श्रीमदप्पय्यदीक्षितविरचितः

शास्त्रसिद्धान्तलेशसङ्ग्रहः

 

अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधा
सरिदिव महीभेदान् सम्प्राप्य शौरिपदोद्गता ।
जयति भगवत्पादश्रीमन्मुखाम्बुजनिर्गता
जननहरणी सूक्तिर्ब्रह्माद्वयैकपरायणा ॥१॥
प्राचीनैर्व्यवहारसिद्धविषयेष्वात्मैक्यसिद्धौ परं
सन्नह्यद्भिरनादरात् सरणयो नानाविधा दर्शिताः ।
तन्मूलानिह सङ्ग्रहेण कतिचित् सिद्धान्तभेदान् धिय-
श्शुद्ध्यै सङ्कलयामि तातचरणव्याख्यावचःख्यापितान् ॥२॥
तेषूपपादनापेक्षान् पक्षान् प्रायो यथामति ।
युक्त्योपपादयन्नेव लिखाम्यनतिविस्तरम् ॥३॥
तत्र तावत् ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो (मन्तव्यः)’ (बृ.उ.२.४.५) इति अधीतसाङ्गस्वाध्यायस्य वेदान्तैरापातप्रतिपन्ने ब्रह्मात्मनि समुदितजिज्ञासस्य तज्ज्ञानाय वेदान्तश्रवणे विधिः प्रतीयमानः किंविध इति चिन्त्यते ।
तिस्रः खलु विधेर्विधाः – अपूर्वविधिः नियमविधिः परिसङ्ख्याविधिश्च इति । तत्र कालत्रयेऽपि कथमप्यप्राप्तस्य प्राप्तिफलको विधिराद्यः । यथा ‘व्रीहीन् प्रोक्षति’ इति । नात्र व्रीहीणां प्रोक्षणस्य संस्कारकर्मणो विना विनियोगं मानान्तरेण कथमपि प्राप्तिरस्ति । पक्षप्राप्तस्य अप्राप्तांशपरिपूरणफलको विधिर्द्वितीयः । यथा ’व्रीहीनवहन्ति’ इति । अत्र विध्यभावेऽपि पुरोडाशप्रकृतिद्रव्याणां व्रीहीणां तण्डुलनिष्पत्त्याक्षेपादेव अवहननप्राप्तिः भविष्यति इति न तत्प्राप्त्यर्थोऽयं विधिः, किन्तु आक्षेपादवहननप्राप्तौ तद्वदेव लोकावगतकारणत्वाविशेषात् नखविदलनादिरपि पक्षे प्राप्नुयात् इति अवहननाप्राप्तांशसद्भावात् तदंशपरिपूरणफलकः । द्वयोः शेषिणोः एकस्य शेषस्य वा एकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधिः तृतीयः । यथा अग्रिचयने ‘इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते’ इति, यथा वा चातुर्मास्यान्तर्गतेष्टिविशेषे गृहमेधीये ‘आज्यभागौ यजति’ इति । अग्निचयने अश्वरशनाग्रहणं गर्दभरशनाग्रहणं च इति द्वयमनुष्ठेयम् । तत्र अश्वरशनाग्रहणे ‘इमामगृभ्णन्’ इति मन्त्रो लिङ्गादेव रशनाग्रहणप्रकाशनसामर्थ्यरूपात् नित्यं प्राप्नोति इति न तत्प्राप्त्यर्थः तदप्राप्तांशपरिपूरणार्थो वा विधिः, किं तु लिङ्गाविशेषात् गर्दभरशनाग्रहणेऽपि मन्त्रः प्राप्नुयात् इति तन्निवृत्त्यर्थः । तथा गृहमेधीयस्य दर्शपूर्णमासप्रकृतिकत्वात् अतिदेशादेव आज्यभागौ नित्यं प्राप्नुतः इति न तत्र विधिः तत्प्राप्त्यर्थः तन्नियमार्थो वा; किं तु अतिदेशात् प्रयाजादिकमपि प्राप्नुयात् इति तन्निवृत्त्यर्थः । गृहमेधीयाधिकरणपूर्वपक्षरीत्या इदमुदाहरणं यत्र क्कचिदुदाहर्तव्यमित्युदाहृतम् । न च नियमविधावपि पक्षप्राप्तावहननस्य अप्राप्तांशपरिपूरणे कृते तदवरुद्धत्वात् पाक्षिकसाधनान्तरस्य नखविदलनादेः निवृत्तिरपि लभ्यत इति इतरनिवृत्तिफलकत्वाविशेषात् नियमपरिसङ्ख्ययोः फलतो विवेको न यक्त इति शङ्क्यम् । विधितोऽवहनननियमं विना आक्षेपलभ्यस्य नखविदलनादेर्निवर्तयितुमशक्यतया अप्राप्तांशपरिपूरणरूपस्य नियमस्य प्राथम्यात् विधेयावहननगतत्वेन प्रत्यासन्नत्वाच्च तस्यैव नियमविधिफलत्वोपगमात् । तदनुनिष्पादिन्या अविधेयगतत्वेन विप्रकृष्टाया इतरनिवृत्तेः सन्निकृष्टफलसम्भवे फलत्वानौचित्यात् ।
एवं विविक्तासु तिसृषु विधासु किंविधः श्रवणविधिराश्रीयते ।
प्रकटार्थकारादयः केचिदाहुः− अपूर्वविधिरयम् । अप्राप्तत्वात् । न हि ‘वेदान्तश्रवणं ब्रह्मसाक्षात्कारहेतुः’ इति अन्वयव्यतिरेकप्रमाणमस्ति । लोके कृतश्रवणस्यापि बहुशस्तदनुत्पत्तेः अकृतश्रवणस्यापि गर्भगतस्य वामदेवस्य तदुत्पत्तेः उभयतो व्यभिचारात् । न वा श्रवणमात्रं श्रोतव्यार्थसाक्षात्कारहेतुः इति शस्त्रान्तरश्रवणे गृहीतः सामान्यनियमोऽस्ति, येनात्र विशिष्य हेतुत्वग्राहकाभवेऽपि सामान्यमुखेनैव हेतुत्वं प्राप्यत इत्याशङ्क्येत । गान्धर्वादिशास्त्रश्रवणस्य षड्जादिसाक्षात्कारहेतुत्वाभ्युपगमेऽपि कर्मकाण्डादिश्रवणात् तदर्थधर्मादिसाक्षात्कारादर्शनेन व्यभिचारात् । तस्मादपूर्वविधिरेवायम् ।
भाष्येऽपि ‘सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्’ (ब्र.सू. ३.४.४७) इत्यधिकरणे ’विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवत् विधिरेवाश्रयितव्यः अपूर्वत्वात्’ इति पाण्डित्यशब्दशब्दिते श्रवणे अपूर्वविधिरेवाङ्गीकृतः − इति ।
वेदान्तश्रवणस्य नित्यापरोक्षब्रह्मसाक्षात्कारहेतुत्वं न अप्राप्तम् , अपरोक्षवस्तुविषयकप्रमाणत्वावच्छेदेन साक्षात्कारहेतुत्वस्य प्राप्तेः शाब्दापरोक्षवादे व्यवस्थापनात् । तदर्थमेव हि तत्प्रस्तावः । न च - तावता ब्रह्मप्रमाणत्वेन आपातदर्शनसाधारणब्रह्मसाक्षात्कारहेतुत्वप्राप्तावपि अविद्यानिवृत्त्यर्थमिष्यमाणसत्तानिश्चयरूपतत्साक्षात्कारहेतुत्वं श्रवणस्य न प्राप्तम् इति वाच्यम् । विचारमात्रस्य विचार्यनिर्णयहेतुत्वस्य ब्रह्मप्रमाणस्य तत्साक्षात्कारहेतुत्वस्य च प्राप्तौ विचारितवेदान्तशब्दज्ञानरूपस्य श्रवणस्य तद्धेतुत्वप्राप्तेः । न च उक्तोभयतो व्यभिचारः । सहकारिवैकल्येनान्वयव्यभिचारस्यादोषत्वात् , जातिस्मरस्य जन्मान्तरश्रवणात् , फलसम्भवेन व्यतिरेकव्यभिचाराभावात् । अन्यथा व्यभिचारेणैव हेतुत्वबाधे श्रुत्यापि तत्साधनताज्ञानासम्भवात् । घटसाक्षात्कारे चक्षुरतिरेकेण त्वगिन्द्रियमिव ब्रह्मसाक्षात्कारे श्रवणातिरेकेण उपायान्तरमस्तीति शङ्कायां व्यतिरेकव्यभिचारस्यापि अदोषत्वात् । तथा च प्राप्तत्वान्नापूर्वविधिः ।
अत एव ‘आवृत्तिरसकृदुपदेशात्’ (ब्र.सू .४-१-१) इत्यधिकरणभाष्ये ‘दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमनानि दृष्टार्थानि भवन्ति, यथा अवघातादीनि तण्डुलनिष्पत्तिपर्यवसानानि’ इति श्रवणस्य ब्रह्मदर्शनार्थस्य दृष्टार्थतया दार्शपूर्णमासिकावघातन्यायप्राप्तावृत्त्युपदेशः । अपूर्वविधित्वे तु स न सङ्गच्छते सर्वौषधावघातवत् । अग्निचयने ‘सर्वौषधस्य पूरयित्वाऽवहन्ति अथैतदुपदधाति ।’ इति उपधेयोलूखलसंस्कारार्थत्वेन विहितस्यावघातस्य दृष्टार्थत्वाभावान्नावृत्तिरिति हि तन्त्रलक्षणे स्थितम् (जै. सू. ११-१-६) ।
अतो नियमविधिरेवायम् । तदभावे हि यथा वस्तु किञ्चिच्चक्षुषा वीक्षमाणस्तत्र स्वागृहीते सूक्ष्मे विशेषान्तरे केनचित् कथिते तदवगमाय तस्यैव चक्षुषः पुनरपि सप्रणिधानं व्यापारे प्रवर्तते । एवं मनसा ‘अहं’ इति गृह्यमाणे जीवे वेदान्तैरध्ययनगृहीतैरुपदिष्टं निर्विशेषब्रह्मचैतन्यरूपत्वमाकर्ण्य तदवगमाय तत्र सावधानं मनस एव प्रणिधने कदाचित् पुरुषः प्रवर्तेतेति वेदान्तश्रवणे प्रवृत्तिः पाक्षिकी स्यत् । ‘यतो वाचो निवर्तन्ते (अप्राप्य मनसा सह)’ (तै.उ. २-९-१) इतिश्रुतिः ’मनसैवानुद्रष्टव्यम्’ (बृ.उ.४-४-१९) ‘द्दश्यते त्वग्र्यया बुद्ध्या‘ (क.उ.३-१२) इत्यपि श्रवणेन अनवहितमनोविषया इतिशङ्कासम्भवात् ।
अथवा ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु.उ. ३-१-२) इत्यादिश्रवणात् भिन्नात्मज्ञानान्मुक्तिरितिभ्रमसम्भवेन मुक्तिसाधनज्ञानाय भिन्नात्मविचाररूपे शास्त्रान्तरश्रवणेऽपि पक्षे प्रवृत्तिस्स्यादिति अद्वैतात्मपरवेदान्तश्रवणानियमविधिरयमस्तु । इह आत्मशब्दस्य ‘इदं सर्वं यदयमात्मा’ (बृ.उ. २-४-६) इत्यादिप्रकरणपर्यालोचनया अद्वितीयात्मपरत्वात् । न हि वस्तुसत्साधनान्तरप्राप्तावेव नियमविधिरिति कुलधर्मः ; येन वेदान्तश्रवणनियमार्थवत्त्वाय नियमादृष्टजन्यस्वप्रतिबन्धककल्मषनिवृत्तिद्वारा सत्तानिश्चयरूपब्रह्मसाक्षात्कारस्य वेदान्तश्रवणैकसाध्यत्वस्याभ्युपगन्तव्यत्वेन तत्र वस्तुत: साधनान्तराभावान्न नियमविधिर्युज्यत इति शङ्क्येत । किं तु यत्र साधनान्तरतया सम्भाव्यमानस्य पक्षे प्राप्त्या विधित्सितसाधनस्य पाक्षिक्यप्रप्तिर्निवारयितुं न शक्यते तत्र नियमविधिः, तावतैव अप्राप्तांशपरिपूरणस्य तत्फलस्य सिद्धेः ।
अथवा - गुरुमुखाधीनादिव निपुणस्य स्वप्रयत्नमात्रसाध्यादपि वेदान्तविचारात् सम्भवति सत्तानिश्चयरूपं ब्रह्मापरोक्षज्ञानम् । किं तु गुरुमुखाधीतवेदान्तवाक्यश्रवणनियमादृष्टम् अविद्यानिवृत्तिं प्रति कल्मषनिरासेनोपयुज्यत इति तदभावेन प्रतिबद्धम् अविद्यामनिवर्तयत् परोक्षज्ञानकल्पमवतिष्ठते । न च ज्ञानोदये अज्ञानानिवृत्त्यनुपपत्तिः । प्रतिबन्धकाभावस्य सर्वत्रापेक्षितत्वेन सत्यपि प्रत्यक्षविशेषदर्शने उपाधिना प्रतिबन्धात् प्रतिबिम्बभ्रमानिवृत्तिवत् तदनिवृत्त्युपपत्तेः । एवं च लिखितपाठादिनापि स्वाध्यायग्रहणप्रसक्तौ गुरुमुखाधीनाध्ययननियमविधिवत् स्वप्रयत्नमात्रपूर्वकस्यापि वेदन्तविचारस्य सत्तानिश्चयरूपब्रह्मसाक्षात्कारार्थत्वेन पक्षे प्राप्तौ गुरुमुखाधीनश्रवणनियमविधिरस्तु । न च ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ (मु.उ. १-२-१२) इति गुरूपसदनविधिनैव गुरुरहितविचारव्यावृत्तिसिद्धेर्विफलो नियमविधिरिति शङ्क्यम् । गुरूपसदनस्य श्रवणाङ्गतया श्रवणविध्यभावे तद्विधिरेव नास्तीति तेन तस्य वैफल्याप्रसक्तेः । अन्यथा अध्ययनाङ्गभूतोपगमनविधिनैव लिखितपाठादिव्यावृत्तिरिति अध्ययननियमोऽपि विफलः स्यात् ।
अथवा अद्वैतात्मपरभाषाप्रबन्धश्रवणस्य पक्षे प्राप्त्या वेदान्तश्रवणे नियमविधिरस्तु । न च ‘नम्लेच्छितवै’ इत्यादिनिषेधादेव तदप्राप्तिः । शास्त्रव्युत्पत्तिमान्द्यात् वेदान्तश्रवणमशक्यमिति पुरुषार्थनिषेधमुल्लङ्घ्यापि भाषाप्रबन्धेनाद्वैतं जिज्ञासमानस्य तत्र प्रवृत्तिसम्भवेन नियमविधेरर्थवत्त्वोपपत्तेः । ’अभ्युपगम्यते हि कत्रधिकरणे’ (जै.सू. ३-४-१२) व्युत्पादितं पुरुषार्थे अनृतवदननिषेधे सत्यपि दर्शपूर्णमासमध्ये कुतश्चिद्धेतोरङ्गीकृतनिषेधोल्लङ्घनस्य अविकलां क्रतुसिद्धिं कामयमानस्य अनृतवदने प्रवृत्ति: स्यदिति पुनः क्रत्वर्थतया दर्शपूर्णमासप्रकरणे ‘नानृतं वदेत्’ इति निषेधः इति क्रत्वर्थतया निषेधस्यार्थवत्वम् ।
यद्वा - यथा ‘मन्त्रैरेव मन्त्रार्थस्मृतिः साध्या’ इति नियमः , तन्मूलककल्पसूत्रात्मीयग्रहणकवाक्यादीनामपि पक्षे प्राप्तेः ; तथा वेदान्तमूलकेतिहासपुराणपौरुषेयप्रबन्धानामपि पक्षे प्राप्तिसम्भवान्नियमोऽयमस्तु । सर्वथा नियमविधिरेवायम् । ’सहकार्यन्तरविधिः’ इत्यधिकरणभाष्ये अपूर्वत्वोक्तिस्तु नियमविधित्वेऽपि पाक्षिकाप्राप्तिसद्भावात् तदभिप्राया इति तत्रैव पक्षेणेति पाक्षिकाप्राप्तिकथनपरसूत्रपदयोजनेन स्पष्टीकृतम् - इति विवरणानुसारिणः ॥
कृतश्रवणस्य प्रथमं शब्दात् निर्विचिकित्सं परोक्षज्ञानमेवोत्पद्यते । शब्दस्य परोक्षज्ञानजननस्वाभाव्येन क्लृप्तसामर्थ्यानतिलङ्घनात् । पश्चात् कृतमनननिदिध्यासनस्य सहकारिविशेषसम्पन्नात् तत एव अपरोक्षज्ञानं जायते । तत्तांशगोचरज्ञानजननासमर्थस्यापीन्द्रियस्य सत्समर्थसंस्कारसाहित्यात् प्रत्यभिज्ञानजनकत्ववत् स्वतोऽपरोक्षज्ञानजननासमर्थस्यापि शब्दस्य विधुरपरिभावितकामिनीसाक्षात्कारस्थले तत्समर्थत्वेनक्लृप्तभावनाप्रचयसाहित्यादपरोक्षज्ञानजनकत्वं युक्तम् । ततश्च शब्दस्य स्वतस्स्वविषये परोक्षज्ञानजनकत्वस्य भावनाप्रचयसहकृतज्ञानकरणत्वावच्छेदेन विधुरान्त:करणवदपरोक्षज्ञानजनकत्वस्य च प्राप्तत्वात् पूर्ववन्नियमविधिरिति तदेकदेशिनः ।
वेदान्तश्रवणेन न ब्रह्मसाक्षात्कारः, किन्तु मनसैव , ‘मनसैवानुद्रष्टव्यम्’ (बृ.उ.४-४-१९) इति श्रुतेः । ‘शास्त्राचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणम्’ इति गीताभाष्यवचनाच्च । श्रवणं तु निर्विचिकित्सपरोक्षज्ञानार्थमिति तादर्थ्येनैव नियमविधिः इति केचित् ।
अपरोक्षज्ञानार्थत्वेनैव श्रवणे नियमविधिः । ‘द्रष्टव्य’ इति फलकीर्तनात् । तादर्थ्यञ्च तस्य करणभूतमनःसहकारितयैव न साक्षात् । शाब्दापरोक्षज्ञानानङ्गीकरणात् । न च तस्य तेन रुपेण तादर्थ्यं न प्राप्तमित्यपूर्वविधित्वप्रसङ्गः । श्रावणेषु षड्जादिषु समारोपितपरस्पराविवेकनिवृत्त्यर्थगान्धर्वशास्त्रश्रवणसहकृतश्रोत्रेण परस्परासङ्कीर्णतद्याथार्थ्यापरोक्ष्यदर्शनेन, प्रकाशमाने वस्तुनि आरोपिताविवेकनिवृत्त्यर्थशास्त्रसद्भावे तच्छ्रवणं तत्साक्षात्कारजनकेन्द्रियसहकारिभावेनोपयुज्यत इत्यस्य क्लृप्तत्वात् इति अपरे ।
