननु–श्रुत्या सर्वस्य मिथ्यात्वं वा बोध्यते, ब्रह्माभिन्नत्वं वा । आद्ये ‘सर्वं खल्विदं ब्रह्म’इति सामानाधिकरण्यं न स्यात् ; सत्यानृतयोरैक्यायोगात् ।। द्वितीये 'इदं रजतं’, ‘गौरोऽहमि’त्यादिभ्रमाणां प्रमात्वं स्यात्; आत्मनि देहादिभेदस्यानृताद्व्यावृत्तेश्च बोधकानां वेदान्तानां ‘नेदं रजतमि’त्यादिबाधकस्य चाप्रामाण्यं स्यात् । घटज्ञानेनैव तदभिन्नब्रह्मतदभेदादेः सर्वस्यापि वस्तुतो ज्ञातत्वेन सार्वज्ञ्यम् , वेदान्तानां वैयर्थ्यम् , सद्यो मोक्षश्च स्यात्, सुखदुःखबन्धमोक्षभेदाभेददूषणभूषणजयपराजयभ्रान्तिप्रमादादेरपि वस्तुतो भेदाभावेन सर्वसङ्करापत्त्या स्वक्रियास्वन्यायस्ववचनविरोधाश्च स्युरिति-चेन्न; आद्ये ‘मृद्घटः’ ‘इदं रजतमि’त्यादाविव उपादानोपादेयभावेनापि सामानाधिकरण्योपपत्तेः। द्वितीये वस्तुतो भेदाभावेऽपि आविद्यकभेदमादाय सर्वव्यवस्थोपपत्तेः । न च-भेदस्याप्यनाविद्यकब्रह्माभिन्नत्वेनाविद्यकत्वायोग इति–वाच्यम् ; आविद्यकत्वस्याप्याविद्यकस्यैवाङ्गीकारात्, अथाविद्यकत्वस्यापि ब्रह्माभिन्नत्वात् कथमाविद्यकत्वमिति चेत्, तस्मिन्नपि तस्य कल्पितत्वादिति गृहाण । ननु मुक्तावा विद्यकस्यापि भेदस्याभावेनानन्दस्य दुःखाभिन्नत्वेनापुरुषार्थत्वापातः, तत्तदसाधारणस्वभावस्य तत्र तत्राभावेऽपि तत्तदभेदे पारिभाषिकोऽयमभेदो भेदे पर्यवस्येत् , असाधारणरूपेण भेदमभ्युपेत्य सद्रूपेण भेदनिषेधेऽपि इष्टापत्तिरप्रसक्तनिषेधश्चेति–चेन्न; एकस्यामेव ब्रह्मव्यक्तौ तत्तदसाधारणस्वभावानां कल्पितत्वेनासत्त्वात् सर्वकल्पनानिषेधकाले कल्पितधर्मावच्छिन्नभेदाभेदादिप्रसक्तेरयोगात्। अतएव नाप्रसक्तप्रतिषेध इष्टापत्तिर्वा; ‘सद् द्रव्यं’ ‘सन् गुण' इत्यादिप्रतीत्या प्रसक्तानां तत्तद्धर्माणां ब्रह्मणि प्रतिषेधात् । अतः सर्वधर्मशून्याया एकस्या एव सद्व्यक्तेश्चिदानन्दरूपायाः प्रतिपादनान्न पारिभाषिकोऽयमभेद इति सिद्धम् । तदेवं ‘सर्वं ब्रह्माभिन्नमि’ति मते मिथ्याभूतस्य ब्रह्मभेदेऽपि सन्मात्रमेव ब्रह्माभिन्नमिति मते वा न प्रत्यक्षादिविरोधः, नापि पूर्वोत्तरविरोधः ॥
॥ इत्यद्वैतश्रुतेर्बाधोद्धारः ॥
ननु–यद्यपि ’सलिल एको द्रष्टा अद्वैत' इत्यत्र सलिलशब्दस्य तत्सादृश्यात् स्वच्छत्वमात्रपरत्वात् । तस्य च सर्वमलासंसर्गित्वस्वरूपस्याद्वैतेऽप्युपपत्तेः ‘सदेव सोम्येदमग्र आसी'दित्यत्र चाग्रपदस्य ‘तदैक्षत नामरूपे व्याकरोदित्यादेश्च कालेक्षणनामरूपात्मकप्रपञ्चप्रापकस्याविद्यकद्वैतविषयकत्वेन वास्तवाद्वैतविरोधित्वाभावः; तथापि ‘सदेव सोम्येदमग्र आसीदि’त्यनेन इदं शब्दोदितस्य विश्वस्य सदभेदेन सत्त्वमुक्त्वा पुनरद्वितीयपदेन तन्निषेधे व्याघातः, न हि ‘सदासी'दित्यस्यासदासीदित्यर्थ इति–चेन्न; सद्व्यतिरेकेण नासीदित्यर्थस्यैव निषेधार्थत्वात् । विवृतं चैतत् भाष्यकारादिभिरारम्भणाधिकरणे । न च-सद्व्यतिरेकेणासत्त्वोक्तौ सदात्मना सत्यत्वमागच्छतीति वाच्यम् ; आगच्छतु नाम, को हि ब्रह्माभिन्नस्यासत्त्वसाधनाय प्रवृत्तो यो बिभीयात् । अद्वैतवाक्यस्य च षड्विधतात्पर्यलिङ्गवत्तया बलवत्वेनाविद्यकद्वैतप्रतिपादकत्वं सृष्ट्यादिवाक्यानामिति श्रवणस्वरूपनिरूपणे वेदान्तकल्पलतिकायामभिहितमस्माभिः । इहाप्यभिधास्यते षड्विधतात्पर्यलिङ्गानि प्रदर्शयद्भिः । अत एकविज्ञानेन सर्वविज्ञानप्रतिज्ञयोपक्रमात् 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसी'त्युपसंहाराच्च अद्वैतस्यैव महाप्राकरणिकतया तदनुसारेण तद्वाक्यस्थपदानां व्याख्येयत्वावधारणात् नानार्थपदानामर्थान्तरोपस्थापकत्वसंभवेऽपि प्रकृतवाक्यार्थानन्वयितया तत्परित्यागेन प्रकृतवाक्यार्थानुकूलपदार्थोपस्थितिपरत्वमेवास्थेयम् । तत्र न द्वितीयमद्वितीयमिति तत्पुरुषाभ्युपगमे न द्वितीयम् , किंतु प्रथमं तृतीयं चेत्यर्थः स्यात्, स च न संभवति; तयोरपि किंचिदपेक्ष्य द्वितीयत्वात् , अतो न विद्यते द्वितीयं यत्रेति बहुव्रीहिरेवादरणीयः । न च–एकेनैवाद्वितीयपदेन भेदत्रयनिषेधसंभवे एकावधारणपदयोर्वैयर्थ्यमिति–वाच्यम् ; विजातीयं किंचिदपेक्ष्य द्वितीयत्वावच्छिन्ननिषेधस्याद्वितीयशब्दार्थत्वात् । अयं चात्र सङ्कोचो बलीवर्दपदसन्निधानात् गोपद इव सजातीयस्वगतभेदनिषेधकैकावधारणपदसन्निधिप्रयुक्त एव । तदुक्तम्-‘वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्सजातीयो विजातीयः शिलादितः ॥ तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते । एकावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥” इति । स्वगतभेदः नानात्वरूपजीवेश्वरभेदः । सजातीयभेदोऽत्र द्रव्यत्वादिना सजातीयपृथिव्यादिभेदः , विजातीयभेदो गुणादिभेदः । अथवा-जडभेदो विजातीयभेदः। चैतन्य भेदः सजातीयभेदः । ज्ञानानन्दादिधर्मभेदः स्वगतभेदः । यदि च “अस्य गोर्द्वितीयोऽन्वेष्टव्य" इत्युक्ते ’गौरेव द्वितीयोऽन्विष्यते नाश्वो न गर्दभ' इति महाभाष्यानुसारात् समानजातीयद्वितीयपरत्वं द्वितीयशब्दस्य तदा अद्वितीयशब्दस्य सजातीयभेदनिषेधपरत्वम् ; विजातीयस्वगतभेदनिषेधपरत्वं तु एकावधारणपदयोर्यथेष्टं व्याख्येयम् । अथवा अद्वितीयपदेनैव भेदत्रयनिषेधः, एकावधारणपदे तु सङ्कोचशङ्कापरिहाराय । यत्तु केनचित् प्रलपितं-द्वितीयशब्दः सहायवाची; ‘असिद्वितीयोऽनुससार पाण्डव'मिति प्रयोगात्, ‘असिद्वितीयः असिसहायः' इति महाभाष्योक्तेश्च; तथाचाद्वितीयमसहायमित्यर्थोऽस्तु, एवमेकशब्दस्यापि नानार्थत्वेनाविरुद्धार्थमादायोपपत्तौ न मिथ्यात्वपर्यवसायिताऽऽस्थेया । तथाच ‘एके मुख्यान्यकेवला' इत्यमरः, “एकशब्दोऽयमन्यप्रधानासहायसङ्ख्या प्रथमसमानवाची"ति ‘एको गोत्र' इति सूत्रे कैयटः । ’ष्णान्ता षडि’ति सूत्रे महाभाष्यकारोऽपि एकशब्दोऽयं बह्वर्थः, अस्ति सङ्ख्यार्थः, अस्त्यसहायवाची, अस्त्यन्यार्थ इत्यादि व्याख्यातवान् । तथा च जीवादिभ्योऽन्यत्वं प्राधान्यं वा एकशब्दार्थोऽस्तु । एवमन्यान्यपि श्रुतिपदानि व्याख्येयानि-इति; तत् पूर्वोक्तयुक्तिभिरपास्तम् । विस्तरेण च वक्ष्यते तात्पर्यनिरूपणे । तदेवं सद्रूपे ब्रह्मणि पदत्रयेण भेदत्रयनिषेधात् तद्भिन्नमिथ्यात्वे पर्यवसितम् ‘एकमेवाद्वितीय मि’ति वाक्यम् । एवमन्या अपि श्रुतयः स्मृतयश्च ग्रन्थविस्तरभयान्नोदाहृताः । स्वयमेव सूरिभिराकरे द्रष्टव्याः ॥
॥ इत्यद्वैतसिद्धौ सर्वाद्वैतश्रुतेः अद्वैततात्पर्यकत्वनिर्णयः ॥
‘तरति शोकमात्मवित्’ ‘तथा विद्वान्नामरूपाद्विमुक्तः ‘ "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥” इत्यादिश्रुतिस्मृतिबोधितज्ञाननिवर्त्यत्वान्यथानुपपत्तिरपि बन्धमिथ्यात्वे प्रमाणम् ; सत्यत्वे ब्रह्मवदनिवर्त्यत्वापत्तेः । तथा हि-शुक्तिरूप्यरज्जुसर्पादौ ज्ञाननिवर्त्यत्वे न तावत्तत्तद्रूपवत्त्वं ज्ञाननिवर्त्यतावच्छेदकम् ; अननुगमात्, किंतु सर्वानुगतं 'मिथ्यात्वमेवाज्ञानकल्पितत्वापरपर्यायमवच्छेदकम् ; एवं ज्ञानस्यापि तन्निवर्तकत्वे न शुक्त्यादिविषयत्वमवच्छेदकम् ; अननुगमात् , किंतु सर्वानुगतमधिष्ठानप्रमात्वमेव । तथाच यत्र ज्ञानस्याधिष्ठानप्रमात्वेन निवर्तकता, तत्र मिथ्यात्वेनैव निवर्त्यतेति नियमः सिद्ध्यति । एतादृशनियमानभ्युपगमे चानन्तनियमकल्पनागौरवरूपो बाधकस्तर्कः । तथा हि—यन्निष्ठा यदाकारा प्रमारूपान्तःकरणवृत्तिरुदेति, तन्निष्ठं तदाकारमज्ञानं नाशयतीति नियमस्य सिद्धत्वात् , उपादाननाशस्य चोपादेयनिवर्तकत्वात् शुक्त्यादिज्ञानेन तत्तदाकाराज्ञाननाशे तदुपादेयानां रजतादीनां निवृत्तिरौचित्यावर्जितैवेति नियमान्तराकल्पनेन लाघवमनुकूलस्तर्कोऽस्मत्पक्षे । अज्ञानोपादेयत्वं च शुक्तिरजतादीनामन्वयव्यतिरेकसिद्धमग्रे स्थास्यति । एवं स्थिते कृत्स्नस्यापि प्रपञ्चस्यात्मप्रमानिवर्त्यत्वे तदज्ञानकल्पितत्वमेव तत्रावच्छेदकं कल्प्यते, नत्वननुगतमाकाशत्वादि; न वा ब्रह्मभिन्नत्वं सद्भिन्नत्वं वा सर्वानुगतमपि; तुच्छेऽतिप्रसक्तेः, तद्वारकविशेषणप्रक्षेपे तु सदसद्विलक्षणत्वरूपमिथ्यात्वमेव निवर्त्यताप्रयोजकं पर्यवसितम्; अन्यथा नियमान्तरकल्पनागौरवापत्तेः । तथाच शुक्त्यादिज्ञानस्य येन रूपेण निवर्तकत्वं, तेन रूपेणात्मज्ञानस्य निवर्तकत्वम् ; रूप्यादौ येन रूपेण निवर्त्यत्वं, प्रपञ्चे तद्रूपं विनानुपपद्यमानं स्वोपपादकतया तत्र तत् कल्पयतीति सिद्धं मिथ्यात्वम् । ननु—भवेदेतदेवम् ; यद्यात्मज्ञानस्य प्रपञ्चे का निवर्त्ये शुक्त्यादिज्ञानसाधारणमधिष्ठानप्रमात्वमेवावच्छेदकमित्यत्र किंचिन्मानं भवेत् ; रूपान्तरेणापि निवर्तकत्वसंभवात् , श्रुतिस्तु द्वैतप्रपञ्चस्याद्वितीयात्मज्ञानं निवर्तकमित्येतावन्मात्रे प्रमाणम्, न त्ववच्छेदकविशेषेऽपि । न च ज्ञाननिवर्त्यतामात्रान्मिथ्यात्वसिद्धिः; सेतुदर्शनादिनिवर्त्यदुरितादिषु व्यभिचारात्, तत्र विहितक्रियात्वादिना निवर्तकत्वान्न व्यभिचार इति चेत्, प्रकृतेऽपि रूपान्तरं नावच्छेदकमिति कुतो निरणायि ? ज्ञानस्य हि स्वप्रागभावं प्रति प्रतियोगित्वेन निवर्तकता, पूर्वज्ञानादिकं प्रति तु उत्तरविरोधिगुणत्वेन, संस्कारं प्रति फलत्वेन, रागादिकं प्रति विषयदोषदर्शनत्वेन, विषं प्रति गरुडध्यानत्वेन, सेत्वादिदर्शनस्य दुरितं प्रति विहितक्रियात्वेन, एवं च मिथ्यात्वं विनापि ज्ञाननिवर्त्यत्वदर्शनात् न तन्मिथ्यात्वस्य साधकम् ; उदाहृतेष्वपि सत्यत्वासंप्रतिपत्त्या मिथ्यात्वमेवास्तीति चेत्, अस्तु वा मास्तु; ज्ञाननिवर्त्यत्वमात्रं तु न तस्य साधकमिति ब्रूमः, हेत्वन्तरेण - सिद्धौ चैतदुपन्यासो व्यर्थः । शुक्तिरूप्यादौ कथमिति चेच्छ्रुणु; अधिष्ठानज्ञानत्वेन तत्र ज्ञानस्य निवर्तकत्वात् । अधिष्ठानज्ञानत्वं हि अज्ञाननाशकज्ञानत्वं वा, अज्ञानसमानविषयकप्रमात्वं वेति तेन रूपेण निवर्तकत्वे तन्निवर्त्यस्य तज्ज्ञानसमान विषयकाज्ञानोपादानकत्वरूपमिथ्यात्वं सिध्यतीति युक्तं शुक्त्यादिज्ञानसमानविषयकाज्ञानोपादानकत्वेन रजतादेर्मिथ्यात्वम्, सेत्वादिदर्शनादिनिवर्त्यदुरितादेस्तु न निवर्तकज्ञानसमानविषयकाज्ञानोपादानकत्वमिति न मिथ्यात्वम् । एवं चात्मज्ञानस्यापि विहितक्रियात्वेन निवर्तकत्वसंभवात् अधिष्ठानज्ञानत्वेन च निवर्तकत्वे मानाभावात् नात्माज्ञानोपादानकत्वरूपमिथ्यात्वसिद्धिः प्रपञ्चस्येति प्राप्तम् । अत्रोच्यते; आत्मज्ञानस्याप्यधिष्ठानज्ञानत्वेनैव प्रपञ्चं प्रति निवर्तकत्वम्, प्रकारान्तरासंभवात् । तथा हि प्रतियोगित्वं तावन्नावच्छेदकम् ; प्रपञ्चस्य भावरूपत्वात् , ज्ञानस्य प्रागभावनिवृत्तिरूपत्वेन प्रतियोगित्वेन प्रागभावनिवर्तकत्वासिद्धेश्च । नाप्युत्तरगुणत्वम् ; आकाशादेरात्मविशेषगुणत्वाभावात् , इच्छादेरपि प्रपञ्चनिवर्तकत्वापाताच्च । नापि फलत्वम् ; संस्कारस्य स्मरणजनकत्ववदाकाशादेरात्मज्ञानजनकत्वाभावात् , संस्कारस्य स्मृत्यनाश्यत्वेनोदाहरणासिद्धेश्च । विषयदोषदर्शनस्य तु रागादिनिवर्तकत्वं रागादिकारणीभूतबलवदनिष्टाननुबन्धीष्टसाधनत्वभ्रमरूपतत्कारणनिवर्तकत्वेनेति न प्रकृतोदाहरणादतिरिच्यते; शक्तिरूप्यतुल्यत्वात् । गरुडध्यानं तु न प्रत्युदाहरणम् ; ध्यानस्य रागादेरिव ज्ञानत्वानभ्युपगमात्, ज्ञानस्येच्छानधीनत्वेन तदधीनज्ञानापेक्षया वैलक्षण्यात् । स्पष्टं चैतदाकरे । ज्ञानत्वेऽपि तस्य सेतुदर्शनपक्षान्नातिरेकः; शास्त्रविहितत्वाविशेषात् । केवलं सेत्वादिदर्शनवद्विहितक्रियात्वमवशिष्यते । तच्च न संभवति; ज्ञानस्य कर्तुमकर्तुमशक्यत्वेन विधेयत्वायोगात् । विस्तरेण च ज्ञाने विधिराकरेषु निराकृतः । निराकरिष्यते चेहापि । सेतुदर्शने कथमिति चेत् ? विशिष्टाकारेण विधेयत्वोपपत्तिः । न हि सेतुदर्शनमात्रस्य दुरितनाशकत्वम् । तत्रत्यम्लेच्छानामपि दुरितनाशप्रसङ्गात् , किंतु परराष्ट्रादुपस्थानादिपूर्वकव्रतकलापविशिष्टस्य; तथाच छत्रपादुकादिवर्जनदोषोद्घोषणदूरदेशगामित्वभिक्षाभोजित्वादिनियमानां कृतिसाध्यत्वात् तद्विशिष्टं सेतुदर्शनमपि कृतिसाध्यमिति विशिष्टरूपेण विधानोपपत्तिः । आत्मज्ञाने तु नास्ति किंचिद्विशेषणमपि कृतिसाध्यम् , येन तद्विशिष्टत्वेनापि विधेयत्वं स्यात् ; कर्मसमुच्चयस्य निराकरिष्यमाणत्वात् , बन्धस्याज्ञानमात्रहेतुकत्वेन ज्ञानातिरिक्तनिवर्तकानपेक्षणाच्च । बन्धस्याज्ञानहेतुकत्वं च ‘मायां तु प्रकृतिं विद्यात् “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः' इत्यादिश्रुतिस्मृतिन्यायसिद्धम् । वक्ष्यते चाग्रे । अज्ञाननिवर्तकज्ञानस्य चोत्पत्तिमन्तरेणान्यापेक्षा नास्तीति शुक्त्यादिज्ञाने दृष्टम् । तथाचोक्तं वार्तिककृद्भिः –“तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति ॥ इति । ‘प्रत्यग्याथात्म्यधीरेव प्रत्यगज्ञानहानिकृत् । सा चात्मोत्पत्तितो नान्यद्धान्तध्वस्तावपेक्षते ॥” इति च । अत एव 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूतत्केन कं पश्येदि’त्यादिश्रुतिः, ‘या 'निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥' इत्यादिस्मृतिश्चाविद्यावस्थायां संसारोपलम्भं विद्यावस्थायां च तदनुपलम्भं दर्शयति । तस्मादधिष्ठानप्रमात्वेनात्मज्ञाननिवर्त्यत्वाच्छुक्तिरूप्यादिष्विव बन्धेऽपि मिथ्यात्वं सिद्धम् ।। यत्वीश्वरज्ञानेन सत्यं घटादि निवर्तत इति प्रत्युदाहरणम् । तन्न; ईश्वरज्ञानस्य तार्किकमतेऽपि उपादानगोचरापरोक्षज्ञानत्वेनैव कारणत्वात् , अभावस्य च निरुपादानत्वात् ; अभावं प्रति कारणत्वे मानाभावात् , सोपादानत्वे तु समवेतत्वेन तस्यापि भावत्वापत्तेः, अत्यन्ताभावादिवच्च तदजन्यत्वेऽपि ध्वंसस्य तद्विषयत्वोपपत्तेः । न च तादृगीश्वरज्ञाने संप्रतिपत्तिरप्यन्येषामिति न काप्यनुपपत्तिः । यथा च शुक्त्यादिज्ञानस्य रूप्यादिनिवर्तकत्वमप्रामाण्यज्ञानविरहमपेक्ष्यैव, एवमात्मज्ञानस्यापि श्रवणादिनिवृत्तावसंभावनादिनिवृत्तिरूपाप्रामाण्यज्ञानविरहापेक्षत्वमिति न किंचिदप्यधिकं कल्पितम्। आत्मज्ञानस्य सर्वसुकृतसाध्यत्वं शुक्त्यादिज्ञानापेक्षया विलक्षणमिति तु दृष्टान्तदार्ष्टन्तिकयोर्वैधर्म्यमात्रोद्भावनात् वैधर्म्यसमा जातिः । आज्ञनस्य च समानाधिकरणसमानाकारज्ञाननिवर्त्यत्वम् । जीवन्मुक्तौ च प्रारब्धकर्मप्रतिबन्धेन बन्धनाशविलम्ब इत्यादि सर्वमुपरिष्टादुपपादयिष्यते । सत्यस्य ज्ञाननिवर्त्यत्वे तु आश्रयविषयोभयसंबन्धित्वादिना अतिप्रसङ्गो विवरणकारैर्वर्णितः । तस्मादधिष्ठानज्ञानत्वेन ज्ञाननिवर्त्यत्वं मिथ्यात्वे प्रमाणमिति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ ज्ञाननिवर्त्यत्वान्यथानुपपत्तिः ॥
शुक्तिरूप्यस्वप्नादिवत् दृष्टिसृष्ट्यन्यथानुपपत्त्यापि जगतो मिथ्यात्वसिद्धिः । अथ केयं दृष्टिसृष्टिः ? (१) दृष्टिरेव सृष्टिरिति वा (२) दृष्टिव्यतिरिक्तसृष्ट्यभावो वा (३) दृष्टिव्यतिरेकेण सृज्याभावो वा (४) दृष्टिसामग्रीजन्यत्वं वा (५) दृष्टिसमानकालीनसृष्टिर्वा (६) दृष्टिसमानसत्ताकसृष्टिर्वा (७) सदसद्विलक्षणत्वं वा (८) त्रिविधसत्त्वबहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा (९) अज्ञातसत्त्वाभावो वा (१०) ज्ञातैकसत्त्वं वा । आद्ये वृत्तिरूपा, चैतन्यरूपा वा, दृष्टिरभिमता । प्रथमे चरमवृत्तिविषयब्रह्मणोऽपि दृष्टिसृष्ट्यापत्तिः । द्वितीये सर्वदापि सृष्ट्यापत्तिः । न द्वितीयः; चैत्रेण सृष्टो मया दृष्ट इति वैलक्षण्येन व्यवहारानुपपत्तेः । न तृतीयः; ‘ज्ञातो घटो न ज्ञानमि'ति अनुभवविरोधात् । न चतुर्थः; एकसामग्रीप्रसूतत्वेन घटादेर्दृष्ट्यभिन्नत्वेनानन्तरोक्तदोषात् । न पञ्चमः; शाब्दादिज्ञानसमकालोत्पन्नघटादौ 'सिद्धसाधनात्, तद्वदन्यत्रार्थान्तरतापत्तेश्च । न षष्ठः; उभयसत्त्वेऽप्युपपत्तेः सिद्धसाधनात् । न सप्तमः; अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः । नाष्टमः; त्रिविधसत्त्वमध्ये प्रातिभासिकसत्त्वस्याप्यन्तर्भावेन दृष्टिसृष्टिपक्षे तद्वति जगति तद्बहिर्भावानुपपत्तेः । न नवमः; तुच्छसाधारण्यात् । न दशमः; सुखादौ सिद्धसाधनात् , तद्वदन्यत्रार्थान्तराच्चेति–चेन्न; दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्त्वस्याज्ञातसत्त्वाभावस्य वा, प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा, द्रष्ट्रन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात् । तथाच न सुखाद्यंशे सिद्धसाधनम् , तद्वदन्यत्रार्थान्तरं वा । ननु–‘जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा। अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥’ इति प्राचां वचनेन बौद्धं प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्वप्रतिपादकेन च सूत्रभाष्यविवरणादिग्रन्थेन विरोध इति–चेन्न; अनाद्यतिरिक्तसृष्टिविषय एव दृष्टिसृष्टिस्वीकारात्, कारणात्मना स्थायित्वस्वीकाराच्च । तावतैव बौद्धाभिमतक्षणिकत्वनिराकरणोपपत्तेर्नाकरविरोधः, प्रत्युताकरेषु बहुशो दृष्टिसृष्टिरुपपादितैव । नन्वेवं—प्रतीतिमात्रशरीरत्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्यर्थं ज्योतिष्टोमादिविधेः ब्रह्मसाक्षात्कारार्थं श्रवणादिविधेराकाशादेर्वाय्वादिहेतुत्वस्य चोक्तिरयुक्तेति–चेन्न; स्वाप्नकार्यकारणभावबोधकवाक्यवदुपपत्तेः । न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च स्वप्नवाक्यतन्मीमांसातुल्यतापत्तिः; विषयबाधाबाधाभ्यां विशेषोपपत्तेः । अत एव तृप्यर्थं भोजने परप्रत्यायनार्थं शब्दादौ च प्रवृत्तेरयोगेन स्वक्रियाव्याघात इति–निरस्तम्: स्वाप्नव्यवहारवदुपपत्तेः । अथैवं—घटादेः स्वज्ञानात्पूर्वमसत्त्वेन प्रतिकर्मव्यवस्थानुपपत्तिः, अधिष्ठानस्यापि शुक्तीदमंशस्य रूप्यादिवत् ‘इदं रजतमि’ति ज्ञानात्प्रागसत्त्वेन संप्रयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इत्यस्य स्वरूपलक्षणस्य चायोग इति–चेन्न; प्रतिकर्मव्यवस्थायाः संप्रयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषयत्वात् । सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इति स्वरूपलक्षणं तु दृष्टिसृष्टिपक्षेऽप्यविरुद्धम् , न हीदमंशावच्छिन्नं चैतन्यं न वस्तु; न वा मिथ्यारूप्यस्य तेन सह न संभेदावभासः । न च इदं रूप्यमिति ज्ञानकाले शुक्तित्वादेरभावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रक्रियाविरोध इति वाच्यम् । ‘इदं रूप्य'मिति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात् । नहि सत्ताकाल इव सत्ताविरहकालेऽपि अज्ञानं विरुध्यते । न च–‘इदं रूप्यं नेदं रूप्यमि’ति ज्ञानयोर्भिन्नाविषयत्वेन