वेदान्तवाक्यानाम् अद्वितीये ब्रह्मणि तात्पर्यनिर्णयानुकूलन्यायविचारात्मकचेतोवृत्तिविशेषरूपस्य श्रवणस्य न ब्रह्मणि परोक्षमपरोक्षं वा ज्ञानं फलम् , तस्य शब्दादिप्रमाणफलत्वात् । न च उक्तरूपविचारावधारिततात्पर्यविशिष्टशब्दज्ञानमेव श्रवणमस्तु तस्य ब्रह्मज्ञानं फलम् युज्यते इति वाच्यम् , ज्ञाने विध्यनुपपत्तेः ।श्रवणविधेर्विचारकर्तव्यताविधायकजिज्ञासासूत्रमूलत्वोपगमाच्च । ऊहापोहात्मकमानसक्रियारूपविचारस्यैव श्रवणत्वौचित्यात् । न च विचारस्यैव तात्पर्यनिर्णयद्वारा तज्जन्यतात्पर्यभ्रमादिपुरुषापराधरूपप्रतिबन्धकविगमद्वारा वा ब्रह्मज्ञानं फलमस्त्विति वाच्यम् । तात्पर्यज्ञानस्य शाब्दज्ञाने कारणत्वानुपगमात् कार्ये क्कचिदपि प्रतिबन्धकाभावस्य कारणत्वानुपगमाच्च तयोर्द्वारत्वानुपपत्तेः । ब्रह्मज्ञानस्य विचाररूपातिरिक्तकारणकत्वे तत्प्रामाण्यस्य परतस्त्वापत्तेश्च । तस्मात् तात्पर्यनिर्णयद्वरा परुषापराधनिरासार्थत्वेनैव विचाररूपे श्रवणे नियमविधिः । ‘द्रष्टव्यः’ इति तु दर्शनार्हत्वेन स्तुतिमात्रं न श्रवणफलसङ्कीर्तनम् इति सङ्क्षेपशारीरकानुसारिणः ।
ब्रह्मज्ञानार्थं वेदान्तश्रवणे प्रवृत्तस्य चिकित्साज्ञानार्थं चरकसुश्रुतादिश्रवणे प्रवृत्तस्येव मध्ये व्यापारान्तरेऽपि प्रवृत्तिः प्रसज्येत इति तन्निवृत्तिफलकः ‘श्रोतव्यः’ इति परिसङ्ख्याविधिः । ‘ब्रह्मसंस्थोऽमृतत्वमेति’ (छा.उ. २-२३-१) इति छान्दोग्ये अनन्यव्यापारत्वस्य मुक्त्युपायत्वावधारणात् , सम्पूर्वस्य तिष्ठतेः समाप्तिवाचितया ब्रह्मसंस्थाशब्दशब्दिताया ब्रह्मणि समाप्तेः अनन्यव्यापाररूपत्वात् । ‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ’(मु.उ.२-२-४) इत्याथर्वणे कण्ठत एव व्यापारान्तरप्रतिषेधाच्च , ’आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया’ इत्यादिस्मृतेश्च । न च ब्रह्मज्ञानानुपयोगिनो व्यापारान्तरस्य एकस्मिन् साध्ये श्रवणेन सह समुच्चित्य प्राप्त्यभावात् न तन्निवृत्त्यर्थः परिसङ्ख्याविधिर्युज्यत इति वाच्यम् । ’सहकार्यन्तरविधिः’ (ब्र.सू. ३-४-४७) इत्यादिसूत्रे ‘यस्मात् पक्षे भेददर्शनप्राबल्यान्न प्राप्नोति तस्मान्नियमविधिः’ इति तद्भाष्ये च कृतश्रवणस्य शाब्दज्ञानमात्रात् कृतकृत्यतां मन्वानस्य अविद्यानिवर्तकसाक्षात्कारोपयोगिनि निदिध्यासने प्रवृत्तिर्न स्यादिति अतत्साधनपक्षप्रप्तिमात्रेण निदिध्यासने नियमविधेरभ्युपगततया तन्न्यायेन असाधनस्य समुच्चित्य प्राप्तावपि तन्निवृत्तिफलकस्य परिसङ्ख्याविधेः सम्भवादिति । ‘नियमः परिसङ्ख्या वा विध्यर्थोऽत्र भवेत् , यतः । अनात्मादर्शनेनैव परात्मानमुपास्महे ॥’ (नै.सि.१-८८) इति वर्तिकवचनानुसारिणः किचित् आहुः ॥
‘आत्मा श्रोतव्यः’ इति मननादिवत् आत्मविषयकत्वेन निबध्यमानं श्रवणम् आगमाचार्योपदेशजन्यमात्मविषयं ज्ञानमेव न तात्पर्यविचाररूपम् इति न तत्र कोऽपि विधिः । अत एव समन्वयसूत्रे (ब्र.सू. १-१-४) आत्मज्ञानविधिनिराकरणानन्तरं भाष्यं "किमर्थानि तर्हि ’आत्मा वा अरे द्रष्टव्यः’ इत्यादीनि वचनानि विधिच्छायानि ? स्वभाविकप्रवृत्तिविषयविमुखीकरणार्थनीति ब्रूमः" इत्यादि ।
यदि च वेदान्ततात्पर्यविचारः श्रवणं तदा तस्य तात्पर्यनिर्णयद्वारा वेदान्ततात्पर्यभ्रमसंशयरूपप्रतिबन्धकनिरास एव फलं न प्रतिबन्धकान्तरनिरासो ब्रह्मावगमो वा । तत्फलकत्वं च तस्य लोकत एव प्राप्तम् , साधनान्तरं च किञ्चिद्विकल्प्य समुच्चित्य वा न प्राप्तम् , इति न तत्र विधित्रयस्याप्यवकाशः ।
विचारविध्यभावेऽपि विज्ञानार्थतया विधीयमानं गुरूपसदनं दृष्टद्वारसम्भवे अदृष्टकल्पनायोगात् गुरुमुखाधीनवेदान्तविचारद्वारैव विज्ञानार्थं पर्यवस्यतीति । अत एव स्वप्रयत्नसाध्यविचारव्यावृत्तिः । अध्ययनविध्यभावे तु उपगमनं विधीयमानम् अक्षरावाप्त्यर्थत्वेनाविधीयमानत्वात् न तदर्थं गुरुमुखोच्चारणानुच्चारणमध्ययनं द्वारीकरोतीति लिखितपाठादिव्यावृत्त्यसिद्धेः सफलोऽध्ययननियमविधिः ।
न च तात्पर्यभ्रमादिनिरासाय वेदान्तविचारार्थिनः कदाचित् द्वैतशास्त्रेऽपि प्रवृत्तिः स्यात् , तत्रापि तदभिमतयोजनया वेदान्तविचारसत्त्वात् , इत्यद्वैतात्मपरवेदान्तविचारनियमविधिरर्थवानिति वाच्यम् । स्वयमेव तात्पर्यभ्रमहेतोस्तस्य तन्निरासकत्वाभावेन साधनान्तरप्राप्त्यभावात् । तन्निरासकत्वभ्रमेण तत्रापि कस्यचित् प्रवृत्तिः स्यात् इत्येतावता श्रोतव्य इति नियमविधेरभ्युपगमः इत्यपि न । ईश्वरानुग्रहलब्धाद्वैतश्रद्धारहितस्य श्रोतव्यवाक्येऽपि पराभिमतयोजनया सद्वितीयात्मविचारविधिपरत्वभ्रमसम्भवेन भ्रमप्रयुक्ताया अन्यत्र प्रवृत्तेः विधिशतेनाप्यपरिहार्यत्वात् ।
न च व्यापारान्तरनिवृत्त्यर्था परिसङ्ख्येति वाच्यम् । असन्न्यासिनो व्यापारान्तरनिवृत्तेरशक्यत्वात् , सन्न्यासिनस्तन्निवृत्तः ब्रह्मसंस्थया सह सन्न्यासविधायकेन ‘ब्रह्मसंस्थोऽमृतत्वमेति’ इति श्रुत्यन्तरेण सिद्धतया, सन्न्यासविधायकश्रुत्यन्तरमपेक्ष्य श्रोतव्यवाक्येन तस्य व्यापारान्तरनिवृत्त्युपदेशस्य व्यर्थत्वात् ।
न च विचारविध्यसम्भवेऽपि विचारविषयवेदान्तनियमविधिः सम्भवति भाषाप्रबन्धादिव्यावर्त्यसत्त्वात् इति शङ्क्यम् । सन्निधानादेव वेदान्तनियमस्य लब्धत्वेन विधिविषयत्वायोगात् , ‘स्वाध्यायोऽध्येतव्यः’ इत्यर्थावबोधार्थनियमविधिबलादेव अध्ययनगृहीतवेदोत्पादितं वेदार्थज्ञानं फलपर्यवसायि न कारणान्तरोत्पादितम् इत्यस्यार्थस्य लब्धत्वेन वेदार्थे ब्रह्मणि मोक्षाय ज्ञातव्ये भाषाप्रबन्धादीनामप्राप्तेश्च ।
न च ‘सहकार्यन्तरविधिः’ इत्यधिकरणे पाण्डित्यबाल्यमौनशब्दितेषु श्रवणमनननिदिध्यासनेषु विधिरभ्युपगत इति वाच्यम् । विचारे विचार्यतात्पर्यनिर्णयहेतुत्वस्य वस्तुसिद्ध्यनुकूलयुक्त्यनुसन्धानरूपे मनने तत्प्रत्ययाभ्यासरूपे निदिध्यासने च वस्त्ववगमवैशद्यहेतुत्वस्य च लोकसिद्धत्वेन तेषु विध्यनपेक्षणात् । विधिच्छायार्थवादस्येव प्रशंसाद्वारा प्रवृत्त्यतिशयकरत्वमात्रेण तत्र विधित्वव्यवहारात् ।
एवं च श्रवणविध्यभावात् कर्मकाण्डविचारवत् ब्रह्मकाण्डविचारोऽप्यध्ययनविधि मूलः इति आचार्यवाचस्पतिपक्षानुसारिणः ॥
विचार्यस्य च ब्रह्मणः जगज्जन्मस्थितिलयकारणत्वं लक्षणमुक्तं ‘यतो वा इमानि भूतानि जायन्ते’ (तै.उ. ३-१-१) इत्यादिश्रुत्या । जगज्जन्मस्थितिलयेषु एकैककारणत्वमप्यनन्यगामित्वल्लक्षणं भवितुमर्हतीति चेत् , सत्यम् । लक्षणत्रयमेवेदं परस्परनिपरपेक्षम् । अत एव ‘अत्ताचराचरग्रहणात्’ (ब्र.सू. १-१-९) इत्याद्यधिकरणेषु सर्वसंहर्तृत्वादिकं प्रत्येकं ब्रह्मलिङ्गतया उपन्यस्तम् इति कौमुदीकाराः ।
अन्ये तु जन्मकारणत्वस्य स्थितिकारणत्वस्य च निमित्तसाधारण्यात् उपादानत्वप्रत्यायनाय प्रपञ्चस्य ब्रह्मणि लयो दर्शितः । अस्तु ब्रह्म जगदुपादानम् , तज्जन्मनि घटजन्मनि कुलालवत् तत्स्थितौ राज्यस्थेमनि राजवत् उपदानादन्यदेव निमित्तं भविष्यतीति शङ्काव्यवच्छेदाय तस्यैव जगज्जननजीवननियामकत्वमुक्तम् । तथा चैकमेवेदं लक्षणम् अभिन्ननिमित्तोपादानतया अद्वितीयं ब्रह्म उपलक्षयतीत्याहुः ।
ब्रह्मणश्च उपादानत्वम् अद्वितीयकूटस्थचैतन्यरूपस्य न परमाणूनामिवारम्भकत्वरूपम् , न वा प्रकृतेरिव परिणामित्वरूपम् , किं तु अविद्यया वियदादिप्रपञ्चरूपेण विवर्तमानत्वलक्षणम् । वस्तुनः तत्समसत्ताकोऽन्यथाभावः परिणामः तदसमसत्ताको विवर्तः इति वा, कारणसलक्षणोऽन्यथाभावः परिणामः तद्विलक्षणो विवर्तः इति वा, कारणाभिन्नं कार्यं परिणामः तदभेदं विनैव तद्व्यतिरेकेण दुर्वचं कार्यं विवर्तः इति वा, विवर्तपरिणामयोर्विवेकः ॥
अथ शुद्धं ब्रह्म उपादानमिष्यते, ईश्वररूपम् , जीवरूपं वा । अत्र संक्षेपशारीरकानुसारिणः केचिदाहुः − शुद्धमेवोपादानम् । जन्मादिसूत्रतद्भाष्ययोः उपादानत्वस्य ज्ञेयब्रह्मलक्षणत्वोक्तेः । तथा च ‘आत्मन आकाशस्सम्भूतः’ (तै.उ. २-१-१) इत्यादिकारणवाक्येषु शबलवाचिनामात्मादिशब्दानां शुद्धे लक्षणैवेति ॥
विवरणानुसारिणस्तु ‘यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायाते’ (मु.उ. १-१-९) इति श्रुतेः सर्वज्ञत्वादिविशष्टं मायाशबलमीश्वररूपमेव ब्रह्म उपादानम् । अत एव भाष्ये ‘अन्तस्तद्धर्मोपदेशात्’ (ब्र.सू. १-१-२०) ‘सर्वत्र प्रसिद्धोपदेशात्’ (ब्र.सू.१-२-१) इत्याद्यधिकारणेषु ‘सैव ऋक्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म’ (छा.उ. १-७-५)सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’ (छा.उ.३- १४ -४) इत्यादिश्रुत्युक्तं सर्वोपादानत्वप्रयुक्तं सर्वात्मकत्वं जीवव्यावृत्तमीश्वरलिङ्गमित्युपवर्णितम् । जीवेश्वरानुस्यूतचैतन्यमात्रस्य सर्वोपादानत्वे तु न तत् जीवव्यावृत्तमीश्वरलिङ्गं स्यत् । सङ्क्षेपशारीरके शबलोपादानत्वनिराकरणमपि मायाविशिष्टोपादानत्वनिराकरणाभिप्रायम् , न तु निष्कृष्टेश्वररूपचैतन्योपादानत्वनिराकरणपरम् ।तत्रैव प्रथमाध्यायान्ते जगदुपादानत्वस्य तत्पदार्थवृत्तित्वोक्तेः । एवञ्च ईश्वरगतमपि कारणत्वं तदनुगतमखण्डचैतन्यं शाखाचन्द्रमसमिव तटस्थतयोपलक्षयितुं शक्नोतीति तस्य ज्ञेयब्रह्मलक्षणत्वोक्तिरिति मन्यन्ते ।
वियदादिप्रपञ्च ईश्वराश्रितमायापरिणाम इति तत्रेश्वर उपादानम् । अन्तःकरणादिकं तु ईश्वराश्रितमायापरिणाममहाभूतोपसृष्टजीवाविद्याकृतभूतसूक्ष्मकार्यमिति तत्रोभयोरुपादानत्वम् । अत एव ‘एवमेवास्य परिद्रष्टुरिमाष्षोडशकलाः पुरुषायाणाः पुरुषं प्राप्यास्तं गच्छन्ति’ (प्र.उ. ६-५) इति श्रुतौ कलाशब्दवाच्यानां प्राणमनःप्रभृतीनां विदुषो विदेहकैवल्यसमये विद्यानिवर्त्यविद्याकार्यांशाभिप्रायेण विद्ययोच्छेदो दर्शितः । ‘गताः कलाः पञ्चदश प्रतिष्ठाः’ ( मु. उ. ३-२-७) इति श्रुत्यन्तरे तदनिवर्त्यमायापरिणाममहाभूतरूपोपष्ठम्भककार्यांशाभिप्रयेण तेषां स्वस्वप्रकृतिषु लयो दर्शित इति मायाऽविद्याभेदवादिनः ॥
यथा वियदादिप्रपञ्च ईश्वराश्रितमायापरिणाम इति तत्र ईश्वर उपादानम् , तथा अन्तःकरणादि जीवाश्रिताविद्यामात्रपरिणाम इति तत्र जीव एव उपादानम् ।न च अन्तःकरणादौ मायाकार्यमहाभूतानामप्यननुप्रवेशे उदाहृतश्रुतिद्वयव्यवस्थानुपपत्तिः । कलानां विद्ययोच्छेदश्रुतिस्तत्त्वविद्दृष्टिविषया । ‘गताः कलाः’ इति श्रुतिस्तु तत्त्वविदि म्रियमाणे समीपवर्तिनः पुरुषाः नश्यद्धटवत्तदीयशरीरादीनामपि भूम्यादिषु लयं मन्यन्ते इति तटस्थपुरुषप्रतीतिविषया, इति व्यवस्थायाः कलाप्रलयाधिकरणभाष्ये स्पष्टत्वादिति मायाऽविद्याभेदवादिष्वेकदेशिनः ॥
तदभेदवादिष्वपि केचित् - यद्यपि वियदादिप्रपञ्चस्य ईश्वर उपादानम् , तथाप्यन्तःकरणादीनां जीवतादात्म्यप्रतितेः जीव एवोपादानम् । अत एव अध्यासभाष्ये अन्तःकरणादीनां जीव एवाध्यासो दर्शितः, विवरणे च प्रतिकर्मव्यवस्थायां ब्रह्मचैतन्यस्योपादानतया घटादिसङ्गित्वं जीवचैतन्यस्य तदसङ्गित्वेऽप्यन्तःकरणादिसङ्गित्वं च वर्णितम् - इत्याहुः ॥
‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारणी’ (मु.उ. २-१-३) इत्यादिश्रुतेः कृत्स्नव्यावहारिकप्रपञ्चस्य ब्रह्मैव उपादानम् । जीवस्तु प्रातिभासिकस्य स्वाप्नप्रपञ्चस्य । ’कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा’ (ब्र.सू. २-१-७/२६) इत्यधिकरणे - ब्रह्मणो जगदुपादानत्वे तस्य कार्त्स्न्येन जगदाकारेण परिणामे विकारातिरेकेण ब्रह्माभावो वा एकदेशेन परिणामे निरवयवत्वश्रुतिविरोधो वा प्रसज्यत इति पूर्वपक्षे ‘आत्मनि चैवं विचित्राश्च हि’ (ब्र.सू.२-१-२८) इति सूत्रेण विवर्तवादाभिप्रायेण स्वप्नदृशि जीवात्मनि स्वरूपानुपमर्देनानेकाकारस्वाप्नप्रपञ्चसृष्टिवत् ब्रह्मणि वियदादिसृष्टिरुपपद्यत इति-सिद्धान्तितत्वादिति अन्ये ।
जीव एव स्वप्नद्रष्टृवत् स्वस्मिन्नीश्वरत्वादिसर्वकल्पकत्वेन सर्वकारणम् इत्यपि केचित् ।
अथ ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतेः, मायाजाड्यस्य घटादिष्वनुगमाच्च माया जगदुपादानं प्रतीयते । कथं ब्रह्मोपादानम् ?
अत्राहुः पदार्थतत्त्वनिर्णयकाराः −ब्रह्म माया चेत्युभयमुपादानमित्युभयश्रुत्युपपत्तिः । सत्ताजाड्यरूपोभयधर्मानुगत्युपपत्तिश्च । तत्र ब्रह्म विवर्तमानतया उपादानम् , अविद्या परिणममानतया । न च विवर्ताधिष्ठाने पारिभाषिकमुपादानत्वम् । स्वात्मनि कार्यजनिहेतुत्वस्योपादानलक्षणस्य तत्राप्यविशेषादिति ॥
केचित् उक्तामेव प्रक्रियामाश्रित्य विवर्तपरिणामोपादानद्वयसाधारणमन्यल्लक्षणमाहुः− स्वाभिन्नकार्यजनकत्वमुपादानत्वम् । अस्ति च प्रपञ्चस्य सद्रूपेण ब्रह्मणा विवर्तमानेन, जडेनाज्ञानेन परिणामिना च, अभेदः । ‘सन् घटः, जडो घटः’ इति सामानाधिकरण्यानुभवात् । न च ‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र.सू. २-१-१४) इति सूत्रे ‘अनन्यत्वं व्यतिरेकेणाभावः’ ‘न खल्वनन्यत्वमित्यभेदं ब्रूमः किं तु भेदं व्यासेधामः’ इति भाष्यभामतीनिबन्धनाभ्यां प्रपञ्चस्य ब्रह्माभेदनिषेधात् अभेदाभ्युपगमे अपसिद्धान्त इति वाच्यम् । तयोर्ब्रह्मरूपधर्मिसमानसत्ताकाभेदनिषेधे तात्पर्येण शुक्तिरजतयोरिव प्रातीतिकाभेदाभ्युपगमेऽपि विरोधाभावादिति ॥
सङ्क्षेपशारीरककृतस्तु - ब्रह्मैवोपादानम् , कूटस्थस्य स्वतः कारणत्वानुपपत्तेः माया ’द्वारकारणम्, अकारणमपि द्वारं कार्येऽनुगच्छति, मृद इव तद्गतश्लक्ष्णत्वादेरपि घटे अनुगमदर्शनात्’ , इत्याहुः ॥
वाचस्पतिमिश्रास्तु - जीवाश्रितमायाविषयीकृतं ब्रह्म स्वत एव जाड्याश्रयप्रपञ्चाकारेण विवर्तमानतया उपादानमिति माया सहकारिमात्रम् , न कार्यानुगतद्वारकारणम् इत्याहुः ॥
सिद्धान्तमुक्तावली कृतस्तु - मायाशक्तिरेवोपादानम् , न ब्रह्म । ‘तदेतत् ब्रह्मापूर्वमनपरमबाह्यम्’ (बृ.उ.२-५-१९) ‘ न तस्य कार्यं करणं च विद्यते’ (श्वे.उ. ६-८) इत्यादिश्रुतेः । जगुदुपादानमायाधिष्ठानत्वेन तु उपचारात् उपादानम् , तादृशमेवोपादानत्वं लक्षणे विवक्षितम् इत्याहुः ॥
अथ क ईश्वरः कश्च जीवः । अत्रोक्तम् प्रकटार्थविवरणे − अनादिरनिर्वाच्या भूतप्रकृतिः चिन्मात्रसम्बन्धिनी माया । तस्यां चित्प्रतिबिम्ब ईश्वरः, तस्या एव परिच्छिन्नानन्तप्रदेशेषु आवरणविक्षेपशक्तिमत्सु अविद्याभिधानेषु चित्प्रतिबिम्बो जीव इति ॥
तत्त्वविवेके तु - त्रिगुणात्मिकाया मूलप्रकृतेः ‘जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ (नृ.उ. ९-३) इति श्रुतिसिद्धौ द्वौ रूपभेदौ । रजस्तमोऽनभिभूतशुद्धसत्वप्रधाना माया, तदभिभूतमलिनसत्वप्रधाना अविद्या, इति मायाविद्याभेदं परिकल्प्य, मायाप्रतिबिम्ब ईश्वरः अविद्याप्रतिबिम्बो जीवः − इत्युक्तम् ॥
एकैव मूलप्रकृतिः विक्षेपप्राधान्येन मायाशब्दिता ईश्वरोपाधिः । आवरणप्राधान्येन अविद्याऽज्ञानशब्दिता जीवोपाधिः । अत एव तस्या जीवेश्वरसाधारणचिन्मात्रसम्बन्धित्वेऽपि जीवस्यैव ‘अज्ञोऽस्मि’इत्यज्ञानसम्बन्धानुभवः नेश्वरस्य - इति जीवेश्वरविभागः क्वचित् उपपादितः ।
संक्षेपशारीरके तु - ’कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’ इति श्रुतिमनुसृत्य अविद्यायां चित्प्रतिबिम्ब ईश्वरः । अन्तःकरणे चित्प्रतिबिम्बो जीवः । न च − अन्तःकरणरूपेण द्रव्येण घटेनाकाशस्येव चैतन्यस्यावच्छेदसम्भवात् तदवच्छिन्नमेव चैतन्यं जीवोऽस्तु − इति वाच्यम् । इह परत्र च जीवभावेनावच्छेद्यचैतन्यप्रदेशस्य भेदेन कृतहानाकृताभ्यागमप्रसङ्गात् । प्रतिबिम्बस्तु उपाधेर्गतागतयोरवच्छेद्यवत् न भिद्यत इति प्रतिबिम्बपक्षेनायं दोषः −इत्युक्तम् ।
एवमुक्तेष्वेतेषु जीवेश्वरयोः प्रतिबिम्बविशेषत्वपक्षेषु , यत् बिम्बस्थानीयं ब्रह्म तत् मुक्तप्राप्यं शुद्धचैतन्यम् ॥
चित्रदीपे - ‘जीव ईशो विशुद्धाचित्’ इति चित्त्रैविध्यप्रक्रियां विहाय यथा घटावच्छिन्नाकाशो घटाकाशः , तदाश्रिते जले प्रतिबिम्बितः साभ्रनक्षत्रो जलाकाशः, अनवच्छिन्नो महाकाशः, माहाकाशमध्यवर्तिनि मेघमण्डले वृष्टिलक्षणकार्यानुमेयेषु जलरूपतदवयवेषु तुषाराकारेषु प्रतिबिम्बतो मेघाकाशः , इति वस्तुत एकस्याप्याकाशस्य चातुर्विध्यम् , तथा स्थूलसूक्ष्मदेहद्वयस्य अधिष्ठानतया वर्तमानं तदवच्छिन्नं चैतन्यं कूटवन्निर्विकारत्वेन स्थितं कूटस्थम् । तत्र कल्पितेऽन्तःकरणे प्रतिबिम्बितं चैतन्यं संसारयोगी जीवः , अनवच्छिन्नं चैतन्यं ब्रह्म, तदाश्रिते मायातमसि स्थितासु सर्वप्राणिनां धीवासनासु प्रतिबिम्बितं चैतन्यम् ईश्वरः , इति चैतन्यस्य चातुर्विध्यं परिकल्प्य अन्तःकरणधीवासनोपरक्ताज्ञानोपाधिभेदेन जीवेश्वरविभागो दर्शितः ।
अयं चापरस्तदभिहितो विशेषः− चतुर्विधेषु चैतन्येषु जीवः ‘अहम्’ इति प्रकाशमानः कूटस्थे अविद्यातिरोहिताङ्गानन्दरूपविशेषांशे शुक्तौ रूप्यवदध्यस्तः । अत एव इदन्त्वरजतत्वयोरिव अधिष्ठानसामान्यांशाध्यस्तविशेषांशरूपयोः स्वयन्त्वाहन्त्वयोः सह प्रकाशः ‘स्वयमहं करोमि’ इत्यादौ । अहन्त्वं हि अध्यस्तविशेषांशरूपम् । पुरुषान्तरस्य पुरुषान्तरे ‘अहम्’ इति व्यवहाराभावेन व्यावृत्तत्वात् । स्वयन्त्वं च अन्यत्वप्रतियोग्यधिष्ठानसामान्यांशरूपम् । ‘स्वयं देवदत्तो गच्छति’ इति पुरुषान्तरेऽपि व्यवहारेण अनुवृत्तत्वात् । एवं परस्पराध्यासादेव कूटस्थजीवयोरविवेको लौकिकानाम् । विवेकस्तु तयोः बृहदारण्यके ‘प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’(बृ.उ.४-५-१३) इति जीवाभिप्रायेण उपाधिविनाशप्रतिपादनेन ‘अविनाशी वा अरेऽयमात्मा’(बृ.उ. ४-५-१४) इति कूटस्थाभिप्रायेणाविनाशप्रतिपादनेन च स्पष्टः । अहमर्थजीवस्य विनाशित्वे कथमविनाशिब्रह्मभेदः । नेदमभेदे सामानाधिकरण्यम्, किन्तु बाधायाम् । यथा ‘यः स्थाणुरेष पुमान्’ इति पुरुषत्वबोधेन स्थाणुत्वबुद्धिर्निवर्त्यते, एवं ‘अहं ब्रह्मास्मि’ इति कूटस्थब्रह्मस्वरूपत्वबोधेन अध्यस्ताहमर्थरूपत्वं निवर्त्यते । ‘योऽयं स्थाणुः पुमानेष पुंधिया स्थणुधीरिव । ब्रह्मास्मीति धियाऽशेषा ह्यहंबुद्धिर्निवर्तते ॥’ (नै.सि. २-२९) इति नैष्कर्म्यसिद्धिवचनात् ।
यदि च विवरणाद्युक्तरीत्या इदमभेदे सामानाधिकरण्यम् , तदा जीववाचिनोऽहंशब्दस्य लक्षणया कूटस्थपरत्वम् अस्तु । तस्यानध्यस्तस्य ब्रह्माभेदयोग्यत्वात् ।
यस्तु मेघाकाशतुल्यो धीवासनाप्रतिबिम्ब ईश्वर उक्तः सोऽयं ‘सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्’ (मा.उ. ५) इति माण्डूक्यश्रुतिसिद्धसौषुप्तानन्दमयः । तत्रैव तदनन्तरम् ‘एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्’ (मा.उ.६) इति श्रुतेः । सर्ववस्तुविषयकसकलप्राणिधीवासनोपाधिकस्य तस्य सर्वज्ञत्वस्य तत एव सर्वकर्तृत्वादेरपि उपपत्तेश्च । न चास्मद्बुद्धिवासनोपहितस्य कस्यचित् सार्वज्ञ्यं नानुभूयत इति वाच्यम् । वासनानां परोक्षत्वेन तदुपहितस्यापि परोक्षत्वात् इति ॥
ब्रह्मानन्दे तु - सुषुप्तिसंयोगात् माण्डूक्योक्त आनान्दमयो जीव इत्युक्तम् । यदा हि जाग्रदादिषु भोगप्रदस्य कर्मणः क्षये निद्रारूपेण विलीनमन्तःकरणं पुनर्भोगप्रदकर्मवशात् प्रबोधे घनीभवति, तदा तदुपाधिको जीवः विज्ञानमय इत्युच्यते । स एव पूर्वं सुषुप्तिसमये विलीनावस्थोपाधिकः सन् अनन्दमय इत्युच्यते । स एव माण्डूक्ये ‘सुषुप्तस्थानः’ इत्यादिना दर्शित इति ।
एवं सति तस्य सर्वेश्वरत्वादिवचनं कथं सङ्गच्छताम् ।
इत्थं - सन्त्यधिदैवतमध्यात्मं च परमात्मनः सविशेषाणि त्रीणि त्रीणिरूपाणि । तत्र अधिदैवतं त्रीणि शुद्धं चैतन्यं च इति चत्वारि रूपाणि चित्रपटदृष्टान्तेन चित्रदीपे समर्थितानि । यथा - स्वतश्शुभ्रः पटो धौतः, अन्नविलिप्तो घट्टितः, मष्याकारयुक्तो लाञ्छितः, वर्णपूरितो रञ्जितः, इत्यवस्थाचतुष्टयम् एकस्यैव चित्रपटस्य, तथा परमात्मा मायातत्कार्योपाधिरहितः शुद्धः मायोपहित ईश्वरः, अपञ्चीकृतभूतकार्यसमष्टिसूक्ष्मशरीरोपहितो हिरण्यगर्भः, पञ्चीकृतभूतकार्यसमष्टिस्थूलशरीरोपहितो विराट्पुरुषः, इत्यवस्थाचतुष्टयम् एकस्यैव परमात्मनः । अस्मिन् चित्रपटस्थानीये परमात्मनि चित्रस्थनीयः स्थावरजङ्गमात्मको निखिलप्रपञ्चः । यथा चित्रगतमनुष्याणां चित्राधारवस्त्रसदृशा वस्त्राभासा लिख्यन्ते, तथा परमात्माध्यस्तदेहिनाम् अधिष्ठानचैतन्यसदृशाश्चिदाभासाः कल्प्यन्ते, ते च जीवनामानः संसरन्ति − इति । अध्यात्मं तु विश्वतैजसप्राज्ञभेदेन त्रिणि रूपाणि । तत्र सुषुप्तौ विलीनेऽन्तःकारणे अज्ञानमात्रसाक्षी प्राज्ञः, योऽयमिहानन्दमय उक्तः । स्वप्ने व्यष्टिसूक्ष्मशरीराभिमानी तैजसः । जागरे व्यष्टिस्थूलशरीराभिमानी विश्वः । तत्र माण्डूक्यश्रुतिः अहमनुभावे प्रकाशमानस्यात्मनो विश्वतैजसप्राज्ञतुर्यावस्थाभेदरूपं पादचतुष्टयं ‘सोऽयमात्माचतुष्पात्’ (मा.उ. २) इत्युपक्षिप्य पूर्वपूर्वपादप्रविलापनेन निष्प्रपञ्चब्रह्मात्मकतुर्यपादप्रतिपत्तिसौकर्याय स्थूलसूक्ष्मतरोपाधिसाम्यात् विराडादीन् विश्वादिष्वन्तर्भाव्य ‘जागरितस्थानो बहिः प्रज्ञः’ (मा. उ. ३) इत्यादिना विश्वादिपादान्न्यरूपयत् । अतः प्राज्ञशब्दिते आनन्दमये आव्याकृतस्येश्वरस्यान्तर्भावं विवक्षित्वा तस्य सर्वेश्वरत्वादितद्धर्मवचनमिति । इत्थमेव भगवत्पादैर्गौडपादीयविवरणे व्याख्यातम् ।
दृग्दृश्यविवेके तु - चित्रदीपव्युत्पादितं कूटस्थं जीवकोटावन्तर्भाव्य चित्त्रैविध्यप्रक्रियैवावलम्बिता इति विशेषः । तत्र ह्युक्तम् - जलाशयतरङ्गबुद्बुदन्यायेन उपर्युपरिकल्पनात् जीवः त्रिविधः - पारमार्थिको व्यावहारिकः प्रातिभासिकश्चेति । तत्र अविच्छिन्नः पारमार्थिको जीवः । तस्मिन्नवच्छेदकस्य कल्पितत्वेऽपि अवच्छेद्यस्य तस्य अकल्पितत्वेन ब्रह्मणोऽभिन्नत्वात् । तमावृत्यस्थितायां मायायां कल्पितेऽन्तःकरणे चिदाभासः अन्तःकरणतादात्म्यापत्त्या ‘अहं’ इत्यभिमन्यमानो व्यावहारिकः । तस्य मायिकत्वेऽपि यावद्व्यवहारमनुवृत्तेः । स्वप्ने तमप्यावृत्त्य स्थितया मायावस्थाभेदरूपया निद्रया कल्पिते स्वप्नदेहादौ अहमभिमानी प्रातिभासिकः । स्वप्नप्रपञ्चेन सह तद्द्रष्टुर्जीवस्यापि प्रबोधे निवृत्तेः इति । एवम् एते प्रतिबिम्बेश्वरवादिनां पक्षभेदाः दर्शिताः ।
विवरणानुसारिणस्तु आहुः – ’विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते’ (वि.पु.६-७-९६) इति स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोपाधित्वप्रतिपादनात् बिम्बप्रतिबिम्बभावेन जीवेश्वरयोर्विभागः, न उभयोरपि प्रतिबिम्बभावेन । उपाधिद्वयमन्तरेण उभयोः प्रतिबिम्बत्वायोगात् । तत्रापि प्रतिबिम्बो जीवः बिम्बस्थनीय ईश्वरः । तथा सत्येव लौकिकबिम्बप्रतिबम्बदृष्टान्तेन स्वातन्त्र्यमीश्वरस्य तत्पारतन्त्र्यं च जीवस्य युज्यते ।
‘प्रतिबिम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः ।
पुमान् क्रीडेद्यथा ब्रह्म तथा जीवस्थविक्रियाः ॥’
इति कल्पतरूक्तरीत्या ‘लोकवत्तु लीलाकैवल्यम्’ (ब्र.सू. २-१-३३) इति सूत्रमपि सङ्गच्छते । अज्ञानप्रतिबिम्बितस्य जीवस्य अन्तःकरणरूपोऽज्ञानपरिणामभेदः विशेषाभिव्यक्तिस्थानं सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्पण इव । अतः तस्य तदुपाधिकत्वव्यवहारोऽपि । न एतावता अज्ञानोपाधिपरित्यागः । अन्तःकरणोपाधिपरिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहाधिष्ठानानुपपत्तेः । न च - योगप्रभावात् योगिनोऽन्तःकरणं कायव्यूहाभिव्यक्तियोग्यं वैपुल्यं प्राप्नोतीति तदवच्छिन्नस्य कायव्यूहाधिष्ठानं युज्यते -इति वाच्यम् । ‘प्रदीपवदावेशस्तथा हि दर्शयति’ (ब्र.सू. ४-४-१५) इति शास्त्रोपान्त्यधिकरणभाष्यादिषु कायव्यूहे प्रतिदेहमन्तःकरणस्य चक्षुरादिवत् भिन्नस्यैव योगप्रभावात् सृष्टेरुपवर्णनात् । प्रतिबिम्बे बिम्बात् भेदमात्रस्य अध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वात् न प्रतिबिम्बरूपजीवस्य मुक्त्यन्वयासम्भवः इति न तदतिरेकेण मुक्त्यन्वयाय अवच्छिन्नरूपजीवान्तरं वा (प्रतिबिम्बजीवातिरिक्तं) जिवेश्वरविलक्षणं कृटस्थशब्दितं चैतन्यान्तरं वा कल्पनीयम् । ‘अविनाशी वा अरेऽयमात्मा’ इति श्रवणं जीवस्य तदुपाधिनिवृत्तौ प्रतिबिम्बभावापगमेऽपि स्वरूपं न विनश्यतीत्येतत्परम् , न तदतिरिक्तकूटस्थनामकचैतन्यान्तरपरम् । जीवोपाधिना अन्तःकरणादिना अवच्छिन्नं चैतन्यं बिम्बभूत ईश्वर एव । ‘यो विज्ञाने तिष्ठन्’ (बृ.उ. ३-७-२२) इत्यादिश्रुत्या ईश्वरस्यैव जीवसन्निधानेन तदन्तर्यामिभावेन विकारान्तरवस्थानश्रवणात् इति ।
अन्ये तु - रूपानुपहितप्रतिबिम्बो न युक्तः, सुतरां नीरूपे ।
गगनप्रतिबिम्बोदाहरणमप्ययुक्तम् । गगनाभोगव्यापिनि सवितृकिरणमण्डले सलिलप्रतिबिम्बिते गगनप्रतिबिम्बत्वव्यवहारस्य भ्रममात्रमूलकत्वात् ।
ध्वनौ वर्णप्रतिबिम्बवादोऽप्ययुक्तः । व्यञ्जकतयासन्निधानमात्रेण ध्वनिधर्मणामुदात्तादिस्वराणां वर्णेष्वारोपोपपत्तेः ध्वनेर्वर्णप्रतिबिम्बग्राहित्वकल्पनाया निष्प्रमाणकत्वात् ।
प्रतिध्वनिरपि न पूर्वशब्दप्रतिबिम्बः । पञ्चीकरणप्रक्रियया पटहपयोनिधिप्रभृतिशब्दानां क्षितिसलिलादिशब्दत्वेन प्रतिध्वनेरेवाकाशशब्दत्वेन तस्य अन्यशब्दप्रतिबिम्बत्वायोगात् ।
वर्णरूपप्रतिशब्दोऽपि न पूर्ववर्णप्रतिबिम्बः । वर्णाभिव्यञ्जकध्वनिनिमित्तकप्रतिध्वनेः मूलध्वनिवदेव वर्णाभिव्यञ्जकत्वेनोपपत्तेः । तस्मात् घटाकाशवत् अन्तःकरणावच्छिन्नं चैतन्यं जीवः, तदनवच्छिन्नम् ईश्वरः ।
न चैवम् - अण्डान्तर्वर्तिनश्चैतन्यस्य तत्तदन्तःकरणोपाधिभिः सर्वात्मना जीवभावेनावच्छेदात् तदवच्छेदरहितचैतन्यरूपस्य ईश्वरस्य अण्डात् बहिरेव सत्त्वं स्यात् इति ‘यो विज्ञाने तिष्ठन्’ इत्यादौ अन्तर्यामिभावेन विकारान्तरवस्थानश्रवणं विरुध्येत । प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनात् एकत्र द्विगुणीकृत्य वृत्तिरुपपद्यते - इति वाच्यम् । यतः प्रतिबिम्बपक्षेऽपि उपाधौ अनन्तर्गतस्यैव चैतन्यस्य तत्र प्रतिबिम्बो वाच्यः, न तु जलचन्द्रन्यायेन कृत्स्नप्रतिबिम्बः । तदन्तर्गतभागस्य तत्र प्रतिबिम्बासम्भवात् । न हि मेघावच्छिन्नस्य आकाशस्यालोकस्य वा जले प्रतिबिम्बवत् जलान्तर्गतस्यापि तत्र प्रतिबिम्बो दृश्यते । न वा मुखादीनां बहिःस्थितिसमय इव जलान्तर्निमज्जनेऽपि प्रतिबिम्बोऽस्ति । अतो जलप्रतिबिम्बं प्रतिमेघाकाशादेरिव अन्तःकरणाद्युपाधिप्रतिबिम्बं प्रति तदनन्तर्गतस्यैव बिम्बत्वं स्यात् इति बिम्बभूतस्य विकारान्तरवस्थानायोगात् ईश्वरे अन्तर्यामिब्रह्मणसामञ्जस्याभावस्तुल्यः ।
एतेन - अवच्छिन्नस्य जीवत्वे कर्तृभोक्तृसमययोः तत्रतत्रान्तःकरणावच्छेद्यचैतन्यप्रदेशस्य भिन्नत्वात् कृतहानाकृताभ्यागमप्रसङ्ग इति - निरस्तम् ।