बाध्यबाधकभावानुपपत्तिरिति वाच्यम् ; भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तेः । न च-रूप्यादिबाधस्यापि दृष्टिसृष्टित्वे तेन रूप्यादेर्मिथ्यात्वासिद्धिरिति वाच्यम्; बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम्, न त्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्यावहारिकबाधवत् प्रातिभासिकेन प्रातिभासिकबाधाविरोधात् । न च–सुषुप्तिप्रलयादौ जीवब्रह्मविभागस्याप्रतीतत्वेनाविद्यमानतया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापत्तिरिति वाच्यम् ; जीवब्रह्मविभागादेरनादित्वेन दृष्टिसृष्टित्वानभ्युपगमस्योक्तत्वात् । न च सुषुप्तं प्रति संस्कारादेरप्यभावेन तस्य पुनः प्रबोधायोगः; कारणात्मना संस्कारादेः सत्त्वात् । न च मोक्षस्य दृगन्यत्वेन स्वाप्नमोक्षवत् दृष्टिसृष्ट्यापत्तिः; मोक्षस्य ब्रह्मस्वरूपत्वेन दृग्भिन्नत्वासिद्धेः । न च चैतन्यमात्ररूपा दृष्टिर्न सृष्टिः, किंतु वृत्तिविशिष्टचैतन्यरूपा वा, वृत्तिरूपा वा, दृष्टिः सृष्टिरिति वाच्यम् । तथाच तस्या अपि दृष्ट्यन्तरं सृष्टिरित्यनवस्थेति वाच्यम् , चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समानसत्ताकतया घटादेः सदातनत्वापत्तिः; तथापि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः । वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था । अत एव दोषाज्ञानादृष्टदेहेन्द्रियादीनामभावे न भ्रम इति तेषामपि दृष्टिसृष्टित्वे अनवस्थेति–निरस्तम्; स्वाप्नभ्रमवद्देहेन्द्रियादिनैरपेक्ष्येणाप्युपपत्तेः । अन्वयव्यतिरेकानुविधानं च तद्वदेव । न च दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिरिति वाच्यम्; ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याज्ञेयत्वाभाववत् दृष्टिसृष्टेर्दृष्टिसृष्टित्वेऽपि घटादेर्दृष्टिसृष्टित्वोपपत्तेः । ननु–ऐक्यप्रत्यभिज्ञाविरोधः; पूर्वकालप्रतीतस्येदानीमभावात् , न चैषा भ्रान्तिः; दीपादौ परिणामभेदस्येवेह बाधकस्याभावात् , तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य प्रसङ्ग इति चेन्न; ‘नेह नाने'त्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽवधृते रज्जुसर्पादिवत् प्रतिभासमात्रशरीरत्वमेव प्रतिभासकालातिरिक्तकालसत्त्वे बाधकम् , अतो भिन्नकालानामात्मभिन्नानां प्रत्यभिज्ञा भ्रान्तिः । आत्मन्येकप्रतीतिरेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः । एककालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात् । पुरुषान्तरप्रतीतेन सहैककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव; प्रतिभासस्य भेदात् । यथा एकस्यामेव रज्ज्वां मन्दान्धकारवर्तिन्यां दशानां युगपत् सर्पभ्रमेण पलायमानानां परस्परसंवादेनैक एव सर्पः सर्वैरनुभूयत इति प्रत्यभिज्ञा भ्रमः; अन्यभ्रमसिद्धस्यान्येन ज्ञातुमशक्यत्वात् । ननु–अत्र कथमभेदभ्रमः ? तत्कारणस्य सादृश्यादेः कस्याप्यभावादिति चेन्न; स्वप्नाभेदभ्रमवत् दृष्टिसृष्टिसिद्धसादृश्यादिसंभवात् । न चैवम् अभेद एवोत्पद्यतामिति वाच्यम् ; इष्टापत्तेः, रजुसर्पादिवदुत्पन्नस्यैव ग्रहणनियमात् । न च क्वचिदुत्पद्यते क्वचिन्नेत्यत्र नियामकाभावः। मायाया विचित्रशक्तिकत्वाभ्युपगमात् । न च-सोऽयं देवदत्त' इति दृष्टान्तेन तत्त्वमस्यादिवाक्ये जहदजहल्लक्षणयैक्यपरत्वोक्त्ययोग इति वाच्यम् , यद्यपि धर्मवद्धर्म्यभेदोऽपि बाधित एवेति जहदजहल्लक्षणापि न युज्यते; तथापि यदा धर्माभेदो बाधान्न गृहीतः, किंतु धर्म्यभेद एव, तदा ‘सोऽयमि'त्यादौ जहदजहल्लक्षणासंभवेन दृष्टान्तत्वोपपत्तिः । न चाभेदस्यापि दृष्टिसृष्टित्वेन तज्ज्ञानस्य बाधकत्वायोगः; आत्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात्, अन्यूनसत्ताकत्वमात्रेण बाधकत्वोपपत्तेश्च । न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात् तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न स्यादिति वाच्यम्; अबाधितविषयत्वेनैव तत्त्वज्ञानत्वोपपत्तेः, तस्य च दृष्टिसृष्टित्वेऽप्यक्षतेः । न च ‘ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे' 'ध्रुवं विश्वमिदं जगदि'त्यादिश्रुतिविरोधः; अनित्यतावादिभिरपि । ध्रुवेत्यस्यान्यथानयने आवश्यके दृष्टिसृष्टिप्रतिपादकश्रुत्यनुरोधेन आकल्पं संतानाविच्छेदपरत्वस्यैव युक्तत्वात् , अन्यथा ‘धुवो राजे’त्यादाववगतेः । दृष्टिसृष्टौ च ‘एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वाणि भूतानि सर्व एत आत्मनो व्युच्चरन्ती'ति श्रुतिः सुप्तोत्थितजीवात् प्राणादिसृष्टिं प्रतिपादयन्ती प्रमाणम् । न च–सुषुप्तौ प्राणादिपञ्चकस्य सत्त्वात्किमर्थं पुनः सृष्टिरिति-वाच्यम्; ‘न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्ये 'दित्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात् । न च सुषुप्तौ 'हिता नाम नाड्य‘ इति नाडीसत्त्वप्रतिपादकवाक्यविरोधः; केन क्रमेण सुषुप्तौ भवतीत्यपेक्षायां हिता नाम नाड्यो हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेत' इत्यादिना सुषुप्त्यव्यवहितकाले क्रमोक्तये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि, वाक्यान्तरविरोधात्; प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तेः । ननु-यत्रैष एतत्सुप्तोऽभूदिति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात्तत्कर्तृकैव प्राणादिसृष्टिर्न तु सुप्तोत्थितजीवकर्तृका; अन्यथाग्न्यूर्णनाभ्यादेस्तन्तुविस्फुलिङ्गादिजननोक्तिरत्रापि वाक्ये सर्वलोकसृष्ट्युक्तिश्चालीकार्था स्यात्, न हि दृष्टिसृष्टिपक्षे अग्न्यूर्णनाभ्यादेस्तन्त्वादिजनकत्वं सर्वलोकसृष्टिर्वास्तीति-चेत्, न; यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात् । न च यत्रेत्यस्य ब्रह्मरूपाधिकरणपरत्वं कालपरत्वं वेत्यत्र विनिगमनाविरहः; अनन्तरवाक्ये कैष तदाभूदित्यत्र तदेति पदद्वयोपादानस्यैव विनिगमकत्वात् , यत्रेत्यनेन देशनिर्देशे केति देशप्रश्नानुपपत्तेः, कालानिर्देशे च तदेति प्रतिनिर्देशानुपपत्तेः, भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथा व्याख्यानात्, ऊर्णनाभ्यादेस्तन्त्वादिजन्मोत्पत्तिस्तु लौकिकभ्रमसिद्धकार्यकारणभावप्रसिद्धिमनुरुध्य सर्वलोकादिसृष्टिश्च । तत्तद्दृष्टिव्यक्तिमभिप्रेत्य; यदा यत् पश्यति, तत्समकालं तत् सृजतीत्यत्र तात्पर्यात् । न चाविद्यासहकृतजीवकारणकत्वे जगद्वैचित्र्यानुपपत्तिः, जगदुपादानस्याज्ञानस्य विचित्रशक्तिकत्वात् । उपपत्त्यन्तरं चात्र सिद्धान्तबिन्दुकल्पलतिकादावस्माभिरभिहितम् । वासिष्ठवार्तिकामृतादावाकरे च स्पष्टमेवोक्तम् । यथा-‘अविद्यायोनयो भावाः सर्वेऽमी बुद्बुदा इव । क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ' इत्यादि । तस्मात् ब्रह्मातिरिक्तं कृत्स्नं द्वैतजातं ज्ञानज्ञेयरूपमाविद्यकमेवेति प्रातीतिकसत्त्वं सर्वस्येति सिद्धम् ॥ रज्जुसर्पादिवद्विश्वं नाज्ञातं सदिति स्थितम् । प्रबुद्धदृष्टिसृष्टित्वात्सुषुप्तौ च लयश्रुतेः ॥
॥ इत्यद्वैतसिद्धौ दृष्टिसृष्ट्युपपत्तिः ॥
स च द्रष्टैक एव; तन्नानात्वे मानाभावात् । ननु-कथमेक एव जीवः; प्रतिशरीरं 'अहं सुखी अहं दुःखी अहं संसारी अहमस्वाप्स'मित्याद्यनुभवविरोधादिति–चेन्न; अविद्यावशात् ब्रह्मैवेकं संसरति । स एव जीवः । तस्यैव प्रतिशरीरमहमित्यादिबुद्धिः। स्वाप्नशरीरे ‘अयं सुखी अयं दुःखी'त्येव यत्र बुद्धिर्न त्वहं सुखीत्यादि, तत्तु निर्जीवम् । यत्र त्वहमित्यादि तत् सजीवम् । जाग्रच्छरीरान्तरे अहमिति प्रतीत्यवच्छेदके सजीवतोक्तिर्न द्वितीयेन जीवेन सजीवत्वमित्यभिप्रेत्य; तत्र मानाभावात् । बन्धमोक्षादिव्यवस्थानुपपत्तिस्तत्र मानमिति चेन्न; बन्धमोक्षगुरुशिष्यादिव्यवस्थायाः स्वप्नवद्यावदाविद्यमुपपत्तेः । न चैवं तस्मिन्नेकस्मिन्नेव जीवे सुप्ते समस्तजगदप्रतीत्यापातः; समष्ट्यभिमानिनो मुख्यजीवस्यासुप्तत्वात् । तस्मिन्नु लयकाले प्रसुप्ते जगदप्रतीतेः । अन्तःकरणावच्छिन्ने जीवाभासे तु, सुप्ते तमेव प्रति जगदप्रतीतिः, न त्वन्यानपि प्रति; तदुपाधीनामप्रलीनत्वात् । संस्कारस्य कारणात्मना स्थितेर्न सुप्तस्य पुनरुत्थानानुपपत्तिरित्युक्तम् । एतेन मम कल्पकत्वे तव मोक्षार्थं प्रवृत्त्ययोगः; तव कल्पकत्वे त्वत्कल्पितास्सदादिबोधार्थं तव शब्दप्रयोगाद्यनुपपत्तिः, न च स्वप्नवत् पर्यनुयोगायोगः। एवमपर्यनुयोज्यत्वे निर्मर्यादतया कथानधिकारप्रसङ्गादिति–निरस्तम्: चैत्रमैत्रादिसर्वाभिमानिनो जीवस्य कल्पकत्वेन तव ममेत्यादिविकल्पानुपपत्तेः । नापि स्वक्रियादिविरोधः; स्वक्रियायाः कल्पितत्वादिनिश्चयविरहकालीनत्वेन पर्यनुयोगायोगात् । अथ ब्रह्मण एव जीवत्वेन तस्यैव बन्धमोक्षाविति तस्य नित्यमुक्तत्वादिश्रुतिविरोधः, न; मुक्तेः स्वस्वरूपत्वेन बन्धस्य चाविद्यकत्वेन तद्विरोधः । न हि मृगतृष्णकाकल्पितोदकेन स्वभावशुष्का मरुभूमिराद्रा भवति। एतेन–कल्पितस्य जीवस्य कल्पकं प्रति प्रत्यक्त्वायोगः; तेन कल्पकेन प्रत्यक्त्वेनाज्ञानात् , अन्यस्यानुभवितुरभावात् , तथानुभवापलापे एकजीवाद्वैतश्रुत्यादेरप्यसिद्धिरिति-निरस्तम्। अनेकशरीरे एकजीववादस्याङ्गीकारात् । न च-तर्हि तमेव प्रति प्रत्यक्त्वपराक्त्वयोरयोगः, मैत्रं प्रति त्वमिति धीविषयस्य चैत्रस्य तमेव प्रति अहमिति धीविषयत्वायोगश्चेति वाच्यम् ; भिन्नभिन्नान्तःकरणाभेदाध्यासेन तत्तदन्तःकरणमादाय प्रत्यक्त्वपराक्त्वाहमित्यादिबुद्धिविषयत्वव्यवस्थोपपत्तेः । न च चैत्रसुखदुःखादीनां मैत्रेणानुसन्धानापत्तिः; अन्तःकरणावच्छिन्नेनाविद्यावच्छिन्नेन वा । नाद्यः; तत्र परस्परं भेदात् । न द्वितीयः; इष्टापत्तेः । अत एव चैत्रस्य शुक्तिसाक्षात्कारेण रजतभ्रमनिवृत्तावन्येषामपि तन्निवृत्तिः स्यादिति–निरस्तम् ; अन्तःकरणभेदेन व्यवस्थोपपत्तेः । ननु एवं मुक्तावपि चैत्राद्यन्यतमान्तःकरणावच्छेदेन साक्षात्कारे उत्पन्ने तदवच्छेदेनैव संसारनिवृत्तिः स्यात्, न तु तदितरान्तःकरणावच्छेदेनेति चेन्न; तत्साक्षात्कारस्य सविलासमूलाज्ञाननिवृत्तिरूपतया तत्कालेऽन्तःकरणस्याभावेन वैषम्यात् । ननु-श्रुतिषु ‘अविद्यायामन्तरे वर्तमाना' इत्यादावविद्या, 'रमणीयचरणा' इत्यादौ कर्मबन्धः, 'सति सम्पद्य न विदुरि'त्यादौ सति सुषुप्तिः, ‘वेदान्तविज्ञानसुनिश्चिता' इत्यादौ तत्त्वज्ञानं, ‘परामृतात्परिमुच्यन्ति सर्व' इत्यादौ मुक्तिश्च चेतनधर्मः कथमनेकेषूच्यत इति–चेन्न; ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते' इत्यादिश्रुतिष्वेकवचनप्राप्तैकत्वविरोधेनोदाहृतश्रुतीनामनेकत्वपरत्वाभावात् । सार्वजनीनभ्रमसिद्धतदनुवादेनाविरोधात् । न च उदाहृतश्रुतिविरोधेन ‘इति सृष्टौ विनिश्चिता' इति पूर्वेण ‘स पूज्यः सर्वभूतानामि'त्युत्तरेण च विरोधेनेदमेकवचनं ‘यदा नीतिपरो राजा’ ‘स्वर्गकामो यजेते'त्यादिवन्नैकत्वपरमित्येव किं न स्यादिति वाच्यम् ; प्रत्यक्त्वपराक्त्वत्वमहमित्यादिव्यवहारप्रयोजकान्तःकरणाभेदाध्यासबलात् बहुत्वस्य प्राप्तत्वेन पूर्वोत्तरवाक्योदाहृतश्रुत्यादीनामतत्परत्वात् । न च मुक्तबहुत्वं नान्यतः प्राप्तमिति वाच्यम् ; जीवबहुत्वस्य प्राप्तत्वेन मुक्त्यंश एवाप्राप्तत्वपर्यवसानात् । न चैकस्यैव जीवस्य सर्वकल्पकत्वे जीवस्य कारणत्वं निषिध्य ईश्वरकारणत्वविधायकैः श्रुत्यादिभिर्विरोधः; अविद्याचिन्मात्राश्रयत्वोपपादने निरसिष्यमाणत्वात् । न च–एवं सर्वज्ञत्वसर्वकर्तृत्वादिबोधकश्रुतीनां निर्विषयत्वं शुद्धचैतन्ये सत्त्वस्यैवाभावात् , ईश्वरस्य च जीवभिन्नस्याभावात् , जीवे सार्वज्ञ्यस्यानुभवबाधितत्वादिति वाच्यम् ; समष्ट्यभिमानिनो जीवस्य सर्वज्ञत्वसर्वकर्तृत्वादिस्वीकारात् । न चानुभवविरोधः; अन्तःकरणाभेदाध्यासबलात्तदननुभवतद्विपरीतानुभवयोरुपपत्तेः । सर्वाभिमानिनस्तु सार्वज्ञ्यानुभवोऽस्त्येव । अत एव ‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतपे'त्याद्युपपद्यते । न च- ‘आचार्यवान्पुरुषो वेदे'ति श्रुतेरुपदेशं विना जीवस्य तत्त्वज्ञानमनुपपन्नम्, उपदेष्टव्यादन्यस्य चैतन्यस्याभावाच्च नोपदेशो युज्यत इति वाच्यम्; स्वप्न इवोपदेष्टुः कल्पितस्य संभवात् । ननु–उपदेष्टृत्वं न कल्पितमात्रस्य, किंतु तत्त्ववित्त्वेन कल्पितस्य, तथाचोपदेशात्प्राक् तत्त्वज्ञाने तदैव मोक्षापत्तिः, उपदेशवैयर्थ्यं च, नचैवं स्वप्नेऽपि तुल्यम्; तदा हि शब्दविशेषवक्तृत्वेनैव गुरुकल्पना, न तूपदेशसाध्यज्ञानविषयविशेषवित्त्वेनेति विशेषादिति चेन्न; अत्रापि तद्वदेव वाक्यविशेषवक्तृत्वेनैव तत्कल्पनसंभवत् । ननु तर्हि ‘यदेव भगवान्वेद तदेव मे ब्रूही'त्यादिश्रुतिः ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन' इत्यादिस्मृतिश्चायुक्ता स्यादिति- चेन्न; सामान्यतो मोक्षोपयोगिज्ञानविषयवित्त्वेनाज्ञाततत्त्ववित्त्वेन तत्त्वमस्यादिवाक्यवक्तृत्वेन वा कल्पितस्य उपदेष्टृत्वसंभवेन उदाहृतवाक्याविरोधात् । अन्यथा तवापि मते तत्त्ववित्त्वेन प्रमित एवाचार्यत्वेनानुसरणीय इति प्रथमत एव तत्त्वज्ञाने तत्कालमोक्षापत्त्युपदेशवैयर्थ्यादिकं च स्यात् । एतेन-स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यमित्यादिविधिरपि भावितत्त्वज्ञानिकल्पकचेतनं प्रत्येव, न च तस्य शिष्यः स्वाज्ञानकल्पित इति ज्ञानतस्तन्मोक्षार्थी प्रवचने प्रवृत्तिर्युक्ता; न च स्वप्नवत् कल्पितत्त्वज्ञानात्प्रवृत्तिः; तत्त्वविदस्तज्ज्ञानानुपपत्तेरिति—निरस्तम्; स्वप्नगुरुवत् कल्पितत्वेन गुरोरपर्यनुयोज्यत्वात् । न च-तत्त्वज्ञानहेतुत्वेन वेदस्य मीमांस्यत्ववत् गुरोरपि पर्यनुयोज्यत्वमिति वाच्यम्; तर्केण वेद इव तत्तद्रूपकल्पनया गुरावपि तत्परिहारात् । न च कथास्वपि सदुत्तरापरिस्फूर्तावहं त्वत्कल्पितो न पर्यनुयोज्य इत्युत्तरं स्यादिति वाच्यम् । कथायाः कल्पितत्वानिश्चयकालीनत्वेन समयबन्धविशेषनिबन्धनत्वेन च तादृगुत्तरानवकाशात् । तस्माच्छिष्यवत् गुरोरपि कल्पितत्वात् स्वप्नवत्सर्वव्यवस्थोपपत्तिः । अथ कल्पको न निश्चिताद्वैतः; शास्त्रप्रणयनवैयर्थ्यात्, नाप्यनिश्चिताद्वैतः; शास्त्रस्य प्रमामूलकत्वाभावप्रसङ्गादिति-चेन्न; प्रमामूलकत्वाभावेऽप्यबाधितविषयत्वेन शास्त्रप्रामाण्योपपत्तेरन्त्यपक्षाभ्युपगमात् । न चामुकः स इत्यनिश्चये बह्वायाससाध्यमोक्षार्थप्रवृत्त्ययोगः; प्रतिशरीरमहमहमिकया ‘बद्धोऽहमि'ति निश्चयस्य स्वानुभवसाक्षिकत्वेन प्रवृत्तिसंभवात्, एकेनैव जीवेन चैत्रमैत्रादिशरीराणां सजीवत्वसंभवस्य प्रागैवोक्तत्वात् । किंच चैत्रमैत्रादिषु कोऽसाविति प्रश्नस्य किं केनचित् क्रोडीकृतं चैतन्यं विषयः, किं वा निरस्तसमस्तभेदम् । नाद्यः। तस्य कल्पितत्वेनाकल्पकत्वात् । न द्वितीयः; तस्यैकत्वेन तदनिश्चयासिद्धेः । शुद्धचित्त एकत्वेन वस्तुतोऽसंसारित्वेऽपि आवरणविक्षेपशक्तिद्वयशालिस्वाश्रिताविद्यावशात् संसारित्वकल्पकत्वमोक्षार्थयतमानत्वाद्युपपत्तिः । ननु-अनादौ संसारे कस्यचित्तत्त्वज्ञानं मुक्तिश्चाभून्न वा, आद्य इदानीं संसारोपलब्धिर्न स्यात् । जीवस्यैकत्वात्, अन्त्ये संप्रदायासंभवेन तत्त्वज्ञानासंभव इति चेन्न; न ह्यसांप्रदायिकत्वमुत्पत्तिविरोधि; अपूर्वजातीयानुत्पत्तिप्रसङ्गात् , किंतु कारणासत्त्वं; तन्नेदानीमुपदेष्टृत्वादिकारणस्य कल्पनासुदृढस्य सत्त्वात् । जीवैक्यस्य प्रमाणसिद्धत्वे संसारोपलम्भ एवातः पूर्वं तत्त्वज्ञानानुत्पत्तौ प्रमाणम् । न च-तत्त्ववित्त्वेन श्रुत्यादिसिद्धानां शुकवामदेवादीनां मुक्तिर्माभूत् , मम तु भविष्यतीति कथं श्रद्दध्यादिति वाच्यम् ; शास्त्रप्रामाण्यदार्ढ्यादिति गृहाण । अन्यथा तेषां महानुभावानां मुक्तत्वेऽपि मम भविष्यति न वेति शङ्कापिशाच्याप्रवृत्तिप्रतिबन्धापत्तेः । ननु तर्हि श्रुतिप्रामाण्यबलादेव तत्सिद्धो जीवभेदः; पूर्वमपि केषांचिन्मोक्षश्चाभ्युपेयताम्। श्रूयते हि—'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्' ‘अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' ‘नित्यो नित्यानां चेतनश्चेतनानाम्' इत्यादि । स्मर्यते च 'बहवो ज्ञानतपसा पूता मद्भावमाश्रिताः । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः' ॥ इत्यादीति–चेन्न; उक्तवाक्यानां सार्वलौकिकभ्रमसिद्धभेदानुवादकत्वेन तत्परत्वाभावात् , जीवैक्यबोधकवाक्यानां च मानान्तराप्राप्तस्वार्थपरत्वात्, स्वप्नन्यायेन भेदस्य कल्पितत्वोपपत्तेश्च । ज्ञानस्तुतिपराणि वाक्यानि नात्मभेदं प्रमातुं शक्नुवन्ति; तात्पर्यवद्वाक्याविरोधेनातात्पर्यवद्वाक्यानां गुणवादत्वोपपत्तेः । “अतीतानागताश्चैव यावन्तः सहिताः क्षणाः । ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक् ॥” इत्यादिस्मृतिरपि जीवोपाधिभेदानुवादकतया व्याख्येया । तस्मादविद्योपाधिको जीव एक एवेति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ एकजीवाज्ञानकल्पितत्वोपपत्तिः ॥