प्रतिबिम्बपक्षेऽपि स्वानन्तर्गतस्य स्वसन्निहितस्य चैतन्यप्रदेशस्य अन्तःकरणे प्रतिबिम्बस्य वक्तव्यतया तत्र तत्र अन्तःकरणस्य गमने बिम्बभेदात् तत्प्रतिबिम्बस्यापि भेदावश्यम्भावेन दोषतौल्यात् । न च अन्तःकरणप्रतिबिम्बो जीव इति पक्षे दोषतौल्येऽपि ‘अविद्याप्रतिबिम्बो जीवः, तस्य च तत्र तत्र गत्वरमन्तःकरणं जलाशयव्यापिनो महामेघमण्डलप्रतिबिम्बस्य तदुपरि विसृत्वरस्फीतालोक इव तत्र तत्र विशेषाभिव्यक्तिहेतुः’ इति पक्षे नायं दोषः, अन्तःकरणवत् अविद्यायाः गत्यभावेन प्रतिबिम्बभेदानापत्तेः इति - वाच्यम् । तथैव अवच्छेदपक्षेऽप्यविद्यावच्छिन्नो जीव इति उपगमसम्भवात् । तत्राप्येकस्य जीवस्य क्कचित् प्रदेशे कर्तृत्वं प्रदेशान्तरे भोक्तृत्वम् इत्येवं कृतहानादिदोषापनुत्तये वस्तुतो जीवैक्यस्य आदरणीयत्वेन तन्न्यायात् अन्तःकरणोपाधिपक्षेऽपि वस्तुतश्चैतन्यैक्यस्य तदवच्छेदकोपाध्यैक्यस्य च तन्त्रत्वाभ्युपगमेन तद्दोषनिराकरणसम्भवाच्च ।
न च अवच्छेदपक्षे ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा’ ‘अत एव चोपमा सूर्यकादिवत्‘ (ब्र.सू. ३-२-१८) इति श्रुतिसूत्राभ्यां विरोधः । ’अम्बुवदग्रहणात्तु न तथात्वम्’ (ब्र.सू. ३-२-१९) इति उदाहृतसूत्रानन्तरसूत्रेण यथा सूर्यस्य रूपवतः प्रतिबिम्बोदययोग्यं ततो विप्रकृष्टदेशं रूपवज्जलं गृह्यते, नैवं सर्वगतस्यात्मनः प्रतिबिम्बोदययोग्यं किञ्चिदस्ति ततो विप्रकृष्टम् इति प्रतिबिम्बासम्भवमुक्त्वा ‘वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्’ (ब्र.सू. ३-२-२०) इति तदनन्तरसूत्रेण ‘यथा जलप्रतिबिम्बितसूर्यो जलवृद्धौ वर्धत इव जलह्रासे ह्रसतीव जलचलने चलतीव इति तस्याध्यासिकं जलानुरोधिवृद्धिह्रासादिभाक्त्वम् , तथा आत्मनोऽन्तःकरणादिनाऽवच्छेदेन उपाध्यन्तर्भावात् आध्यासिकं तदनुरोधिवृद्धिह्रासादिभाक्त्वम् इत्येवं दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यात् अविरोधः’ इति स्वयं सूत्रकृतैव अवच्छेदपक्षे तयोः तात्पर्यकथनात् । ‘घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः ॥’ ’अंशो नानाव्यपदेशात्……..’ (ब्र.सू. २-३-४३) इति श्रुतिसूत्राभ्याम् अवच्छेदपक्षस्यैव परिग्रहाच्च ।
तस्मात् सर्वगतस्य चैतन्यस्य अन्तःकरणादिनाऽवच्छेदोऽवश्यम्भावी इति आवश्यकत्वात् अविच्छिन्नो जीवः - इति पक्षं रोचयन्ते ।
अपरे तु - न प्रतिबिम्बः नाप्यवच्छिन्नो जीवः । किं तु कौन्तेयस्यैव राधेयत्ववत् अविकृतस्यैव ब्रह्मणः अविद्यया जीवभावः । व्याधकुलसंवर्धितराजकुमारदृष्टान्तेन ‘ब्रह्मैव स्वाविद्यया संसरति, स्वविद्यया मृच्यते’ इति बृहदारण्यकभाष्ये प्रतिपादनात् । ’राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते । यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः ।’ (सं.वा. २३३ - २३४) इति वार्तिकोक्तेश्च । एवं च स्वाविद्यया जीवभावमापन्नस्यैव ब्रह्मणः सर्वप्रपञ्चकल्पकत्वात् ईश्वरोऽपि सह सर्वज्ञत्वादिधर्मैः स्वप्नोपलब्धदेवतादिवत् जीवकल्पितः इत्याचक्षते ।
आथायं जीव एकः, उतानेकः । अनुपदोक्तपक्षावलम्बिनः केचिदाहुः - एको जीवः । तेन चैकमेव शरीरं सजीवम् । अन्यानि स्वप्नदृष्टशरीराणीव निर्जीवानि । तदज्ञानकल्पितं सर्वं जगत् । तस्य स्वप्नदर्शनवद्यावदविद्यं सर्वो व्यवहारः । बद्धमुक्तव्यवस्थापि नास्ति जीवस्यैकत्वात् । शुकमुक्त्यादिकमपि स्वाप्नपुरुषान्तरमुक्त्यादिकमिव कल्पितम् । अत्र च सम्भावितसकलशङ्कापङ्कप्रक्षालनं स्वप्नदृष्टान्तसलिलधारयैव कर्तव्यम् − इति ।
अन्ये तु - अस्मिन्नेकशरीरैकजीववादे मनःप्रत्ययमलभमानाः ‘अधिकं तु भेदनिर्देशात्’ (ब्र.सू.२-१-२२) ‘लोकवत्तु लीलाकैवल्यम्’ (ब्र.सू. २-१-३३) इत्यादिसूत्रैः ‘जीवाधिक ईश्वर एव जगतः स्रष्टा, न जीवः, तस्य आप्तकामत्वेन प्रयोजनाभावेऽपि केवलं लीलाजगतः सृष्टिः’ इत्यादि प्रतिपादयद्भिः विरोधं च मन्यमानाः - हिरण्यगर्भ एको ब्रह्मप्रतिबिम्बो मुख्यो जीवः, अन्ये तु तत्प्रतिबिम्बभूताः चित्रपटलिखितमनुष्यदेहार्पितपटाभासकल्पाः जीवाभासाः संसारादिभाजः - इति सविशोषानेकशरीरैकजीववादमातिष्ठन्ते ।
अपरे तु - हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्यजीवत्वमित्यत्र नियामकं नास्तीतिमन्यमानाः − एक एव जीवोऽविशेषेण सर्वं शरीरमधितिष्ठति । नचैवं शरीरावयवभेद इव शरीरभेदेऽपि परस्परसुखाद्यनुसन्धानप्रसङ्गः । जन्मान्तरीयसुखाद्यनुसन्धानादर्शनेन शरीरभेदस्य तदननुसन्धानप्रयोजकत्वक्लृप्तेः । योगिनस्तु कायव्यूहसुखाद्यनुसन्धानं व्यवहितार्थग्रहणवत् योगप्रभावनिबन्धनमिति न तत् उदाहरणम् − इति अविशेषानेकशरीरैकजीववादं रोचयन्ते ।
इतरे तु अत्रापि बन्धमुक्तिव्यवस्थाभावस्य तुल्यत्वेन ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’ (बृ.उ. १-४-१०) इत्यादिश्रुतेः ‘प्रतिषेधादिति चेन्न शरीरात्’ (ब्र.सू.४-२-१२) इत्यधिकरणे शुकमुक्तत्वप्रतिपादकभाष्यस्य चानाञ्जस्यमित्यपरितुष्यन्तः अन्तःकरणादीनां जीवोपाधित्वाभ्युपगमेन अनेकजीववादमाश्रित्य बन्धमुक्तिव्यवस्थां प्रतिपद्यन्ते ।
तेषु केचिदेवमाहुः - यद्यपि शुद्धब्रह्माश्रयविषयमेकमेवाज्ञानम् , तन्नाश एव च मोक्षः तथापि जीवन्मुक्तावज्ञानलेशानुवृत्त्यभ्युपगमेन अज्ञानस्य सांशत्वात् तदेव क्वचिदुपाधौ ब्रह्मावगमोत्पत्तौ अंशेन निवर्तते, उपाध्यन्तरेषु यथापूर्वमंशान्तरैरनुवर्तते − इति ।
अन्ये तु - यथा न्यायैकदेशिमते भूतले घटात्यन्ताभावस्य वृत्तौ घटसंयोगाभावो नियामक इत्यनेकेषु प्रदेशेषु तद्वत्सु संसृज्य वर्तमानघटात्यन्ताभावः क्वचित्प्रदेशे घटसंयोगोत्पत्त्या तदभावनिवृत्तौ न संसृज्यते, एवमज्ञानस्य चैतन्ये वृत्तौ मनोनियामकमिति तदुपाधिना तत्प्रदेशेषु संसृज्य वर्तमानमज्ञानं क्वचिद्ब्रह्मदर्शनोत्पत्त्या ‘भिद्यते हृदयग्रन्थिः’ इति श्रुत्युक्तरीत्या मनसो निवृत्तौ न संसृज्यते, अन्यत्र यथापूर्वमवतिष्ठते । अज्ञानसंसर्गासंसर्गादेव च बन्धमोक्षौ - इत्याहुः ।
अपरे तु - नाज्ञानं शुद्धचैतन्याश्रयम् , किं तु जीवाश्रयं ब्रह्मविषयम् । अतश्च अन्तःकरणप्रतिबिम्बरूपेषु सर्वेषु जीवेषु व्यक्तिषु जातिवत् प्रत्येकपर्यवसिततया वर्तमानम् उत्पन्नविद्यं कञ्चिज्जहाति नष्टां व्यक्तिमिव जातिः स एव मोक्षः । अन्यं यथापूर्वमाश्रयति, इति व्यवस्था इत्याहुः ।
इतरे तु प्रतिजीवमविद्याभेदमभ्युपगम्यैव तदनुवृत्तिनिवृत्तिभ्यां बन्धमुक्तिव्यवस्थां समर्थयन्ते ।
अस्मिन पक्षे कस्याविद्यया प्रपञ्चः कृतोऽस्त्विति चेत् −
विनिगमकाभावात् सर्वाविद्याकृतोऽनेकतन्त्वारब्धपटतुल्यः, एकस्य मुक्तौ तदविद्यानाशे एकतन्तुनाशे पटस्येव तत्साधारणप्रपञ्चस्य नाशः, तदैव विद्यमातन्त्वन्तरैः पटान्तरस्येव इतराविद्याभिः सकलेतरसाधारणप्रपञ्जान्तरस्योत्पादनम् इत्येके ।
तत्तदज्ञानकृतप्रातिभासिकरजतवत् न्यायमते तत्तदपेक्षाबुद्धिजन्यद्वित्त्ववच्च तत्तदविद्याकृतो वियदादिप्रपञ्च प्रतिपुरुषं भिन्नः । शुक्तिरजते ‘त्वया यद्दृष्टं रजतं तदेव मयापि’ इतिवत् ऐक्यभ्रममात्रम् − इत्यन्ये ।
जिवाश्रिताविद्यानिवहाद्भिन्ना मायैव ईश्वराश्रिता प्रपञ्चकारणम् । जीवानामविद्यास्तु आवरणमात्रे प्रातिभासिकशुक्तिरजतादिविक्षेपेऽपि वा उपयुज्यन्ते − इत्यपरे ।
अवसितम् उपादानत्वम्, तत्प्रसक्तानुप्रसक्तं च ।
अथ किदृशं कत्वर्तृम् ।
केचिदाहुः - ‘तदैक्षत’ (छा.उ.६-२-३) ‘सोऽकामयत’ (तै.उ.२-६-४) ‘तदात्मानं स्वयमकृरुत’ (तै.उ.२-७-१) इति श्रवणात् न्यायमत इव कार्यानुकूलज्ञानचिकीर्षाकृतिमत्त्वरूपमिति ।
0
अन्ये तु - चिकीर्षाकृतिकर्तृत्वनिर्वाहाय चिकीर्षाकृत्यन्तरापेक्षायाम् अनवस्थाप्रसङ्गात् कार्यानुकूलज्ञानवत्त्वमेव ब्रह्मणः कर्तृत्वम् । न च ज्ञानेऽप्येष प्रसङ्गः । तस्य ब्रह्मस्वरूपत्वेनाकार्यत्वात् । एवं च − विवरणे जीवस्य सुखादिकर्तृत्वोक्तिः, वीक्षणमात्रसाध्यत्वात् वियदादि वीक्षितं हिरण्यगर्भद्वारा साध्यं वीक्षणाधिकयत्नसाध्यत्वात् भौतिकं स्मितम् इति कल्पतरूक्तिश्च सङ्गच्छते− इति वदन्ति ।
अपरे तु कार्यानुकूलस्रष्टव्यालोचनरूपज्ञानवत्त्वं कर्तृत्वम् , न कार्यानुकूलज्ञानवत्त्वमात्रम् । शुक्तिरजतस्वाप्नभ्रमादिषु अध्यासानुकूलाधिष्ठानज्ञानवत्त्वेन जीवस्य कर्तृत्वप्रसङ्गात् । न च इष्टापत्तिः - ‘अथ रथान् रथयोगान् पथः सृजते...स हि कर्ता ’ (बृ.उ. ४-३-१०) इत्यादिश्रुत्यैव जीवस्य स्वप्नप्रपञ्चकर्तृत्वोक्तेः - इति वाच्यम् । भाष्यकारैः ‘लाङ्गलं गवादीनुद्वहतीतिवत् कर्तृत्वोपचारमात्रं रथादिप्रतिभाननिमित्तत्वेन’ इति व्याख्यातत्वात् इत्याहुः ।
अनेनैव निखिलप्रपञ्चरचनाकर्तृभावेनार्थसिद्धिं सर्वज्ञत्वं ब्रह्मणः ‘शास्त्रयोनित्वात्’ (ब्र.सू. १-१-३) इत्यधिकरणे वेदकर्तृत्वेनापि समर्थितम् ।
अथ कथं ब्रह्मणःसर्वज्ञत्वं सङ्गच्छते, जीववत् अन्तःकरणाभावेन ज्ञातृत्वस्यैवायोगात् । अत्र सर्ववस्तुविषयसकलप्राणिधीवासनोपरक्ताज्ञानोपाधिक ईश्वरः, अतस्तस्य सर्वविषयवासनासाक्षितया सर्वज्ञत्वम् इति भारतीतीर्थादि पक्षः प्रगेव दर्शतः ।
प्रकटार्थकारास्त्वाहुः - यथा जीवस्य स्वोपाध्यन्तःकरणपरिणामाश्चैतन्यप्रतिबिम्बग्राहिणः (सन्ति) इति तद्योगात् ज्ञातृत्वम् , एवं ब्रह्मणः स्वोपाधिमायापरिणामश्चित्प्रतिबिम्बग्राहिणस्सन्तीति तत्प्रतिबिम्बितैः स्फुरणैः कालत्रयवर्तिनोऽपि प्रपञ्चस्यापरोक्ष्येणाकलनात् सर्वज्ञत्वमिति ।
तत्त्वशुद्धिकारास्तु - उक्तरीत्या ब्रह्मणो विद्यमाननिखिलप्रपञ्चसाक्षात्कारसम्भवः, तज्जनिततत्संस्कारवृत्तया च स्मरणोपपत्तेरतीतसकलवस्त्ववभाससिद्धिः, सृष्टेः प्राक् मायायाः सृज्यमाननिखिलपादार्थस्फुरणरूपेण जीवादृष्टानुरोधेन विवर्तमानत्वात् तत्साक्षितया तदुपाधिकस्य ब्रह्मणोऽपि तत्साधकत्वसिद्धेः अनागतवस्तुविज्ञानोपपत्तिः, इति सर्वज्ञत्वं समर्थयन्ते ।
कौमुदीकृतस्तु वदन्ति - स्वरूपज्ञानेनैव ब्रह्मणः स्वसंसृष्टसर्वावभासकत्वात् सर्वज्ञत्वम् । अतीतानागतयोरपि अविद्याचित्रभित्तौ विमृष्टानुन्मीलितचित्रवत् संस्कारात्मना सत्त्वेन तत्संसर्गस्याप्युपपत्तेः । न तु वृत्तिज्ञानैः तस्य सर्वज्ञत्वम् । ‘तमेव भान्तमनुभाति सर्वम्’ (क.उ.२-२-१५) इति सावधारणश्रुतिविरोधात् , सृष्टेः प्राक् ‘एकमेवाद्वितीयम्’ (छा.उ. ६-२-१) इत्यवधारणानुरोधेन महाभूतानामिव वृत्तिज्ञानानामपि प्रलयस्य वक्तव्यतया ब्रह्मणः तदा सर्वज्ञत्वाभावापत्त्या प्राथमिकमायाविवर्तरूपे ईक्षणे तत्पूर्वके महाभूतादौ च स्रष्टृत्वाभावप्रसङ्गाच्च । एवं सति ब्रह्मणस्सर्वविषयज्ञानात्मकत्वमेव स्यात् , न तु सर्वज्ञानकर्तृत्वरूपम् सर्वज्ञत्वम् , इति चेत् - सत्यम् । सर्वविषयज्ञानात्मकमेव ब्रह्म, न तु सर्वज्ञानकर्तृत्वरूपं ज्ञातृत्वमस्ति । अत एव ‘वाक्यान्वयात्’ (ब्र.सू. १-४-६/१९) इत्यधिकरणे विज्ञातृत्वं जीवलिङ्गमित्युक्तं भाष्यकारैः । ‘यस्सर्वज्ञः’ इत्यादिश्रुतिरपि तस्य ज्ञानरूपत्वाभिप्रायेणैव योजनीया इति ।
यद्यपि ब्रह्म स्वरूपचैतन्येनैव स्वसंसृष्टसर्वावभासकम् , तथापि तस्य स्वरूपेणाकार्यत्वेऽपि दृश्यावच्छिन्नरूपेण ब्रह्मकार्यत्वात् ‘यस्सर्वज्ञः’ इत्यादिज्ञानजनिकर्तृत्वश्रुतेरपि न कश्चिद्विरोधः इति वाचस्पतिमिश्राः ।
ननु ईश्वरवज्जीवोऽपि वृत्तिमनपेक्ष्य स्वरूपचैतन्येनैव किमिति विषयान्नावभासयति ॥
अत्रोक्तं विवरणे − ‘ब्रह्मचैतन्यं सर्वोपादानतया सर्वतादात्म्यापन्नं यत्स्वसंसृष्टं सर्वमवभासयति न जीवचैतन्यम् । तस्य अविद्योपाधिकतया सर्वगतत्वेऽपि अनुपादानत्वेन असङ्गित्वात् । यथा सर्वगतं गोत्वसामान्यं स्वभावादश्वादिव्यक्तिसङ्गित्वाभावेऽपि सास्नादिमद्व्यक्तौ संसृज्यते, एवं विषयान्तरासङ्ग्यपि जीवः स्वभावादन्तःकरणेन संसृज्यते । तथा च यदा अन्तःकरणस्य परिणामो वृत्तिरूपो नयनादिद्वारेण निर्गत्य विषयपर्यन्तं चक्षुरश्मिरिव झटिति दीर्घप्रभाकारेण परिणम्य विषयं व्याप्नोति, तदा तमुपारुह्य तं विषयं गोचरयति । केवलाग्न्यदाह्यस्यापि तृणादेः अयःपिण्डसमारूढाग्निदाह्यत्ववत् केवलजीवचैतन्यप्रकाश्यस्यापि घटादेः अन्तःकरणवृत्त्युपारूढतत्प्रकाश्यत्वं युक्तम् ।
यद्वा अन्तःकरणोपाधिकत्वेन जीवः परिच्छिन्नः । अतः संसर्गाभावात् न घटादिकमवभासयति । वृत्तिद्वारा तत्संसृष्टविषयावच्छिन्नब्रह्मचैतन्याभेदाभिव्यक्तौ तु तं विषयं प्रकाशयति ।
अथवा जीवः सर्वगतोऽप्यविद्यावृत्तित्वात् स्वयमप्यप्रकाशमानतया विषयान्नावभासयति । विषयविशेषे वृत्त्युपरागादौ आवरणतिरोधानेन तत्रैवाभिव्यक्तः तमेव विषयं प्रकाशयति । एवं च चिदुपरागार्थत्वेन , विषयचैतन्याभेदाभिव्यक्त्यर्थत्वेन , आवारणाभिभवार्थत्वेन वा वृत्तिनिर्गममपेक्ष्य तत्संसृष्टविषयमात्रावभासकत्वात् जीवस्य किञ्चिज्ज्ञत्वमप्युपपद्यते - इति ।
अत्र प्रथमे पक्षे सर्वगतस्य जीवस्य वृत्त्यधीनः को विषयोपरागः । वृत्त्यापि पूर्वसिद्धयोर्निष्क्रिययोर्विषयजीवचैतन्ययोस्तादात्म्यस्य संयोगस्य वा न सम्भवत्याधानम् ।
अत्र केचिदाहुः − विषयविषयिभावसम्बन्ध एवेति ।
अन्ये तु − विषयविषयिभावमात्रे नियामिका वृत्तिश्चेत् अनिर्गताया अपि ऐन्द्रियकवृत्तेः तन्नियामकत्वं नातिप्रसङ्गावहमिति तन्निर्गमाभ्युपगमवैयर्थ्यापत्तेः स नाभिसंहितः, किं तु विषयसन्निहितजीवचैतन्यतादात्म्यापन्नाया वृत्तेर्विषयसंयोगे तस्यापि तद्द्वारकः परम्परासम्बन्धो लभ्यत इति स एव चिदुपरागोऽभिसंहितः - इत्याहुः ।
अपरे तु - साक्षादपरोक्षचैतन्यसंसर्गेणैव सुखादेरपरोक्ष्यदर्शनात् अपरोक्षविषये साक्षात्संसर्ग एष्टव्यः । तस्माद्वृत्तेर्विषयसंयोगे वृत्तिरूपावच्छेदकलाभात् तदवच्छेदेन तदुपादानस्य जीवस्यापि संयोगजसंयोगः सम्भवति । कारणाकारणसंयोगात् कार्याकार्यसंयोगवत् कार्याकार्यसंयोगात् कारणाकारणसंयोगस्यापि युक्तितौल्येनाभ्युपगन्तुं युक्तत्वात् - इत्याहुः ।
एकदेशिनस्तु - अन्तःकरणोपहितस्य विषयावभासकचैतन्यस्य विषयतादात्म्यापन्नब्रह्मचैतन्याभेदाभिव्यक्तिद्वारा विषयतादात्म्यसम्पादनमेव चिदुपरागोऽभिसंहितः । सर्वगततया सर्वविषयसन्निहितस्यापि जीवस्य तेन रूपेण विषयावभासकत्वे तस्य साधारणतया पुरुषविशेषापरोक्षव्यवस्थित्ययोगेन तस्य अन्तःकरणोपहितत्वरूपेणैव विषयावभासकत्वात् । एवं च विषयापरोक्ष्ये आध्यासिकसम्बन्धो नियामक इति सिद्धान्तोऽपि सङ्गच्छ्ते । न चैवं द्वितीयपक्षसाङ्कर्यम् । जीवस्य सर्वगतत्वे प्रथमःपक्षः, परिच्छिन्नत्वे द्वितीयः, इत्येव तयोर्भेदात् - इत्याहुः ।
अथ द्वितीयपक्षे केयमभेदाभिव्यक्तिः ?