अथ केयमविद्या ? न तावदनादिभावरूपत्वे सति ज्ञाननिवर्त्या सेति; सादिशुक्त्याद्यवच्छिन्नचैतन्यावारकाज्ञानेऽव्याप्तेः; तस्यानादित्वाभावात् । अभावोपादानाज्ञाने च भावत्वाभावात्तत्राव्याप्तिः, अभावस्य भावोपादानकत्वे असत्यस्यापि सत्योपादानकत्वं स्यात्, अज्ञानानुपादानकत्वे तस्य ज्ञानान्निवृत्तिर्न स्यात् - इति । अत्र ब्रूमः, रूप्योपादानाज्ञानमप्यनादिचैतन्याश्रितत्वादनाद्येव, उदीच्यं शुक्त्यादिकं तु तदवच्छेदकमिति न तत्राव्याप्तिः । भावत्वं चात्राभावविलक्षणत्वमात्रं विवक्षितम् , अतः आरोपिताभावोपादानाज्ञानेऽप्यभावविलक्षणत्वस्वीकारान्नाव्याप्तिः । न च – सजातीयोपादनकत्वनियमः; अन्यथा असत्यस्यापि सत्यमुपादानं स्यादिति – वाच्यम्; सर्वथा साजात्ये सर्वथा वैजात्ये वोपादानोपादेयभावादर्शनेन तथा साजात्यस्य वैजात्यस्य वा आपादयितुमशक्यत्वात् । न हि कार्याकारकारणाकारतोऽप्यभेदे कार्यकारणभावः; सत्यस्य त्वसत्योपादानत्वे सत्यस्य निवृत्त्यसम्भवेन तदुपादेयस्यासत्यस्यापि निवृत्तिर्न स्यात्, उपादाननिवृत्तिमन्तरेणोपादेयानिवृत्तेः , अतो न सत्यमसत्यस्योपादानम् ; सत्यस्यापरिणामित्वाच्च । विवर्ताधिष्ठानत्वं त्वभ्युपेयत एव । न च – ब्रह्माज्ञाने ब्रह्मणो वृत्त्यव्याप्यत्वपक्षेऽव्याप्तिः, तस्य ज्ञानानिवर्त्यत्वादिति – वाच्यम् ; स्वरूपसदुपाधिमत्तद्विषयकज्ञाननिवर्त्यत्वस्य तन्मतेऽपि भावात् । उपपादितं चैतत् दृश्यत्वहेतूपपादने । अथ – औपाधिकभ्रमोपादानाज्ञाने ब्रह्मसाक्षात्कारानन्तरविद्यमानजीवन्मुक्ताज्ञाने च ज्ञाननिवर्त्यत्वाभावादव्याप्तिः; तयोर्ज्ञाननिवर्त्यत्वे उपाधिकालजीवन्मुक्तिकालयोरेव ज्ञानप्रागभाववत्तन्निवृत्त्यापत्तिरिति – चेन्न; उपाधिप्रारब्धकर्मणोः प्रतिबन्धकयोरभावविलम्बेन निवृत्तिविलम्बेऽपि तयोर्ज्ञाननिवर्त्यत्वानपायात् । न हि क्वचिदविलम्बेन जनकस्य क्वचित् प्रतिबन्धेन विलम्बे जनकताऽपैति । न च तर्हि ज्ञातेऽपि तत्राज्ञात इति व्यवहारापत्तिः; तादृग्व्यवहारे आवरणशक्तिमदज्ञानस्य कारणत्वेन तदावरणशक्त्यभावादेव ईदृग्व्यवहारानापत्तेः । यथा चैतत्तथोपपादयिष्यते । न चाविद्याचैतन्यसम्बन्धेऽतिव्याप्तिः ; साक्षाज्ज्ञाननिवर्त्यत्वस्य विवक्षितत्वात्, तस्याप्यविद्यात्मकत्वाद्वा । न च विशेषणान्तरवैयर्थ्यम् ; अनादिपदस्योत्तरज्ञाननिवर्त्ये पूर्वज्ञाने भावपदस्य ज्ञानप्रागभावे ज्ञानजन्यकार्यप्रागभावे चातिव्याप्तिवारकत्वेन सार्थकत्वात् । ज्ञानत्वेन साक्षात्तन्निवर्त्यत्वं तु भवति लक्षणान्तरम् । ननु – असम्भवः; कल्पितत्वेन दोषजन्यधीमात्रशरीरस्याज्ञानस्य ज्ञाननिवर्त्यस्याभावविलक्षणस्य च रूप्यवदनादित्वायोगादिति – चेन्न; कल्पितत्वमात्रं हि न दोषजन्यधीमात्रशरीरत्वे सादित्वे वा तन्त्रम्, किन्तु प्रतिभासकल्पकसमानकालीनकल्पकवत्त्वं सादिकल्पकवत्त्वं, विद्यानिवृत्त्यप्रयुक्तनिवृत्तिप्रतियोगित्वं प्रागभावप्रतियोगित्वं वा तन्त्रम् । न च तत्प्रकृतेऽस्ति । ज्ञाननिवर्त्यत्वसमानाधिकरणाभावविलक्षणत्वेनाविद्यायाः सादित्वसाधने ‘अजामेकाम्’ ‘अनादिमायये’त्यादिशास्त्रविरोधः, अनादित्वसाधकेन ज्ञाननिवर्त्यत्वे सति भावविलक्षणत्वेन सत्प्रतिपक्षश्च, भावत्वस्योपाधित्वञ्च । न च – अभावविलक्षणाविद्यादौ भावविलक्षणत्वमसम्भवि, परस्परविरोधादिति – वाच्यम् ; भावत्वाभावत्वयोर्बाधकसत्त्वेन तृतीयप्रकारत्वसिद्धौ परस्परविरहव्यापकत्वरूपविरोधासिद्धेः, परस्परविरहव्याप्यत्वरूपस्तु विरोधो नैकविरहेणापरमाक्षिपति । न हि गोत्वविरहोऽश्वत्वमाक्षिपतीत्युक्तम् । न चात्मवदनादेरभावविलक्षणस्यानिवर्त्यत्वम्; आत्मत्वस्यैवोपाधित्वात् । न चात्यन्ताभावान्योन्याभावयोः साध्याव्याप्तिः, अधिकरणातिरिक्तस्यानिवर्त्यस्यात्यन्ताभावादेरनभ्युपगमात् । न च तुच्छे साध्याव्याप्तिः, अभावविलक्षणत्वरूपसाधनावच्छिन्नसाध्यव्यापकत्वोपपत्तेः । किञ्च सादित्वमनादित्वं वा न निवर्त्यत्वानिवर्त्यत्वयोः प्रयोजकम् ; ध्वंसप्रागभावयोस्तदभावात् । नापि भावत्वविशेषितं तत्तथा; अभावे तदसत्त्वेन भिन्नभिन्नप्रयोजककल्पनापत्तेः, भावनिवृत्त्यनिवृत्त्योरेव तयोः प्रयोजकत्वे च भावविलक्षणाविद्यादौ ताभ्यां तयोरनापादनात् । तस्मान्नाशसामग्रीसन्निपातासन्निपातावेव निवर्त्यत्वानिवर्त्यत्वयोः प्रयोजकाविति मन्तव्यम् । तौ च फलबलकल्प्याविति न कोऽपि दोषः । अपि च यद्यविद्यादेरभावविलक्षणत्वसमानाधिरणानादित्वेनात्मवदनिवर्त्यत्वं साध्यते, तर्हि भावविलणत्वेन प्रागभाववन्निवर्त्यत्वमेव किं न साध्यते ? न च ध्वंसात्यन्तान्योन्याभावेषु व्यभिचारः; अधिकरणातिरेके तेषामपि निवर्त्यात्वाभ्युपगमात् । न च अज्ञानस्य यावत्स्वविषयधीरूपसाक्षिसत्त्वमनुवृत्तिनियमेन निवृत्त्ययोग इति - वाच्यम् ; दुःखशुक्तिरूप्यादेः स्वभासके साक्षिणि सत्येव निवृत्त्यभ्युपगमेन साक्षिभास्यानां यावत्साक्षिसत्त्वमवस्थाननियमानभ्युपगमात् । किञ्च केवलचिन्मात्रं न साक्षि, किन्त्वविद्यावृत्त्युपहितम् ; तथा चास्थिराविद्यावृत्त्युपहितस्य साक्षिणोऽप्यस्थिरत्वेन तत्सत्त्वपर्यन्तमवस्थानेऽप्यविद्यादेर्निवृत्तिरुपपद्यते । न च वृत्त्यनुपधानदशायामविद्यादेः शुक्तिरूप्यवदसत्त्वापत्तिः ; सादिपदार्थ एवैतादृङ्नियमात्, धारावाहिकाविद्यावृत्तिपरम्पराया अतिसूक्ष्माया अभ्युपगमाच्चेति शिवम् ॥ यद्वा भ्रमोपादानत्वमज्ञानलक्षणम् । इदं च लक्षणं विश्वभ्रमोपादानमायाधिष्ठानं ब्रह्मेति पक्षे, न तु ब्रह्ममात्रोपादानत्वपक्षे, ब्रह्मसहिताविद्योपादानत्वपक्षे वा; अतो ब्रह्मणि नातिव्याप्तिः, इतरत्र तु पक्षे परिणामित्वेनाचेतनत्वेन वा भ्रमोपादानं विशेषणीयमिति न दोषः; न वाऽभावारोपनिवर्तकप्रमानिवर्त्येऽव्याप्तिः; तस्यापि भ्रमोपादानत्वात् । ननु – भ्रमे भावविलक्षणाज्ञानोपादानकत्वं न घटते ; भ्रमस्य भावविलक्षणत्वे उपादेयत्वायोगात्, भावत्वे च भावोपादानकत्वनियमादिति – चेन्न ; अज्ञानस्य भ्रमस्य च भावविलक्षणत्वेऽप्युपादानोपादेयभावोपपत्तेः । न हि भावत्वमुपादानत्वे उपादेयत्वे वा प्रयोजकम् ; आत्मनि तददर्शनात् , किन्त्वन्वयिकारणत्वमुपादानत्वे तन्त्रम् ; सादित्वमुपादेयत्वे, तदुभयं च न भावत्वनियतम् । अत उपादानोपादेयभावोऽपि न भावत्वनियतः । न चैवं ध्वंसस्याप्युपादेयत्वापत्तिः; इष्टापत्तेः । न चैवं ज्ञानप्रागभावस्यैव भ्रमोपादानत्वमस्तु, किमभावविलक्षणाज्ञानोपादानकल्पनेनेति वाच्यम् ; प्रागभावस्य प्रतियोगिमात्रजनकत्वनियमेन भ्रमं प्रति जनकत्वस्याप्यसिद्धेः, तद्विशेषरूपोपादानत्वस्यैव दूरनिरस्तत्वात् । अतः सद्विलक्षणयोरज्ञानभ्रमयोर्युक्त उपादानोपादेयभावः । भ्रमस्य च सद्विलक्षणत्वमुक्तम् । वक्ष्यते च । न च-एवमज्ञानानुविद्धतया भ्रमस्य प्रतीत्यापत्तिः, मृदनुविद्धतया घटस्येवेति वाच्यम्; यत् यदुपादानकं, तत् तदनुविद्धतयैव प्रतीयत इति व्याप्त्यसिद्धेः । न हि घटोपादानकं रूपं घट इति प्रतीयते; प्रकृतिद्व्यणुकाद्यनुविद्धतया प्रतीतेः परैरप्यनभ्युपगमात्, केनचिद्धर्मेण तदनुवेधस्तु प्रकृतेऽपीष्ट एव । न च यावन्ति ज्ञानानि तावन्त्यज्ञानानीति पक्षे भ्रमापूर्वकप्रमानिवर्त्येऽज्ञाने अव्याप्तिः; भ्रमोपादानतायोग्यत्वस्य विवक्षितत्वात्, सहकारिवैकल्यात् कार्यानुदयेऽपि योग्यतानपायात् । अथ योग्यतावच्छे करूपपरिचये कथं तद्ग्रहणम् ? प्रथमलक्षणस्यैव योग्यतावच्छेदकत्वात् । एकमेवाज्ञानमिति पक्षे तु तत्र भ्रमोपादानत्वमक्षतमेव । न चैवं शुक्तिज्ञानेनैवाज्ञाननाशे मोक्षापत्तिः; तस्यावस्थाविशेषनाशकत्वाङ्गीकारात् । व्युत्पादितं चैतदस्माभिः सिद्धान्तबिन्दौ । ज्ञानत्वेन रूपेण साक्षाज्ज्ञाननिवर्त्यत्वं वा तल्लक्षणमिति च प्रागुक्तमेव; तस्मान्नाविद्यालक्षणासंभव इति सर्वमवदातम् ॥
॥ इत्यद्वैतसिद्धावविद्यालक्षणोपपत्तिः ॥
तत्र चाज्ञाने 'अहमज्ञौ मामन्यं च न जानामी'ति प्रत्यक्षं, 'त्वदुक्तमर्थं न जानामी'ति विशेषतः प्रत्यक्षम्, ‘एतावन्तं कालं सुखमहमस्वाप्सं न किंचिदवेदिष’मिति परामर्शसिद्धं सौषुप्तप्रत्यक्षं च प्रमाणम् । न च–अहमर्थस्याज्ञानानाश्रयत्वेन कथमयं प्रत्ययो भावरूपाज्ञानपक्षे उपपद्यत इति वाच्यम् । अज्ञानाश्रयीभूतचैतन्ये अन्तःकरणतादात्म्याध्यासेन एकाश्रयत्वसंबन्धेनोपपत्तेः । अत एव जडे आवरणकृत्याभावात् । ‘घटं न जानामी'त्यादिप्रतीतेर्ज्ञानाभावविषयत्वे प्रकृतेऽपि तथास्त्विति–निरस्तम्; तत्तदवच्छिन्नचैतन्यस्यैवाज्ञानाश्रयत्वे तत्रापि तद्व्यवहारोपपत्तेः । न च–साक्षिवेद्ये सुखदुःखाज्ञानादौ प्रातिभासिके च भावरूपाज्ञानाभावेन तत्र न जानामीति प्रतीतिः कथमुपपद्यत इति वाच्यम्; स्वस्मिन्विद्यमाने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धे रूप्यादौ च 'न जानामी'ति व्यवहारासंभवात्, परसुखादौ 'न जानामी'ति व्यवहारस्य परोक्षज्ञाननिवर्त्येन प्रमातृगताज्ञानेनैवोपपत्तेः । अत एव–परोक्षज्ञानेन प्रमातृगताज्ञाने नाशितेऽपि विषयगताज्ञानसत्त्वेन ‘न जानामीति व्यवहारापत्तिरिति-निरस्तम्; प्रमातृगताज्ञानकार्यस्य 'न जानामी'ति व्यवहारस्य विषयगताज्ञानेनापादयितुमशक्यत्वात् । ननु—भावरूपाज्ञानविषयत्वेनाभिमतस्य ‘अहमज्ञ' इति प्रत्ययस्य ‘मयि ज्ञानं नास्ती'ति ज्ञानाभावविषयात् प्रत्ययात् ‘अघटं भूतलमि'ति प्रत्ययस्य ‘घटो नास्ती'ति प्रत्ययादिव विशेषणविशेष्यभावव्यत्यासं विना इच्छाद्वेषाभावज्ञानयोरिव विषयभेदाप्रतीतिरिति चेत्; सत्यम्, धर्मिप्रतियोगिज्ञानाज्ञानाभ्यां ज्ञानसामान्याभावज्ञानस्य व्याहतत्वेन ‘मयि ज्ञानं नास्ती'त्यस्यापि भावरूपाज्ञानविषयत्वेन विषयभेदाप्रतीतेर्युक्तत्वात् । तथा हि–‘मयि ज्ञानं नास्ती'ति प्रतीतिः ‘वायौ रूपं नास्ती'ति प्रतीतिवद्यावद्विशेषाभावान्यसामान्याभावविषया, सामान्यावच्छिन्नप्रतियोगिताकयावद्विशेषाभावविषया वा अभ्युपेया । तथाच तत्कारणीभूतधर्मिप्रतियोगिज्ञानाज्ञानाभ्यां कथं न व्याघातः ? यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावात् , अभावज्ञाने प्रतियोग्यंशे प्रकारीभूतधर्मस्यैव प्रतियोगितावच्छेदकत्वात् । अन्यथा सामान्याभावसिद्धिर्न स्यात् । यावद्विशेषाभावान्यसामान्याभावानभ्युपगमेऽप्ययं दोषः । यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वे घटवत्यपि भूतले ‘निर्घटं भूतलमि’ति प्रतीतिः स्यात्, ‘वायौ रूपं नास्ति' ‘पुरोदेशे रजतं नास्ती'त्याद्याप्तवाक्यजन्यप्रतीत्यनन्तरमपि तत्तत्संशयनिवृत्तिर्न स्यात् । एकविशेषाभावबोधनेऽपि विशेषान्तरमादाय संशयोपपत्तेः । अथ-अभावबोधे प्रकारीभूतधर्मस्यावच्छेदकत्वं पूर्वानुपस्थितमपि संसर्गमर्यादया शाब्दबोधे अन्यत्र च भासते, न ह्यवच्छेदकत्वस्य खरूपसंबन्धविशेषस्य ग्रहे अन्या सामग्री क्लृप्ता; तथा च तत्तद्विशेषाभावानां तत्तद्विशेषावच्छिन्नप्रतियोगिताकत्वात् सामान्यावच्छिन्नप्रतियोगिताकत्वं यावद्विशेषाभावकूटे वा व्यासज्यवृत्ति तद्व्यतिरिक्तसामान्याभावे वा प्रत्येकविश्रान्तमिति तादृगभावप्रतीतेर्यावद्विशेषप्रतीतिविरोधित्वात् कुतो विशेषसंशयादिरिति-चेत्, सत्यम् ; प्रकृतेऽपि ज्ञानत्वसामान्यावच्छिन्नप्रतियोगिताकाभावप्रतीतिर्यावज्ज्ञानविशेषविरोधिनीति कथं तत्तत्कारणत्वाभिमतज्ञानविशेषे सति सा न व्याहन्यते । तथाच क्लृप्ताभावप्रतीतिवैलक्षण्येऽवश्यकल्प्ये लाघवाद्विषयस्यैवाभाववैलक्षण्यं कल्पयितुमुचितम् । विषयावैलक्षण्ये प्रतीतिवैलक्षण्यायोगात् । विषयाज्ञानमनुभूय च पुरुषस्तन्निवृत्त्यर्थं विचारे प्रवर्तत इति सर्वानुभवसिद्धम् तद्यदि ज्ञानविशेषाभावो 'न जानामी'ति प्रतीतेर्विषयः, तदा ज्ञातेऽपि तथा प्रतीत्यापातः; तद्विचारार्थं च प्रवृत्तिः स्यात् । सामान्याभावे च बाधकमुक्तमेव । तस्मादभावविलक्षणमेवाज्ञानं ‘मयि ज्ञानं नास्त्यहमज्ञ' इत्यादि धीविषय इति सिद्धम् । ननु-अभावविलक्षणमप्यज्ञानं 'न जानामी'ति ज्ञानविरोधित्वेनैव भासते, मोहादिपदेऽपि प्रलयादिपदवत्तदनुल्लेखमात्रम्; उक्तं च विवरणे–'अज्ञानमिति द्वयसापेक्षज्ञानपर्युदासेनाभिधानादि'ति । अन्यथा ज्ञानस्याज्ञानविरोधित्वमप्रामाणिकं स्यात् । तथा च विरोधनिरूपकज्ञानस्य ज्ञानाज्ञानाभ्यां तवापि कथं न व्याघातः ? एवं निर्विषयाज्ञानाप्रतीतेर्विषयज्ञानाज्ञानयोरपि व्याघात आपादनीयः; तथा च ‘यत्रोभयोः समो दोषः। परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥' इति न्यायेन उभयपरिहरणीयस्य व्याघातस्य ज्ञानाभावपक्ष एवापानमनुचितमिति–चेन्न; प्रमाणवृत्तिनिवर्त्यस्यापि भावरूपाज्ञानस्य साक्षिवेद्यस्य विरोधिनिरूपकज्ञानतद्व्यावर्तकविषयग्राहकेण साक्षिणा तत्साधकेन तदनाशाद्व्याहत्यनुपपत्तेः । अज्ञानग्रहे विषयगोचरप्रमापेक्षायां व्याहतिः स्यादेव, सा च नास्ति । तदुक्तं विवरणे–“सर्वं वस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय एवे"ति । न चैवं-ज्ञानाभावपक्षेऽपि विषयादिज्ञानं साक्षिरूपम् , 'न जानामी'ति धीस्तु प्रमाणवृत्त्यभावविषयेति न व्याहतिरिति वाच्यम् ; भावरूपाज्ञानस्य साक्षात् साक्षिवेद्यत्वेन तदवच्छेदकविषयादेस्तद्द्वारा साक्षिवेद्यत्वसंभवेऽपि अभावस्यानुपलब्धिगम्यत्वेन साक्षात् साक्षिवेद्यत्वाभावात् न तद्द्वारा तदवच्छेदकविषयादेः साक्षिवेद्यत्वमिति वैषम्यात् । यद्यपि ज्ञानं साक्षिवेद्यम्, तद्द्वारा तदवच्छेदको विषयश्च साक्षिवेद्यः; तथापि ज्ञानाभावो न साक्षिवेद्यः, तस्यानुपलब्धत्वात् । उत्पन्नं च ज्ञानं साक्षात् साक्षिवेद्यम् । तस्मिंश्चोत्पन्ने तद्विषयोऽपि स्फुरतीति कुतो ज्ञानाभावोऽपि ? अज्ञानविशेषणतया तु अनुत्पन्नमपि ज्ञानं साक्षिवेद्यमिति न दोषसाम्यम् । न च–अवच्छेदकस्य विषयादेः प्रागज्ञाने कथं तद्विशिष्टाज्ञानज्ञानम् ? विशेषणज्ञानाधीनत्वाद्विशिष्टज्ञानस्येति वाच्यम्; विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वे मानाभावात् , प्रतियोगित्वाभावत्वयोः पूर्वानुपस्थितयोरपि तार्किकैरभावबोधे प्रकारीभूय भानाभ्युपगमात् । तथापि–विशेषणतावच्छेदकप्रकारकज्ञानं विना कथं विशिष्टवैशिष्ट्यबुद्धिरिति-चेन्न; विशिष्टवैशिष्ट्यबुद्धित्वेन विशेषणतावच्छेदकप्रकारकज्ञानत्वेन च कार्यकारणभावे मानाभावात् , प्रत्यक्षत्वादिरूपेण पृथक् पृथक् क्लृप्तकार्यकारणभावेनैवोपपत्तेः विशिष्टवैशिष्ट्यबुद्धित्वस्यार्थसमाजसिद्धत्वात् , इह च सामग्रीतुल्यत्वेन ‘विशेष्ये विशेषणं तत्र च विशेषणान्तर'मिति न्यायेन विशिष्टवैशिष्ट्यज्ञानसंभवात् । अन्यथा तार्किकाणामपीश्वरस्य भ्रान्तिज्ञत्वं न स्यात् । भ्रमविषयस्य स्वातन्त्र्येण ग्रहे भ्रान्तत्वापत्त्या भ्रमावच्छेदकतयैव तद्रहणं वाच्यम् । तथा च क्व प्राक्तदवच्छेदकग्रहनियमः? ग्रहणसामग्रीतुल्यत्वं च प्रकृतेऽपि समम् । ननु श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्त्वेन तज्ज्ञानं त्वयापि वाच्यम्; तथाच तत्रापि व्याहतिस्तुल्येति चेन्न; श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानरूपस्य प्रतियोगिनो ज्ञानाज्ञानाभ्यां व्याहत्यभावात्, न हि श्रवणादिसाध्यत्वमोक्षहेतुत्वादिप्रकारकब्रह्मज्ञानज्ञानं ब्रह्मज्ञानमपि सत् श्रवणादिसाध्यं, मोक्षहेतुर्वा; येन तस्मिन् सति तादृग्ज्ञानप्रागभावो व्याहन्येत । नन्वेवं-‘न जानामी'ति धियो ज्ञानाभावविषयत्वेऽपि न प्रतियोगिज्ञानादिना व्याहतिः; सामान्यतो विषयप्रतियोगिज्ञानेऽपि विशेषतस्तदभावसंभवात् , अन्यथा प्रागभावधीर्न स्यात् । तत्प्रतियोगिविशेषस्य सामान्यधर्मं विना विशेषतो ज्ञातुमशक्यत्वादिति चेन्न; विशेषज्ञानाभावे हि विशेषज्ञानत्वावच्छिन्नं प्रतियोगीति तस्य ज्ञाने स विशेषोऽपि ज्ञात एवेति विशेषज्ञानाभावव्याघातात् । यत्किञ्चिद्विशेषाभावश्च न सामान्यावच्छिन्नप्रतियोगिताक इत्युक्तम् । प्रतियोगितावच्छेदकप्रकारकज्ञानाभावेन प्रागभावप्रतीतिरसिद्धैव । ननु–प्रतियोगितावच्छेदकप्रकारकज्ञानं नाभावज्ञाने कारणम् , किंत्वभावज्ञाने भासमानप्रतियोगिवृत्तिधर्मप्रकारकं ज्ञानम् । सामान्यलक्षणाप्रत्यासत्त्यभ्युपगमे तु प्रतियोगिविषयत्वमपि तस्याधिकम् , इतरथा तु तदेव इष्टवृत्तिसामान्यधर्मप्रकारकज्ञानमिवासिद्धव्यक्तिविषयेच्छाकृत्योः । न च–प्रतियोगितानवच्छेदकधर्मेण कथं प्रतियोगिता गृह्यतामिति वाच्यम्; विशेषावच्छिन्नाया व्याप्तेरिव सामान्येन ग्रहणसंभवात् । तथा हि-‘इदमभिधेयवत्, प्रमेयादि'त्यनुमाने ‘यत्र प्रमेयं तत्राभिधेयमि'ति व्याप्तिग्रहणसमये वृत्तिमप्रमेयत्वावच्छेदेनैव सामानाधिकरण्यरूपव्याप्तिसत्त्वेऽपि तस्याः प्रमेयत्वरूपेणैव ग्रहणम् ; न तु वृत्तिमप्रमेयत्वेन; गौरवात् , वृत्तिमत्त्वविशेषणस्य व्यभिचारावारकत्वेन वैयर्थ्याच्च, अवृत्तिषु साध्यसामानाधिकरण्यरूपव्याप्यभाववत् साध्याभावसामानाधिकरण्यरूपव्यभिचारस्याप्यभावात् , व्यर्थविशेषणत्वरहितत्वे सति व्यभिचारिव्यावृत्तत्वमात्रेणैव व्याप्यतावच्छेदकत्वसंभवाच्च । तथाच यथा वृत्तिमप्रमेयगतापि व्याप्तिः प्रमेयत्वेनैव गृह्यते, तथा तत्तन्नीलादिव्यक्तिगताप्रतियोगिता नीलत्वादिरूपेण गृह्यत इति न काचिदनुपपत्तिः । एवं च ‘इहेदानीं घटो नास्ती'ति प्रतीतिरिव घटोपादानगततत्प्रागभावविषया ‘मयि ज्ञानं नास्तीति प्रतीतिरपि प्रमातृगततत्प्रागभावविषयेति न काप्यनुपपत्तिरित–चेन्न; अभावज्ञाने प्रतियोग्यंशे भासमानस्य धर्मस्यैव प्रतियोगितावच्छेदकतया यत्किंचिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वे घटवत्यपि भूतले ‘निर्घटं भूतलमि'ति घटज्ञानवत्यपि स्वस्मि'न्मयि घटज्ञानं नास्ती'ति च प्रतीतेरापत्तेः पूर्वोक्तदोषात् । यत्किंचिद्घटज्ञानं घटाभावज्ञाने प्रतिबन्धकमिति तु ज्ञानज्ञानेऽपि तुल्यम्, उदाहृतव्याप्तिग्रहणे तु बाधकाभावात् सामान्यावच्छेदेऽपि न दोषः । अथैवं प्रागभावप्रतीतिरेव न स्यात् , न स्यादेव; ‘घटो भविष्यतीति प्रतीतेः धात्वर्थभविष्यत्ताविषयत्वेन प्रागभावाविषयत्वात् । अन्यथा दिनान्तरोत्पत्स्यमानघटे एतद्दिनवृत्तिप्रागभावप्रतियोगित्वेन ‘अद्य घटो भविष्यती'ति धीप्रसङ्गः । भविष्यत्वं च प्रतियोगितद्ध्वंसानाधारकालसंबन्धित्वम् । ध्वंसत्वं च प्रागभावानङ्गीकर्तृमते कादाचित्काभावत्वमेव । तदङ्गीकर्तृमतेऽपि प्रतियोग्यजनककादाचित्काभावत्वम् । जनकत्वं च स्वरूपसंबन्धविशेषः, न प्रागभावघटितः प्रागभावस्याजनकत्वापत्तेः, अन्यथात्माश्रयात् । अतः प्रागभावमङ्गीकुर्वतोऽपि तत्प्रत्यक्षत्वं दुर्लभम् , तमनङ्गीकुर्वतस्तु न कापि हानिः । 