केचिदाहुः− कुल्याद्वारा तटाककेदारसलिलयोरिव विषयान्तःकरणावच्छिन्नचैतन्ययोः वृत्तिद्वारा एकीभावोऽभेदाभिव्यक्तिः । एवं च यद्यपि विषयावच्छिन्नं ब्रह्मचैतन्यमेव विषयप्रकाशकम् , तथाऽपि तस्य वृत्तिद्वारा एकीभावेन जीवत्वं सम्पन्नमिति जीवस्य विषयप्रकाशोपपत्तिरिति ।
अन्येत्वाहुः – बिम्बस्थानीयस्य विषयावच्छिन्नस्य ब्रह्मणः प्रतिबिम्बभूतेन जीवेन एकीभावो नाभेदाभिव्यक्तिः । व्यावर्तकोपाधौ दर्पण इव जाग्रति तयोरेकीभावायोगात् , वृत्तिकृताभेदाभिव्यक्त्या विषयावच्छिन्नस्य ब्रह्मणो जीवत्वप्राप्तौ ब्रह्मणस्तदा तद्विषयसंसर्गाभावेन तद्द्रष्टृत्वासम्भवे सति तस्य सर्वज्ञत्वाभावापत्तेश्च । किं तु विषयावच्छिन्नं ब्रह्मचैतन्यं विषयसंसृष्टाया वृत्तेः अग्रभागे विषयप्रकाशकं प्रतिबिम्बं समर्पयतीति तस्य प्रतिबिम्बस्य जीवेनैकीभावः । एवं च अन्तःकरणतद्वृत्तिविषयावच्छिन्नचैतन्यानां प्रमातृप्रमाणप्रमेयभावेन असङ्करोऽप्युपपद्यते । न च वृत्त्युपहितचैतन्यस्य विषयप्रमात्वे तस्य विषयाधिष्ठानचैतन्यस्येव विषयेणाध्यासिकसम्बन्धाभावात् विषयापरोक्ष्ये आध्यासिकसम्बन्धस्तन्त्रं न स्यादिति वाच्यम् , विषयाधिष्ठानचैतन्यस्यैव विषयेणावच्छिन्नस्य वृत्तौ प्रतिबिम्बिततया तदभेदेन तत्सम्बन्धस्यैव तत्सम्बन्धत्वादिति ।
अपरे त्वाहुः - बिम्बभूतविषयाधिष्ठानचैतन्यमेव साक्षादाध्यासिकसम्बन्धलाभात् विषयप्रकाशकमिति तस्यैव बिम्बत्वविशिष्टरूपेण भेदसद्भावेऽपि तदुपलक्षितचैतन्यात्मना एकीभावोऽभेदाभिव्यक्तिः । न चैवं सति जीवब्रह्मसाङ्कर्यम् , न वा ब्रह्मणः सर्वज्ञत्वविरोधः । बिम्बात्मना तस्य यथापूर्वमवस्थानादिति ।
अथ तृतीयपक्षे को नामावरणाभिभवः ? अज्ञाननाशश्चेत् , घटज्ञानेनैवाज्ञानमूलः प्रपञ्चो निर्वर्तेत - इति चेत्
अत्र केचिदाहुः − चैतन्यमात्रावारकस्याज्ञानस्य विषयावच्छिन्नप्रदेशे खद्योतादिप्रकाशेन महान्धकारस्येव ज्ञानेन एकदेशेन नाशो वा, कटवत् संवेष्टनं वा, भीतभटवदपसरणं वाऽभिभव इति ।
अन्ये तु - अज्ञानस्य एकदेशेन नाशे उपादानाभावात् पुनस्तत्र कन्दलनायोगेन सकृदवगते समयान्तरेऽप्यावरणाभावप्रसङ्गात् , निष्क्रियस्यापसरणसंवेष्टनयोरसम्भवाच्च न यथोक्तरूपोऽभिभवः सम्भवति । अतः चैतन्यमात्रावारकस्याप्यज्ञानस्य तत्तदाकारवृत्तिसंसृष्टावस्थविषयावच्छिन्नचैतन्यानावरकत्वस्वाभाव्यमेव अभिभवः । न च विषयावगुण्ठनपटवत् विषयचैतन्यमाश्रित्यस्थितस्याज्ञानस्य कथं तदनावारकत्वं युज्यत इति शङ्क्यम् । ‘अहमज्ञः’ इति प्रतीत्या अहमनुभवे प्रकाशमानचैतन्यमाश्रयत एव तस्य तदनावारकत्वसम्प्रतिपत्तेः− इत्याहुः ।
अपरे तु − ‘घटं न जानामि’ - इति घटज्ञानविरोधित्वेन, घटज्ञाने सति ’घटाज्ञानं निवृत्तम्’ इति तन्निवर्त्यत्वेन च अनुभूयमानं न मूलाज्ञानम् । शुद्धचैतन्यविषयस्य तज्ज्ञाननिवर्त्यस्य च तस्य तथात्वायोगात् । किन्तु घटावच्छिन्नचैतन्यविषयं मूलाज्ञानस्यावस्थाभेदरूपमज्ञानान्तरमिति तन्नाश एवाभिभवः । न चैवमेकेन ज्ञानेन तन्नाशे तत्समानविषयाणां ज्ञानान्तराणाम् आवरणानाम् आवरणानभिभावकत्वापत्तिः । यावन्ति ज्ञानानि, तावन्ति तन्निवर्त्यानि अज्ञानानि इत्यभ्युपगमात् − इत्याहुः ।
इमानि च अवस्थारूपाणि अज्ञानानि मूलाज्ञानवदज्ञानत्वात् अनादीनीति केचित् ।
व्यावहारिकौ जगज्जीवावावृत्य स्वाप्नौ जगज्जीवौ विक्षिपन्ती निद्रा तावत् आवरणविक्षेपशक्तियोगात् , अज्ञानावस्थाभेदरूपा । तथा निद्रासुषुत्यवस्थाऽपि अन्तःकरणादौ विलीने ‘सुखमहमस्वाप्सं न किञ्जिदवेदिषम्’ इति परामर्शदर्शनात् मूलाज्ञानवत् सुषुप्तिकालेऽनुभूयमाना अज्ञानावस्था भेदरूपैव । तयोश्च जाग्रद्भोगप्रदकर्मोपरमे सत्येवोद्भवात् सादित्वमिति, तद्वत् अन्यदप्यज्ञानमवस्थारूपं सादि इति अन्ये ।
ननु - अनादित्वपक्षे घटे प्रथममुत्पन्नेनैव ज्ञानेन सर्वतदज्ञाननाशो भवेत् , विनिगमनाविरहात् , तदवच्छिन्नचैतन्यावरकसर्वाज्ञानानाशे विषयप्रकाशायोगाच्च ।अतः पाश्चात्यज्ञानानाम् आवरणानभिभावकत्वं तदवस्थमेवेति चेत् −
अत्र केचित् आहुः− यथा ज्ञानप्रागभावानामनेकेषां सत्त्वेऽप्येकज्ञानोदये ‘एक एव प्रागभावो निवर्तते, संशयादिजननशक्ततया तदावरणरूपेषु प्रागभावान्तरेषु सत्स्वपि विषयावभासः; तथा एकज्ञानोदये एकमेवाज्ञानं निवर्तते, अज्ञानान्तरेषु सत्स्वपि विषयावभासः- इति ।
अन्येतु − आवृतस्यापरोक्षज्ञानं विरुद्धम् , एकज्ञानोदये च प्रागभावान्तरसत्त्वेऽपि यावद्विशेषदर्शनाभावकूटरूपमावरणं विशेषदर्शनान्नास्तीति मन्यमाना वदन्ति − यदा यदज्ञानमावृणोति तदा तेन ज्ञानेन तस्यैव नाशः । सर्वं च सर्वदा नावृणोति , वैयर्थ्यात् । किं तु आवरकाज्ञाने वृत्त्या नाशिते तद्वृत्त्युपरमे अज्ञानान्तरमावृणोति । न चैवं सति ब्रह्मावगमोत्पत्तिकालेऽनावारकत्वेन स्थितानामज्ञानानां ततोऽप्यनिवृत्तिप्रसङ्गः । तेषां साक्षात्तद्विरोधित्वाभावेऽपि तन्निवर्त्यमूलाज्ञानपरतन्त्रतया अज्ञानसम्बन्धादिवत् तन्निवृत्त्यैव निवृत्त्युपपत्तेः । एतदर्थमेव तेषां तदवस्थाभेदरूपतया तत्पारतन्त्र्यमिष्यते − इति ।
अपरे तु ‘अज्ञानस्य सविषयस्वभावत्वात् उत्सर्गतः सर्वं सर्वदा आवृणोत्येव । न च विषयोत्पत्तेः प्रागावरणीयाभावेन आवारकत्वं न युज्यत इति वाच्यम् , तदापि सूक्ष्मरूपेण तत्सत्त्वात्’ इति मन्यमानाः कल्पयन्ति− यथा बहुजनसमाकुले प्रदेशे कस्यचित् शिरसि निपतन्नशनिः इतरानप्यपसारयति, यथा वा सन्निपातहरमौषधम् एकं दोषं निवर्तयद्दोषान्तरमपि दूरीकरोति, एवमेकमज्ञानं नाशयत् ज्ञानम् अज्ञानान्तराण्यपि तिरस्करोति । तिरस्कारश्च यावत् ज्ञानस्थितिः तावत् आवरणशक्तिप्रतिबन्धः − इति ।
नन्वेवं सति धारावाहिकस्थले द्वितीयादिवृत्तीनामावरणानभिभावकत्वेन वैफल्यं स्यात् , प्रथमज्ञानेनैव निवर्तनतिरस्काराभ्यामावरणमात्रस्याभिभावादिति −
अत्राहुः− वृत्तितिरस्कृतमज्ञानं तदुपरमे पुनरावृणोति प्रदीपतिरस्कृतं तम इव प्रदीपोपरमे । वृत्त्युपरमसमये वृत्त्यन्तरोदये तु तिरस्कृतमज्ञानं तथैवावतिष्ठते प्रदीपोपरमसमये प्रदीपान्तरोदये तम इव । तथा च ’यस्मिन् सति अग्रिमक्षणे यस्य सत्त्वं, यद्व्यतिरेके चासत्त्वं, तत्तज्जन्यम्’ इति प्रागभावपरिपालनसाधारणलक्षणानुरोधेन अनावरणस्य द्वितीयादिवृत्तिकार्यत्वस्यापि लाभात् न तद्वैफल्यमिति ।
न्यायचन्द्रिकाकृतस्तु आहुः − केनचिज्ज्ञानेन कस्यचिदज्ञानस्य नाश एव, न तु आवारकाणामप्यज्ञानान्तराणां तिरस्कारः । तथा च धारावाहिकद्वितीयादिवृत्तीनामपि एकैकाज्ञाननाशकत्वेन साफल्यम् । न चैवं ज्ञानोदयेऽप्यावरणसम्भवाद्विषयानवभासप्रसङ्गः । अवस्थारूपाण्यज्ञानानि हि तत्तत्कालोपलक्षितस्वरूपावारकाणि, ज्ञानानि च यावत्स्वकालोपलक्षितविषयावारकाज्ञाननाशकानि । तथा च किञ्चज्ज्ञानोदये तत्कलीनविषयावाराकाज्ञानस्य नाशात् विद्यमानानामज्ञानान्तराणामन्यकालीनविषयावारकत्वाच्च न तत्कालीनविषयावभासे काचिदनुपपत्तिः । कारीरीफले वृष्टौ आसन्नसमयस्येव अज्ञानविषये घटादौ तत्तत्कालस्य उपलक्षणतया विषयकोटावननुप्रवेशेन सूक्ष्मतत्तत्कालभेदाविषयैर्धारावाहिकद्वितीयादिज्ञानैरज्ञानानां निवृत्तावपि न काचिदनुपपत्तिरिति ।
केचित्तु − प्रथमज्ञाननिवर्त्यमेवाज्ञानं स्वरूपावारकम् । द्वितीयादिज्ञाननिवर्त्यानि तु देशकालादिविशेषणान्तरविशिष्टविषयाणि । अत एव सत्तानिश्चयरूपे अज्ञाननीवर्तके चैत्रदर्शने सकृज्जाते ‘चैत्रं न जानामि’ इति स्वरूपावरणं नानुभूयते, किं तु ‘ इदनीं स कुत्रेति न जानामि’ इत्यादिरूपेण विशिष्टावरणमेव । विस्मरणशालिनः क्कचित् सकृत् दृष्टेऽपि ‘न जानामि’ इति स्वरूपावरणं दृश्यते चेत् ,तत्र तथाऽस्तु । अन्यत्र सकृद्दृष्टे विशिष्टविषयान्येवाज्ञानानि ज्ञानानि च । न च - एवं सति धारावाहिकद्वितीयादिज्ञानानामज्ञाननिवर्तकत्वं न स्यात् । स्थूलकालविशिष्टाज्ञानस्य प्रथमज्ञानेनैव निवृत्तेः, पूर्वापरज्ञानव्यावृत्तसूक्ष्मकालविशिष्टाज्ञानस्य तदविषयैर्द्वितीयादिज्ञानैर्निवृत्त्ययोगात् − इति वाच्यम् । धारावहनस्थले प्रथमोत्पन्नाया एव वृत्तेस्तावत्कालावस्थायित्वसम्भवेन वृत्तिभेदानभ्युपगमात् । तदभ्युपगमेऽपि बहुकालावस्थायिपञ्चषवृत्तिरूपत्वसम्भवेन परस्परव्यावृत्तस्थूलकालादिविशेषणभेदविषयत्वोपपत्तेः । प्रतिक्षणोद्यदनेकवृत्तिसन्तानरूपत्वाभ्युपगमेऽपि द्वितीयादिवृत्तीनामधिगतार्थमात्रविषयतया प्रामाण्याभावेन आवरणानिवर्तकत्वेऽप्यहानेश्च । न हि विषयाबाधमात्रं प्रामाण्यम् । प्रागवगतानवगतयोः पर्वतत्तद्वृत्तिपावकयोरनुमितिविषययोरबाधस्याविशेषेण उभयत्राप्यनुमितेः प्रामाण्यप्रसङ्गात् । न चेष्टापत्तिः । ‘वह्नावनुमितिः प्रमाणण्’ इतिवत् ‘पर्वतेऽप्यनुमितिः प्रमाणम्’ इतिव्यवहारादर्शनात् , विवरणे साक्षिसिद्धस्याज्ञानस्य अभावव्यावृत्तिप्रत्यायनार्थानुमानादिविषयत्वेऽपि प्रमाणावेद्यत्वोक्तेश्च । तस्मात् द्वितीयादिवृत्तीनां प्रामाण्याभावात् उपासनादिवृत्तीनामिव अज्ञानानिवर्तकत्वेऽपि न हानिः । प्रमाणवृत्तीनामेव तन्निवर्तकत्वाभ्युपगमात् ।
ननु - नायमपि नियमः, परोक्षवृत्तेरनिर्गमेनाज्ञानानिवर्तकत्वादिति चेत् –
अत्र केचिदाहुः – द्विविधं विषयावारकमज्ञानम् । एकं विषयाश्रितं रज्वादिविक्षेपोपादानभूतं कार्यकल्प्यम्  । अन्यत् पुरुषाश्रितं ’इदमहं न जनामि’ इत्यनुभूयमानम् । पुरुषाश्रितस्य विषयसम्भिन्नविक्षेपोपादानत्वासम्भवेन विषयाश्रितस्य ’इदमहं न जानामि’ इति साक्षिरूपप्रकाशसंसर्गायोगेन द्विविधस्याप्यावश्यकत्वात् । एवं च परोक्षस्थले वृत्तेर्निर्गमनाभावात् दूरस्थवृक्षे आप्तवाक्यात् परिमाणविशेषावगमेऽपि तद्विपरीतपरिमाणविक्षेपविशेषदर्शनाच्च विषयगताज्ञानानिवृत्तावपि पुरुषगताज्ञाननिवृत्तिरस्त्येव । “शास्त्रार्थं न जानामि” इत्यनुभूताज्ञानस्य तदुपदेशानन्तरं निवृत्त्यनुभवात् । अत एव ’अनुमेयादौ सुषुप्तिव्यावृत्तिः’ इति विवरणस्य ’तद्विषयाज्ञाननिवृत्तिरर्थः’ इत्युक्तं तत्त्वदीपने इति ।
अन्ये तु – नयनपटलवत् पुरुषाश्रितमेवाज्ञानं विषयावारकम् , न तदतिरेकेण विषयगताज्ञाने प्रमाणमस्ति । न च – पुरुषाश्रितस्य विषयगतविक्षेपपरिणामित्वं न सम्भवति, तत्सम्भवे वा दूरस्थवृक्षपरिमाणे परोक्षज्ञानादज्ञाननिवृत्तौ विपरीतपरिमाणविक्षेपो न सम्भवतीति – वाच्यम् । वाचस्पतिमते सर्वस्य प्रपञ्चस्य जीवाश्रिताज्ञानविषयीकृतब्रह्मविवर्तत्वेन तद्वत् शुक्तिरजतादेः पुरुषाश्रिताज्ञानविषयीकृतब्रह्मविवर्तत्वोपपत्तेः, परोक्षवृत्त्या एकावस्थानिवृत्तावपि अवस्थान्तरेण विपरीतपरिमाणविक्षेपोपपत्तेश्च – इत्याहुः ।
अपरे तु – शुत्तिरजतादिपरिणामोपपत्त्याञ्जस्यात् विषयावकुण्ठनपटवत् विषयगतमेवाज्ञानं तदावारकम् । न च तथासति अज्ञानस्य अन्तःकरणोपहितसाक्ष्यसंसर्गेण ततः प्रकाशानुपपत्तिः परोक्षवृत्तिनिवर्त्यत्वासम्भवश्च दोष इति वाच्यम् । अवस्थारूपाज्ञानस्य साक्ष्यसंसर्गेऽपि तत्संसृष्टमूलाज्ञानस्यैव ‘शुक्तिमहं न जानामि’ इति प्रकाशोपपत्तेः, शुक्त्यादेरपि मूलाज्ञानविषयचैतन्याभिन्नतया तद्विषयत्वानुभवाविरोधात् । विवरणादिषु मूलाज्ञानसाधनप्रसङ्ग एव ‘इदमहं न जानामि’ इति प्रत्यक्षप्रमाणोपदर्शनाच्च । ’अहमज्ञः’ इति सामान्यतोऽज्ञानानुभव एव मूलाज्ञानविषयकः, ’शुक्तिमहं न जानामि’ इत्यादिविषयविशेषालिङ्गिताज्ञानानुभवस्त्ववस्थाऽज्ञानविषयकः’ इति विशेषाभ्युपगमेऽपि अवस्थाऽवस्थावतोरभेदेन मूलाज्ञानस्य साक्षिसंसर्गाद्वा साक्षिविषयचैतन्ययोः वास्तवैक्याद्वा विषयगतस्याप्यवस्थाऽज्ञानस्य साक्षिविषयत्वोपपत्तेः । परोक्षज्ञानस्याज्ञानानिवर्तकत्वेऽपि ततस्तन्निवृत्त्यनुभवस्य सत्तानिश्चयरूपपरोक्षवृत्तिप्रतिबन्धकप्रयुक्ताननुभवनिबन्धनभ्रान्तित्वोपपत्तेः, अपरोक्षज्ञानस्यैवाज्ञाननिवर्तकत्वनियमाभ्युपगमात् – इत्याहुः ।
ननु नायमपि नियमः । अविद्याऽहङ्कारसुखदुःखादितद्धर्मप्रत्यक्षस्याज्ञाननिवर्तकत्वानभ्युपगमादिति चेत् – न – अविद्यादिप्रत्यक्षस्य साक्षिरूपत्वेन वृत्तिरूपापरोक्षज्ञानस्यावरणनिवर्तकत्वनियमानपायात् ।
अथ कोऽयं साक्षी जीवातिरेकेण व्यवह्रियते ।