'इहेदानीं घटो नास्तीति’ति प्रतीतिस्तु सामान्यधर्मवच्छिन्नप्रतियोगिताकतत्कालावच्छिन्नयावद्विशेषाभावविषया; समयविशेषस्याप्यभावावच्छेदकत्वात् । अन्यथा ‘आद्यक्षणे घटो नीरूप' इत्यादिप्रतीतिर्न स्यात् । अथ–अस्मिन्पक्षे सामान्याभावो न सिद्ध्येदिति चेत्, प्रागभावाभ्युपगमेऽपि तुल्यमेतत् , सामान्याभावप्रागभावयोः सुन्दोपसुन्दयोरिव परस्परपराहतत्वात् । तथा हि–प्रागभावसिद्धौ विशेषाभावस्यापि सामान्यावच्छिन्नप्रतियोगिताकत्वात् न तावन्मात्रप्रमाणकसामान्याभावसिद्धिः, सामान्याभावसिद्धौ च विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावात् कादाचित्काभावस्य च सामान्याभावत्वायोगात् न सामान्यधर्मावच्छिन्नप्रतियोगिताकविशेषप्रतीतिमात्रशरणप्रागभावसिद्धिः, इति न तदुभयमपि विपश्चितां चेतसि चमत्कारमावहति । ननु यावद्विशेषाभावनिश्चयेऽपि ‘रूपं वायुवृत्ति न वा’ ‘वायु रूपवान्न वे'ति रूपाभावसन्देहात् निश्चिते च संशयायोगाद्यावद्विशेषाभावान्यसामान्याभावसिद्धिः, अत एतावन्त्येव रूपाणीति निश्चयदशायामेतादृशसंशयस्याननुभूयमानत्वेन तदनिश्चयदशायामेवैतादृशः संशयो वाच्यः, तथा च ‘रूपत्वं पार्थिवाप्यतैजसरूपत्रितयातिरिक्तवृत्ति भविष्यती'त्यधिकसंभावनया निश्चितेष्वेव संशयः, उक्तसंभावनाविरहसहकृतनिश्चयस्यैव प्रतिबन्धकत्वादिति चेन्न; एवं प्रतिबन्धककल्पने मानाभावात् , उक्तसंभावनाविरहदशायामप्येतादृशसंशयदर्शनाच्च । ननु यथा यावद्विशेषाभावेभ्योऽतिरिक्तः सामान्याभावो रूपस्य संशयकोटिः, तथा रूपसामान्यमपि यावद्विशेषेभ्योऽतिरिक्तं संशयकोटिर्नाभ्युपगन्तुं शक्यते । तथाच कथं रूपस्य संशयकोटित्वम् ? सर्वरूपाभावनिश्चयात् । यदि तु नीलपीताद्यभावत्वेन निश्चयेऽपि रूपाभावत्वेनानिश्चयाद्रूपासंशय इति ब्रूषे, तदा किं सामान्याभावेन; रूपत्वावच्छिन्नप्रतियोगिताकाभावत्वेन संशयसंभवात् , धर्मिकल्पनातो धर्मकल्पनाया लघुत्वेन यावद्विशेषाभावानामेव रूपत्वावच्छिन्नप्रतियोगिताकत्वकल्पनात् , अतो न यत्किंचिदभावमादाय ‘घटो नीरूप' इति प्रतीतिप्रसङ्ग इति चेन्न; यावद्विशेषाभावेषु यद्रूपत्वावच्छिन्नप्रतियोगिताकत्वं तत् प्रत्येकं विश्रान्तं, व्यासज्यवृत्ति वा । आद्ये यत्किंचिदभावमादाय ‘घटो नीरूप' इति प्रतीतिप्रसङ्गः, द्वितीये तत्तद्रूपत्वावच्छिन्नप्रतियोगिताकत्वस्याव्यासज्यवृत्तिस्वभावत्वेन तद्व्यतिरिक्तं रूपत्वावच्छिन्नप्रतियोगिताकत्वं व्यासज्यवृत्ति कल्पनीयम् , तद्वरं रूपत्वावच्छिन्नप्रतियोगिताक एक एवाभावः कल्प्यते; ममैकोऽभावः रूपत्वावच्छिन्नप्रतियोगिताकत्वं चेति वस्तुद्वयं कल्प्यम् , तव तु रूपत्वावच्छिन्नप्रतियोगिताकत्वं, तस्य च व्यासज्यवृत्तित्वेन बहुष्वभावेषु प्रत्येकं संबन्धा इति बहु कल्प्यम् । ‘धर्मिकल्पनातो धर्मकल्पनाया लघुत्वमिति न्यायस्तु कल्पनीयाधिक्यापेक्षः । किंच घटद्वये यावद्विशेषाभावसत्त्वेऽपि रूपसामान्याभावबुध्यनुदयात् ऐकाधिकरण्यावच्छेदेनाप्यभावा विशेषणीयाः; तथा चातिगौरवम् । अपि च व्यासज्यवृत्तिधर्मग्रहे यावदाश्रयग्रहस्तद्भेदग्रहश्च हेतुः; अगृहीतेषु भिन्नतया वाऽगृहीतेषु वस्त्रादिषु द्वित्वादिबुद्ध्यनुदयात् , तथाच यावदभावतद्भेदाग्रहे प्रथमत एव नीरूप इति धीर्न स्यात् ; व्यासज्यवृत्तिसामान्यप्रतियोगिताकत्वस्याग्रहणात् । अतः सामान्याभावस्य प्रामाणिकत्वात् कथं तत्पराहतिरिति चेत्, अत्र ब्रूमः–एवं तर्हि सामान्यप्रकारेण विशेषाभावाप्रतीतेर्ज्ञानविशेषप्रागभावो न जानामीति धियो ज्ञानत्वावच्छिन्नप्रतियोगिताको न विषय इति सिद्धं नः समीहितम् । न हि प्रागभावोऽपि कश्चित्सामान्याभावोऽस्ति; येन तत्प्रतियोगिता सामान्यधर्मेणावच्छिद्येत, विशेषाभावप्रतियोगिता तु तत्तद्धटत्वादिना विशेषेणावच्छिद्यते । न च तेन तेन रूपेण भविष्यद्धटादि ज्ञातुं शक्यम्; तज्जन्मानन्तरं तु तत्तद्रूपेण तज्ज्ञानसंभवेऽपि न प्रागभावधीः प्रत्यक्षा स्यात् । तदानीं प्रागभावासत्त्वात् , प्रत्यक्षस्य विषयजन्यत्वात् । सामान्यप्रकारकज्ञानं च न विशेषाभावज्ञाने हेतुरित्युक्तम् । प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्याभावत्वप्रकारकाभावज्ञाने हेतुत्वात् , तस्यानुमानगम्यत्वेऽपि न जानामीति धियः अपरोक्षायास्तद्विषयत्वायोगात् । अव्यभिचारिलिङ्गाद्यभावात्तदनुमानमपि दूरनिरस्तमेव । ननु ‘इदं मा भूदिती'च्छाविषयतया तत्सिद्धिः, न; प्रागभावस्य स्वरूपतोऽसाध्यत्वेन प्रतियोगिजनकविघटनेन तत्संबन्धस्येवात्यन्ताभावसंबन्धस्यापि साध्यत्वात्तेनैवान्यथासिद्धेः । अथ–उत्पन्नस्य द्वितीयक्षणे पुनरुत्पत्त्यभावात्तत्पूर्वक्षणे सामग्र्यभावो वाच्यः; स च प्रागभावाभावादेव, अन्यहेतूनां सत्त्वादिति चेन्न; सामयिकात्यन्ताभावेनैवान्यथासिद्धेः, उत्पन्नस्यैव स्वोत्पत्तिविरोधित्वाच्च । अपिच सामग्री कार्यसत्त्वे प्रयोजिका, न तु तस्याद्यकालसंबन्धरूपोत्पत्तावपि । आद्यकालसंबन्धो हि स्वसमानकालीनपदार्थध्वंसानाधारकालाधारत्वम् । तत्र सामग्री कार्यस्य कालाधारत्वांशमात्रे प्रयोजिका, न तु विशेषणांशेऽपि तस्य तादृक्पदार्थध्वंससामग्रीविरहादेव सिद्धेः । पाकजरूपादिभेदोऽप्यग्निसंयोगभेदात् पूर्वरूपादिध्वंसभेदाद्वा, न तु प्रागभावभेदात् , प्रतियोगिभेदं विना प्रागभावभेदायोगाच्च । नाप्युपादानत्वव्यवस्था तत्र मानम् ; तन्तुत्वादिनैव तत्सिद्धेः । अन्यथा प्रागभावस्य संबन्धिविशेषोऽपि कुतः सिद्ध्येत्? न च तदत्यन्ताभाववतः कथं तदुपादानत्वम् ? संबन्धान्तरेण त्वयाप्यभ्युपगमात्समयावच्छेदतदनवच्छेदाभ्यां वैलक्षण्याभ्युपगमाच्चेत्यलमतिविस्तरेण । एवं सामान्याभावोऽपि गौरवपराहत एव । तथा हि सामान्यावच्छिन्नप्रतियोगिताकत्वम् , अभावः तस्य च तत्तदधिकरणसंबन्धा इति त्रयं वा कल्प्यताम् ? क्लृप्ततत्तदधिकरणसंबन्धानामेकाधिकरणवृत्तित्वावच्छेदेन सिद्धानामभावानां सामान्यावच्छिन्नप्रतियोगिताकत्वं, तस्य च व्यासज्यवृत्तित्वमिति द्वयं वा कल्प्यताम् । तत्रोत्तरः पक्ष एव प्रेक्षावद्भ्यो रोचते; आद्यक्षणे ‘घटो नीरूप' इति प्रतीतेः सर्वसिद्धत्वात् , यावदाश्रयतद्भेदग्रहस्य द्वित्वादिग्रहे हेतुत्वेऽपि उक्तप्रतियोगिताग्रहे हेतुत्वानभ्युपगमात्, कार्योन्नेयधर्माणां यथाकार्यमुन्नयनात् । न चैवमतिलाघवात् क्लृप्तानामधिकरणानामेवाभावधीहेतुत्वमस्तु, किं विशेषाभावैरपीति वाच्यम् ; अस्माकमिष्टापत्तेः, घटाभावो नेत्यादावतिरिक्ताभावस्य त्वयाप्यनभ्युपगमेन भावस्याप्यभावत्वप्रकारकप्रमाहेतुत्वस्योभयवादिसिद्धत्वात् । यदपि कश्चिदाह–प्रतियोगितावच्छेदकभेदस्याभावभेदनियामकत्वाद्विशेषाभावान्यसामान्याभावसिद्धिः, अन्यथा अभावभेदासिद्धेः; प्रतियोगिभेदस्याभावभेदकत्वे एकघटप्रतियोगिकस्य प्रागभावादिचतुष्टयस्याभेदप्रसङ्गात् , अवच्छेदकभेदात्तु तद्भदे न कोऽपि दोषः; क्वचित्तादात्म्यस्य क्वचित्संसर्गस्य क्वचित् पूर्वापरकालीनतद्धटत्वादेश्च भेदात् इति । तन्न; संसर्गप्रतियोगि विशेषणसाधारणस्यैकस्यावच्छेदकत्वस्य दुर्वचत्वात् , तादात्म्यादेश्च प्रतियोगितावच्छेदकत्वे मानाभावात् । भेदसिद्धिस्तु भाववदभावस्यापि विरुद्धधर्माध्यासादेव। अवच्छेदकभेदस्याभावभेदनियामकत्वं लिङ्गविधया तज्ज्ञापकत्वमेव वाच्यम्, न तु तज्जनकत्वम् । तच्च न; विपक्षबाधकतर्काभावेन सामानाधिकरण्याभावेन च व्याप्तेरेवासिद्धेः । अत एव तदितरधर्मावच्छिन्नप्रतियोगिताकत्वं तदवच्छिन्नप्रतियोगिताकान्यत्वव्याप्यमित्यपि–निरस्तम् ; एवं चावृत्तीनां गगनादीनां समनियतानां वाऽन्येषां धर्माणामेक एवात्यन्ताभावः; युगपद्विनष्टानामुत्पन्नानां वा समानदेशानामसति बाधके एक एव ध्वंसः प्रागभावो वा; व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकोऽपि चेदभावः प्रामाणिकः, तदा तस्यैकस्यैव प्रतियोगिताः सर्वैरेव व्यधिकरणैः सर्वैश्च समानाधिकरणैः संबन्धैरेवावच्छिद्यन्ताम् , आकाशाभाव एव वा तथाऽस्ताम् ; एकेनैवोपपत्तावभावभेदकल्पने मानाभावात् । न च एवमेक एव जगतीतले भवत्वभावः, स एव तत्तदवच्छेदकदेशकालादिभेदेन तत्तद्व्यवहारभेदं जनयिष्यतीति किमधिककल्पनयेति वाच्यम् ; उपपद्यते चेदस्तु । प्रकृते तु न बाधकं किंचित् । अत एव वैशेषिकाणां स्वाभ्युपगतकालपदार्थस्यैव सर्वव्यवहारहेतुत्वोपपत्तौ न पदार्थान्तरसिद्धिरित्यद्वैतवादिनो वदन्ति । तदेवं ‘अहमज्ञ' इति ज्ञानस्याभावज्ञानसामग्रीविलक्षणसामग्रीजन्यत्वादभावविलक्षणविषयत्वं सिद्धम् ॥ एवं त्वदुक्तमर्थं न जानामीति प्रत्यक्षस्यापि । ननु साक्षात्त्वदुक्तार्थविषयं प्रमाणज्ञानं मयि नास्तीत्येतद्विषयकमुदाहृतज्ञानम् , तच्च न साक्षादर्थविषयम् ; प्रमाणज्ञानावच्छेदकतयार्थस्य भानात्, अतो न व्याघात इति चेन्न; साक्षात्त्वदुक्तार्थमवेत्य हि तदभावो ग्राह्यः । तज्ज्ञानं च न साक्षिणा; स्वस्मिंस्तादृक्प्रमाणज्ञानाभावात् , अन्यनिष्ठं तु शब्दादिना ग्राह्यम् । शब्दादिश्च त्वदुक्तार्थं बोधयन्नेव तद्विषयत्वं ज्ञाने बोधयेत् । तथाच प्रथमतस्त्वदुक्तार्थविषयकं साक्षादेव ज्ञानमागतमिति तन्निषेधे न कुतो व्याघातः ? अत एव—विशेषस्य स्वरूपतो ज्ञानेऽपि विशेषप्रकारकज्ञानाभावो न व्याहत–इत्यपास्तम्, करतलामलकज्ञाने स्वविषयव्यावर्तकधर्मविषयत्वं प्रसिद्धमिह निषिध्यत इत्यपि न; त्वदुक्तत्वस्यापि मदुक्ताद्व्यावर्तकत्वेन सामान्यतो व्यावर्तकधर्मविषयत्वस्य निषेद्धुमशक्यत्वात् । ननु-अवच्छेदकतया विशेषज्ञाने जातेऽपि न व्याहतिः । तथा हि न हि विशेषज्ञानाभावस्त्वदुक्तार्थविषयकज्ञानाभावो वात्र प्रतीयते, किंतु त्वदुक्तार्थविशेष्यकविशेषप्रकारकज्ञानाभावः, तत्र च त्वदुक्तार्थविशेष्यकविशेषप्रकारकज्ञानत्वेन प्रतियोगिज्ञानेऽपि तादृक्प्रकारकतद्विशेष्यकज्ञानाभावसंभवः; अस्य ज्ञानस्य ज्ञाने विशेष्ये विशेषप्रकारकत्वप्रकारकत्वात् , यत्रापि त्वदुक्तविशेषं न जानामीत्यभिलापः, तत्राप्येवमेव व्याहत्यभावः कथंचिदुन्नेयः । न च-यत्रोक्तप्रतियोग्यप्रसिद्धिः, तत्र कथमभावप्रतीतिरिति वाच्यम् ; समवेतवाच्यत्वं नास्तीत्यत्रेव विशेष्ये विशेषणाभावविषयत्वेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयत्वेन वोपपत्तेरिति चेन्न; अनुभवविरोधात्, विशेषज्ञानाभावस्य त्वदुक्तार्थज्ञानाभावस्य वाऽनभ्युपगमे तद्विषयज्ञानसत्त्वेन तद्व्यवहारापत्तेश्च । न चैवं दृश्यते । स्वतःप्रामाण्यमते तु तत्प्रकारकत्वे तद्विशेष्यकत्वे च गृह्यमाणे तद्वत्त्वग्रहणस्यावश्यकतया तदंशे तत्प्रकारकतद्विशेष्यकत्वस्य तादृशप्रतियोगिज्ञाने संभवात् स्पष्ट एव व्याघातः, भावरूपाज्ञानपक्षे तु सर्वस्यापि साक्षिवेद्यतया न व्याघात इत्युक्तम् । तदेवं त्वदुक्तमर्थं न जानामीति प्रत्यक्षभावरूपाज्ञानविषयमिति सिद्धम् । एवमेतावन्तं कालं न किंचिदवेदिषमिति परामर्शसिद्धं सौषुप्तं प्रत्यक्षमपि भावरूपाज्ञानविषयमेव । ननु–परामर्शः किमनुमानं, किं वा स्मरणम् । आद्ये ज्ञानाभाव एवानुमीयताम् , किं भावरूपाज्ञानेन ? तथा हि—संप्रतिपन्नोदयास्तमय कालवद्विवादपदयोरप्युदयास्तमययोरन्तरालकालमनुमाय तत्कालमहं ज्ञानाभाववान्, अवस्थाविशेषवत्त्वात् , ज्ञानसामग्रीविरहवत्त्वात् , तुल्ययोगक्षेम आत्मादौ स्मर्यमाणेऽपि तद्वत्तया नियमेनास्मर्यमाणत्वाद्वेति प्रयोगसंभवात् । द्वितीये तु नास्त्युपपत्तिः; संस्कारासंभवात् , विनश्यदेव हि ज्ञानं संस्कारं जनयति; विना व्यापारं व्यवहितकार्यजननाक्षमत्वात् , अविनश्यता तु तेन स्वयमेव तत्कार्यस्य जनयितुं शक्यत्वात् किमिति संस्कारो जन्येत ? न हि संस्कारोऽपि प्रत्यक्षः, येन कार्यान्यथानुपपत्तिमन्तरेणापि अभ्युपेयते; सौषुप्तं चानाद्यज्ञानोपरक्तं साक्षिचैतन्यरूपं ज्ञानं स्वतो वा उपाधितो वा न विनश्यतीति संस्कारं कथं जनयेत् ? तदभावात् कथं स्मर्येत, अस्मर्यमाणं वा कथं प्रमाणत्वेनोदाह्रियेतेति–चेन्न; न तावदनुमानं तत्र संभवति । हेतोः पक्षविशेषणस्य चाज्ञानात् । न हि ज्ञानाभावमन्तरेणावस्थायां विशेषो वक्तुं शक्यः । ज्ञानसामग्रीविरहश्च ज्ञानाभावानुमेयत्वेनान्योन्याश्रयग्रस्तः । न चेदानीन्तनेनेन्द्रियप्रसादेन पूर्वकालीनं तदुपरममनुमाय सामग्रीविरहानुमानम् ; इन्द्रियप्रसादस्य सुखानुभवहेतुकस्य तदुपरमहेतुकत्वासिद्धेः । नियमेनास्मर्यमाणत्वं च यथाश्रुतं वा सुषुप्तिकालावच्छेदेनेति वा । आद्य असिद्धिः, द्वितीये तूपेक्षणीयज्ञानाभावो न सिद्ध्येत् , तत्रैव व्यभिचारश्च । न च तर्हि प्रातरनुभूतचत्वरे गजज्ञानाभावज्ञानं कथमिति वाच्यम् ; ज्ञानानुपलब्ध्यैवेत्यवेहि । अनुपलब्धिज्ञानं च भावरूपाज्ञानेन लिङ्गेन । तथा हि-पूर्वकालेऽहं, गजज्ञानाभाववान्, गजाज्ञानवत्त्वात् , यन्नैवं तन्नैवम् , यथा गजज्ञानवानहमिति, एवं सर्वत्राज्ञानस्य ज्ञानाभावव्याप्यत्वेन तदनुमापकत्वम् । न च–सुषुप्तिकाले ज्ञानाभावानुमानार्थं भावरूपाज्ञानमिव रागाभावानुमानार्थं द्वेषोऽपि स्वीकरणीयः, तद्विरोधिपदार्थानुभवं विना तदभावानुमानायोगादिति वाच्यम्; भावरूपाज्ञानेन ज्ञानाभावेन वा रागाभावानुमानसंभवात् , तस्यापि तद्विरोधित्वात् । अथापरोक्षतो ज्ञातेऽज्ञानाभावात् कथं परोक्षज्ञानाभावानुमानम् ? सामग्रीविरहादिनेति गृहाण । न चात्राप्यन्योन्याश्रयः; शब्दादीनां योग्यानां योग्यानुपलब्ध्या अभावनिश्चयेन परोक्षज्ञानविरहज्ञानं विनैव सामग्रीविरहनिश्चयात् , सुषुप्तिकाले चेन्द्रियादिघटितसामग्रीविरहस्य फलाभावं विना ज्ञातुमशक्यत्वेनान्योन्याश्रयोक्तेः। न च स्मरणपक्षे संस्कारानुपपत्तिः; अज्ञानस्याज्ञानवृत्तिप्रतिबिम्बितसाक्षिभास्यत्वेन वृत्तिनाशादेव संस्कारोपपत्तेः, अज्ञानवृत्तिप्रतिबिम्बितचैतन्यस्यैव साक्षिपदार्थत्वात् । न च-जागरेऽप्यज्ञानस्य वृत्तिवेद्यत्वे वृत्त्यभावदशायां संशयाद्यापत्तिरिति वाच्यम्; अज्ञानविषयाज्ञानाभावेन तदयोगात् , संशयादेस्तत्कारणीभूताज्ञानसमानविषयत्वनियमात् । भावत्वादिना संशये त्विष्टापत्तिरेव; भावत्वादेः साक्षिवेद्यत्वाभावेनाज्ञानविषयत्वात् , अज्ञानस्य स्वरूपेणैव साक्षिवेद्यत्वात् । ननु तदा ज्ञानाभावोऽपि स्वरूपेणैव भासताम् , सप्रतियोगिकत्वेनाभवज्ञान एव प्रतियोगिज्ञानस्य हेतुत्वात् , अन्यथा ‘प्रमेय'मिति ज्ञानेऽप्यभावो न भासेतेति चेन्न; साक्षिणा तावन्न स्वरूपेणाभावावगाहनम् । तस्य साक्षात्साक्ष्यवेद्यत्वात् । नापि शब्दादिना तदानीं तेषामभावात् । नाप्यनुपलब्ध्या; तस्याः प्रतियोगिज्ञाननिरपेक्षाया अजनकत्वात् । न च–दृष्टाभावान्तरविलक्षणस्वभाव एवायमभाव इति स्वरूपेण साक्षिवेद्योऽस्त्विति वाच्यम् ; निर्विकल्पकबुद्धिवेद्यत्वे भावत्वस्यैवौचित्यात् , अन्यथा परिभाषामात्रापत्तेः । ननु ज्ञानविरोधित्वादेस्तदाननुभवेन ‘नावेदिषमि'ति तेनाकारेण कथं परामर्शः? न; द्रष्टुर्ह्यन्तःकरणतादात्म्येनाहमुल्लेखस्येव ज्ञानविरोधित्वादेरपि तदैवानुभूयमानत्वेन तदंशे परामर्शत्वानभ्युपगमात् , सुषुप्तिकालीनस्य द्रष्टुरेव परामृष्टत्वात् । नन्वज्ञानवृत्तिप्रतिबिम्बितचैतन्यरूपस्याज्ञानानुभवस्य जाग्रत्यपि विद्यमानत्वात् कथमज्ञानस्मरणम् ? न हि धारावाहिकेषु अनुभवेषु तुल्यसामग्रीकेषु स्मरणव्यवहारः; तथाच धारावाहिकोऽज्ञानानुभव इति वक्तव्यम्, न तु परामर्श इति, सत्यम् । सुषुप्त्याख्यायास्तामस्या अज्ञानवृत्तेर्नाशे जाग्रति तद्विशिष्टाज्ञानस्य साक्षिणाऽनुभूयमानत्वाभावेन संस्कारजन्याविद्यावृत्त्यैव सुषुप्तिविशिष्टज्ञानभानात् परामर्शत्वोपपत्तेः, केवलाज्ञानांशे तु तुल्यसामग्रीकत्वाद्धारावाहिकत्वमेव; अत एव कार्योपाधिविनाशसंस्कृतमज्ञानमात्रमेव प्रलयोपमं सुषुप्तिरित्यभिप्रेत्य वार्तिककारपादैः सौषुप्ताज्ञानस्मरणमपाकृतम् । तथा चोक्तम्-‘न सुषुप्तिगविज्ञानं नाज्ञासिषमिति स्मृतिः । कालाद्यव्यवधानत्वान्न ह्यात्मस्थमतीतभाक् ॥ न भूतकालस्पृक्प्रत्यक् न चागामिस्पृगीक्षते । स्वार्थदेशः परार्थोऽथ विकल्पस्तेन स स्मृतः ॥' इत्याद्यव्याकृतप्रक्रियायाम् । विवरणकारैस्तु–'अभावप्रत्ययालम्बना वृत्तिर्निद्रे'ति योगसूत्रानुसारेण तमोगुणात्मकावरणमात्रालम्बना काचिद्वृत्तिः सुषुप्तिरित्यभिप्रेत्य तदुपरक्तचैतन्यस्य तन्नाशेनैव नाशात्तत्कालीनाज्ञानानुभवजनितसंस्कारवशेन 'न किंचिदवेदिष'मिति ‘स्मरणमभ्युपेत'मिति वार्तिकविवरणयोरप्यविरोधः । अत एवोक्तं वार्तिककारैरुषस्तिब्राह्मणेन चेदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते । नावेदिषं सुषुप्तोऽहमिति धीः किंवलाद्भवेत् ॥' इत्यादि । अभिप्रायस्तु वर्णितः । एवं च साक्ष्यज्ञानसुखाकारास्तिस्रोऽविद्यावृत्तयः सुषुप्त्याख्यैकैव वा वृत्तिरित्यन्यदेतत् । निर्विकल्पकस्यापि स्मरणजनकत्वम् । अहंकारोपरागकालीनत्वाभावेन तत्तानुल्लेख इत्यादि सर्वमुपपादितमस्माभिः सिद्धान्तबिन्दौ । तस्मात् सौषुप्तानुभवोऽपि भावरूपाज्ञानविषय इति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ अज्ञानप्रत्यक्षत्वोपपत्तिः ॥
अनुमानमपि तत्र विवरणोक्तं प्रमाणम् । ‘विवादपदं प्रमाणज्ञानं, स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदि’ति । अत्र प्रमाणपदं प्रमाणवृत्तेरेव पक्षत्वेन सुखादिप्रमायां साक्षिचैतन्यरूपायामज्ञानानिवर्तिकायां बाधवारणाय । धर्म्यंशप्रमाणवृत्तेरिदमित्याकाराया अज्ञानानिवर्तिकायाः पक्षबहिर्भावस्य विवादपदमिति विशेषणम् । विशेषाकारप्रमाणवृत्तिरिति फलितोऽर्थः । परोक्षप्रमाया अप्यसत्त्वावरणरूपप्रमातृत्वगताज्ञाननिवर्तकत्वात् न तदंशेऽपि बाधः । नन्विदमिति प्रमाणवृत्तेरज्ञानानिवर्तकत्वे अज्ञातज्ञापकत्वरूपप्रमात्वेन व्यवहारो न स्यात्, न ; इदमाकारभ्रमसंशयादर्शनेन तद्गोचराज्ञानकल्पने मानाभावेन तत्र सुखादिज्ञानवद्यथार्थत्वमात्रेण प्रमात्वव्यवहारोपपत्तेः । यदाहुः – ‘धर्म्यंशे सर्वमभ्रान्तं प्रकारे तु विपर्ययः ।’ इति । यदि तु भ्रमसंशयाजनकमपि तदाकरमज्ञानमनुभवबलादास्थीयेत, तर्हि सापि पक्षेऽन्तर्भवतु ; प्रमाणवृत्तित्वावच्छेदेनैवाज्ञाननिवर्तकत्वानपयात् , तदा च विवादपदमिति विशेषणमनादेयम् । एतस्मिन् पक्षे भ्रमोपादनत्वयोग्यत्वमविद्यालक्षणं द्रष्टव्यम् ; भ्रमोपादानत्वस्य धर्म्यंशज्ञाननिवर्त्याज्ञानेऽव्याप्तेरित्यवधेयम् । धारावाहिकबुद्धीनाञ्च तत्तत्कालावच्छिन्नार्थविषयत्वेनाज्ञातज्ञापकत्वमस्त्येव ; कालस्य सर्वप्रमाणवेद्यत्वाभ्युपगमात् । अनात्माकारप्रमाणवृत्तीनां च तत्तदवच्छिन्नचैतन्यविषयत्वेन स्वविषयावरणनिवर्तकत्वमस्त्येव ; चित्त्वेनैव प्रकाशप्रसक्तेः ; न त्वनवच्छिन्नचित्त्वेन, गौरवात् ; ‘एतावन्तं कालं मया न ज्ञातोऽयमिदानीं ज्ञात’ इत्यनुभवाच्च । रूपादिहीनस्यापि तत्तदवच्छिन्नचैतन्यस्य प्रत्यक्षादिविषयत्वमुक्तं प्राक् । प्रतिकर्मव्यवस्थामभ्युपगम्य चेदमनुमानं, न तु दृष्टिसृष्टिपक्ष इति ध्येयम् । साध्ये चाद्यं विशेषणं प्रतियोग्यतिरिक्ता प्रागभावनिवृत्तिरिति मते प्रागभावेनार्थान्तरवारणाय । तदुदीच्यध्वंसादिकमादाय नार्थान्तरप्रसक्तिः, किन्तु पूर्ववृत्त्यभावमादायेति वस्तुगतिमनुरुध्य प्राक्पदम् । अवैयर्थ्यं च प्रतियोगिविशेषणत्वेनाखण्डाभावसम्पादकतया । एतेन – यतो ज्ञानमज्ञानस्यैव निवर्तकमिति नियमस्तस्मात् स्वनिवर्त्यपदेनैव प्रागभावव्युदासे किमाद्यविशेषणेनेति–निरस्तम् ; प्रमात्वेन ज्ञाननिवर्त्यत्वमन्येषां नेत्यत्र तात्पर्यात् । न च स्वविषयावरणपदेनैव तद्व्युदासः; ‘अस्ति प्रकाशत' इति व्यवहारविरोधित्वरूपस्यावरणत्वस्य भावाभावसाधारणत्वात् । वृत्तिजनकाददृष्टेनार्थान्तरवारणाय तु विशेषणमिदम् । न चावरणपदेनैव तद्व्युदासे स्वविषयेति व्यर्थम् ; यददृष्टं स्वविषयज्ञानजनकं विषयान्तरज्ञानप्रतिबन्धकतया तदावारकं, तादृशादृष्टपूर्वकत्वेनार्थान्तरवारकत्वात् । न च-जडे अज्ञानस्यानङ्गीकाराच्चितश्चाज्ञानादिसाक्षितया भासमानत्वात् क्वावरणमिति–वाच्यम् ; आज्ञानादिसाक्षितया चितः प्रकाशमानत्वेऽपि ‘अस्ति प्रकाशत' इति व्यवहाराभावेन तदंशेऽज्ञानावरणस्यावश्यकत्वात् । वक्ष्यते चैतत् । स्वनिवर्त्येति च विशेषणं वृत्तिप्रतिबन्धकादृष्टेनार्थान्तरवारणाय । न च-चरमसाक्षात्कारोत्पत्तिप्रतिबन्धकादृष्टस्य तदनिवर्त्यत्वे मिथ्यात्वासिद्धिः, तन्निवर्त्यत्वे तद्व्युदसनमशक्यमिति वाच्यम् : प्रतिबन्धकादृष्टे विद्यमाने न ज्ञानोत्पत्तिरिति प्रथमं तन्निवृत्तेः कारणात्मना स्थितस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वम् । न चैवमपि स्वनिवर्त्यत्वमव्याहतम् ; स्वनिवर्त्यस्वरूपत्वे तात्पर्यात् । अन्धकारेणार्थान्तरवारणार्थमिदमिति केचित् । तन्न; स्वदेशगतेत्यनेनैव तद्व्युदासात् । यथा च वृत्तिप्रतिबिम्बितचैतन्यस्य विषयावच्छिन्नचैतन्येन सहैकलोलीभावादज्ञाननिवर्तकत्वं, तथोक्तं प्राक् । स्वदेशगतेति च विशेषणं विषयगताज्ञातत्वेनार्थान्तरवारणाय । यद्यप्यविद्याविषयत्वरूपमज्ञातत्वमसिद्धम् , ज्ञातत्वाभावरूपं तु प्रथमविशेषणेनैव परास्तं; तथापि प्रथमेन प्रागभावव्युदासात्यन्ताभावव्युदासाय चतुर्थमिति द्रष्टव्यम् । ननु कथं ज्ञानाश्रयगतत्वमज्ञानस्य ? वृत्त्यादिरूपस्य ज्ञानस्याज्ञानाश्रयचिदनाश्रितत्वादिति चेन्न; अन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तेस्तत्प्रतिफलितचैतन्यस्य वा ज्ञानस्य चिदाश्रितत्वसंभवात् , किंचिदवच्छिन्नतदाश्रितस्यापि तदाश्रितत्वानपायात् , कर्णशष्कुल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववत् । एवं च भावाभावसाधारणमावरणमिति मतेन साध्यमुपपादितम् । अभावो नावारक इति सिद्धान्ते तु साध्यद्वये तात्पर्यम् । स्वप्रागभावातिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकम् । स्वविषयावरण (स्वनिवर्त्यस्वदेशगतवस्त्वन्तर) पूर्वकमित्यपरमिति न किंचिदसमञ्जसम् । हेतौ च प्रकाशकत्वं प्रकाशकपदवाच्यत्वं, अप्रकाशविरोधित्वं वा ज्ञानालोकयोः साधारणम् । यद्यपि प्रकाशकपदवाच्यत्वं नामकरणवशात् कस्मिंश्चित् पुरुषेऽप्यस्ति; तथापि, प्रकाशकशब्देन शास्त्रे सर्वदेशकालयोर्वा व्यवह्रियमाणत्वं तद्विवक्षितम् । अथवास्तु साधारणम् । अप्रकाशितार्थगोचरेति विशेषणात् व्यभिचारव्युदासः । अप्रकाशितत्वं च ‘न प्रकाशत' इति व्यवहारगोचरत्वम् , तच्च स्वप्रकाशचैतन्येऽप्यस्तीत्युपपादितम् । एवं निरुक्ताप्रकाश विरोधित्वमपि ज्ञानालोकयोः प्रत्यक्षसिद्धम् । उक्तं च विवरणे–‘ज्ञानप्रकाश्यत्वादज्ञानविरोधित्वादन्यदेव आलोकप्रकाश्यत्वं तमोविरोधित्वं नामेति । अत उभयोरेव साक्षादप्रकाशविरोधित्वसंभवान्नेन्द्रियसन्निकषादौ व्यभिचारः । एवं चाप्रकाशितार्थगोचरत्वे सति प्रकाशशब्दवाच्यत्वात् अप्रकाशविरोधिप्रकाशत्वादिति वा हेतुः पर्यवसितः । विपर्ययविषयस्तु नाज्ञातः; विपर्ययान्यकालासत्त्वेन तस्यानिर्वचनीयस्य मानगोचरत्वाभावेन प्रकाशप्राक्कालसत्त्वघटिताप्रकाशितत्वासंभवात् , अत एव स नाप्रकाशविरोधी; स्वविषये अप्रकाशाभावात् ; अधिष्ठानाप्रकाशस्तु तस्य जनक एव । स्मरणे च व्यभिचाराभावः स्पष्टः । अनुकूलतर्कश्च त्वदुक्तमर्थं न जानामीति प्रतीत्यन्यथानुपपत्त्यादिरूपः प्रागुक्त एव । एतेन गोशब्दवाच्यत्वेन पृथिव्या अपि शृङ्गित्वानुमानापातोऽपास्तः। तत्रानुकूलतर्काभावात् । अज्ञानस्य स्वरूपेणाज्ञानाविषयत्वेऽपि तद्भावत्वादिकमज्ञानविषयो भवत्येव; तस्याज्ञानग्राहकसाक्ष्यग्राह्यत्वात् । अन्यथा तत्र विवादो न स्यात् । एवं प्रमाया स्वविषयावरणभावपूर्वकत्वमपि न प्रमास्वरूपग्राहकसाक्षिग्राह्यम् । तथाच तद्ग्राहिकाया एतस्या अनुमितेः साध्यसाधनोभयाधिकरणत्वात् न कोऽपि दोषः । दृष्टान्ते चान्धकाराव्यवहितोत्पत्तिकत्वं विशेषणम् । तेन न प्रथमपदवैयर्थ्यं न वा द्वितीयादिप्रभायां साध्यसाधनवैकल्प्यम् । विस्तरेण चान्यत्र व्युत्पादितमिदमस्माभिः । ननु-अनादित्वे सति भावत्वमभावविलक्षणत्वं वा, न निवर्त्यनिष्ठम्, अनादिभावमात्रवृत्तिधर्मत्वात् , अनाद्यभावविलक्षणमात्रवृत्तित्वाद्वा, आत्मत्ववत् । निवर्त्यत्वं वा, नानादिभावनिष्ठं, अनाद्यभावविलक्षणनिष्ठं नेति वा, निवर्त्यमात्रवृत्तित्वात् , प्रागभावत्ववत् । अनादित्वं वा, नावरणनिष्ठम्, अनादिमात्रवृत्तित्वात् , प्रागभावत्ववत् । प्रमाणज्ञानं वा अनाद्यभावान्यानाद्यनिवर्तकम् , ज्ञानत्वात् , भ्रमवदित्यादिना सत्प्रतिपक्षता; कृत्यभावमात्रेणाकृतस्य कृतिवत् पूर्वप्रकाशाभावमात्रेणाप्रकाशितस्य प्रकाशोपपत्तेरप्रयोजकत्वं चेति–चेन्न; अनुकूलतर्काभावेनाप्रयोजकत्वात् , सिद्धान्तिहेतोश्चानुकूलतर्कसद्भावेन साध्यव्याप्यत्वे निश्चिते सत्प्रतिपक्षाप्रयोजकत्वादीनामनवकाशात् । अनादिभावत्वस्य निवर्त्यावृत्तित्वेऽप्यविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेराद्यानुमानेनाविरोधश्च । द्वितीये त्वनाश्रितमात्रवृत्तित्वमुपाधिः । तृतीयचतुर्थयोः सकलनिवर्त्यावृत्तित्वमुपाधिः । पञ्चमे सकलानाद्यवृत्तित्वमुपाधिः । षष्ठे प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति च दूषणानि । तत्त्वप्रदीपिकोक्तं च–चैत्रप्रमा, चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्तिका, प्रमात्वान्मैत्रप्रमावत् ; विगीतो विभ्रमः, एतज्जनकाबाध्यातिरिक्तोपादानकः, विभ्रमत्वात् , संमतवदिति । अत्राद्ये सुखादिज्ञानेषु न बाधः; अन्तःकरणवृत्तेरेव प्रमापदेनोक्तेः । चैत्रगतत्वं च नानादेर्विशेषणम् ; मैत्रप्रमायाश्चैत्रनिष्ठानादिनिवर्तकत्वाभावेन दृष्टान्ते साध्यवैकल्यापातात् , किंतु प्रमातदभावयोरन्यतरस्य; प्रमायाश्चात्मगतत्वं प्राग्व्याख्यातम्, साध्ये तु प्रमापदमुपरञ्जकमेव । यदि त्वभावे प्रागिति विशेषणं नास्ति, ‘तदा भावरूपाज्ञानस्यापि स्वाभावाभावत्वेन तदतिरिक्तानादिनिवर्तकत्वे बाधवारणाय । चैत्रासमवेतत्वं चैत्रान्यसमवेतत्वं च नोपाधिः; चैत्रसुखादौ व्यभिचारेण साध्याव्यापकत्वात् । न च चैत्रप्रमा चैत्रगतस्याभावातिरिक्तस्यानादेर्निवर्तिका न, प्रमात्वात् , मैत्रप्रमादिवदिति सत्प्रतिपक्षः प्रतियोगिप्रसिद्ध्यप्रसिद्धिभ्यां व्याहतेः । चैत्रगतप्रमाभावातिरिक्ताभावनिवर्तकत्वं तु नोपाधिः; चैत्रगतप्रमा भावातिरिक्तस्य स्वजन्यव्यवहारप्रागभावस्य निवर्तकतया पक्षे साधनव्यापकत्वात् । विपक्षबाधकसत्त्वाच्च नाभाससाम्यम् । अत एव द्वितीयानुमानमपि सम्यक् । नच–विगीतो विभ्रमः, एतज्ज्ञानजनकबाध्यातिरिक्तोपादानकः, विभ्रमत्वात् , संमतवदिति सत्प्रतिपक्ष इति वाच्यम्; बाध्यस्य त्वन्मते अजनकत्वात् ; साध्याप्रसिद्धेः, ब्रह्माविद्योभयोपादानकत्वेनाविरोधाच्च । नव्यास्तु विमता प्रमा, प्रमाभावातिरिक्तस्यानादेर्निवर्तिका, कार्यत्वात् , घटवत् ; भ्रमानुत्तरप्रमा, स्वाभावातिरिक्तस्वविरोधिनिवर्तिका, प्रमात्वात् , प्रमोत्तरप्रमावत् , ज्ञानत्वं, स्वविषयावरणनिवर्तकनिष्ठम् , अप्रकाशितार्थप्रकाशवृत्तित्वात् , आलोकत्ववत् ; अनित्यज्ञानं, अभावत्वानधिकरणस्वविरोधिसमानाधिकरणम्, प्रयत्नान्यत्वे सति सविषयत्वे सत्यनित्यत्वात् , अनित्येच्छावत् ; सा हि तादृग्द्वेषसमानाधिकरणा । न चैतेषु अप्रयोजकत्वशङ्का; विपक्षबाधकतर्कस्योक्तत्वात् । एवमन्यदप्यूहनीयम् । ज्ञानविरोधित्वं, अनादिभावत्वसमानाधिकरणम् , सकलज्ञानविरोधिवृत्तित्वात् , दृश्यत्ववत् । यद्वा अनाद्यभावविलक्षणत्वं ज्ञानविरोधिवृत्ति, अनाद्यभावविलक्षणमात्रवृत्तित्वात् , अभिधेयत्ववदिति । एवमभावविलक्षणाज्ञाने अनुमानान्यूहनीयानि ॥
॥ इत्यद्वैतसिद्धावविद्यानुमानोपपत्तिः ॥
एवं श्रुतयश्च । तत्र छान्दोग्ये अष्टमाध्याये-'तद्यथापि हिरण्यं निधिनिहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन प्रत्यूढा' इति श्रुतिर्ब्रह्मज्ञानप्रतिबन्धकत्वेनानृतं ब्रुवाणा तादृगज्ञाने प्रमाणम् । न च ऋतशब्दस्य ‘ऋतं पिबन्तावि'त्यत्र सत्कर्मणि प्रयोगदर्शनात् ‘ऋतं सत्यं तथा धर्म” इति स्मृतेश्च ऋतशब्दस्य सत्कर्मपरत्वादनृतशब्दस्य दुष्कर्मपरत्वमिति–वाच्यम्; उत्तरत्र ‘य आत्मापहतपाप्मे‘त्यादिना आत्मनोऽपहतपाप्मत्वप्रतिपादनेन दुष्कर्मप्रत्यूढत्वविरोधात्, सुषुप्तौ कर्ममात्रनाशे दुष्कर्मणोऽप्यभावात् , कारणात्मनावस्थाने चाज्ञानस्यावश्यकत्वात् , कर्मण आवरणत्वानुपपत्तेश्च । ब्रह्मवेदनप्रतिबन्धकतया ह्यनादिब्रह्मावारकं ज्ञाननिवर्त्यं वाच्यम् । तथाच कर्मेव प्रधानमपि नानृतपदाभिधेयम्; तयोर्ज्ञानानिवर्त्यत्वात् । ज्ञाननिवर्त्यत्वे च ‘भूयश्चान्ते विश्वमायानिवृत्तिरि‘त्यादिश्रुतिर्मानम् । न च–अत्र निवृत्तिस्तरणमात्रम्, ‘मायामेतां तरन्ति ते' इति स्मृतेरिति वाच्यम्; ज्ञानहेतुकतरणस्य निवृत्त्यतिरिक्तस्यासम्भवेन उभयोशमात्रार्थत्वात् । न च–‘तम आसी'दित्यस्य सत्त्वप्रतिपादकस्य बाधकं विना पारमार्थिकसत्त्वपरत्वेन कथमावरणस्यानृतत्वमिति वाच्यम्, ‘नासदासीन्नोसदासी'दित्यनेन पारमार्थिकत्वतुच्छत्वयोर्निषेधेन व्यावहारिकसत्त्वपरत्वात् । न च–अनेन माया प्रतिपाद्यते; मायाशब्दार्थश्च नाज्ञानम्, मायिनो ब्रह्मणोऽज्ञानित्वे सर्वज्ञत्वनिरवद्यत्वादिश्रुतिविरोधादिति वाच्यम्; उपाधेः प्रतिबिम्बपक्षपातित्वेनेश्वरासार्वइयाद्यापादनायोगात्, सार्वज्ञाद्यश्वैर्यस्य मायानिबन्धनत्वाच्च । न च–'मय ज्ञान‘ इति धात्वर्थानुसारात् माया कथमज्ञानमिति वाच्यम् ; ‘एवमेवैषा माया स्वाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासीकरोति माया चाविद्या च स्वयमेव भवती‘ति श्रुत्या मायाविद्ययोरैक्यप्रतिपादनान्माया अज्ञानमेव; ‘घट चेष्टाया'मिति धातुजस्यापि घटशब्दस्य चेष्टावाचकत्वाभाववदत्रापि ज्ञानवाचकत्वाभावात् । माया प्रज्ञा वयुनमिति ज्ञानपर्याये निघण्टुकारवचनं च ज्ञानाकारपरिणामित्वादज्ञानस्योपपन्नम् । वृत्तिज्ञानस्याज्ञानाभिन्नत्वात् अज्ञानस्यैवानिर्वचनीयविचित्रशक्तियोगात् न विचित्रशक्तिमति मायाशब्दप्रयोगानुपपत्तिः, क्वचिन्मणिमन्त्रादौ तत्प्रयोगस्तूपचारात् । न च-शुक्तिरूप्यादौ मायाशब्दाप्रयोगात् न मृषार्थोऽयमिति वाच्यम्, वज्रादौ पृथिवीत्वादिव्यवहाराभावेऽपि पृथिवीत्ववत् व्यवहाराभावेऽपि मायात्वानपायात्, ऐन्द्रजालिकादौ बहुशो मायाशब्दप्रयोगदर्शनाच्च, मायाया अज्ञानान्यत्वे ज्ञाननिवर्त्यत्वविरोधाच्च । नीहारतमःशब्दावप्यस्मिन्मते अज्ञानस्यावारकत्वाद्युज्येते, नान्यमते । अनृतनीहारादिशब्दानां दुष्कर्मपरत्वे श्रुत्यन्तरोक्तजीवेशभेदकत्वोपादानत्वादिविरोधश्च । ‘तस्मादनृतेन प्रत्यूढाः' 'नीहारेण प्रावृताः‘ ‘तम आसीत्’ ‘मायां तु प्रकृतिं विद्यात्‘ ‘अजामेकां लोहितशुक्लकृष्णाम्‘ ‘अविद्यायामन्तरे वर्तमानाः‘ ‘भूयश्चान्ते विश्वमायानिवृत्तिरि‘त्याद्याः श्रुतयो वर्णिता अज्ञाने प्रमाणमिति स्थितम् ॥
॥ इत्यद्वैतसिद्धावविद्याप्रतिपादकश्रुत्युपपत्तिः ॥
जीवस्यानवच्छिन्नब्रह्मानन्दाप्रकाशान्यथानुपपत्तिश्च तत्र मानम् । न च जीवस्य ब्रह्मभेदेनैव तादृगप्रकाशोपपत्तिः; जीवब्रह्मभेदस्याग्रे निरसिष्यमाणत्वात् । न चानवच्छिन्नानन्दस्यापि प्रकाशमानप्रत्यङ्मात्रत्वेनाप्रकाशमानत्वानुपपत्तिः; शरीरप्रतियोगिकस्यात्मनि स्वरूपभेदस्यात्माकारेण प्रकाशमानत्वेऽपि भेदाकारेणाप्रकाशमानत्ववद्रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि उक्ताकारेणाविद्यावशादप्रकाशमानत्वोपपत्तेरुक्तत्वात् । (२) भ्रमस्य सोपादानत्वान्यथानुपपत्तिरपि अविद्यायां प्रमाणम् । न चान्तःकरणमुपादानम् । अन्तःकरणस्य ज्ञानजनने प्रमाणव्यापारसापेक्षत्वेन प्रमाणाविषये शुक्तिरूप्यादौ ज्ञानाजनकत्वात् , सादित्वेनानादिभ्रमपरम्परानुपादानत्वाच्च । न च ब्रह्मैवोपादानम् । तस्यापरिणामित्वात् । नच विवर्ताधिष्ठानत्वेन शुक्त्यादेरिवोपादानत्वम् ; अविद्यामन्तरेणातात्त्विकान्यथाभावलक्षणस्य विवर्तस्यैवासम्भवात् , शुक्त्यादेरधिष्ठानावच्छेदकतया विवर्ताधिष्ठानत्वाभावात् । न च-उपादानापेक्षस्य विवर्तस्य तात्त्विकातिरिक्तोपादानकल्पनवदविद्यादेराश्रयसापेक्षस्य ब्रह्मातिरिक्तमतात्त्विकमधिकरणं कल्प्यं स्यादिति वाच्यम्; ब्रह्मण एव विकारित्वे अनित्यत्वादिप्रसक्तिवत् ब्रह्मण एवाधिष्ठानत्वे बाधकाभावेन द्वितीयस्याधिकरणस्याकल्पनात् । न च असत्यस्य सत्यरूपान्तरापत्तिलक्षणपरिणाम्यनपेक्षत्वेन परिणामित्वेनापि नाविद्याकल्पनमिति वाच्यम्; परिणामिसत्तासमानसत्ताकत्वनियमेनासत्यत्वस्यैवाभावात् । न च-घटादौ स्वसमानसत्ताकोपादानकत्वदर्शनेन प्रपञ्चेऽपि तादृशोपादानकल्पने घटादेः स्वाघिकसत्ताकोपादानानपेक्षत्ववत् वियदादेरपि ब्रह्मानुपादानकत्वं स्यादिति वाच्यम्; ‘तदभिध्यानादेव तु तल्लिङ्गात्सः' इत्यनेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादानकतया तादृशोपादानानपेक्षत्वासिद्धेः । अत एव रूप्येऽपि स्वसमानसत्ताकस्य निमित्तस्यापि कल्पनापत्तिरिति-निरस्तम्; निमित्तमात्रे वा इयं कल्पना, विशेषे वा । नाद्यः; अधिष्ठानरूपनिमित्तस्य सर्वत्राधिकसत्ताकत्वात् । द्वितीये तूत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तेः । न च–त्रिगुणात्मकं प्रधानमुपादानमिति वाच्यम् । तस्यासत्यत्वे अविद्यानतिरेकात् । सत्यत्वेऽपि सावयवं, निरवयवं वा । आद्ये अनादित्वभङ्गः । द्वितीये परिणामित्वायोगो ब्रह्मवत् । न चाविद्यापक्षेऽपि समः पर्यनुयोगः; तस्याः काल्पनिकत्वेन पर्यनुयोगायोगात् । तस्मादपत्तिरविद्यायां प्रमाणम् ॥
॥ इत्यद्वैतसिद्धावविद्यायामर्थापत्तिः ॥
सा चाविद्या साक्षिवेद्या, न तु शुद्धचित्प्रकाश्या । साक्षी चाविद्यावृत्तिप्रतिविम्बितचैतन्यम् । तेन–निर्दोषचित्प्रकाश्यत्वेनाज्ञानस्य पारमार्थिकत्वापत्तिः, मोक्षेऽपि तत्प्रकाशापत्तिः, न च तदानीमविद्याया निवृत्तत्वात् प्रकाशाभावः; प्रतीतिमात्रशरीरस्य प्रतीत्यनुवृत्तौ निवृत्त्ययोगादित्यादिदोषानवकाशः ॥ अत एवोच्यते राहुवत् स्वावृतचैतन्यप्रकाश्याऽविद्येति । न चैवं कदाचिदविद्याया अप्रतीत्यापत्तिः; इष्टापत्तेः, समाधौ तथाभ्युपगमात् । न चाविद्यावृत्तेर्दोषजन्यत्वादत्र कथमविद्यावृत्तिः ? अविद्याया एव दोषत्वात् । न च वृत्तेरपि वृत्त्यन्तरप्रतिबिम्बितचिद्भास्यत्वे अनवस्था; स्वस्या एव स्वभानोपाधित्वात् । ननु-प्रमाणागम्यायामविद्यायां प्रमाणोपन्यासवैयर्थ्यम् , न च प्रमाणैरसद्व्यावृत्तिमात्रं बोध्यत इति वाच्यम्; अज्ञानमगृह्णतां तत्रासद्व्यावृत्तिबोधेऽप्यसामर्थ्यादिति-चेन्न; प्रमाणोपनीतासद्व्यावृत्तिविशिष्टज्ञानं हि साक्षिणा गृह्यते । तथा चासद्व्यावृत्त्युपनयने प्रमाणानां चरितार्थत्वात् न काप्यनुपपत्तिः ॥
॥ इत्यद्वैतसिद्धावविद्याप्रतीत्युपपत्तिः ॥
अविद्याया आश्रयस्तु शुद्धं ब्रह्मैव । तदुक्तम्-‘आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो भवति नापि गोचरः' इति । दर्पणस्य मुखमात्रसंबन्धेऽपि प्रतिमुखे मालिन्यवत् प्रतिबिम्बे जीवे संसारः, न बिम्बे ब्रह्मणि; उपाधेः प्रतिविम्बपक्षपातित्वात् । ननु कथं चैतन्यमज्ञानाश्रयः ? तस्य प्रकाशस्वरूपत्वात् , तयोश्च तमःप्रकाशवद्विरुद्धस्वभावत्वादिति–चेन्न; अज्ञानविरोधि ज्ञानं हि न चैतन्यमात्रम्, किंतु वृत्तिप्रतिविम्बितम् ; तच्च नाविद्याश्रयः, यच्चाविद्याश्रयः, तच्च नाज्ञानविरोधि । न च तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिवदप्रकाशत्वापत्तिः; वृत्त्यवच्छेदेन तस्या एवाज्ञानविरोधित्वात् , स्वतस्तृणतूलादिभासकस्य सौरालोकस्य सूर्यकान्तावच्छेदेन स्वभास्यतृणतूलादिदाहकत्ववत् स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्य वृत्त्यवच्छेदेन तद्दाहकत्वात् । ननु-अहमज्ञ इति धर्मग्राहकेण साक्षिणा अहङ्काराश्रितत्वेनाज्ञानस्य ग्रहणात् बाधः, न च–स्थौल्याश्रयदेहैक्याध्यासादहं स्थूल इति वदज्ञानाश्रयचिदैक्याध्यासात् दग्धृत्वायसोरेकाग्निसंवन्धादयो दहतीतिवदज्ञानाहङ्कारयोरेकचिदैक्याध्यासाद्वा ‘अहमज्ञ' इति धीभ्रान्तेति वाच्यम् ; चितोऽज्ञानाश्रयत्वासिद्ध्या अन्योन्याश्रयादिति चेन्न; अहंकारस्याविद्याधीनत्वेन तदनाश्रयतया चित एवाज्ञानाश्रयत्वे सिद्धे ‘अहमज्ञ' इति प्रतीतेरैक्याध्यासनिबन्धनत्वेनाबाधकत्वात् । न च–अविद्याश्रयत्वादेवाहङ्कारोऽकल्पितोऽस्तु, कल्पित एव वा तदाश्रयत्वमस्तु अविद्यायामनुपपत्तेरलङ्कारत्वादिति वाच्यम्; अहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेनाकल्पितत्वायोगात्, चिन्मात्राश्रितत्वं विना तद्गोचरचरमवृत्त्यनिवर्त्यत्वापातात्, स्वकल्पितस्य स्वाश्रितत्वेन स्वाश्रयत्वायोगात् । न चाविद्यायामनुपपत्तिरलङ्कारः; अनुपपत्तिमात्रं नालङ्कारः, किंतु सत्त्वादिप्रापकयुक्तावनुपपत्तिः, अन्यथा वादिवचसोऽनवकाशापत्तेः । ननु–‘निरनिष्टो निरवद्यः शोकं मोहमत्येति नित्यमुक्त' इति श्रुतिविरोधात् न शुद्धचितोऽविद्याश्रयत्वम् ; न हि मौढ्यं न दोषः, नापि बन्धकाज्ञानाश्रयो मुक्तः, न च तात्त्विकाविद्यादेरेव निषेधः; त्वन्मते तस्याप्रसक्तेः, जीवेऽपि तदभावेन जीवब्रह्मणोः सावद्यत्वनिरवद्यत्वव्यवस्थाश्रुतिविरोध इति चेन्न; अवद्यस्य चिति कार्यकारित्वाभावेन कार्यकरत्वाकार्यकरत्वाभ्यामेव सावद्यत्वनिरवद्यत्वव्यवस्थोपपत्तेः, उपाधेः प्रतिबिम्बपक्षपातित्वात् । न च–चिन्मात्रस्याविद्याश्रयत्वे प्रभाणाभावः, जीवाश्रितत्वे च प्रमाणमस्तीति वाच्यम् ; ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति श्रुतेरेव प्रमाणत्वात् । न च ‘ज्ञाज्ञावीशानीशा'विति जीवाज्ञानप्रतिपादकश्रुतिविरोधः; तदाश्रयत्वाभावेऽपि तत्कार्ययोगितया अज्ञत्वव्यपदेशोपपत्तेः । न च–ब्रह्मणोऽपि जीवाश्रिताज्ञानविषयत्वेन मायित्वोपपत्तिरिति वाच्यम्; जीवत्वस्याश्रयतावच्छेदकत्वे परस्पराश्रयप्रसङ्गात् । ननु–शुक्त्याद्यज्ञानवत् ज्ञातुरर्थाप्रकाशरूपमिदमप्यज्ञानं स्वकार्येण भ्रान्त्यादिना स्वनिवर्तकेन तत्त्वज्ञानादिना स्वसमानयोगक्षेमेण ज्ञानप्रागभावेन च सामानाधिकरण्याय ज्ञात्रात्मनिष्ठम्, न तु चैतन्यरूपज्ञानाश्रितमिति–चेत्, न; चैतन्यस्यैव ज्ञातृत्वेन ज्ञातुरर्थाप्रकाशरूपत्वस्य सम्यग्ज्ञानाश्रयत्वस्य भ्रान्त्यादिसामानाधिकरण्यस्य चोपपत्तेः । न चैवं–ज्ञातृत्वे सत्यविद्याश्रयत्वम् , अविद्यायां ज्ञातृत्वमित्यन्योन्याश्रय इति वाच्यम् ; अविद्याया ज्ञातृत्वानपेक्षत्वेनान्योन्याश्रयाभावात् । न हि सामानाधिकरण्यमस्तीत्येतावतैव तदपेक्षया अनया भवितव्यम् । न च-शरीरेऽपि ज्ञातृत्वाध्याससंभवेन तत्राप्यज्ञानाश्रयत्वापत्तिरिति वाच्यम्; नहि ज्ञातृत्वाध्यासो अज्ञानाश्रयत्वे प्रयोजकः, येन तन्मात्रेण