अत्रोक्तं कूटस्थदीपे – देहद्वयाधिष्ठानभूतं कूटस्थचैतन्यं स्वावच्छेदकस्य देहद्वयस्य साक्षादीक्षणात् निर्विकारत्वाच्च साक्षीत्युच्यते । लोकेऽपि हि औदासीन्यबोधाभ्यामेव साक्षित्वं प्रसिद्धम् । यद्यपि जीवस्य वृत्तयः सन्ति देहद्वयभासिकाः, तथापि सर्वतः प्रसृतेन स्वावच्छिन्नेन कूटस्थचैतन्येन ईषत् सदा भास्यमानमेव देहद्वयं जीवचैतन्यरूपप्रतिबिम्बगर्भादन्तःकरणाद्विच्छिद्यविच्छिद्योद्गच्छद्भिर्वृत्तिज्ञानैः स्फुटम् अवभास्यते । अन्तरालकालेषु तु सह वृत्त्यभावैः कूटस्थचैतन्येनैव अवभास्यते । अत एव अहङ्कारादीनां [सदा](सर्वदा) प्रकाशसंसर्गात् संशयाद्यगोचरत्वम् अन्यज्ञानधाराकालीनाहङ्कारस्य ’एतावन्तं कालमिदमहं पश्यन्नेवासम्’ इत्यनुसन्धानं च । न च कूटस्थप्रकाशिते कथं जीवस्य व्यवहारस्मृत्यादिकमिति शङ्क्यम् । अन्योन्याध्यासेन जीवैकत्वापत्त्या कूटस्थस्य जीवान्तरङ्गत्वात् । न च जीवचैतन्यमेव साक्षी भवतु किं कूटस्थेनेति वाच्यम् । लौकिकवैदिकव्यवहारकर्तुस्तस्य उदासीनद्रष्टृत्वासम्भवेन ‘साक्षी चेता केवलो निर्गुणश्च’ (श्वे.उ.६-११) इति श्रुत्युक्तसाक्षित्वायोगात् । ’तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति’(श्वे. उ. ४-६) इति कर्मफलभोक्तुर्जीवात् उदासीनप्रकाशरूपस्य साक्षिणः पृथगाम्नानाच्च इति ।
नाटकदीपेऽपि नृत्यशालास्थदीपदृष्टान्तेन साक्षी जीवाद्विविच्य दर्शितः । तथाहि − ‘नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीम् । दीपयेदविशेषेण तदभावेऽपि दीप्यते ॥’ (पं.द. १०-११) । तथा चिदाभासविशिष्टाहङ्काररूपं जीवं विषयभोगसाकल्यवैकल्याभिमानप्रयुक्तहर्षविषादवत्त्वात् नृत्याभिमानिप्रभुतुल्यं तत्परिसरवर्तित्वेऽपि तद्राहित्यात् सभ्यपुरुषतुल्यान् विषयान् नानाविधविकारवत्त्वात् नर्तकीतुल्यां धियं च दीपयन् सुषुप्त्यादावहङ्काराद्यभावेऽपि दीप्यमानः चिदाभासविशिष्टाहङ्काररूपजीवभ्रमाधिष्ठानकूटस्थचैतन्यात्मा साक्षीति ।
एवं जीवाद्विवेचितोऽयं साक्षी न ब्रह्मकोटिरपि, किं त्वस्पृष्टजीवेश्वरविभागं चैतन्यम् , इत्युक्तं कूटस्थदीपे ।
तत्त्वप्रदीपिकायामपि मायाशबलिते सगुणे परमेश्वरे ‘केवलो निर्गुणः’ इति विशेषणानुपपत्तेः सर्वप्रत्यग्भूतं विशुद्धं ब्रह्म जीवाभेदेन साक्षीति प्रतिपद्यते इत्युदितम् ।
कौमुद्यां तु ‘एको देवः सर्वभूतेषु गूढःसर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥’ (श्वे.उ. ६-११) इति देवत्वादिश्रुतेः परमेश्वरस्यैव रूपभेदः कश्चित् जीवप्रवृत्तिनिवृत्त्योरनुमन्ता स्वयमुदासीनः साक्षी नाम । स च कारणत्वादिधर्मानास्पदत्वात् अपरोक्षो जीवगतमज्ञानाद्यवभासयंश्च जीवस्यान्तरङ्गः । सुषुप्त्यादौ च कार्यकरणोपरमे जीवगताज्ञानमात्रस्य व्यञ्जकः प्राज्ञशब्दितः । ’तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’(बृ.उ. ४-३-२१) ’प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन् याति’(बृ. उ. ४-३-३७) इति श्रुतिवाक्याभ्यां सुषुप्त्युत्क्रान्त्यवस्थयोर्जीवाद्भेदेन प्रतिपादितः परमेश्वर इति सुषुप्त्युत्क्रान्त्यधिकरणे निर्णयोऽपि साक्षिपरः इत्युपवर्णितम् ।
तत्त्वशुद्धावपि ’यथा इदं रजतमिति भ्रमस्थले वस्तुतः शुक्तिकोट्यन्तर्गतोऽपीदमंशः प्रतिभासतो रजतकोटिः तथा ब्रह्मकोटिरेव साक्षी प्रतिभासतो जीवकोटिरिति जीवस्य सुखादिव्यवहारे तस्योपयोगः’ इत्युक्त्या अयमेव पक्षः समर्थितः ।
केचित्तु - अविद्योपाधिको जीव एव साक्षाद्द्रष्टृत्वात्साक्षी । लोकेऽपि ह्यकर्तृत्वे सति द्रष्टृत्वं साक्षित्वं प्रसिद्धम् । तच्चासङ्गोदासीनप्रकाशरूपे जीवे एव साक्षात्सम्भवति । जीवस्यान्तःकरणतादात्म्यापत्त्या कर्तृत्वाद्यारोपभाक्त्वेऽपि स्वयमुदासीनत्वात् । ‘एको देवः’ इति मन्त्रस्तु ब्रह्मणो जीवभावाभिप्रयेण साक्षित्वप्रतिपादकः । ‘द्वा सुपर्णा’ इति (मु.उ. ३-१-३) मन्त्रः गुहाधिकरणन्यायेन जीवेश्वरोभयपरः गुहाधिकरणभाष्योदाहृतपैङ्गिरहस्यब्राह्मणव्याख्यातेन प्रकारेण जीवान्तःकरणोभयपरो वा, इति न कश्चिद्विरोधः इत्याहुः ।
अन्ये तु - सत्यं जीव एव साक्षी, न तु सर्वगतेन अविद्योपहितेन रूपेण । पुरुषान्तरान्तःकरणादीनामपि पुरुषान्तरं प्रति स्वान्तःकरणभासकसाक्षिसंसर्गाविशेषेण प्रत्यक्षत्वापत्तेः । न चान्तःकरणभेदेन प्रमातृभेदात्तदनापत्तिः । साक्षिभास्येऽन्तःकरणादौ सर्वत्र साक्ष्यभेदे सति प्रमातृभेदस्याप्रयोजकत्वात् । तस्मादन्तःकरणोपधानेन जीवः साक्षी । तथा च प्रतिपुरुषं साक्षिभेदात् पुरुषान्तरान्तःकरणादेः पुरुषान्तरसाक्ष्यसंसर्गाद्वा तदयोग्यत्वाद्वा अप्रकाश उपपद्यते । सुषुप्तावपि सूक्ष्मरूपेणान्तःकरणसद्भावात् तदुपहितः साक्षी तदाप्यस्त्येव । न च – अन्तःकरणोपहितस्य प्रमातृत्वेन न तस्य साक्षित्वम् , सुषुप्तौ प्रमात्रभावेऽपि साक्षिसत्त्वेन तयोर्भेदश्च अवश्यं वक्तव्यः - इति वाच्यम् । विशेषणोपाध्योर्भेदस्य सिद्धान्तसम्मतत्वेन अन्तःकरणविशिष्टः प्रमाता तदुपहितः साक्षी इति भेदोपपत्तेः इत्याहुः ।
ननु -उक्तरूपस्य साक्षिणःचैतन्यमात्रावारकेणाज्ञानेनावरणमवर्जनीयमिति कथमावृतेनाविद्याहङ्कारादिभानं - इति चेत् −
राहुवदविद्या स्वावृतप्रकाशप्रकाश्येति केचित् ।
वस्तुतः अविद्यान्तःकरणतद्धर्मावभासकं साक्षिचैतन्यं विहायैव अज्ञानं चैतन्यमावृणोतीति अनुभवानुसारेण कल्पनात् न कश्चिद्दोषः । अत एव सर्वदा तेषाम् अनावृतप्रकाशसंसर्गात् अज्ञानविपरीतज्ञानसंशयागोचरत्वम् ।
साक्षिचैतन्यस्यानावृतत्वे तत्स्वरूपभूतस्यानन्दस्यापि प्रकाशापत्तिरिति चेत् , न − इष्टापत्तेः, आनन्दरूपप्रकाशप्रयुक्तस्य आत्मनि निरुपाधिकप्रेम्णो दर्शनात् , ‘भासत एव परमप्रेमास्पदत्वलक्षणं सुखम्’ इति विवराणाच्च ।
स्यादेतत् − इदानीमप्यानन्दप्रकाशे मुक्तिसंसारयोरविशेषप्रसङ्गः । ननु कल्पितभेदस्य साक्ष्यानन्दस्य प्रकाशेऽपि अनवच्छिन्नस्य ब्रह्मानन्दस्यावृतस्य संसारदशायामप्रकाशेन विशेषोऽस्तीति चेत् , न−आनन्देऽनवच्छेदांशस्यापुरुषार्थत्वात् , आनन्दपरोक्षमात्रस्य च इदानीमपि सत्त्वात् । ननु−अवच्छिन्नः साक्ष्यानान्दः सातिशयः, सुषुप्तिसाधारणादनतिस्पष्टात्ततो वैषयिकानन्देष्वतिशयानुभावात् । अनवच्छिन्नो ब्रह्मानन्दस्तु निरतिशयः । आनन्दवल्ल्यां मानुषानन्दाद्युत्तरोत्तरशतगुणोत्कर्षोपवर्णनस्य ब्रह्मानन्दे समापनात्− इति चेत् , न−सिद्धान्ते साक्ष्यानन्दविषयानन्दब्रह्मानन्दानां वस्तुत एकत्वेन उत्कर्षापकर्षासम्भवात् । मानुषानन्दादीनामुत्तरोत्तरमुत्कर्षं श्रुतिर्वदतीति चेत् , को वा ब्रूते श्रुतिर्न वदतीति, किं तु अद्वैतवादे तदुपपादनमशक्यमित्युच्यते । नन्वेकस्यैव सौरालोकस्य करतलस्फटिकदर्पणाद्यभिव्यञ्जकविशेषोपधानेनाभिव्यक्तितारतम्यदर्शनात् एकत्वेऽप्यानन्दस्य अभिव्यञ्जकसुखवृत्तिभेदोपधानेनाभिव्यक्तितारतम्यरूपमुत्कर्षापकर्षवत्त्वं युक्तमिति चेत् , न - दृष्टान्तासम्प्रतिपत्तेः । सर्वतः प्रसृमरस्य सौरालोकस्य गगने विना करतलादिसम्बन्धम् अस्पष्टं प्रकाशमानस्य निम्नतले प्रसृमरस्य जलस्येव करतलसम्बन्धेन गतिप्रतिहतौ बहुलीभावादधिकप्रकाशः, भास्वरदर्पणादिसम्बन्धेन गतिप्रतिहतौ बहुलीभावात्तदीयदीप्तिसंवलनाच्च ततोऽप्यधिकप्रकाशः, इति तत्राभिव्यञ्जकोपाधिकाभिव्यक्तितारतम्यानभ्युपगमात् । दृष्टान्तसम्प्रतिपत्तौ च गगनप्रसृतसौरालोकवत् अनवच्छिन्नानन्दस्यास्पष्टता, करतलाद्यवच्छिन्नसौरालोकवत् सुखवृत्त्यवच्छिन्नानन्दस्याधिकाभिव्यक्तिरिति मुक्तितः संसारस्यैव अभ्यर्हितत्वोपत्तेश्च । एतेन संसारदशायां प्रकाशमानोऽप्यानन्दो मिथ्याज्ञानतत्संस्कारविक्षिप्ततया तीव्रवायुविक्षिप्तप्रदीपप्रभावदस्पष्टं प्रकाशते, मुक्तौ तदभावात् यथावदवभासते इत्यपि − निरस्तम् । निर्विशेषस्वरूपानन्दे प्रकाशमाने तत्र विक्षेपदोषादप्रकाशमानस्य मुक्त्यन्वयिनोऽतिशयस्य असम्भवात् । तस्मात् साक्ष्यानन्दस्यानावृतत्वकल्पनमयुक्तम् ।
अत्राहुः अद्वैतविद्याचार्याः - यथा अत्युत्कृष्टस्य एकस्यैव धवलरूपस्य मालिन्यतारतम्ययुक्तेषु अनेकेषु दर्पणेषु प्रतिबिम्बे सति उपाधिमालिन्यतारतम्यात् तत्र तत्र प्रतिबिम्बे धावल्यापकर्षः तारतम्येनाध्यस्यते, एवं वस्तुतो निरतिशयस्य एकस्यैव स्वरूपानन्दस्य अन्तःकरणप्रतिबिम्बिततया साक्ष्यानन्दभावे प्राक्तनसुकृतसम्पत्त्यधीनविषयविशेषसम्पर्कप्रयुक्तसत्वोत्कर्षापकर्षरूपशुद्धितारतम्ययुक्तसुखरूपान्तःकरणवृत्तिप्रतिबिम्बिततया विषयानन्दभावे च तमोगुणरूपोपाधिमालिन्यतारतम्यदोषात् अपकर्षः तारतम्येनाध्यस्यते इति संसारदशायां प्रकाशमानेऽप्यानन्दे अध्यस्तापकर्षतारतम्येन सातिशयत्वादतृप्तिः ।विद्योदये निखिलापकर्षाध्यासनिवृत्तेः अरोपितसातिशयत्वापायात् कृतकृत्यता, इति विशेषोपपत्तेः निरुपाधिकप्रेमगोचरतया प्रकाशमानः साक्ष्यानन्दोऽनावृत एवेति ।
अन्ये तु -प्रकाशमानोऽप्यानान्दः ‘मयि नास्ति न प्रकाशते’ इत्यावरणानुभवात् आवृत एव । एकस्मिन्नपि साक्षिणि अविद्याकल्पितरूपभेदसम्भवेन चैतन्यरूपेणानावरणस्य आनन्दरूपेणावरणस्य चाविरोधात् , स्वरूप्रकाशस्यावरणानिवर्तकतया प्रकाशमाने आवरणस्याविरोधाच्च, ‘त्वदुक्तमर्थं न जानामि’ इति प्रकाशमान एवावरणदर्शनाच्च । न च तत्र अनावृतसामान्याकारावच्छेदेन विशेषावरणमेवानुभूयत इति वाच्यम् । अन्यावरणस्यान्यावच्छेदेन भानेऽतिप्रसङ्गात् । न च सामान्यविशेषभावो नियामक इति नातिप्रसङ्ग इति वाच्यम् । व्याप्यव्यापकभावातिरिक्तसामान्यविशेषभावाभावेन ‘वह्निं न जानामि’ इति धूमावारकाज्ञानानुभव प्रसङ्गात् । तस्मात् यदवच्छिन्नमज्ञानं प्रकाशते तदेवावृतमिति प्रकाशमानेऽप्यज्ञानं युज्यते । अज्ञानं च यथा साक्ष्यंशं विहाय चैतन्यमावृणोति, एवमानन्दमपि तत्तत्सुखरूपवृत्तिकबलीकृतं विहायैवावृणोति । स एव वैषयिकानन्दस्यावरणाभवः । स चावरणाभिभवः प्रत्यूषसमये बाह्यावरणाभिभववत् कारणविशेषप्रयुक्तवृत्तिविशेषवशात् तरतमभावेन भवति । अतः स्वरूपानन्दविषयानन्दयोः विषयानन्दानां च परस्परं भेदसिद्धिः − इति वदन्ति ।
सर्वथाऽपि साक्षिचैतन्यस्यानावृतत्वेन आवरणाभिभवार्थं वृत्तिमनपेक्ष्यैव तेन अहङ्कारादिप्रकाशनमिति तुल्यमेव ।
नन्वेवं कथमहङ्कारादीनामनुसन्धानम् । ज्ञानसूक्ष्मावस्थारूपस्य संस्कारस्य ज्ञाने सत्ययोगेन नित्येन साक्षिणा तदाधानासम्भवात् ।
अत्र केचिदाहुः- स्वसंसृष्टेन साक्षिणा सदा भास्यमानोऽहङ्कारः तत्तद्घटादिविषयवृत्त्याकारपरिणतस्वावच्छिन्नेनापि साक्षिणा भास्यत इति तस्यानित्यत्वात् सम्भवति संस्काराधानं घटादौ विषय इव । न हि स्वाकारवृत्त्यवच्छिन्नसाक्षिणैव स्वगोचरसंस्काराधानमिति नियमोऽस्ति । तथा सति वृत्तिगोचरसंस्कारासम्भवेन वृत्तेरस्मरणप्रसङ्गात् । अनवस्थापत्त्या वृत्तिगोचरवृत्त्यन्तरस्य अनुव्यवसायनिरसनेन निरस्तत्वात् । किं तु यद्वृत्त्यवच्छिन्नचैतन्ये यत् प्रकाशते तद्वृत्त्या तद्गोचरसंस्काराधानम् इत्येव नियमः । एवं च ज्ञानसुखादयोऽपि अन्तःकरणवृत्तयः तप्तायःपिण्डाद्व्युच्चरन्तो विस्फुलिङ्गाः स्वावच्छिन्नेन वह्निनेव स्वस्वावच्छिन्नेन अनित्येन साक्षिणा भास्यन्त इति युक्तं तेष्वपि संस्काराधानम् । यस्तु ‘घटैकाकारधीस्था चित् घटमेवावभासयेत् । घटस्य ज्ञातता ब्रह्मचैतन्येनावभास्यते ॥ (पं.द. ८-४) इति कूटस्थदीपोक्तः विषयविशेषणस्य ज्ञानस्य विषयावच्छिन्नब्रह्मचैतन्यावभास्यत्वपक्षः,यश्च तत्त्वप्रदीपिकोक्तो ज्ञानेच्छादीनामनवच्छिन्नशुद्धचैतन्यरूपनित्यसाक्षिभास्यत्वपक्षः, तयोरपि चैतन्यस्य स्वसंसृष्टापरोक्षरूपत्वात् वृत्तिसंसर्गोऽवश्यं वाच्य इति तत्संसृष्टानित्यरूपसद्भावात् न तेषु संस्काराधाने काचिदनुपपत्तिरिति ।
अन्ये तु - सुषुप्तावपि अविद्याद्यनुसन्धान सिद्धये कल्पिताम् अविद्यावृत्तिम् अहमाकारामङ्गीकृत्य अहमर्थे संस्कारमुपपादयन्ति । न चास्मिन् पक्षे ’एतावन्तं कालमिदमहं पश्यन्नेवासम्’ इति अन्यज्ञानधाराकालीनाहमर्थानुसन्धानानुपपत्तिः । अवच्छेदकभेदेन सुखदुःखयौगपद्यवद्वृत्तिद्वययौगपद्यस्याप्यविरोधेन अन्यज्ञानधाराकालेऽपि अहमाकाराविद्यावृत्तिसन्तानसम्भवादिति ।
अपरे तु - अहमाकारा वृत्तिरन्तःकरणवृत्तिरेव । किं तु उपासनादिवृत्तिवत् न ज्ञानम् , क्लृप्ततत्करणाजन्यत्वात् । न हि तत्र चक्षुरादिप्रत्यक्षप्रमाणं सम्भवति । न वा लिङ्गादिकम् । लिङ्गादिप्रतिसन्धानशून्यस्याप्यहङ्कारानुसन्धानदर्शनात् । नापि मनः करणम् । तस्योपादानभूतस्य क्वचिदपि करणत्वाक्लृप्तेः । तर्हि अहमर्थप्रत्यभिज्ञाऽपि ज्ञानं न स्यादिति चेत् , न - तस्या अहमंशे ज्ञनत्वाभावेऽपि तत्तांशे स्मृतिकरणत्वेन क्लृप्तसंस्कारजन्यतया ज्ञानत्वात् , अंशभेदेन ज्ञाने परोक्षत्वापरोक्षत्ववत् प्रमात्वाप्रमात्ववच्च ज्ञानत्वाज्ञानत्वयोरपि अविरोधात् - इत्याहुः ।