तदापद्येत, किंतु प्रसक्तप्रकाशत्वम् अज्ञानानाश्रितत्वं च । न चैवं–अविद्याश्रयस्य ज्ञातृत्वभोक्तृत्वादिमत्त्वे जीवाश्रिताज्ञानपक्षप्रवेश इति वाच्यम् । अविद्यावच्छिन्नस्य हि ज्ञातृत्वम् , अविद्या च नाविद्यावच्छेदेन; सामानाधिकरण्यं चावच्छेद्यांशैक्यमादाय । यथोपाधिसंबन्धो मुखमात्र एव, औपाधिकमालिन्यसंबन्धस्तु उपाध्यवच्छिन्ने, बिम्बप्रतिबिम्बयोरैक्यात् , तथा सामानाधिकरण्यमपि । यथा प्रतिबिम्बो न वस्त्वन्तरं, तथा वक्ष्यते । ननु-शुक्त्यज्ञानमपि शुक्त्यवच्छिन्नचैतन्यगतं वाच्यम् , तथा'चाहं जानामीच्छामी'तिवत् ‘अहं न जानामी‘ति ज्ञातृस्थत्वानुभवविरोध इति–चेन्न; अज्ञानद्वैविध्यात् । एकं हि शुक्त्यवच्छिन्नचैतन्याश्रितं तद्गतापरोक्षभ्रमजनकं तद्विषयापरोक्षप्रमानाश्यम् , अपरं च परोक्षभ्रमजनकं तद्विषयप्रमामात्रनाश्यम् प्रमातृत्वप्रयोजकोपाध्यवच्छिन्नचैतन्याश्रितमित्युक्तं प्राक् । तत्र प्रमातृत्वप्रयोजकोपाध्यवच्छिन्नचैतन्यगताज्ञानविषयकोऽयमनुभवः । तेन प्रमातृनिष्ठत्वविषयतास्य न विरुध्यते । अत एव विषयगताऽज्ञाने विद्यमानेऽपि प्रमातृगताज्ञाननाशेन न जानामीति व्यवहाराभावः । ननु-उपाधेः प्रतिबिम्बपक्षपातित्वान्न ब्रह्मणः संसारित्वमित्युक्तं, तदयुक्तम् ; बिम्बप्रतिबिम्बभावस्यैवासंभवात् । तथा हि—अचाक्षुषस्य चैतन्यस्य गन्धरसादिवत् प्रतिबिम्बतानर्हत्वात् , प्रतिबिम्बत्वे जीवस्य सादित्वापाताच्च, सूर्यस्य सरिज्जल इव मरीचिकाजलेष्वप्रतिफलनेन चिदसमानसत्ताकस्याज्ञानस्य चितं प्रत्युपाधित्वायोगात्, अस्वच्छस्याज्ञानस्य प्रतिबिम्बतोपाधित्वायोगाच्च, अविद्यायाश्चिमात्राभिमुख्यासंभवाच्च, अज्ञानस्याकाशाद्यात्मना परिणामे प्रतिबिम्बापायापाताच्चेति–चेन्न; रूपवत एव प्रतिबिम्ब इत्यस्या व्याप्तेः रूपादौ व्यभिचारात् यथा भङ्गः, एवमाकाशादौ व्यभिचाराचाक्षुषस्यैव प्रतिबिम्ब इत्यस्या अपि व्याप्तेर्भङ्गः । वस्तुतस्तु–श्रुतिबलाच्चितः प्रतिबिम्बे सिद्धे तत्रैव व्यभिचारान्नेयं व्याप्तिः; तथाच रसादिव्यावृत्तं फलैकोनेयं प्रतिबिम्बप्रयोजकम् । नापि जीवस्य सादित्वापत्तिः; उपाधिबिम्बसम्बन्धानादित्वेनानादित्वोपपत्तेः । विस्तरस्तु सिद्धान्तबिन्दौ । यत्तूक्तं मरीचिकाजले सूर्यप्रतिबिम्बादर्शनात् बिम्बसमानसत्ताकत्वं प्रतिबिम्बोद्ग्राहित्वे प्रयोजकमिति । तन्न; अध्यस्तस्य स्फटिकलौहित्यस्य दर्पणे प्रतिबिम्बदर्शनात् । तस्मान्मरीचिकाजलव्यावृत्तं स्वच्छत्वं फलैकोन्नेयम् अननुगतमेव प्रतिबिम्बोद्ग्राहित्वे प्रयोजकम् , तच्च प्रकृतेऽप्यस्ति । अत एवाज्ञानस्यास्वच्छत्वान्न प्रतिबिम्बोपाधित्वमिति निरस्तम् । यच्चोक्तं चिन्मात्राभिमुख्याभावादिति, तत्किं सर्वात्मना चिदाभिमुख्याभावाद्वा, आभिमुख्यमात्राभावाद्वा । नाद्यः; चैतन्यवद्विभुत्वपक्षे सर्वात्मनापि संभवात् । न्यूनपरिमाणत्वेऽपि न दोषः; न्यूनपरिमाणस्यापि अधिकपरिमाणाकाशादिप्रतिबिम्बोद्ग्राहित्वदर्शनात् । न द्वितीयः; चैतन्यस्य सर्वतोऽपि प्रसृतत्वेन व्यवधानाभावेन च आभिमुख्यस्य सद्भावात् । न चाकाशाद्यात्मना परिणामे प्रतिबिम्बापायापत्तिः; प्रतिबिम्बप्रयोजकरूपाविरोधिपरिणामस्य प्रतिबिम्बाविरोधित्वेन प्रतिबिम्बानपायात् । न च-मुखप्रतिमुखानुगतमुखत्वातिरिक्तमुखमात्ररूपव्यक्यन्तरस्येव जीवब्रह्मानुगतचित्वातिरिक्तचिन्मात्ररूपस्याज्ञानाश्रयत्वयोग्यव्यक्त्यन्तरस्याभावान्मुखमात्रसंबन्ध्यादर्शवच्चिन्मात्रसंबन्ध्यज्ञानमिति कथमिति वाच्यम्; अपरामृष्टभेदस्य मुखादेर्मात्रार्थत्वेनानुगतधर्म्यतिरेकसंभवात् । ननु उपाधिः प्रतिबिम्बपक्षपातीति सामान्यव्याप्तेरज्ञानं स्वाश्रय एव भ्रान्त्यादिहेतुरिति विशेषव्याप्त्या बाध इति–चेन्न; विशेषव्याप्तिग्राहकसहचारदर्शनस्य विवादविषयातिरिक्तेऽसंभवेन विशेषव्याप्त्यसंभवात् । न च बन्धस्य चिन्मात्राश्रितमोक्षसामानाधिकरण्यानुपपत्तिः; अवच्छेद्यांशमादाय सामानाधिकरण्यस्योक्तत्वात् । ननु—उपाधेः प्रतिबिम्बपक्षपातित्वं तत्र स्वधर्मप्रतिभासकत्वं वा, स्वकार्यप्रतिभासकत्वं वा, स्वकार्यनिष्ठधर्मप्रतिभासकत्वं वा, प्रतिबिम्बं प्रति स्वविषयाच्छादकत्वं वा । नाद्यः; सुषुप्त्याद्यनुवृत्तस्याविद्यारूपस्याविद्यावच्छिन्नत्वरूपस्य वा, तत्प्रतिबिम्बितत्वस्य वा, सुषुप्तादावननुवृत्तस्य कर्तृत्वप्रमातृत्वादिरूपस्य वा संसारस्याज्ञाननिष्ठत्वाभावात् , ज्ञानक्रियासंस्कारादीनां त्वन्मते अज्ञाननिष्ठत्वेऽपि नित्यातीन्द्रियाणां तेषामात्मनि कदाप्यप्रतीतेः । ‘अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ।‘ इति त्वन्मतेऽपि अविद्या बन्धिका बन्धो वा, न तु बद्धा, येन स्वनिष्ठबन्धरूपधर्मसंक्रामकत्वं स्यात् । न द्वितीयः; विच्छेदादेरुपाधिकार्यस्य बिम्बे महाकाशे च दर्शनात् , मुखस्य बिम्बत्वादेर्ब्रह्मस्थसार्वज्ञ्यादेश्चानौपाधिकत्वापाताच्च । नापि तृतीयचतुर्थौ; दर्पणघटादावदृष्टेः । एवं बुद्धिरूपोपाधिरपि न प्रतिबिम्बपक्षपातीति–चेन्न; अतिशयेन कार्यकरत्वमेव तत्पक्षपातित्वम् । तथाच विच्छेदादिरूपकार्यकरत्वसाम्येऽपि स्थौल्याद्यवभासरूपकार्यकरत्वेन दर्पणादेः प्रतिबिम्बपक्षपातित्ववत् कर्तृत्वभोक्तृत्वादिसंसाररूपकार्यपरत्वेनाविद्यायामपि प्रतिबिम्बपक्षपातित्वोपपत्तेः । यत्तूक्तं मुखादिगतबिम्बत्वं ब्रह्मगतं सार्वज्ञ्यादिकं चानौपाधिकं स्यादिति । तन्न; उपाधौ बिम्बकार्यकरत्वमेव नेतीति न ब्रूमः, किंतु प्रतिबिम्बे अतिशयेनेति । यदपि बुद्धिरूपोपाधेरपि न प्रतिबिम्बपक्षपातित्वम् , तस्य प्रतिबिम्बापक्षपातिजपाकुसुमस्थानीयत्वेन तत्पक्षपात्यादर्शस्थानीयत्वाभावादिति । तन्न; स्वनिष्ठस्थौल्यावभासकत्वेनादर्शस्येवास्यापि स्वनिष्ठधर्मावभासकत्वेन तद्वत् पक्षपातित्वसंभवात् । तस्मादविद्याकृतविच्छेदेन ब्रह्मण्येव नित्यमुक्तत्वसंसारित्वसर्वज्ञत्वकिंचिज्ज्ञत्वादिव्यवस्थोपपत्तिः । एतेन–असर्वज्ञत्वादिनानुभवसिद्धाज्जीवात् अन्यस्य चेतनस्याभावेन सार्वज्ञ्यादिश्रुतिर्निर्विषया स्यात् , एकजीववादे संसार्यसंसारिव्यवस्थाऽयोगात् ‘द्वा सुपर्णा' ‘य आत्मनि तिष्ठन्' इत्यादिश्रुतिभिः “अन्यश्च परमो राजन् तथाऽन्यः पञ्चविंशकः । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप" इत्यादिस्मृतिभिः ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते' ‘भेदव्यपदेशाच्च' इत्यादिसूत्रैः तस्माच्छारीरादन्य एवेश्वरः । आत्मानौ तावेतौ चेतनौ एकः कर्ता भोक्ता अन्यस्तद्विपरीतोऽपहतपाप्मत्वादिगुण' इत्यादिभाष्यैः ‘तत्त्वज्ञानसंसरणे चावदातत्वश्यामत्वादिवत् नेतरेतरत्रावतिष्ठेते' इत्यादिविवरणग्रन्यैश्च विरोध इति–निरस्तम् । ननु–चिन्मात्रस्याज्ञानं स्वाभाविकमौपाधिकं वा । नाद्यः, आत्मवदनिवृत्तिप्रसङ्गात् । नान्त्यः; स्वस्यैवोपाधित्वे आत्माश्रयात्, एतदपेक्षान्यापेक्षत्वे अन्योन्याश्रयात् , तदन्यान्यापेक्षत्वे चानवस्थानादिति चेन्न; स्वस्यैवाश्रयत्वोपाधित्वात् । न चात्माश्रयः; भेदस्य स्वभेदकत्ववदुपपत्तेः, स्वाभाविकस्यापि घटरूपस्य तत्प्रागभावस्य च निवृत्तिदर्शनात् ॥
॥ इत्यद्वैतसिद्धौ अज्ञानस्य चिन्मात्राश्रयत्वोपपत्तिः ॥
ननु–शुद्धब्रह्मणः चिन्मात्रस्याज्ञानाश्रयत्वे सार्वज्ञ्यविरोधः । न च-विशिष्ट एव सार्वज्ञ्यम्; ‘तुरीयं सर्वदृक्सदा' इति शुद्धस्यैव सर्वज्ञत्वोक्तेरिति-चेन्न; सर्वदृक्पदेन सर्वेषां दृग्भूतं चैतन्यमित्युच्यते; न तु सर्वज्ञं तुरीयम्; तस्माद्विशिष्ट एव सार्वज्ञ्यम् । तच्चाविद्यां विना न संभवतीत्यविद्यासिद्धिः । तथा हि-सर्वज्ञो हि प्रमाणतः, स्वरूपज्ञप्त्या वा । तत्र प्रमाणस्य भ्रान्तेश्चाविद्यामूलत्वात् , असङ्गस्वरूपज्ञप्तेश्चाविद्यां विना विषयासङ्गतेः । तदुक्तम्-‘स्वरूपतः प्रमाणैव सर्वज्ञत्वं द्विधा स्थितम् । तच्चोभयं विनाऽविद्यासंबन्धं नैव सिध्यति ॥” इति । न च–स्वरूपज्ञप्तेः स्वतः कालाद्यसंबन्धेऽसत्त्वापातेन स्वतःसंबन्धाभावेऽसर्वगतत्वापातेन चाविद्ययेव स्वत एवान्येन संबन्धो वक्तव्य इति वाच्यम्; अविद्यासंबन्धस्याप्याविद्यकत्वेनाविद्ययेवेति दृष्टान्तानुपपत्तेः । स्वतः परतो वा कालादिसंबन्धेन सर्वसंबन्धेन चासद्वैलक्षण्यसर्वगतत्वयोरुपपत्तेर्न तयोर्थे स्वतः कालसंबन्धसर्वसंबन्धापेक्षा । असङ्गत्वश्रुतिरपि स्वतः सङ्गाभावविषयत्वेनोपपद्यते । अत एव–अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चनेति–निरस्तम् । तस्माञ्चिन्मात्राश्रितैवाविद्या ॥
॥ इत्यज्ञानवादे सर्वज्ञस्याविद्याश्रयत्वोपपत्तिः ॥
वाचस्पतिमिश्रैस्तु जीवाश्रितैवाऽविद्या निगद्यते । ननु जीवाश्रिताऽविद्या तत्प्रतिबिम्बितचैतन्यं वा, तदवच्छिन्नचतन्यं वा, तत्कल्पितभेदं वा जीवः; तथा चान्योन्याश्रय इति चेन्न; किमयमन्योन्याश्रय उत्पत्तौ, ज्ञप्तौ, स्थितौ वा । नाद्यः; अनादित्वादुभयोः । न द्वितीयः; अज्ञानस्य चिद्भास्यत्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात् । न तृतीयः; स किं परस्पराश्रितत्वेन वा, परस्परसापेक्षस्थितिकत्वेन वा स्यात् । तन्न; उभयस्याप्यसिद्धेः, अज्ञानस्य चिदाश्रयत्वे चिदधीनस्थितिकत्वेऽपि चिति अविद्याश्रितत्वतदधीनस्थितिकत्वयोरभावात् । न चैवमन्योन्याधीनताक्षतिः; समानकालीनयोरप्यवच्छेद्यावच्छेदकभावमात्रेण तदुपपत्तेः, घटतदवच्छिन्नाकाशयोरिव प्रमाणप्रमेययोरिव च। तदुक्तं ‘स्वेनैव कल्पिते देशे व्योम्नि यद्वत् घटादिकम् । तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः' इति । एतेन–यद्युत्पत्तिज्ञप्तिमात्रप्रतिबन्धकत्वेनान्योन्यापेक्षताया अदोषत्वं, तदा चैत्रमैत्रादेरन्योन्यारोहणाद्यापत्तिरिति—निरस्तम् ; परस्परमाश्रयाश्रयिभावस्यानङ्गीकारात् । न चेश्वरजीवयोरीश्वरजीवकल्पितत्वे आत्माश्रयः, जीवेशकल्पितत्वे चान्योन्याश्रयः, न च शुद्धा चित् कल्पिका, तस्या अज्ञानाभावादिति वाच्यम् ; जीवाश्रिताया अविद्याया एव जीवेशकल्पकत्वेनैतद्विकल्पानवकाशात् । तस्माज्जीवाश्रयत्वेऽप्यदोषः ॥
॥ इत्यद्वैतसिद्धौ अज्ञानस्य जीवाश्रयत्वोपपत्तिः ॥
अविद्याया विषयोऽपि सुवचः । तथा हि–चिन्मात्रमेवाविद्याविषयः; तस्याकल्पितत्वेनान्योन्याश्रयादिदोषाप्रसक्तेः, स्वप्रकाशत्वेन प्रसक्तप्रकाशे तस्मिन् आवरणकृत्यसंभवाच्च, नान्यत् । तस्याज्ञानकल्पितत्वात् , अप्रसक्तप्रकाशत्वेनावरणकृत्याभावाच्च । ननु–किमावरणकृत्यं (१) सिद्धप्रकाशलोपो वा, (२) असिद्धप्रकाशानुत्पत्तिर्वा, (३) सतः प्रकाशस्य विषयासंबन्धो वा, (४) प्राकट्याख्यकार्यप्रतिबन्धो वा, (५) नास्ति न प्रकाशत इति व्यवहारो वा, (६) अस्ति प्रकाशत इति व्यवहाराभावो वा, (७) नास्तीत्यादिव्यवहारयोग्यत्वं वा, (८) अस्तीत्यादिव्यवहारायोग्यत्वं वा । नाद्यद्वितीयौ; स्वरूपप्रकाशस्य नित्यसिद्धत्वेन तल्लोपानुत्पत्त्योरसंभवात् , तदन्यस्य च स्वप्रकाशे तस्मिन्ननपेक्षितत्वात् । न तृतीयः; ज्ञानस्य विषयसंबन्धैकस्वभावत्वात् , स्वयं ज्ञानरूपत्वेन त्वन्मते संबन्धानपेक्षणाच्च । नापि चतुर्थः; त्वन्मते चैतन्यातिरिक्तस्य तस्याभावात् । नापि पञ्चमः; सुषुप्तौ व्यवहाराभावेनानावरणापातात् । नापि षष्ठः; व्यवहारस्याभिज्ञात्वे स्वरूपाभिज्ञाया इदानीमपि सत्त्वात्' वृत्तेश्च मोक्षेऽप्यसत्त्वात् । अभिलपनरूपत्वे मोक्षेऽप्यावरणप्रसङ्गात् । नापि सप्तमाष्टमौ; तयोरप्यारोपितत्वेनावरण विनायोगादिति-चेन्न; नास्ति न प्रकाशत इति व्यवहार एवाभिज्ञादिसाधारणः; अस्ति प्रकाशत इत्येतद्व्यवहाराभावो वा आवरणकृत्यम् । आवरणं च तद्योग्यता अज्ञानसंबन्धरूपा सुषुप्त्यादिसाधारणी आब्रह्मज्ञानमवतिष्ठते । तेन सुषुप्तिकाले नानावरणं, मोक्षकाले च नावरणम् । यदुक्तमस्याप्यारोपितत्वेनावरणसापेक्षत्वमिति । तन्नः अज्ञानसंबन्धरूपस्यावरणस्यानादित्वेन चित्प्रकाश्यत्वेन च उत्पत्तौ ज्ञप्तौ स्थितौ वा स्वानपेक्षणात् । ननु-अद्वितीयत्वादिविशिष्टे तथा व्यवहारेऽपि अवस्थात्रयेऽप्यसन्दिग्धाविपर्यस्तत्वेन प्रकाशमानात्मरूपे अध्यासाधिष्ठाने सुखादिज्ञानरूपे चिन्मात्रे तदभावेन तत्कल्प्ययोर्योग्यत्वायोग्यत्वयोरभाव इति–चेन्न; शुद्धरूपायश्चितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याकारेणाप्रकाशमानत्वात् , तदर्थं तस्या एवावरणकल्पनात्, परिपूर्णाद्याकारस्य मोक्षदशानुवृत्तत्वेन शुद्धचिन्मात्रत्वात् । न च–निर्विभागचितः कथमेवं घटत इति वाच्यम् ; आवरणमहिम्नैव परिपूर्णं ब्रह्म नास्ति न प्रकाशत इति व्यवहारः अस्ति प्रकाशत इति व्यवहारप्रतिबन्धश्च, अध्यासाधिष्ठानत्वादिना प्रकाशमानता चाविरुद्धेति ॥ अत एव–अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वविरुद्धे योग्यत्वायोग्यत्वे कथमिदानीमपि ब्रह्मणि स्याताम् ? न च–अज्ञानादिमत्त्वेनापरोक्षव्यवहारयोग्यत्वं स्वरूपेण च तदयोग्यत्वमित्यविरोध इति वाच्यम्; स्वरूपस्याप्रकाशत्वादिति–निरस्तम् ; परिपूर्णाद्याकारेण इदानीं व्यवहाराभावेऽपि अपरोक्षव्यवहारयोग्यत्वानपायात् । न चैवं-सुखादेरज्ञानावच्छिन्नचित्प्रकाश्यत्वे ‘सुखादिकं न प्रकाशत' इत्यनुभवापातेन सुखादिकं प्रकाशत इत्यनुभवार्थं चितोऽज्ञानानवच्छेदेन प्रकाशोऽङ्गीकरणीय इति वाच्यम् ; इष्टापत्तेः, अनुक्तोपालम्भनत्वात् । न ह्यज्ञानावच्छेदेन चित् प्रकाशत इति ब्रूमः । अत एव च–नित्यातीन्द्रियेऽप्यज्ञानावच्छेदकतया अपरोक्षव्यवहारेण तत्रापि स्वप्रकाशापत्तिरिति-निरस्तम् ; अज्ञानानवच्छेदेन तादृशस्य व्यवहारस्योक्तेः । ननु–प्रदीपावारकघटादिवच्चैतन्यावारकाविद्या चैतन्यस्यान्यसंबन्धं प्रतिबध्नातु अन्यं प्रति चैतन्यमाच्छादयतु, न तु चैतन्यं प्रत्येव चैतन्ये उक्तयोग्यत्वरूपप्रकाशविरोधिनी सा, न हि दीपो घटावृतोऽपि स्वयं न प्रकाशते; तमःसंबन्धपातात्, न च - कल्पितभेदं जीवचैतन्यं प्रति शुद्धचैतन्यमाच्छादयतीति--वाच्यम् ; आवरणं विना भेदकल्पनस्यैवायोगात् । यो मोक्षे भावी चिन्मात्रस्यैव चिन्मात्रं प्रति प्रकाशः, तदभावस्यैवेदानीमज्ञानेन साधनीयत्वाच्चेति चेन्न; कल्पितभेदं जीवं प्रति शुद्धचैतन्यस्यावृतत्वात् । न च–भेदकल्पनस्यावरणोत्तरकालीनत्वादिदमयुक्तमिति वाच्यम् ; भेदावरणयोरुभयोरप्यनादित्वेन परस्परमानन्तर्याभावात् । यच्चोक्तं-यो मोक्षे भावी चैतन्यं प्रति प्रकाशः तदभाव इदानीमज्ञानसाध्य-इति । तन्न; मोक्षे जन्यस्य चैतन्यप्रकाशस्याभावात् , कल्पितभेदापगमे शुद्धचैतन्यं प्रत्येव प्रकाशस्य जीवं प्रत्यपि संभवात् । यच्चोक्तं-प्रकाशस्वरूपे चैतन्ये कथमज्ञानम् ? न ह्यालोके तमः इति । तन्न; अज्ञानतमसोर्विरोधितायामनुभवसिद्धविशेषात् । तथा हि-त्वदुक्तमर्थं न जानामीति प्रकाशमाने वस्तुनि अज्ञानस्यानुभवात् स्वरूपचैतन्यं साक्षी वा नाज्ञानविरोधि, तमसस्तु आलोके सत्यननुभवात् आलोकमात्रं तद्विरोधि । वस्तुतस्तु–"अवतमसे विषयप्रकाशकालोकसहभावदर्शनेन तमस्यपि नालोकमात्रं विरोधि । न च त्वदुक्तार्थं न प्रकाशत” इत्यनुभवादस्तु तत्र भासमाने अज्ञानम् , सुखादिस्फुरणं भासमाने न प्रकाशत इत्यननुभवात् कथं तत्राज्ञानमिति वाच्यम् ; सुखादिस्फुरणं न प्रकाशत इत्यनुभवाभावेऽपि अनवच्छिन्नाकारेण न प्रकाशत इत्यनुभवात् , आवारकाज्ञानस्य तत्राप्यावश्यकत्वात् । यदपि-- ‘त्वदुक्तमर्थं न जानामी'त्यत्र भासमाने नाज्ञानम् , किंतु गुहास्थं तमश्छन्नमितिवत् त्वदुक्तं न जानामीत्यनावृतसामान्यावच्छेदेनैव विशेषाज्ञानमनुभूयते, न हि परचित्तस्थमज्ञानं प्रातिस्विकरूपेणानूद्यते, एवं च तद्विशेषसंशयं प्रति तत्सामान्यनिश्चय इव तद्विशेषावच्छिन्नाज्ञानज्ञानं प्रति तत्सामान्यज्ञानमेव हेतुः; तथा दर्शनात्, न हि विशेषे ज्ञाते तदज्ञानधीर्दृष्टा, अवच्छेदकज्ञानस्य ह्यवच्छिन्नज्ञानहेतुतापि दर्शनादेव कल्प्या, न चातिप्रसङ्गः, सामान्यविशेषभावस्यैव नियामकत्वात् इति । तन्न, अज्ञानं हि विशेषावच्छिन्नतया भासते, सामान्यावच्छिन्नतया वा । आद्ये विशेषे भासमानत्वमागतमेव । न हि विशेषमभासयन्विशेषाज्ञानमित्यवभासयति । तथा च सामान्यनिश्चयजनितोऽपि संशयो विशेषमवगाहते यथा, तथा सामान्यज्ञानजनितोऽप्यज्ञानप्रत्ययो विशेषं विषयीकरिष्यतीति कुतो भासमाने नाज्ञानमिति । न द्वितीयः; सामान्यज्ञानेन तदवच्छिन्नतयैव गृहीतस्याज्ञानस्य विशेषसंबन्धित्वे मानाभावेन भासमाने सामान्य एव ज्ञानमवगतम् । वस्तुनः प्रतीतिप्रमाणकत्वात् । तथाच परचित्तस्थं यथा अनूद्यते, तथा ज्ञानं तथैवाज्ञानं चेति सिद्धम् । ननु यथा द्वेषस्येष्टत्वेऽपि द्विष्टस्य नेष्टत्वम् , ईश्वरस्य भ्रान्तिज्ञत्वेऽपि न भ्रमविषयज्ञत्वम् ; अस्मदादीनामीश्वरसार्वज्ञ्यज्ञानेऽपि न सर्वज्ञत्वम्, एवमज्ञातज्ञानाभावेऽपि अज्ञानज्ञानमिति–चेन्न; दृष्टान्तासंप्रतिपत्तेः । तथा हि-इच्छा तावज्ज्ञानसमानविषया, ज्ञानं चावच्छेदकतया द्विष्टमपि विषयीकरोतीति इच्छाया अप्यवच्छेदकतया तद्विषयत्वात् । न हीच्छा इष्टतावच्छेदकाविषया भवति । एतावानेव विशेषः । किंचित् साध्यतया विषयीकरोति, किंचित् अवच्छेदकतया । ईश्वरोऽपि भ्रमविषयमगृहीत्वा भ्रमं न गृह्णाति । भ्रमो हि भ्रमत्वेन ग्राह्यः । भ्रमत्वं च रजताभाववति रजतख्यातित्वं वा, असत्ख्यातित्वं वा, अनिर्वचनीयख्यातित्वं वा । तस्मिन् गृह्यमाणे सर्वथा विषयग्रहः । इयांस्तु विशेषः । यत् भ्रान्तः स्वातन्त्र्येण गृह्णाति, ईश्वरस्तु तज्ज्ञानावच्छेदकतयेति, ईश्वरसार्वज्ञ्यज्ञानमस्माकं तु सर्वज्ञपदेन । तत्र सर्वपदप्रतिपाद्यं जानन्नेवास्मदादिस्तत्र ज्ञानसंबन्धं गृह्णातीति ईदृशं सार्वज्ञ्यमिष्टमेव । विशेषस्त्वीश्वरस्य न कुत्राप्यज्ञानम् , अस्मादृशां तु विशषेष्वज्ञानमिति कृत्वा । एवं च ज्ञात एव विशेषे अज्ञानज्ञानमिति । न च-घटादेरज्ञानावच्छेदकतया भानेऽपि घटाद्यज्ञाननिवृत्तिं विना तदवच्छिन्नसंयोगादिज्ञानादर्शनेन प्रकृतेऽपि विषयावच्छिन्नाज्ञानज्ञानार्थं तदवच्छेदकविषयाज्ञाननिवृत्तेरपि वक्तव्यत्वेनाज्ञानाविरोधिज्ञानवत् अज्ञानाविरोधिनी अज्ञाननिवृत्तिरपि स्वीकार्या स्यादिति वाच्यम् ; संयोगादिसत्त्वस्यावच्छेदकघटादिसत्त्वसापेक्षत्वेऽपि यथा अभावे न स्वाधिकरणीयप्रतियोगिरूपावच्छेदकसत्त्वापेक्षा, विरोधात् ; तथा अज्ञानज्ञानस्यापि न स्वविषयाज्ञाननिवृत्त्यपेक्षा, विरोधात् । न चैवं - तद्विषयकज्ञानापेक्षापि मास्तु; विरोधस्य समानत्वात् , अविरोधकल्पनाबीजस्य ज्ञान इवाज्ञाननिवृत्तावपि समानत्वात् ; तथाच विषये अज्ञात एवाज्ञानं ज्ञायते, विषयविशेषावच्छिन्नबुद्धिस्तु तमसीव