इतरे तु - अहमाकाराऽपि वृत्तिर्ज्ञानमेव । ‘मामहं जानामि’ इत्यनुभवात् । न च करणासम्भवः । अनुभवानुसारेण मनस एवान्तरिन्द्रियत्वस्येव करणत्वस्यापि कल्पनात् - इत्याहुः ।
एवं सति बाह्यगोचरापरोक्षवृत्तीनामेव आवरणाभिभावकत्वनियमः पर्यवसन्नः ।
ननु-नायमपि नियमः, शुक्तिरजतस्थले इदमाकारवृत्तेरज्ञानानभिभावकत्वात् , अन्यथा उपादानाभावेन रजतोत्पत्त्ययोगात् इति चेत् -
अत्राहु:− इदमाकारवृत्त्या इदमंशाज्ञाननिवृत्तावपि शुक्तित्वादिविशेषांशाज्ञानानिवृत्तेः तदेव रजतोपादानम् , शुक्तित्वाद्यज्ञाने रजताध्यासस्य तज्ज्ञाने तदभावस्य अनुभूयमानत्वात् । अध्यासभाष्यटीकाविवरणे अनुभूयमानान्वयव्यतिरेकस्यैवाज्ञानस्य रजताद्यध्यासोपादानत्वोक्तेः । अत एव शुक्त्यंशोऽधिष्ठानम् , इदमंश आधारः; सविलासाज्ञानविषयोऽधिष्ठानम् , अतद्रूपोऽपि तद्रूपेणारोप्यबुद्धौ स्फुरन् आधारः, इति सङ्क्षेपशारीरकेऽपि विवेचनादिति ।
अपरे तु इदं रजतमिति इदमंश सम्भिन्नत्वेन प्रतीयमानस्य रजतस्य इदमंशाज्ञानमेवोपादानम् । तस्य च इदमाकारवृत्त्या आवरणशक्तिमात्रनिवृत्तावपि विक्षेपशक्त्या सह तदनुवृत्तेः नोपादानत्वासम्भवः । जलप्रतिबिम्बितवृक्षाधोऽग्रत्वाध्यासे जीवन्मुक्त्यनुवृत्ते प्रपञ्चाध्यासे च सर्वात्मना अधिष्ठानसाक्षात्कारानन्तरभाविन्यामावरणनिवृत्तावपि विक्षेपशक्तिसहिताज्ञानमात्रस्योपादानत्वसम्प्रतिपत्तेः इत्याहुः ।
कवितार्किकचक्रवर्तिनृसिंहभट्टोपाध्यायास्तु ‘इदं रजतम्’ इति भ्रमरूपवृत्तिव्यतिरेकेण रजतोत्पत्तेः प्राक् इदमाकारा वृत्तिरेव नास्तीति तस्याः अज्ञाननिवर्तकत्वसदसद्भावविचारं निरालम्बनं मन्यन्ते । तथा हि – न तावत् भ्रमरूपवृत्तिव्यतिरेकेण इदमाकारा वृत्तिः अनुभवसिद्धा । ज्ञानद्वित्वाननुभवात् ।
नापि अधिष्ठानसामान्यज्ञानमध्यासकारणम् इति कार्यकल्प्या । तस्याः तत्कारणत्वे मानाभावात् । न चाधिष्ठानसम्प्रयोगाभावे रजताद्यनुत्पत्तिस्तत्र मानम् ; ततो दुष्टेन्द्रियसम्प्रयोगस्यैवाध्यासकारणत्वप्राप्तेः । न च − सम्प्रयोगो न सर्वभ्रमव्यापी, अधिष्ठानस्फुरणं तु स्वतः प्रकाशमाने प्रत्यगात्मनि अहङ्कारद्यध्यासमपि व्याप्नोतीति − वाच्यम् । तस्यापि घटाद्यध्यासाव्यापित्वात् । घटादिप्रत्यक्षात् प्राक् तदधिष्ठानभूतनीरूपब्रह्ममात्रगोचरचाक्षुषवृत्तेरसम्भवात् । स्वरूपप्रकाशस्यावृतत्वात् । आवृतानावृतसाधारण्येनाधिष्ठानप्रकाशमात्रस्याध्यासकारणत्वे शुक्तीदमंशसम्प्रयोगात् प्रागपि तदवच्छिन्नचैतन्यरूपप्रकाशस्यावृतस्य सद्भावेन तदाप्यध्यासापत्तेः ।
न च − अध्याससामान्ये अधिष्ठानप्रकाशसामान्यं हेतुः, प्रातिभासिकाध्यासेऽभिव्यक्ताधिष्ठानप्रकाशः इति नातिप्रसङ्गः, सामान्ये सामान्यस्य विशेषे विशेषस्य हेतुत्वौचित्यादिति-वाच्यम् । एवमपि प्रातिभासिकशङ्खपीतिमकूपजलनैल्याद्यध्यासाव्यापनात् । रूपानुपहितचाक्षुषप्रत्ययायोगेन तदानीं शङ्खादिगतशौक्ल्योपलम्भाभावेन च अध्यासात् प्राक् शङ्खादिनीरूपाधिष्ठानगोचरवृत्त्यसम्भवात् ।
न च प्रातिभासिकेष्वपि रजताद्यध्यासमात्रे निरिक्तो विशेषहेतुरास्तामिति वाच्यम् । तथा सति सम्प्रयोगात् प्राक् पीतशङ्खाद्यध्यासाप्रसङ्गाय तदध्यासे दुष्टेन्द्रियसम्प्रयोगः कारणमित्यवश्यं वक्तव्यतया तस्यैव सामान्यतः प्रातिभासिकाध्यासमात्रे लाघवात् कारणत्वसिद्धौ तत एव रजताद्यध्यासकादाचित्कत्वस्यापि निर्वाहात् अधिष्ठानप्रकाशस्य सामान्यतो विशेषतो वाऽध्यासकारणत्वस्यासिद्धेः ।
ननु − सादृश्यनिरपेक्षे अध्यासान्तरे अकारणत्वेऽपि तत्सापेक्षे रजताद्यध्यासे रजतादिसादृश्यभूतरूपविशेषादिविशिष्टधर्मिज्ञानरूपमधिष्ठानसामान्यज्ञानं कारणमवश्यं वाच्यम् । दुष्टेन्द्रियसम्प्रयोगमात्रस्य कारणत्वे शुक्तिवत् इङ्गालेऽपि रजताध्यासप्रसङ्गात् । न च सादृश्यमपि विषयदोषत्वेन कारणमिति वाच्यम् । विसदृशेऽपि सादृश्यभ्रमे सति अध्याससद्भावात् । जलधिसलिलपूरे दूरे नीलशिलातलत्वा(ध्या)रोपदर्शनात् । न च 'तद्धेतोरेवे'ति न्यायात् सादृश्यज्ञानसामग्र्येवाध्यासकारणमस्त्विति युक्तम् । ज्ञानसामग्र्या अर्थकारणत्वस्य क्वचिदप्यदृष्टेः, ततः सादृश्यज्ञानस्यैव लघुत्वाच्च । न च - स्वतश्शुभ्रेऽपि शुभ्रकलधौतभृङ्गारगतेऽपि स्वच्छे जल एव नैल्याध्यासः, न मुक्ताफले इति व्यवस्थावत् वस्तुस्वभावादेव शुक्तौ रजताध्यासः नेङ्गालादौ इति व्यवस्था, न तु सादृश्यज्ञानापेक्षणात् - इति वाच्यम् । स्वतः पटखण्डे पुण्डरीकमुकलत्वानध्यासेऽपि तत्रैव कर्तनादिघटिततदाकारे तदध्यासदर्शनेन तदध्यासस्य वस्तुस्वभावमननुरुध्य सादृश्यज्ञानभावाभावानुरोधित्वनिश्चयात् । अन्यथा अन्यदापि तत्र तदध्यासप्रसङ्गात् ।
उच्यते−सादृश्यज्ञानस्याध्यासकारणत्ववादेऽपि विशेषदर्शनप्रतिबध्येषु रजताद्यध्यासेष्वेव तस्य कारणत्वं वाच्यम् । न तु तदप्रतिबध्येषु पीतशङ्खाद्यध्यासेषु , असम्भवात् । विशेषदर्शनप्रतिबध्येषु च प्रतिबन्धकज्ञानसामग्र्याः प्रतिबन्धकत्वनियमेन विशेषदर्शनसामग्र्यप्यवश्यं प्रतिबन्धिका वाच्येति तत एव सर्वव्यवस्थोपपत्तेः किं सादृश्यज्ञानस्य कारणत्वकल्पनया ? तथा हि इङ्गालादौ चक्षुःसम्प्रयुक्ते तदीयनैल्यादिरूपविशेषदर्शनसामग्रीसत्त्वात् न रजताध्यासः । शुक्त्यादावपि नीलभागादिव्यापिचक्षुःसम्प्रयोगे तत्सत्त्वात् न तदध्यासः । सदृशभागमात्रसम्प्रयोगे तदभावादध्यासः ।
तदापि शुक्तित्वरूपविशेषदर्शनसामग्रीसत्त्वादनध्यासप्रसङ्ग इति चेत् , न – अध्याससमये शुक्तित्वदर्शनाभावेन तत्पूर्वं तत्सामग्र्यभावस्य त्वयाऽपि वाच्यत्वात् ।
मम सादृश्यज्ञानरूपाध्यासकारणदोषेण प्रतिबन्धात् तदा शुक्तित्वदर्शनसामग्र्यभावाभ्युपगमः, तव तथाभ्युपगमे तु घट्टकुटीप्रभातवृत्तान्त इति चेत् , न - समीपोपसर्पणानन्तरं रजतसादृश्यरूपे चाकचक्ये दृश्यमान एव शुक्तित्वोपलम्भेन तस्य तत्सामग्रीप्रतिबन्धकत्वासिद्धौ दूरत्वादिदोषेण प्रतिबन्धाद्वा व्यञ्जकनीलपृष्ठत्वादिग्राहकासमवधानाद्वा तत्सामग्र्यभावस्य वक्तव्यत्वात् । एवं जलधिजले नियतनीलरूपाध्यासप्रयोजकदोषेण प्रतिबन्धात् दूरे नीरत्वव्यञ्जकतरङ्गादिग्राहकासमवधानेन च शौक्ल्यजलराशित्वादिरूपविशेषदर्शनसामग्र्यभावात् नीलशिलातलत्वाध्यासः । विस्तृते पटे परिणाहरूपविशेषदर्शनसामग्रीसत्त्वात् न पुण्डरीकमुकुलत्वाध्यासः, कर्तनादि घटिततदाकारे तदभावात्तदध्यास इति ।
नन्वेवं करस्पृष्टे लोहशकले तदीयनीलरूपविशेषदर्शनसामग्र्यभावात् रजताध्यासः किं न भवेत्, सादृश्यज्ञानानपेक्षणात्− इति चेत्, भवत्येव । किं तु ताम्रादिव्यावर्तकविशेषदर्शनसामग्र्या अप्यभावात् तदध्यासेनापि भाव्यमिति क्वचिदनेकाध्यासे संशयगोचरो भवति, क्वचित्तु रजतप्राये कोशगृहादौ रजताध्यास एव भवति । क्वचित् सत्यपि सादृश्यज्ञाने शुक्तिकादौ कदाचित् करणदोषाद्यभावेनाध्यासानुदयवत् अध्यासानुदयेऽपि न हानिः । तस्मात् न कार्यकल्प्या इदमाकारा वृत्तिः ।
नाप्यप्रतिबद्धेदमर्थसम्प्रयोगकारणकल्प्या ; ततो भवन्त्या एवेदंवृत्ते: दुष्टेन्द्रियसम्प्रयोगक्षुभिताविद्यापरिणामभूतस्वसमकालरजतविषयत्वस्यापि अस्माभिरुच्यमानत्वात् । तत्र च ज्ञानसमकालोत्पत्तिके प्रतिभासमात्रविपरिवर्तिनि रजते तत्प्राचीनसम्प्रयोगाभावेऽपि तत्तादात्म्याश्रयेदमर्थसम्प्रयोगादेव तस्यापि चक्षुर्ग्राह्यत्वोपपत्तेः । ‘चक्षुषा रजतं पश्यामि’ इति प्रातिभासिकरजतस्य स्वसम्प्रयोगाभावेऽपि चाक्षुषत्वानुभवात् ।
न च − स्वसम्प्रयोगाभावादेव बाधकात् न तत् चाक्षुषम् , नापि दुष्टेन्द्रियसम्प्रयोगजन्यम् इदंवृत्तिसमकालं; ज्ञानकारणस्येन्द्रियसम्प्रयोगस्यार्थकारणत्वाक्लृप्तेः । किं तु इदंवृत्त्यनन्तरभावि तज्जन्यं तदभिव्यक्ते साक्षिण्यध्यासात् तद्भास्यम् । चाक्षुषत्वानुभवस्तु स्वभासकचैतन्याभिव्यञ्जकेदंवृत्तिजनकत्वेन परम्परया चक्षुरपेक्षामात्रेणेति−वाच्यम् ।
तथा सति पीतशङ्खभ्रमे चक्षुरनपेक्षाप्रसङ्गात् । न हि तत्र शङ्खग्रहणे चक्षुरपेक्षा । रूपं विना केवलशङ्खस्य चक्षुर्ग्राह्यत्वायोगात् । नापि पीतिमग्रहणे । आरोप्यस्य ऐन्द्रियकत्वानभ्युपगमात् । न च - पीतिमा स्वरूपतो नाध्यस्यते किं तु नयनगतपित्तपीतिम्नोऽनुभूयमानस्य शङ्खे संसर्गमात्रमध्यस्यते इति पीतिमानुभवार्थमेव चक्षरपेक्षेति − वाच्यम् । तथा सति शङ्खतत्संसर्गयोरप्रत्यक्षत्वप्रसङ्गात् । नयनप्रदेशगतपित्तपीतिमाकारवृत्त्यभिव्यक्तसाक्ष्यसंसर्गेण तयोस्तद्भास्यत्वासम्भवात्, पीतिमसंसृष्टशङ्खगोचरैकवृत्त्यनभ्युपगमाच्च । न च नयनप्रदेशस्थितस्य पित्तपीतिम्नो दोषात् शङ्खे संसर्गाध्यासो नोपेयते, किं तु नयनरश्मिभिः सह निर्गतस्य विषयव्यापिनस्तस्य तत्र संसर्गाध्यासः । कुसुम्भारुणिम्न इव कौसुम्भे इति, सम्भवति तदाकारवृत्त्यभिव्यक्तसाक्षिसंसर्गः - इति वाच्यम् । तथा सति सुवर्णलिप्त इव पित्तोपहतनयनेन वीक्ष्यमाणे शङ्खे तदितरेषामपि पीतिमधीप्रसङ्गात् । न च - स पीतिमा समीपे गृहीत एव दूरे ग्रहीतुं शक्यः विहायसि उपर्युत्पतन् विहङ्गम इव, इतरेषां च समीपे न ग्रहणमिति-वाच्यम् । इतरेषामपि तच्चक्षुर्निकटन्यस्तचक्षुषां पीतिमसामीप्यसत्त्वेन तद्ग्रहणस्य दुर्वारत्वात् ।
एवमप्यतिधवलसिकतामयतलप्रवहदच्छनदीजले नैल्याध्यासे च गगननैल्याध्यासे रक्तवस्त्रेषु निशि चन्द्रिकायां नैल्याध्यासे च अनुभूयमानारोपस्य वक्तुमशक्यत्वेन तत्र नैल्यसंसृष्टाधिष्ठानगोचरचाक्षुषवृत्त्यनभ्युपगमे चक्षुरनुपयोगस्य दुष्परिहरत्वाच्च । अनास्वादिततिक्तरसस्य बालस्य मधुरे तिक्ततावभासो जन्मान्तरानुभवजन्यसंस्कारहेतुकः - इति प्रतिपादयता पञ्चपादिकाग्रन्थेन स्वरूपतोऽध्यस्यमानस्यैव तिक्तरसस्य ऐन्द्रियकत्वस्फुटीकरणाच्च । अन्यथा तत्र रसनाव्यापारापेक्षानुपपत्तेः ।
तस्मात् उदाहृतनैल्याध्यासस्थलेष्वधिष्ठानसम्प्रयोगादेव तद्गोचरचाक्षुषवृत्तिसमकालोदयोऽध्यासः तस्या वृत्तेर्विषय इति तस्य चाक्षुषत्वमभ्युपगन्तव्यम् । रूपं विना केवलाधिष्ठानगोचरवृत्त्यभावे च विषयचैतन्याभिव्यक्त्यभावेन जलतदध्यस्तनैल्यादीनां तद्भास्यत्वायोगात् । तिक्तरसाध्यासस्थले तु अधिष्ठानाध्यासयोरेकेन्द्रियग्राह्यत्वाभावात् त्वगिन्द्रियजन्याधिष्ठानगोचरवृत्त्या तदवच्छिन्नचैतन्याभिव्यक्तौ पित्तोपहतरसनसम्प्रयोगादेव तत्र तिक्तरसाध्यासः तन्मात्रविषयरासनवृत्तिश्च समकालमुदेतीति तिक्तरसस्य रासनत्वमभ्युपगन्तव्यम् । त्वग्निन्द्रियजन्याधिष्ठानगोचरवृत्त्यभिव्यक्तचैतन्यभास्ये तिक्तरसे परम्परयापि रसनोपयोगाभावेन तत्र कथमपि प्रकारान्तरेण रासनत्वानुभवसमर्थनासम्भवात् । तथैव रजतस्यापि चाक्षुषत्वोपपत्तेः ‘पश्यामि’ इत्यनुभवो न बाधनीयः । न च - असम्प्रयुक्तस्य रजतस्य चाक्षुषत्वे ‘प्रत्यक्षमात्रे विषयेन्द्रियसन्निकर्षः करणं’ ‘द्रव्यप्रत्यक्षे तत्संयोगः करणं’ ‘रजतप्रत्यक्षे रजतसंयोगः करणम्’ इति गृहीतानेककार्यकारणभावनियमभङ्गः स्यादिति - वाच्यम् । सन्निकर्षत्वस्य संयोगाद्यनुगतस्यैकस्याभावेन आद्यनियमासिद्धेः । द्वितीयनियमस्य, नैयायिकरीत्या तमसीव संयोगायोग्ये क्वचिदद्रव्येऽपि द्रव्यत्वाध्याससम्भवत् व्यवहारदृष्ट्या यत् द्रव्यत्वाधिकरणं तद्विषयत्वेन, प्रातिभासिकरजते द्रव्यत्वस्य अधिष्ठानगतस्यैव इदन्त्ववत् अध्यासात् प्रतीत्यभ्युपगमेन च, द्वितीयनियमाविरोधात् । द्वितीयनियमरूपसामान्यकार्यकारणभावातिरेकेण विशिष्यापि कार्यकारणभावकल्पनाया गौरवपराहतत्वेन तृतीयनियमासिद्धेः । ‘यत्सामान्ये यत्सामान्यं हेतुः तद्विशेषे तद्विशेषो हेतुः’ इति न्यायस्यापि, यत्र बीजाङ्कुरादौ सामान्यकार्यकारणभावमात्राभ्युपगमे बीजान्तरादङ्कुरान्तरोत्पत्त्यादिप्रसङ्गः तद्विषयत्वेन, ततोऽजागलस्तनायमानविशेषकार्यकारणभावासिद्धेः । न चात्रापि द्रव्यप्रत्यक्षे द्रव्यसंयोगः कारणमिति सामान्यनियममात्रोपगमे अन्यसंयोगादन्यद्रव्यप्रत्यक्षापत्तिरिति अतिप्रसङ्गोऽस्तीति वाच्यम् । तत्तद्द्रव्यप्रत्यक्षे तत्तद्द्रव्यसंयोगः कारणमिति नियमाभ्युपगमात् , अन्यथा तृतीयनियमेऽप्यतिप्रसङ्गस्य दुर्वारत्वात् , तस्मान्नास्ति क्लृप्तनियमभङ्गप्रसङ्गः ।