विशेषज्ञानानन्तरं ‘एतावत्कालममुमर्थं नाज्ञासिषमि'त्येवंरूपा जायत इति वाच्यम् । हन्तैवमभावस्वभावविरोधिप्रतियोगिज्ञाननिरपेक्षज्ञानविषयत्वमभाववैलक्षण्यसाधकमज्ञाने उपपादितमायुष्मता । किंच यद्यज्ञानं स्वकाले विषयावच्छिन्नतया न भासयेत् , तदा तु ‘त्वदुक्तमर्थं न जानामी'ति विषयावच्छिन्नाज्ञानस्य वर्तमानार्थप्रत्ययो विरुद्ध्येत । तस्मात् विषयाज्ञानसाधकत्वात् साक्षिरूपविषयप्रकाशोऽपि नाज्ञानविरोधी, किंतु प्रमाणवृत्तिः । एकविषयत्वेऽपि प्रमाणवृत्तितदतिरिक्तवृत्त्योरज्ञानविरोधित्वाविरोधित्वे घटविषयकयोः सौरालोकज्ञानयोः सौरचाक्षुषप्रकाशयोर्वा तमोविरोधित्वाविरोधित्ववदुपपद्येते । न च–वृत्तिश्चैतन्यस्य विषयोपरागार्थेति मते अस्या अज्ञाननिवर्तकत्वाभावात् इदमयुक्तमिति वाच्यम् ; अज्ञाननिवर्तकत्वेन निवृत्तिप्रयोजकत्वस्यैव उक्तत्वात् ।। तच्च संबन्धसंपादनद्वाराऽस्मिन्पक्षेऽपि अस्त्येव । न च–अज्ञानस्य स्वविरोधिज्ञानाभावव्यापकत्वेन मोक्षेऽप्यज्ञानापात इति वाच्यम् ; मोक्षदशायामज्ञाननिवृत्तिश्रवणेन स्वविरोधिज्ञानप्रागभावमात्रव्यापकत्वात् । न च-कथं प्रमाणवृत्तिमात्रविरोधित्वे अज्ञानस्य ज्ञानमात्रविरोधित्वेनैव न जानामीत्याकारेण प्रत्ययः ? इति वाच्यम्; घटादिमात्रविरोधिनो घटाभावादेः भावसामान्यविरोधित्वेनाभावत्वेन प्रतीतिवत् ज्ञानविशेषविरोधिनोऽप्यज्ञानस्य ज्ञानसामान्यविरोधित्वेन प्रतीतिसंभवात् । न ह्यभावपदादिनाभावप्रतीतौ घटाभावो न भासते । अथ सा विरोधिता तत्र विशेषमात्रपर्यवसन्ना, समं प्रकृतेऽपि; अन्यत्राभिनिवेशात् । न च – 'न जानामी'ति ज्ञप्तिविरोधित्वस्यैवानुभवात् कथं वृत्तिविरोधित्वम् ? त्वन्मते चैतन्यस्यैव ज्ञप्तित्वात् , चैतन्याज्ञानयोरविरोधे ज्ञानत्वाज्ञानत्वायोगादिति वाच्यम्; मन्मते वृत्तिप्रतिबिम्बितचैतन्यं जानामीति व्यवहारविषयः । तथाच न जानामीत्यनेन वृत्तिचितोरुभयोरप्यज्ञानविरोधित्वं विषयीक्रियते । एवं च न चैतन्ये अज्ञानविरोधित्वम् ; नापि वृत्तौ; वृत्युपारूढचित एवार्थप्रकाशकत्वेन तथात्वात् । ननु-वृत्तेरप्यर्थप्रकाशकत्वं विना जातिविशेषेणैवाज्ञानतत्कार्यनिवर्तकत्वे इच्छादिनिवर्त्यद्वेषादिवत् सत्त्वापत्त्या शुक्त्यादि ज्ञानवदर्थप्रकाशकत्वेन तन्निवर्तकत्वे वक्तव्ये चैतन्यस्यापि तत्सत्त्वेन तन्निवर्तकत्वावश्यम्भावेन तन्निवृत्त्यापातः; नित्यातीन्द्रिये परोक्षवृत्तौ सत्यामप्यज्ञानानिवृत्त्या सुखादावपरोक्षवृत्त्यभावेऽपि स्फुरणमात्रेणाज्ञानादर्शनेन चान्वयव्यतिरेकाभ्यां स्फुरणस्यैवाज्ञानविरोधित्वात् इति चेन्न; प्रमाणवृत्त्युपारूढप्रकाशत्वेन निवर्तकत्वं ब्रूमः, न तु जातिविशेषेण, प्रकाशत्वमात्रेण वा । अतो नेच्छादिनिवर्त्यद्वेषादिवदेतन्निवर्त्यानां सत्त्वापत्तिः, न वा चैतन्यमात्रस्य निवर्तकत्वापत्तिः । अत एव–शाब्दादिवृत्तौ सत्यामपि अज्ञानानिवृत्त्या सुखादौ प्रमाणवृत्त्यभावे स्फुरणमात्रेणाज्ञानदर्शनेनान्वयव्यतिरेकाभ्यां स्फुरणस्यैवाज्ञानादौ विरोधित्वमिति–निरस्तम् ; परोक्षवृत्तेर्विषयपर्यन्तत्वाभावेन न विषयगताज्ञाननिवर्तकत्वम्, सुखादौ च ज्ञातैकसत्त्वादज्ञाननिवृत्तिं विनैवाज्ञानादर्शनम् । अतोऽन्वयव्यतिरेकयोरन्यथासिद्ध्या स्फुरणमात्रं नाज्ञानविरोधि । न चात्मनोऽज्ञानाश्रयविषयत्वे स्वसत्तायामप्रकाशविधुरत्वेन स्वप्रकाशत्वसाधनायोगः; परिपूर्णत्वादिना अप्रकाशविधुरत्वाभावेऽप्यध्यासाधिष्ठानत्वादिना प्रकाशमानतयाऽप्रकाशविधुरत्वसंभवात् । न च-वृत्तिचितोर्वैषम्योक्तिरयुक्ता, वृत्तिवत्साक्षिणोऽपि समानविषयतया अज्ञानविरोधित्वानुभवात् , अन्यथा साक्षिवेद्ये चैत्रेच्छासुखादौ मैत्रस्येव चैत्रस्याप्यज्ञानं स्यात्, नो चेन्मैत्रस्याप्यज्ञानं न स्यादिति-वाच्यम् ; साक्षिणि यदज्ञानविरोधित्वमनुभूयते तन्नाज्ञाननिवर्तकत्वनिबन्धनम्, किंतु स्वविषय इच्छादौ यावत्सत्त्वं प्रकाशादज्ञानाप्रसक्तिनिबन्धनम् । वृत्तेश्च स्वविषये प्रसक्ताज्ञाननिवृत्तिनिबन्धनमेवेत्युभयोर्वैषम्योक्तिर्युक्तैव । अज्ञानाप्रसक्तेरेव चैत्रेच्छादौ चैत्रस्य नाज्ञानव्यवहारः, मैत्रस्य तु प्रमात्रज्ञानादेव तद्व्यवहारः । न च–तर्ह्यात्मन्यपि तत एव तदप्रसक्तिरिति-वाच्यम् ; दत्तोत्तरत्वात् । किंच साक्षिवेद्यत्वं तदप्रसक्तौ तन्त्रम् , आत्मा तु न तद्वेद्यः; चिद्रूपत्वात् प्रकाश एवेति । न च तर्हि सुतरामज्ञानानुपपत्तिः तेजसीव तमसः, अन्यथा घटादिरालोकमिवात्मापि स्वव्यवहारे ज्ञानान्तरमपेक्षतेति वाच्यम्; अज्ञानावृतत्वात् घटवदज्ञाननिवर्तकान्तरापेक्षा चेत्तर्हीष्टापत्तिः; वृत्तेरेवापेक्षणात्, प्रकाशान्तरापेक्षायां जडत्वस्योपाधित्वात् , प्रकाशत्वेऽप्यज्ञानाविरोधित्वस्योपपादितत्वात् । अत एव सर्वं वस्तु ज्ञाततयाज्ञाततया च साक्षिचैतन्यस्य विषयः; ज्ञानाज्ञानयोः स्वविषयावच्छिन्नयोरेव भानात् । एतेन–अन्धकारावृतवत् ज्ञानाभावावच्छेदकविषयवच्चाज्ञानावृतस्याप्यप्रकाशेन साक्षिवेद्यत्वायोग इति–निरस्तम्; विषयावच्छेदेनानुभवविरोधात् । ननु वृत्तेरज्ञानविरोधित्वेऽप्यात्मविषया वृत्तिरिदानीमप्यस्त्येवेति कथं तत्राज्ञानम् ? किंच त्वन्मते घटाद्यपरोक्षवृत्तेरपि घटाद्यवच्छिन्नचिद्विषयत्वेन सुतरां चित्यज्ञानासंभवः, न च–विशिष्टचैतन्यरूपजीवविषया वा घटावच्छिन्नचैतन्यविषया वा वृत्तिरज्ञानविषयीभूतकेवलचिदविषयत्वादज्ञानविरोधिनी न स्यादिति–वाच्यम् ; ‘दण्डी चैत्र' इति वृत्त्या चैत्राज्ञानानभिभवापातात् । घटाकाशज्ञाने महाकाशाज्ञानस्य महत्त्वाज्ञाने पर्यवसानम् । अत एवाकाशो ज्ञात इति प्रतीतिः । न च श्रवणादिजन्यैव वृत्तिरज्ञानविरोधिनी; भ्रमकालीनापरोक्षज्ञानानधिकविषयज्ञानेन कारणान्तरजन्येनापि अज्ञानानिवृत्तावतिप्रसङ्गात् , अनधिकविषयत्वे श्रवणादिवैयर्थ्यात् , सत्यत्वापाताच्चेति चेन्न; यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मते अज्ञानविशेषः एकाज्ञानपक्षे अवस्थाविशेषः शक्तिविशेषो वा अविद्यागतो विशिष्टगोचरवृत्त्या निवर्तत एव । प्रपञ्चनिदानभूतं तत्त्वमस्यादिवाक्यजन्याखण्डार्थगोचरवृत्तिनिवर्त्यमज्ञानं परमवशिष्यते; भेदभ्रमस्यानुभूयमानत्वात् । यथा अयमिति ज्ञानात्तत्राज्ञाने निवृत्तेऽपि सोऽयमित्यभेदगोचरवृत्तिनिवर्त्याज्ञानमवशिष्यते । तथाच विषयकृतविशेषाभावेऽपि कारणविशेषजन्यत्वेन विशेषेण निवर्तकत्वे श्रवणवैयर्थ्यं सत्यतापत्तिश्च निरस्ता; अन्यथा सोऽयमित्यत्राप्यगतेः । किंच जीवविषया वृत्तिरविद्यावृत्तिः, न तु प्रमाणवृत्तिः; तस्या एवाज्ञानविरोधित्वात् । तदुक्तं विवरणे–‘जीवाकाराहंवृत्तिपरिणतान्तःकरणेन जीवोऽभिव्यज्यत' इति । अस्यार्थः–जीवाकाराहंत्वप्रकारकाविद्यावृत्तिः, तया परिणतान्तकरणेनान्तःकरणपरिणामभूतज्ञानरूपवृत्तिसंसर्गेण जीवोऽभिव्यज्यत इति । न च–‘घटोऽयमि'ति ज्ञानेन चरमवृत्तिनिवर्त्याज्ञानमपि निवर्ततामिति–वाच्यम् । तदवच्छिन्नाज्ञातत्वप्रयोजकाज्ञानविशेषादेरेव तद्वच्छिन्नज्ञाननिवर्त्यत्वस्य फलबलेन स्वीकारात् । अवतमस इव विषयप्रकाशकालोकस्य सर्वतमोऽनिवर्तकत्वेऽपि किंचित्तमोनिवर्तकत्वम् । तस्मात्सिद्धमाश्रयत्वविषयत्वभागिनी शुद्धचिदिति । एतेन-देहादिभेदो वा अभोक्तृत्वाद्यभेदो वा ब्रह्माभेदो वा अद्वितीयमात्राभेदो वा तद्विशिष्टात्मा वा न तद्विषयः; तेषामात्ममात्रत्वे उक्तदोषात् , भिन्नत्वे अद्वैतक्षतेः, आविद्यकत्वे अन्योन्याश्रयादिति अनुक्तोपालम्भनमपास्तम् । ब्रह्माभेदादेरात्ममात्रतापक्षे तस्याज्ञान्विषयत्वमेव; दोषस्य परिहृतत्वात् । यत्तु प्रसङ्गादुक्तम्-द्वितीयाभावोपलक्षितात्मनोऽज्ञानविषयत्वे तादृशस्यैव चरमवृत्तिविषयत्वं वाच्यम् । तथाच वेदान्तानामप्युपलक्षणरूपप्रकारयुक्तोक्तात्मपरत्वे अखण्डार्थताहानिः; अकाके काकवदित्यस्येवास्याप्यप्रामाण्यापत्तिः, उपलक्षणस्य मिथ्यात्वात्-इति । तत्राखण्डार्थवादे वक्ष्यामः । न च–न्यूनाप्यङ्गुलिरधिकमाच्छादयति; अविषयसंबन्धित्वात् , इयं हि विषयसंबन्धिनी कथमधिकमाच्छादयेदिति वाच्यम् ; दत्तोत्तरत्वात् । तस्मादविद्या स्वरूपत आश्रयतो विषयतश्च सुनिरूपा ॥
॥ इत्यद्वैतसिद्धावविद्याया विषयोपपत्तिः ॥
ततश्चाहंकारादिसृष्टिः । ननु-अहमर्थ आत्मैव, तस्य कथमविद्यातः सृष्टिः, न च–सुषुप्तौ स्वयंप्रकाशमानस्यात्मनः संभवेऽप्यनेवंविधस्याहमर्थस्याभावः, यदि च सुषुप्तावहमर्थः प्रकाशेत; तर्हि स्मर्येत ह्यस्तन इवाहंकारः, अनुभूते स्मरणनियमाभावेऽपि स्मर्यमाणात्ममात्रत्वादिति वाच्यम् । हेतोरसिद्धेः, तर्के इष्टापत्तेः । नह्यद्यापि स्वप्रकाशात्मान्यत्वमहमर्थे सिद्धमस्ति । आत्मान्यत्वेनाप्रकाशत्वसाधने तेन च तदन्यत्वसाधने अन्योन्याश्रयः। न चाहमर्थस्यापरामर्शः, सुखमहमस्वाप्सं न किंचिदवेदिषमिति तस्यैव परामर्शादिति चेन्न; अहंकारस्तावदिच्छादिविशिष्ट एव गृह्यत इत्यावयोः समम् । सुषुप्तौ च नेच्छादय इति कथं तदाऽहमर्थानुभवः ? न च–इच्छादिगुणवि शिष्ट एवाहमर्थो गृह्यत इत्यत्र न नः संप्रतिपत्तिरिति वाच्यम्; गुणिग्रहणस्य गुणग्रहणव्याप्तत्वात् , अन्यथा रूपादिहीनोऽपि घटः प्रथेत । न च रूपादिरहितानां तेषामसत्त्वं तत्र बीजमिति वाच्यम् ; पूर्वरूपनाशाग्रिमरूपानुत्पत्तिक्षणाद्यक्षणादौ तद्विनापि सत्त्वात् । एवं च गुणाग्रहणे कथं गुणिग्रहणम् ? तथाच निर्गुण एवात्मा गृह्यत इति स्वीकर्तव्यम् । अनुभवाभावे च न तस्य जागरे परामर्शः । तथा चाज्ञानाश्रयत्वेन सुषुप्तावनुभूयमानादात्मनोऽहंकारो भिन्नः । एवमेवात्मान्यत्वे सिद्धे अखण्डप्रकाशत्वसाधने नान्योन्याश्रयः । न च तर्हि ‘अहमस्वाप्स'मित्यहमर्थस्य परामर्शानुप्रवेशानुपपत्तिः; तदंशे परामर्शत्वासिद्धेः । एवं सत्यपि यथाऽज्ञानांशे तस्य परामर्शत्वं, तथोपपादितमधस्तात् । यद्यप्यहमस्वाप्समित्यादिज्ञानानान्य आत्मपरामर्शः, तथाप्यहमर्थस्य सुषुप्तिकालाननुभूतत्वेन तत्काले अज्ञानाश्रयत्वेन चानुभूतात्मन्येव परामर्शत्वपर्यवसानम् । अत एव चिदस्वपीत् स्वयमस्वपीदिति परामर्शाकारतापत्तिर्निरस्ता; तत्कालानुभूतान्तःकरणसंसर्गे अहमित्याकारोपपत्तेः । यतूक्तं विवरणे-‘अन्तःकरणविशिष्ट एवात्मनि प्रत्यभिज्ञानं ब्रूमः, न निष्कलङ्कचैतन्ये, तस्य मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वात् इति । तत्र न विरोधाय । मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वादिति हेतूक्त्या न निष्कलङ्क इति उपाधिमात्रविरहिणि प्रत्यभिज्ञाननिषेधेन चान्तःकरणपदस्य उपाधिमात्रपरत्वात् । तथाच सुषुप्तावप्यज्ञानोपहित एवात्मा गृह्यते । किंचान्तःकरणविशिष्टे प्रत्यभिज्ञाननिषेधो नाभिज्ञानिषेधोऽपीति न विरोधः; सुषुप्तावभिज्ञाया एवोक्तत्वात् । न च यद्यहमर्थो न परामृश्येत, तर्हि ‘एतावन्तं कालं सुप्तोऽहमन्यो वे'ति संशयः स्यात्, न त्वहमेवेति निश्चय इति वाच्यम्।। सुषुप्तिकालानुभूतात्मैक्याध्यासादिति गृहाण । यथा पूर्वदिनानुभूतदेवदत्तादभिन्नतयानुभूते चैत्रे सोऽयं न वेति न संशयः, किंतु स एवेति निश्चयः । किंच निश्चये सति संशयाभावनियमः, न तु निश्चयाभावे संशयनियमः । तदुक्तम्-‘आरोपे सति निमित्तानुसरणम् , न तु निमित्तमस्तीत्यारोपः इति । न च–एतावन्तं कालमहं स्वप्नं पश्यन्नासं जाग्रदासमित्यत्रेवाहमस्वाप्समित्यत्रापि अहमंशे परामर्शत्वानुभवात् कथं तत्रापरामर्शत्वमिति वाच्यम्; परामृश्यमानात्मैक्यारोपात्तद्भानांशे परामर्शत्वाभिमानात् । न च–अपरामर्शे परामर्शत्वारोपो न दृष्ट इति वाच्यम्: तद्भिन्ने तत्त्वेनानुभूयमाने परामर्शत्वारोपदर्शनात् । अत एव–अहमर्थस्यात्मान्यत्वे यः पूर्वं दुःखी, सोऽधुना सुखी जात इतिवत् यः पूर्वं मदन्यः सुषुप्तः सोऽधुना अहं जात इति धीः स्यादिति–निरस्तम्; यथा दुःखित्वेन प्राक् ज्ञानं, तथा मदन्यत्वेन प्राक् ज्ञानाभावात् । सुषुप्तावहमप्रकाशवत् तदन्यत्वस्याप्यप्रकाश एव । एवं च प्रागसत्त्वाग्रहणात् पूर्वकालगृहीतेनाभिन्नतया गृह्यमाणत्वाच्च नाहङ्कारे जन्मप्रत्ययः । विवेकिनां चैतादृग्बुद्धाविष्टापत्तेः । नच–सिद्धे अहमर्थस्यामान्यत्वे परामृश्यमानात्मैक्यारोपः, सिद्धे च तस्मिन् सुप्तावप्रकाशेनाहमर्थस्यात्मान्यत्वसिद्धिरित्यन्योन्याश्रय इति वाच्यम्; आत्मान्यत्वसिद्धेः प्रागेवाहमर्थापरामर्शस्य साधनात् अहमस्वाप्समित्यस्यैवात्मपरामर्शत्वाङ्गीकारेण न दृष्टहानादृष्टकल्पनापत्तिः । अत एव च सुषुप्तावहमर्थप्रकाशे ह्यस्तन इव स्मर्येतेत्यत्र नेष्टापत्त्यवकाशः । किंच ‘एतावन्तं कालमहमित्यभिमन्यमान आसमि'ति परामर्शः स्यात् । नच–अहमर्थप्रकाशे तदभिमानापादनं कर्णस्पर्शे कटिचालनमिति वाच्यम् । तवैव हि तत् । अहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः समव्याप्ततया परस्परप्रकाशेन परस्परपरामर्शापादनस्याव्यधिकरणत्वात् । न च तवापि ‘आत्मेत्यभिमन्यमान आसमि'ति परामर्शापत्तिः; अहंकारस्य तत्र तन्त्रतया तदभावे तत्रापादयितुमशक्यत्वात् । यत्तु–सुषुप्तावहमर्थो भासत एव । 'न किंचिदहमवेदिषमि'ति अज्ञानपरामर्शत्यात्माद्यज्ञानादन्यदिवाहमर्थाज्ञानादन्यदेवाज्ञानं विषयः; अन्यथा विरोधात्-इति । तदज्ञानविजृम्भितम् , न हि साक्षिवेदनमज्ञानविरोधि । सुषुप्तौ च यथाहमर्थानवभासः तथोक्तम् । न विजानात्ययमहमस्मीति सुषुप्तिविषया श्रुतिरपि तदानींतनाहमर्थाज्ञाने प्रमाणम् । न चेयं श्रुतिर्नात्मानं न परांश्चेति सुषुप्तावात्माज्ञानश्रुतिवद्विशेषाज्ञानपरा, 'अहरहर्ब्रह्म गच्छन्ति सति संपद्य न विदुरि'त्यात्मवेदनबोधकश्रुतिविरोधेन विशेषाज्ञानपरत्वं युक्तम् न च प्रकृते तथा; विरोधाभावात् । यत्तु-अहमर्थस्तावत् स्मर्ता । स चाविद्यावच्छिन्नचैतन्यं वा, अन्तःकरणावच्छिन्नचैतन्यं वा । आद्ये योऽहमकार्षं सोऽहं सौषुप्तिकाज्ञानादि स्मरामीत्यनुभवविरोधः । अन्त्ये त्वहमर्थस्यैव तदनुभवितृत्वं वाच्यम् । स्मृतिसंस्कारानुभवानामेकाश्रयाणामेव कार्यकारणभावात् , योऽहमन्वभूवं सोऽहं स्मरामीति प्रत्यभिज्ञानाच्च-इति । तन्न; दत्तोत्तरत्वात् । उक्तं ह्यविद्यावच्छिन्नचैतन्यमनुभवितृ । तदेव चान्तःकरणावच्छेदेनानुभूयमानं स्मर्त्रिति न तयोर्वैरूप्यम् । नच-अविद्यावच्छिन्नचितोऽपि नैक्यमस्ति, अन्तःकरणरूपोपाधिभेदेन भेदादिति वाच्यम्; अविद्यावच्छिन्न एवान्तःकरणावच्छेदात् । न च तथाप्यविद्यान्तःकरणरूपोपाधिभेदेन मठाकाशतदन्तःस्थघटाकाशयोरिव उपहितभेदः स्यादिति वाच्यम् ; दृष्टान्तासंप्रतिपत्तेः । तयोरेवोपाध्योः परस्परमुपहितभेदकत्वम् । यौ परस्परानुपहितमुपधत्तः । अन्यथा कम्ब्ववच्छिन्नग्रीवावच्छिन्नाकाशान्य एव घटाकाशः स्यात् । न चैवं सुषुप्तावहमर्थाभावे अहं निर्दुःखः स्यामितीच्छया सुषुप्त्यर्थं प्रवृत्त्ययोगः; ‘कृशोऽहं स्थूलो भवामी'तिवत् प्रवृत्त्युपपत्तेः । न च - तत्र कार्श्यादिनिष्कृष्टस्य शरीरस्यैव स्थौल्याधिकरणतया विवेकिनामुद्देश्यत्वमिति वाच्यम्; प्रकृतेऽप्यन्तःकरणादिनिष्कृष्टस्यैव तदुद्देशविषयत्वात् । ननु–“योऽहं सुप्तः सोहं जागर्मि’ ‘योऽहं पूर्वेद्युरकार्षं सोऽहमद्य करोमी'ति प्रत्यभिज्ञानुपपत्तिः अहमर्थस्य भेदात्, कृतहानाकृताभ्यागमप्रसङ्गश्च; कर्तुर्भोक्तुश्चाहमर्थस्य भिन्नत्वात् , अभिन्ने चैतन्ये कर्तृत्वाद्यभावात् , तदारोपस्याप्यभावात् , देहादावतिप्रसङ्गाच्चेति चेन्न; सुषुप्तौ कारणात्मना स्थितस्यैव उत्पत्त्यङ्गीकारेण सर्वोपपत्तेः । नच-‘अथ हैतत्पुरुषः स्वपिती'त्यारभ्य ‘गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मन' इत्यादिश्रुतौ मनआदीनामेवोपरमोक्तेर्नाहंकारोपरम इति वाच्यम्; मनस उपरमे तेनैवाहंकारोपरमस्यापि प्राप्तेः । अहंकारो हि अनुभवामीत्यात्मानुबन्ध्यनुभवस्याहं कर्तेत्यचिदनुबन्धिकर्तृत्वादेश्चाश्रयः चिदचित्संवलनात्मकत्वादध्यस्तः । तस्य चाचितोऽन्तःकरणस्यौपरमे उपरतिः । 'अथातोऽहंकारादेशः अथात आत्मादेश' इति श्रुतिरपि पृथगुपदेशेन पार्थक्ये प्रमाणम् । ननु–आत्मनस्त्वन्मते ‘स एवाधस्तादि'त्युपदिष्टेन भूम्नेवाहंकारेणाप्यैक्येऽपि पृथगुपदेशो युक्तः । न च-भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐक्यार्थः, द्वयोः सार्वात्म्यायोगात्, अहंकारस्य तु आत्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थ इति वाच्यम् ; अहमर्थादन्यस्यात्मनो भूमाख्यव्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वात्तयोरप्युपदेशो भेदार्थः, अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेश ऐक्यार्थ एव किं न स्यात् इति चेन्न; अहंकारात् भिन्नात्मनो भूमरूपब्रह्मभिन्नत्वस्य प्रत्यक्षासिद्धत्वेऽपि तदभिन्नत्वस्यापि तदसिद्धतया उभयोः सार्वात्म्योपदेशानुपपत्तिसहकारेणास्याः श्रुतेस्तयोरभेदपरत्वमुचितम्, प्रकृते चाभेदपरत्वे विरोधः; जडाजडयोरैक्यायोगात् । न च त्वन्मते भूमाहंकारात्मनां बिम्बप्रतिबिम्बमुखस्थानीयाविद्योपाधिकब्रह्मजीवचिन्मात्रत्वसंभवेनाहंकारस्य जीवात् पार्थक्यासिद्धिरिति वाच्यम्। 'यत्र नान्यत् पश्यति' 'स एवाधस्तादि'त्यादिना भूमस्वरूपोक्त्यनन्तरं यत्रेत्यधिकरणाधिकर्तव्यनिर्देशात्स इति पारोक्ष्यनिर्देशाच्च द्रष्टुर्जीवादन्यत्वप्रसक्तौ तद्वारणार्थम् 'अथातोऽहंकारादेश' इत्यहंकारेण भूम्नि निर्दिष्टे अहंकारस्य देहादिसंघाते अविवेकिप्रयोगदर्शनात् तदभेदप्रसक्तौ निष्कृष्टाहंकारकेवलात्मस्वरूपमादाय ‘अथात आत्मादेश' इति द्रभेद उच्यत इत्येतादृशार्थपरत्वेन बिम्बप्रतिबिम्बकल्पनाया अत्रासंभवात् । संभवे वा अविद्योपाधिकजीवस्याहंकारत्वोक्तिः स्थूलारुन्धतीन्यायेन । अत एव-‘स एवेदं सर्वम्' 'अहमेवेदं सर्वम्' ‘आत्मैवेदं सर्वमि'त्याद्युपसंहाराणां ‘स एवाधस्तादहमेवाधस्तादात्मैवाधस्तादि'त्युपक्रमैः 'सर्वं समाप्नोषि ततोऽसि सर्व' इत्यादिश्रुतिभिश्च (स्मृतिभिश्च?) सर्वगतत्वपरत्वेन न सार्वात्म्यपरत्वम् , येनाहंपदस्य निष्कृष्टाहंकारचैतन्यपरत्वं स्यात् । सर्वगतत्वं चानेकेष्वपि संभवत्येव । भूमात्मोपदेशाभ्यामेव ब्रह्मात्मैक्यसिद्ध्या मध्ये अहंकारोपदेशवैयर्थ्यं चेति—निरस्तम् । ‘स भगवः कस्मिन् प्रतिष्ठित' इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टं, परमार्थतः क्वचिदधिष्ठितत्वं वा । आद्ये 'स्वे महिम्नी'त्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्तीत्येतदर्थपर—‘अन्यो ह्यन्यस्मिन् प्रतिष्ठित' इति पूर्ववाक्यानुसारेण ‘स एवाधस्तादि'त्यादेरपि सार्वात्म्यपरत्वे निश्चिते एकत्रैव वाक्ये उपक्रमादिकल्पनेनार्थान्तरकल्पनात् ; कल्प्यमानस्य च प्रकृतार्थानुपपादकत्वात् , सर्वगता जातिरिति पक्षे व्यापकजातेरिव भूम्नोऽपि अन्याधिष्ठितत्वसंभवात्, ‘सर्वं समाप्नोषी'त्यादिश्रुतेः सार्वात्म्यपरत्वस्य उपपादितत्वात् । नापि मध्ये अहंकारोपदेशवैयर्थ्यम्; ब्रह्मण आपरोक्ष्याय अहंकारैक्योक्तेः । न च - त्वन्मते प्रत्यगर्थरूपस्यात्मन एवापरोक्षैकरसत्वेन तदैक्योक्त्यैवापरोक्ष्यसिद्ध्या अहंकारे अविद्यमानसार्वात्म्योक्त्ययोग इति–वाच्यम्; आत्मसंबन्धेनैवाहंकारोऽप्यपरोक्ष इत्यात्मैक्यादेवापरोक्ष्यं यद्यपि सिद्धं, तथाप्यहंकारे आपरोक्ष्यस्य सुप्रसिद्धत्वादहंकारोक्तिर्नायुक्ता । यत्तु–'भूमा नारायणाख्यः स्यात् स एवाहंकृतिः स्मृतः । जीवस्थस्त्वनिरुद्धो यः सोऽहंकार इतीरितः ॥ अणुरूपोऽपि भगवान् वासुदेवः परो विभुः । आत्मेत्युक्तः स च व्यापी'त्यादिस्मृत्या श्रुतेः सार्वात्म्यं नार्थः, किंतु सर्वगतत्वम्-इति । तन्न; श्रुतिविरोधेन स्मृतेरेव सार्वात्म्यपरत्वम्, न तु स्मृत्या श्रुतेरन्यथानयनम् । न च-मोक्षधर्मे–'अनिरुद्धो हि लोकेषु महानात्मा परात्परः । योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥ सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ।' इत्यनेन ‘सैव हि सत्यादय' इति सूत्रेण चाहंकारस्यात्मत्वम् , अन्यथा व्याप्त्युक्तिरयुक्ता स्यादिति वाच्यम् ; ‘अहंकारश्चाहं कर्तव्यं चे'ति श्रुतेः ‘महाभूतान्यहंकार' इति स्मृतेः अहंकारस्य व्यापकत्वासंभवात् ‘अहं मनुरभवमि'त्यादाविवाहम्पदस्य निष्कृष्टाहंकारचैतन्यपरत्वात् । ननु-अनयोः श्रुतिस्मृत्योर्महत्तत्वकार्यं मनआदीनां कारणं वैकारिकादिभेदेन त्रिविधमहंकारादिपदवाच्यं विषयः, न त्वहमर्थः; तथाच स्मृतिः–‘महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यचोदितात् । क्रियाशक्तिरहंकारस्त्रिविधः समपद्यत ॥' इत्यादेरविरुद्धार्थमादायोपपत्तेः । विरुद्धार्थत्वकल्पनायां ‘बुद्धिरव्यक्तमेव चे'त्यत्र क्षेत्रे प्रयुक्तबुद्धिशब्देन संविद उक्तौ संविदोऽपि क्षेत्रत्वापत्तिः । न च बुद्धिशब्दस्य नानार्थत्वम्, न त्वहंकारस्यात्मातिरिक्तार्थकत्वमिति वाच्यम् ; दम्भाहंकारसंयुक्ता' इत्यादौ देहे अहंबुद्धौ गर्वे च प्रयोगेण ‘गर्वोऽभिमानोऽहंकार' इत्यभिधानेन चाहमर्थवाचित्वनियमाभावात् , तथा चात्मवाच्यहंशब्दोऽस्मच्छब्दसिद्धः । अहंकारशब्दोऽनात्मवाची । तत्पर्यायस्त्वहंशब्दो मान्ताव्ययमिति चेन्न; मान्तदान्तत्वभेदेनार्थभेदकल्पनमयुक्तम् । सर्वेषामेव तेषाम् ‘अहमि'ति प्रतीयमानाहंकारविषयत्वमेव पर्यायतयैव प्रयोगदर्शनात् । अहंकारातिरिक्तात्मनि प्रयोगस्तु लक्षणया; मान्तदान्तत्वेनानिर्धारिताहंशब्दस्याहंकारे प्रयोगदर्शनस्य नियामकत्वात् । यथा ‘अनिरुद्धो हि लोकेषु महानात्मा परात्परः । योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥' इति । ‘सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ।' इत्यत्र लक्षणयाऽहंकारशब्दः आत्मनीति । यत्तु-अहमर्थे आत्मानात्मधर्मदर्शनमसिद्धम् ; कर्तृत्वादेरात्मधर्मत्वात् इति । तत्र कर्तृत्वादेरनात्मधर्मत्वं यथा तथा वक्ष्यामः । ननु-अनात्मधर्मत्वेऽपि कर्तृत्वादेस्तदाश्रयस्याभानेऽपि कर्तृत्वादिकमात्मनि भासताम्, ‘गौरोऽहमि'त्यत्र शरीरगतगौरत्वमिवेति चेन्न; दृष्टान्तासंप्रतिपत्तेः, तत्रापि देहत्वेनाभानेऽपि गौरत्वमनुष्यत्वादिना तत्प्रतीतेः । अनुमानं च–अहमर्थः, अनात्मा, अहंप्रत्ययविषयत्वात् , शरीरवत् । न चाहमर्थान्तर्गताधिष्ठानभूतचितोऽपि तत्प्रत्ययविषयत्वात् । तत्र व्यभिचारः; येन रूपेणाहम्प्रत्ययविषयता तेन रूपेण तस्याप्यनात्मत्वात् स्वरूपेणाहम्प्रत्ययविषयत्वाभावान्न व्यभिचारः । अहमर्थः, आत्मान्यः, अहंशब्दाभिधेयत्वात्, अहंकारशब्दाभिधेयवत् । न चात्रासिद्धिः; पर्यायताया दर्शितत्वात् । न च त्वयाप्यात्मनो गौरोऽहमित्यनात्मारोपाधिछानत्वं मा न भूवं भूयासमित्यादिना परमप्रेमास्पदत्वम् अहमर्थस्य स्वसत्तायां प्रकाशाव्यभिचारेणात्मनः स्वप्रकाशत्वं चोक्तम्, तत्सर्वमहमर्थस्यानात्मत्वे न युक्तं स्यादिति वाच्यम्। इदम इवाधिष्ठानावच्छेदकत्वेनाधिष्ठानत्वोक्तेः । परमप्रेमास्पदत्वमहमर्थे आत्मैक्यारोपात् । न चैवमन्योन्याश्रयः; सुषुप्तिकालीनप्रकाशाप्रकाशाभ्यां वैधर्म्येण भेदसाधनात् । न चाहमर्थप्रेम्णोऽन्यस्य प्रेम्णोऽननुभवः। परामर्शसिद्धसुषुप्तिकालीनतादृशप्रेमानुभवस्य सत्त्वात् । न च–अहिते हितबुद्ध्या प्रेमोत्पत्तिदर्शनेऽपि अप्रेमास्पदे प्रेमास्पदतारोपो न दृष्ट इति वाच्यम् : अहमर्थे आत्मैक्यारोपनिबन्धनं प्रेमास्पदत्वम् , न तु स्वाभाविकमिति ब्रूमः, न तु प्रेमास्पदत्वारोपम् । अहमर्थात्मनोर्भेदेऽपि अहमर्थस्य प्रकाशाव्यभिचारः स्वप्रकाशात्मसंबन्धं विना न घटत इति सोऽपि तत्र प्रमाणमिति नायुक्तिलेशोऽपि । न च–'समारोप्यस्य रूपेण विषयो रूपवान् भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥' इति वाचस्पत्युक्तेरन्तःकरणगताप्रेमास्पदत्वस्यैवात्मनि प्रतीत्यापत्तिरिति वाच्यम्; किमधिष्ठानगतधर्मस्यारोप्येऽभानमापाद्यते, आरोग्यगतधर्मस्याधिष्ठाने भानं वा । नाद्यः; यद्धर्मवत्तया ज्ञायमाने अधिष्ठाने आरोप्यनिवृत्तिस्तस्यैवारोप्येऽभाननियमेन प्रकृते तदभावात् । न द्वितीयः; अधिष्ठानगतधर्मप्रतीत्यविरोधिनः आरोप्यगतस्याधिष्ठाने भानेऽपि प्रकृते अविरोधात् । आत्मैक्याध्यासकाल एव प्रेमास्पदत्वसंभवेनारोप्येऽपि अप्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिः यथा इदमिति रजताध्यासकाल एव रजते अनिदन्त्वाप्रतीतिः । यत्तु-कैश्चित् परिह्रियते सुखानुभवरूपस्यात्मनो अहमर्थात् भेदेनैव सुखमनुभवामीत्यादौ प्रतीतिः-इति, तन्न; वैषयिकसुखानुभवस्यात्मान्यत्वात् । न च मोक्षे अहमर्थाभावेनात्मनाशो मोक्ष इति बाह्यमतापत्तिः, प्रेमास्पदस्याहमर्थस्य त्वन्मतेऽपि नाशात् , तदन्यस्य शून्यस्य तन्मतेऽप्यनाशादिति वाच्यम् ; औपाधिकप्रेमास्पदनाशेन बाह्यमतप्रवेशपत्तौ शरीरनाशेऽपि तदापत्तेः । एतावताहमर्थस्य मुक्त्यनन्वयेऽपि ‘माममृतं कृधि' ‘ज्योतिरहं विरजा विपाप्मा भूयासमि'ति श्रुतिरपि चैतन्यगतमेवामृतत्वं विषयीकरोति, “अहं पुष्टः स्यामि'तीच्छेव स्वसमयविद्यमानशरीरवृत्तिपुष्टिम् । न च–'शरीरं पुष्टं स्यादि'ति शरीरमात्रं पुष्टेच्छावत् 'आत्ममात्रं मुक्तं स्यादि'तीच्छाया अदर्शनेन मुक्तेरनिष्टत्वापत्तिरिति वाच्यम् ; इच्छासमये अन्तःकरणाध्याससंभवेन यद्यपि नाममात्रगतमुक्तीच्छा, तथापि विशिष्टगतमुक्तीच्छाया एव विवक्षितविवेकेन विशेष्यमात्रगतमुक्तिविषयत्वपर्यवसानात् तस्यामिष्टत्वोपपत्तेः । न चाहमर्थस्यान्तःकरणग्रन्थित्वे 'मम मन' इति धीर्न स्यात् ; चिदचिद्ग्रन्थिरहंकारः, अचिन्मात्रमन्तःकरणम् इति भेदेन षष्ठ्युपपत्तेः । न चैवं–'मनः स्फुरति मनोऽस्ती'त्यादिज्ञानादहमिति ज्ञानस्य वैषम्यानुभवो न स्यात् , चिदचित्संवलनविषयत्वाविशेषादिति वाच्यम्; संवलनं हि न संबन्धमात्रम्, किंतु तादात्म्येन प्रतिभासः ।। स च तत्र नास्तीति विशेषात् । ननु–सर्वापि भ्रान्तिर्द्व्यंशविषया; अन्यथा निरधिष्ठानकभ्रमापत्तेः, न च ‘अहमि'ति बुद्धेर्द्व्यंशत्वमनुभूयते; कल्प्यते चेत्, आत्मेति बुद्धेरपि द्व्यंशत्वं कल्प्यतामिति चेन्न; किमिदं द्व्यंशविषयत्वम् ? अधिष्ठानारोप्यविषयत्वं चेत्तर्हीष्टापत्तिः; अहमर्थमिथ्यात्वस्यैव द्वितीयांशविषयत्वे प्रमाणत्वात् । आत्मेत्यत्र तु द्व्यंशविषयत्वे नैवं प्रमाणमस्ति, येन तथा कल्प्यते । न च द्व्यंशविषयत्वं भिन्नभिन्नप्रकारावच्छिन्नाधिष्ठानारोप्यविषयत्वम्; रजतत्वसंसर्गारोपनिबन्धनेदंरजतमिति प्रतीतौ व्यभिचारात् । नहि रजतत्वेऽपि तत्र कश्चन प्रकारो भासते; रजतादेस्तत्र प्रकारत्वकल्पने मानाभावात् , तत्कल्पनां विनैवोपपत्तेः, तथा कल्पनायामतिप्रसङ्गादप्रयोजकत्वाच्च । यद्वा–अत्रा'प्यहं स्फुरामि’ ‘अहमस्मी'ति द्व्यंशता भात्येव 'रूप्यं स्फुरति' 'रूप्यमस्ती'त्यत्रेव । इयांस्तु विशेषः—यत्तत्र इदंत्वावच्छिन्नस्फुरणमधिष्ठानमिति इदं रूप्यमिति धीः, इह तु स्फुरणमात्रमधिष्ठानमिति स्फुरामीत्येव बुद्धिः । न च भ्रमस्याप्यध्यस्तत्वेनाधिष्ठानत्वायोगः, भ्रान्तोऽसि । स्फुरणं चैतन्यं ब्रूमः, न त्वविद्यावृत्त्यादिकम् । एवं च न प्रत्यक्षमहमर्थस्यात्मत्वे प्रमाणम् । नाप्यनुमानम् । तथा हि-अहमर्थो, मोक्षान्वयी, तत्साधनकृत्याश्रयत्वात् , संमतवत् , इत्यत्र विशेषव्याप्तौ दृष्टान्ताभावः। न हि कृत्याश्रये मोक्षान्वयित्वं क्वचित् संप्रतिपन्नमस्ति; सामान्यव्याप्तेः स्वर्गसाधनकृत्याश्रये ऋत्विजि स्वर्गानन्वयेन व्यभिचारात् । अहमर्थः, अनर्थनिवृत्त्याश्रयः, अनर्थाश्रयत्वात् , संमतवदित्यत्र शरीरे व्यभिचारः । न च तत्रानर्थाश्रयत्वमसिद्धम् । ‘अहमज्ञ” इति प्रतीत्या अहमीव ‘स्थूलोऽहमज्ञ' इति प्रतीत्या शरीरेऽपि तत्सत्त्वात् , अन्यथा असिद्धिप्रसङ्गात् । अनात्मत्वं, नाहमर्थवृत्ति, अनात्ममात्रवृत्तित्वात् , घटत्ववदित्यत्र कृत्याश्रयावृत्तित्वमुपाधिः । नापि ‘कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि’ ‘स प्राणमसृजत हन्ताहमिमास्तिस्रो देवता' इत्यादौ जगत्कारणे सति प्राणमनःसृष्टेः पूर्वमहंत्वोक्तेः ‘तदात्मानमेवावेत् अहं ब्रह्मास्मी'त्यवधारणेन शुद्धात्मनोऽहन्त्वोक्तेः अनवद्यस्य ब्रह्मणोऽहमुल्लेखोक्तेः ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः । स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः ॥' इत्यादौ मोक्षान्वयोक्तेश्चैताः श्रुतयः प्रमाणम् ; विशिष्टवाचकस्यैवाहम्पदस्य लक्षणया निष्कृष्टाहङ्कारचैतन्ये प्रयोगात् । लक्षणाबीजभूताऽनुपपत्तिरुक्ता । एतेन–‘मामेव ये प्रपद्यन्ते' इत्यादिस्मृतयोऽपि व्याख्याताः । अत एव 'तद्योऽहं सोऽसावि'त्यादावपि लक्षणाऽऽश्रयणीया; विशिष्टवाचकत्वेन क्लृप्तस्य विशेष्ये लक्षणाया आवश्यकत्वात् ॥
॥ इत्यद्वैतसिद्धावहमर्थस्यानात्मत्वोपपत्तिः ॥
ननु-कर्तृत्वं यद्यनात्मधर्मः स्यात् , कथमात्मनि भासेत ? न च-जपाकुसुमस्थ लौहित्यं स्फटिक इवान्तःकरणगतं कर्तृत्वमात्मन्यध्यस्यते, न तु तात्त्विकम् ; निर्विकारत्वश्रुतिविरोधात्; सुषुप्तौ बुद्ध्यभावेऽकर्तृत्वदर्शनाच्चेति वाच्यम् । एवं हि ‘रक्तं कुसुम'मितिवत् कदाचित् मनः कर्त्रिति प्रत्यक्षप्रमा 'लोहितः स्फटिक' इतिवत् चैतन्यं कर्त्रिति भ्रमश्च स्यादिति–चेन्न; कर्तृत्वविशिष्टान्तःकरणस्य चैतन्यात्मनाध्यासेन न तथा प्रतीतिः । कुसुमस्य तु स्फटिकात्मना नाध्यास इति वैषम्यात् । न च–अधिष्ठानात्मनाऽनध्यस्तजपाकुसुमस्थानीयमुपाधिं विना भीषणत्वादियुक्तसर्पस्य रज्वात्मनेव कर्तृत्वादियुक्तबुद्धेश्चिदात्मनाध्यासे रज्जौ भीषणत्वान्तरस्येवात्मनि कर्तृत्वान्तरस्यानध्यासेन सोपाधिकत्वं न स्यादिति वाच्यम्; आत्मनि कर्तृत्वान्तरस्यैवाध्यासात् । न च तर्हि कर्तृत्वद्वयस्य विविच्य प्रतीतिः स्यात् ; आत्मान्तःकरणयोरैक्याध्यासात् । रज्जुसर्पादौ अध्यस्यमानक्रूरत्वादि । विशिष्टसर्पापेक्षया अधिकसत्ताकस्य सर्पान्तरस्य संभवेन नायमुपाधिः; अतो निरुपाधिकत्वम् । अत्र त्वध्यस्यमानान्तःकरणापेक्षया कर्तृत्वादिधर्मविशिष्टमन्यदधिकसत्ताकं नास्त्येवेति अन्तःकरणमत्रोपाधिरिति न सोपाधिकत्वानुपपत्तिः । न च–एवमपि मनो न स्फुरणम् , किंतु स्फुरतीति तयोर्भेदधीदशायां प्रत्येकं ‘रक्तं कुसुमं’ ‘स्फटिको रक्तः' इतिवत् ‘मनः कर्तृ’ ‘चैतन्यं कर्त्रि'ति प्रतीत्यापत्तिरिति वाच्यम्; तादात्म्यारोपविरोधिभेदग्रहस्यैव तत्प्रयोजकत्वात् ; प्रकृते च तदभावात् । यत्वभेदग्रहदशायामपि “अयं भीषणः सर्पो भीषणः, अहं गौरः शरीरं गौरमितिवत् ‘मनः कर्तृ चैतन्यं कर्त्रि'ति प्रतीतिः स्यादिति, तन्न; तादात्म्यग्रहस्यैव प्रतिबन्धकस्य सत्त्वेन दृष्टान्तस्यैवासंप्रतिपत्तेः । यदपि सोपाधिकत्वे तन्त्रत्वेनाधिष्ठानसमसत्ताकत्वमुपाधेः तद्धर्मस्य वा, अध्यस्यमानापेक्षयाधिकसत्ताकत्वं वा तयोरिति पक्षद्वयमुद्भाव्य प्रकृते तद्द्वयं न संभवतीति दूषणाभिधानम् , तदनुक्तोपालम्भनम् ; यदन्वयव्यतिरेकानुविधायितया यत्प्रतीयते तदपेक्षया अधिकसत्ताकतद्धर्माश्रयान्तराभावस्यैव सोपाधिकत्वे तन्त्रत्वात् । न चैवं क्षीरसंपृक्तनीरैक्याध्यासनिबन्धनक्षीरधर्मप्रतीतिः सोपाधिकी स्यात् । तस्याः सोपाधिकत्वे इष्टापत्तेः । ननु बुद्धिगतं कर्तृत्वं किमहमर्थे, अहमर्थगतं वात्मनि अध्यस्यते । आद्ये आरोपितस्याप्यनर्थस्यात्मन्यभावे तस्य बन्धमोक्षानधिकरणत्वापत्तिः, द्वितीये अनध्यासेनैव ‘अहं कर्ते'ति प्रतीत्युपपत्तौ किमध्यासेनेति–चेन्न; अहंकारस्तु चिदचिद्ग्रन्थिरूपतया द्व्यंशः । तत्राचिदंशे बुद्धौ कर्तृत्वसत्त्वेऽपि तद्विशिष्टाया बुद्धेश्चित्यैक्याध्यासं विना अहं कर्तेति प्रतीतेरयोगेनाध्यासस्यावश्यकत्वात् । एतेन—आरोपितकर्तृत्वस्याप्यभावे आत्मनो बन्धमोक्षानधिकरणत्वं स्यादिति-निरस्तम् । न च–‘कर्ता शास्त्रार्थवत्त्वादि'त्यधिकरणे त्वयाऽपि साङ्ख्यरीत्या बुद्धेः कर्तृत्वे प्राप्ते, जीवस्यैवेति सिद्धान्तितत्वेन विरोधः ? न चाविवेकनिबन्धनं जीवनिष्ठत्वम् अविवेकस्य साङ्ख्यमतेऽपि सत्त्वादिति-वाच्यम् ; बुद्धेरेव कर्तृत्वम् । भोक्तृत्वं चैतन्यस्येति पूर्वपक्षं कृत्वा कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यनियमेन भोक्तृत्ववत् कर्तृत्वमप्यङ्गीकर्तव्यमित्युक्तम् ; न तु बुद्धेः अकर्तृत्वम् आत्मनो वा स्वाभाविकं कर्तृत्वमिति । 'यथा च तक्षोभयथा' इत्युत्तराधिकरणे पूर्वाधिकरणोक्तस्यात्मकर्तृत्वस्य स्वाभाविकत्वपूर्वपक्षे औपाधिकत्वस्य स्थापितत्वात् । अतो न तदधिकरणविरोधः । यदपि बुद्धेः कर्तृत्वे करणत्वं कथमिति ? तदप्ययुक्तम्; अन्यत्र कर्त्र्या एव बुद्धेरुपलब्धिं प्रति करणत्वोपपत्तेः । न च-कर्तृत्वाद्यनर्थरूपबन्धस्य बुद्धिगतत्वेन मोक्षस्यापि तदन्वयापत्तिः, अनर्थतन्निवृत्त्योरैकाधिकरण्यनियमादिति-वाच्यम्; कर्तृत्वादेश्चेतनगततयैवानर्थतया बुद्धेरनर्थानाश्रयत्वात् । न च चैतन्यगतस्यानर्थत्वे चैतन्यस्याप्यनर्थकोटौ निवेशापत्तिः; आत्मसंबन्धित्वेनैवानर्थस्य हेयत्वेनात्मनोऽपि हेयत्वं सर्वमतेऽपि स्यात् । आरोपितत्वपुरस्कारेणानर्थत्वाभावात् नान्योन्याश्रयः । न च-शुद्धात्मनः कदापि नानर्थाश्रयत्वेन प्रतीतिः, भ्रमकाले अहं भोक्ता प्रमाकाले बुद्धिर्भोक्त्रीति प्रतीतेरिति-वाच्यम् ; शुद्धस्य भोक्तृत्वाद्यनर्थानाश्रयत्वेऽपि उपहितस्य शुद्धात्स्वाभाविकभेदाभावेन बन्धमोक्षसामानाधिकरण्योपपत्तेः । एतेन बुद्धिः श्रवणादिकर्त्रीति तस्या एव फलं मोक्षोऽपि स्यादिति वाच्यम्; ‘शास्त्रफलं प्रयोक्तरी'ति न्यायात्, अन्यथाऽतिप्रसङ्गादिति–निरस्तम्; जातेष्टिपितृयज्ञयोर्व्यभिचारात् । न च पूतपुत्रकत्वं स्वर्गभागिपितृकत्वं वा कर्तृगतमेव फलम् ; तस्य फलत्वेनाश्रवणात् । न च तादृक्पुत्रकत्वं फलेन सम्बन्धः, न तु फलमिति वाच्यम्; एवं हि संयुक्तसमवायादिना पित्रन्यस्यापि तत्फलं स्यात्, अशास्त्रीयत्वाविशेषात् । न च–पित्रर्थपुत्रगतं पूतत्वादिकं तदनुष्ठातुः पितुरेव फलम् , तेन तदुद्देशात् ; न चेहात्मा अन्तःकरणार्थः, येनात्मगतो मोक्षः तस्योद्देश्यः स्यादिति वाच्यम्, आत्मा यद्यपि नान्तःकरणार्थः, अहमर्थगततया तथापि फलस्योद्देश्यत्वानुभवात् अहमर्थस्य चात्मानात्मरूपत्वेनात्मन्यपि फले उद्देश्यगतत्वानपायात् । यद्वा-आरोपितानारोपितसाधारणं कर्तृत्वमेव फलभाक्त्वे प्रयोजकम् , तच्चात्मन्यस्त्येव । न च–शरीरेऽप्यारोपितकर्तृत्वेन फलभाक्त्वापत्तिः; फलपर्यन्तमसत्त्वेन फलभाक्त्वासंभवात् । न हि कर्तुः फलभाक्त्वनियमं ब्रूमः, किंतु फलभाजः कर्तृत्वनियमम् ; अजनितफलकर्मकर्तरि व्यभिचारात्, अप्रयोजकत्वाच्च । ननु–मनसः कर्तृत्वं न घटते; कृतिकर्मत्वस्य करणत्वस्य च तद्विरोधिनः श्रुत्यादिसिद्धत्वात् , बुद्ध्यभावेऽपि कर्तृत्वस्य श्रूयमाणत्वाच्च । तथा हि 'तन्मनोऽकुरुते'त्यादौ मनसः कृतिकर्मत्वम् ‘शृण्वन्तः श्रोत्रेण विद्वांसो मनसे'त्यादिश्रुतौ शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नर' इत्यादिस्मृतौ च करणत्वम्, मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्तेवेत्यादिश्रुतौ मनउत्क्रमणेऽप्यात्मनः कर्तृत्वम् , तथा 'परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाण' इत्यादौ स्वरूपाविर्भावरूपपरममुक्तावपि कर्तृत्वं ‘कर्ता विज्ञानात्मा यो वेदेदं जिघ्राणी'ति ‘स आत्माऽऽनन्दभुक्तथा प्राज्ञ' इत्यादिश्रुतितश्च कर्तृत्वम्, तथाच बुद्धिर्न कर्त्रीति–चेन्न ‘विज्ञानं यज्ञं तनुते' इत्यादिश्रुत्या मनसः कर्तृत्वेन स्वकृतिकर्मत्वविरोधेऽपि तत्रेश्वरकृतिकर्मत्वस्य उपलब्धिं प्रति करणत्वस्य चाविरोधात् ईश्वरे विद्यावृत्तिरूपज्ञानेच्छावत् तद्रूपकृतिसंभवात् । न च-विज्ञानपदं ब्रह्मपरम्, ‘विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति शरीरे पाप्मनो हित्वा । सर्वान् कामान् समश्नुते ।' इत्यादिवाक्यशेषादिति वाच्यम् ; वाक्यशेषोक्तमुमुक्षुज्ञेयशुद्धब्रह्मणो यज्ञकर्तृत्वासंभवेन कर्तृत्वेन प्रतिपाद्यमाने विज्ञाने ततोऽन्तरत्वनिश्चयात्, ‘अन्नं ब्रह्मेत्युपास्त' इत्येतद्वाक्यसमानयोगक्षेमत्वाच्च । 'तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वात् न स पश्यती'त्यादिस्मृतेः ‘प्रकृतेः क्रियमाणानी'त्यादिस्मृतेश्च । न चात्मनि स्वातन्त्र्येण कर्तृत्वनिषेधबोधकत्वमनयोः; सामान्यतो निषेधे बाधकाभावात् । अत एव ‘ध्यायतीव लेलायतीवे'त्यादाविवशब्दः । न चेवशब्दः परतन्त्रप्रभौ प्रभुरिवेतिवत् जीवकर्तृत्वे परतन्त्रतामात्रपरः, तद्वदत्र बाधकाभावात् । न च-बुद्ध्यभावेऽपि आत्मनः कर्तृत्वश्रवणात् बुद्धेः कर्तृत्वासंभव इति वाच्यम् ; बुद्धेः कर्तृत्वे जनकत्वमात्रे वा सर्वथा तस्या जीवनिष्ठत्वेनाभिमतायां कृतावपेक्षणीयत्वेन तदभावे कर्तृत्वबोधकस्य तवापि मते उपचरितार्थत्वात् , निर्धर्मकत्वनिर्विकारत्वनिष्क्रियत्वादिबोधकश्रुतिविरोधाच्च । न च निर्धर्मकत्वरूपधर्मभावाभावाभ्यां व्याघातात् ज्ञानत्वसाक्षित्वादिवत् सत्यस्यासत्यस्य वा ज्ञातृत्वादेरप्यात्मन्येव संभवाच्च निधर्मकत्वश्रुतिर्न श्रूयमाणार्थपरेति–वाच्यम्'; निधर्मकत्वस्य धर्माभावरूपस्य ब्रह्मस्वरूपानतिरेकेण धर्मत्वाभावेन व्याहत्यभावात् । यत्त्वसत्यस्य सत्यस्य वा ज्ञातृत्वस्यात्मन्यपि संभव इत्युक