किं चात्र क्लृप्तनियमभङ्गेऽपि न दोषः, ‘इदं रजतं पश्यामि, नीलं जलं पश्यामि’ इत्यादेरनन्यथासिद्धस्यानुभवस्य, प्रथमगृहीतानामपि प्रत्यक्षमात्रे विषयसन्निकर्षः कारणम् इत्यादिनियमानां व्यावहारिकविषये सङ्कोचकल्पनमन्तरेणोपपादनासम्भवात् । न चैवं सति ‘प्रमायां सन्निकर्षः कारणं न भ्रमे’ इत्यापि सङ्कोचकल्पनासम्भवात् , असन्निकृष्टस्यैव देशान्तरस्थस्य रजतस्य इहारोपापत्तिरिति अन्यथाख्यातिवादप्रसारिका । अभिव्यक्तचैतन्यावकुण्ठनशून्यस्य देशान्तरस्थस्य रजतस्य आपरोक्ष्यानुपपत्तेः । ख्यातिबाधानुपपत्त्यादिभिर्भ्रमविषयस्यानिर्वचनीयत्वसिद्धेश्च । न चाधिष्ठानसम्प्रयोगमात्रात् प्रातिभासिकस्यैन्द्रियकत्वोपगमे शुक्तिरजताध्याससमये तत्रैव कालान्तरे अध्यसनीयस्य रङ्गस्यापि चाक्षुषत्वं कुतो न स्यादिति वाच्यम् । रजताध्याससमये रङ्गरजतसाधारणचाकचक्यदर्शनाविशेषेऽपि यतो रागादिरूपपुरुषदोषाभावादितस्तत्र तदा न रङ्गाध्यासः तत एव मया तद्विषयवृत्त्यनुदयस्याभ्युपगमात् ।
तस्मात् इदमंशसम्भिन्नरजतगोचरा एकैव वृत्तिः इन्द्रियजन्या । न ततः प्रागिदमाकारा वृत्तिरिति नात्र इयमज्ञाननिवर्तकत्वसदसद्भावचिन्ता कार्येति ।
अन्ये तु - 'अधिष्ठानज्ञानमध्यासकारणमि'ति इदमाकारां वृत्तिमुपेत्य तदभिव्यक्तेनैव साक्षिणा तदध्यस्तस्य रजतस्य अवभाससम्भवात् तद्भासकसाक्ष्यभिव्यञ्जिकया तयैवेदंवृत्त्या रजतविषयसंस्काराधानोपपत्तेश्च रजताकारवृत्तिर्व्यर्थेति-मन्यन्ते ।
ज्ञानद्वयपक्षे इदमित्येका वृत्तिरध्यासकारणभूता, इदंरजतमिति द्वितीया वृत्तिरध्यस्तरजतविषया, न त्विदमंशं विना अध्यस्तमात्रगोचरा सा । ‘इदं रजतं जनामि’ इति तस्या इदमर्थतादात्म्यापन्नरजतविषयत्वानुभवादिति केचित् ।
अन्ये तु - यथा इदमंशावच्छिन्नचैतन्यस्थाविद्या रजताकारेण विवर्तते, एवमिदमंशविषयवृत्तिज्ञानावच्छिन्नचैतन्यस्थाविद्या रजतज्ञानाभासाकारेण विवर्तते, न त्विदमंशवृत्तिवदनध्यस्तं रजतज्ञानमस्ति । तथा च रजतस्य अधिष्ठानगतेदन्त्वसंसर्गभानवत् तज्ज्ञानस्यापि अधिष्ठानगतेदंत्वविषयत्वसंसर्गभानोपपत्तेः ,न तस्यापि इदंविषयत्वमभ्युपगन्तव्यम् । न च रजतवत् अध्यस्तस्य रजतेदन्त्वसंसर्गस्य रजतज्ञानगोचरत्वात् तत्प्रतियोगिन इदन्त्वस्यापि तद्विषयत्वं वक्तव्यमिति वाच्यम् । स्वतादात्म्याश्रयस्य इदन्त्वविषयत्वादेव तस्य तत्संसर्गविषयत्वे अतिप्रसड्गाभावात् । न चाधिष्ठानाध्यस्यमानयोः एकस्मिन् ज्ञाने प्रकाशनियमस्य सम्भावनाभाष्यविवरणे प्रतिपादनात् एकवृत्तिविषयत्वं वक्तव्यमिति वाच्यम् । वृत्तिभेदेऽपि इदमाकारवृत्त्यभिव्यक्ते एकस्मिन् साक्षिणि तयोः प्रकाशोपगमात्-इत्याहुः ।
ननु सर्वपदार्थानां साक्षिप्रसादादेव प्रकाशोपपत्तेः किं वृत्त्या ? घटादिविषयकसंस्काराधानाद्युपपत्तये तदपेक्षणेऽपि तन्निर्गमाभ्युपगमो व्यर्थः । परोक्षस्थल इव अनिर्गतवृत्त्यवच्छिन्नसाक्षिणैव घटादेरपि प्रकाशोपपत्तेः । न च तथा सति परोक्षापरोक्षवैलक्षण्यानुपपत्तिः । शाब्दानुमित्योरिव करणविशेषप्रयुक्तवृत्तिवैजात्यादेव तदुपपत्तेः ।
अत्र केचित् आहुः − प्रत्यक्षस्थले विषयाधिष्ठानतया तदवच्छिन्नमेव चैतन्यं विषयप्रकाशः, साक्षात्तादात्म्यरूपसम्बन्धसम्भवे स्वरूपसम्बन्धस्य वा अन्यस्य वा कल्पनायोगादिति तदभिव्यक्त्यर्थं युक्तो वृत्तिनिर्गमाभ्युपगमः । परोक्षस्थले व्यवहिते वह्न्यादौ वृत्तिसंसर्गायोगात् इन्द्रियवदन्वयव्यतिरेकशालिनो वृत्तिनिर्गमद्वारस्य अनुपलम्भाच्च अनिर्गतवृत्त्यवच्छिन्नचैतन्यमेव स्वरूपसम्बन्धेन विषयगोचरम् अगत्या अर्थादभ्युपगम्यते− इति ।
अन्ये तु – अहङ्कारसुखदुःखादिष्वापरोक्ष्यं साक्षाच्चैतन्यसंसर्गिषु क्लृप्तमिति घटादावपि विषयसंसृष्टमेव चैतन्यमापरोक्ष्यहेतुरिति तदभिव्यक्तये वृत्तिनिर्गमं समर्थयन्ते ।
इतरे तु − शब्दानुमानावगतेभ्यः प्रत्यक्षावगते स्पष्टता तावदनुभूयते । न हि रसालपरिमलादिविशेषे शतवारमाप्तोपदिष्टेऽपि प्रत्यक्षावगत इव स्पष्टताऽस्ति । तदनन्तरमपि ‘कथं तत्’ इति जिज्ञासानुवृत्तेः । न च शब्दान्माधुर्यमात्रावगमेऽपि रसालमाधुर्यादिवृत्त्यवान्तरजातिविशेषवाचिशब्दाभावात् तत्सत्त्वेऽपि श्रोत्रात्तस्य अगृहीतसङ्गतिकत्वात् शब्दादसाधारणजातिविशेषावच्छिन्नमाधुर्यावगमो नास्तीति जिज्ञासानुवृत्तिर्युक्तेति शङ्क्यम् । ‘रसाले सर्वातिशायी माधुर्यविशेषोऽस्ति’ इत्यस्माच्छब्दात् तद्गतावान्तरजातिविशेषस्याप्यवगमात् । न ह्ययं शब्दः तद्गतं विशेषं विहाय अन्यगतं विशेषं तत्र बोधयति, अप्रामाण्यापत्ते: । न च तद्गतमेव विशेषं विशेषत्वेन सामान्येन रूपेण बोधयति न विशिष्येति जिज्ञासेति वाच्यम् । प्रत्यक्षेणापि मधुररसविशेषणस्य जातिविशेषस्य स्वरूपत एव विषयीकरणेन जातिविशेषगतविशेषान्तराविषयीकरणात् जिज्ञासानुवृत्तिप्रसङ्गात् ।
तस्मात् प्रत्यक्षग्राह्येऽभिव्यक्तापरोक्षैकरसचैतन्यावकुण्ठनात् स्पष्टता जिज्ञासानिवर्तनक्षमा, शब्दादिगम्ये तु तदभावादस्पष्टता - इति व्यवस्था अभ्युपगन्तव्या । अत एव साक्षिवेद्यस्य सुखादेः स्पष्टता । शाब्दवृत्तिवेद्यस्यापि ब्रह्मणो मननादेः प्राक् अज्ञानानिवृत्तावस्पष्टता, तदनन्तरं तन्निवृत्तौ स्पष्टता - इति वृत्तिनिर्गममुपपादयन्ति ।
ननु−एतावतापि विषयावारकाज्ञाननिवृत्त्यर्थं वृत्तिनिर्गम इत्युक्तम् , तदयुक्तम् । विषयावच्छिन्नचैतन्यगतस्य तदावारकाज्ञानस्य अनिर्गतवृत्त्या निवृत्त्यभ्युपगमेऽपि अनतिप्रसङ्गात् । न च – तथा सति देवदत्तीयघटज्ञानेन यज्ञदत्तीयघटाज्ञानस्यापि निवृत्तिप्रसङ्गः, समानविषयकत्वस्य सत्त्वात् । अहमर्थविषयचैतन्यनिष्ठयोर्ज्ञानाज्ञानयोर्भिन्नाश्रयत्वेन तयोर्विरोधे समानाश्रयत्वस्यातन्त्रत्वात् - इति वाच्यम् । समानाश्रयविषयत्वं ज्ञानाज्ञानयोर्विरोधप्रयोजकमङ्गीकृत्य वृत्तिनिर्गमनाभ्युपगमेऽपि देवदत्तीयघटवृत्तेः यज्ञदत्तीयघटाज्ञानस्य च घटावच्छिन्नचैतन्यैकाश्रयत्वप्राप्त्या अतिप्रसङ्गतादवस्थ्येन यदज्ञानं यं पुरुषं प्रति यद्विषयावारकं तत् तदीयतद्विषयकज्ञाननिवर्त्यमिति पृथगेव विरोधप्रयोजकस्य वक्तव्यतया समानाश्रयत्वस्यानपेक्षणात् ।
अत्राहुः − वृत्तिनिर्गमनानभ्युपगमे ज्ञानाज्ञानयोर्विरोधप्रयोजकमेव दुर्निरूपम् । यदज्ञानं यं पुरुषं प्रति इत्याद्युक्तमिति चेत् , न − परोक्षज्ञानेनापि विषयगताज्ञाननिवृत्तिप्रसङ्गात् । अपरोक्षत्वमपि निवर्तकज्ञानविशेषणमिति चेत् , किं तदपरोक्षत्वम् ? न तावज्जातिः । ‘दण्ड्ययमासीत्’ इति संस्कारोपनीतदण्डविशिष्टपुरुषविषयकस्य चाक्षुषज्ञानस्य दण्डांशेऽपि तत्सत्त्वे तत्रापि विषयगताज्ञाननिवृत्त्यापातात् , ‘दण्डं साक्षात्करोमि’ इति तदंशेऽप्यापरोक्ष्यानुभवापत्तेश्च । अननुभवेऽपि संस्कारं सन्निकर्षं परिकल्प्य इन्द्रियसन्निकर्षजन्यतया तत्र काल्पनिकापरोक्ष्याभ्युपमे अनुमित्यादावपि लिङ्गज्ञानादिकं सन्निकर्षं परिकल्प्य तदङ्गीकारापत्तेः । दण्डांशे आपरोक्ष्यासत्त्वे तु तस्य जातित्वायोगात्, जातेर्व्याप्यवृत्तित्वनियमात्, तदनियमेऽपि अवच्छेदकोपाधिभेदानिरूपणेन तस्याव्याप्यवृत्तिजातित्वायोगाच्च । नाप्युपाधिः−तदनिर्वचनात् । इन्द्रियजन्यत्वमिति चेत् , न – साक्षिप्रत्यक्षाव्यापनात् , अनुमितिशाब्दज्ञानोपनीतगुरुत्वादिविशिष्टघटप्रत्यक्षे विशेषणांशातिव्यापनाच्च, करणान्तराभावेन तदंशे परोक्षेऽपि उपनयसहकारिसामर्थ्यादिन्द्रियस्यैव जनकत्वात् ; अनुगतजन्यतावच्छेदकाग्रहेण अनेकेष्विन्द्रियजन्यत्वस्य दुर्ग्रहत्वाच्च । तद्ग्रहे च तस्यैव प्रथमप्रतीतस्यापरोक्षत्वरूपत्वोपपत्तौ प्रत्यक्षानुभवायोग्यस्य इन्द्रियजन्यत्वस्य तद्योग्यापरोक्ष्यरूपत्वकल्पनायोगात् । एतेन - इन्द्रियसन्निकर्षजन्यत्वमापरोक्ष्यम्, उपनयसहकृतेन्द्रियजन्यपरोक्षांशे च न सन्निकर्षजन्यत्वम् , अनुमितावप्युपनीतभानसत्त्वेन प्रमाणान्तरसाधारणस्योपनयस्य असन्निकर्षत्वात् इत्यपि शङ्का निरस्ता । संयोगादिसन्निकर्षाणामननुगमेनाननुगमाच्च । यत्तवाभिमतमापरोक्ष्यं तदेव ममाप्यस्त्विति चेत् , न - तस्य शाब्दापरोक्षनिरूपणप्रस्तावे प्रतिपादनीयस्य तत्रैव दर्शनीयया रीत्या अज्ञाननिवृत्तिप्रयोज्यत्वेन तन्निवृत्तिप्रयोजकविशेषणभावायोगात् ।
तस्मात् ‘तरति शोकमात्मवित्’ इति श्रुतस्य ब्रह्मज्ञानस्य मूलाज्ञानाश्रयभूतसर्वोपादानब्रह्मसंसर्गनियतस्य मूलाज्ञाननिवर्तकत्वात् । 'ऐन्द्रियकवृत्तयः तत्तदिन्द्रियसन्निकर्षसामर्थ्यात्तत्तद्विषयावच्छिन्नचैतन्यसंसृष्टा एव उत्पद्यन्ते' इति नियममुपेत्य अज्ञानाश्रयचैतन्यसंसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यम् । तथा च सति यदज्ञानं यं पुरुषं प्रति यद्विषयावारकं तत् तदीयतद्विषयतदज्ञानाश्रयचैतन्यसंसर्गनियतात्मलाभज्ञाननिवर्त्यमिति ज्ञानाज्ञनयोर्विरोधप्रयोजकं निरूपितं भवति ।
न चैवं सति नाडीहृदयस्वरूपगोचरशाब्दज्ञानस्याप्यज्ञाननिवर्तकत्वप्रसङ्गः । तस्य कदाचिदर्थवशसम्पन्ननाडीहृदयान्यतरवस्तुसंसर्गसम्भवेऽपि विषयसंसर्गं विनापि शाब्दज्ञानसम्भवेन तत्संसर्गनियतात्मलाभत्वाभावात् । तस्मात् ज्ञानाज्ञानविरोधनिर्वाहाय वृत्तिनिर्गमो वक्तव्य इति ।
अन्ये तु विषयगताज्ञानस्य लाघवात् समानाधिकरणज्ञाननिवर्त्यत्वसिद्धौ वृत्तिनिर्गमः फलतीत्याहुः ।
अपरे तु बाह्यप्रकाशस्य बाह्यतमोनिवर्तकत्वं सामानाधिकरण्ये सत्येव दृष्टमिति दृष्टान्तानुरोधात् वृत्तिनिर्गमः सिद्ध्यतीत्याहुः ।
केचित्तु आवणाभिभवार्थं वृत्तिनिर्गमानपेक्षायामपि चिदुपरागार्थं प्रमातृचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्याभेदाभिव्यक्त्यर्थं वा तदपेक्षेत्याहुः ।
अथ किम्प्रमाणकोऽयं जीवब्रह्मणोरभेदः, यो वृत्त्याऽभिव्यज्येत ? 'वेदान्तप्रमाणक' इति घण्टाघोषः । सर्वेऽपि वेदान्ताः उपक्रमोपसंहारैकरूप्यादितात्पर्यलिङ्गैर्विमृश्यमानाः प्रत्यगभिन्ने ब्रह्मण्यद्वितीये समन्वयन्ति । यथा चायमर्थः तथा शास्त्र एव समन्वयाध्याये प्रपञ्चितः । विस्तरभयान्नेह प्रतन्यत इति ॥ ॥ इति सिद्धान्तलेशसङ्ग्रहे प्रथमः परिच्छेदः ॥
॥ इति शास्त्रसिद्धान्तलेशसङ्ग्रहे प्रथमः परिच्छेदः ॥
अथ कथमद्वितीये ब्रह्मणि वेदान्तानां समन्वयः, प्रत्यक्षादिविरोधात् इति चेत्,
न आरम्भणाधिकरणोदाहृतश्रुतियुक्तिभिः प्रत्यक्षाद्यधिगम्यप्रपञ्चस्य ब्रह्मविवर्ततया मिथ्यात्वावगमात् ।
ननु - न श्रुतियुक्तिभिः प्रपञ्चस्य मिथ्यात्वं प्रत्याययितुं शक्यते, “घटः सन्” इत्यादिघटादिसत्त्वग्राहिप्रत्यक्षादिविरोधात्−
अत्राहुः तत्त्वशुद्धिकाराः− न प्रत्यक्षं घटपटादि तत्सत्त्वं वा गृह्णाति, किं तु अधिष्ठानत्वेन घटाद्यनुगतं सन्मात्रम् । तथा च प्रत्यक्षमपि सद्रूपब्रह्माद्वैतसिद्ध्यनुकूलमेव । तथा सति ‘सत्’ ‘सत्’ इत्येव प्रत्यक्षं स्यात्, न तु ‘घटः सन्’ इत्यादिप्रत्यक्षमिन्द्रियान्वयव्यतिरेकानुविधायि इति चेत् , न – यथा भ्रमेषु इदमंशस्याधिष्ठानस्य प्रत्यक्षेण ग्रहणम् , इन्द्रियान्वयव्यतिरेकयोः तत्रैवोपक्षयः, रजतांशस्य त्वारोपितस्य भ्रान्त्या प्रतिभासः, तथा सर्वत्र सन्मात्रस्य प्रत्यक्षेण ग्रहणम् , तत्रैवेन्द्रियव्यापारः, घटादिभेदवस्तुप्रतिभासो भ्रान्त्या, इत्यभ्युपगमात् । ननु तद्वदिह बाधादर्शनात् तथाभ्युपगम एव निर्मूल इति चेत् , न - बाधादर्शनेऽपि देशकालव्यवहितवस्तुवत् घटादिभेदवस्तुनः प्रत्यक्षायोग्यत्वस्यैव तत्र मूलत्वात् । तथाहि − इन्द्रियव्यापारानन्तरं प्रतीयमानो घटादिः सर्वतो भिन्न एव प्रतीयते, तदा तत्र घटादिभेदे संशयविपर्ययादिदर्शनात् । यत्रापि स्थाण्वादौ पुरुषत्वादिसंशयः तत्रापि तद्व्यतिरिक्तेभ्यो भेदोऽसन्दिग्धाविपर्यस्तत्वात् प्रकाशत एव । भेदस्य च प्रतियोगिसहोपलम्भनियमवतो न प्रत्यक्षेण ग्रहणं सम्भवति । देशकालव्यवधानेन असन्निकृष्टानामपि प्रतियोगिनां सम्भवात् । भेदज्ञानं प्रतियोग्यंशे संस्कारापेक्षणात् स्मृतिरूपमस्तु प्रत्यभिज्ञानमिव तत्तांशे इति चेत् , न तथापि भेदगतप्रतियोगिवैशिष्ट्यांशे तदभावात् । न च कनकाचलो भेदप्रतियोगी वस्तुत्वात् इति भेदे प्रतियोगिवैशिष्ट्यगोचरानुमित्या तत्संस्कारसम्भवः । भेदज्ञानं विना अनुमित्यभावेन (अनुमानप्रवृत्त्ययोगेन)आत्माश्रयापत्तेः । पक्षसाध्यहेतुसपक्षाद्यभेदभ्रमे सति सिद्धसाधनादिना अनुमानाप्रवृत्त्या तदभेदज्ञानविघटनाय तद्भेदज्ञानस्यापेक्षितत्वात् । अस्तु तर्हि भेदांश इव प्रतियोगिवैशिष्ट्यांशेऽपि प्रत्यक्षमिति चेत् , न - प्रतियोगिनोऽप्रत्यक्षत्वे तद्वैशिष्ट्यप्रत्यक्षायोगात् । सम्बन्धिद्वयप्रत्यक्षं विना सम्बन्धप्रत्यक्षासम्भवात् । तस्मात् प्रत्यक्षायोग्यस्य प्रतियोगिनो भ्रान्तिरूप एव प्रतिभास इति तदेकवित्तिवेद्यत्वनियतस्य भेदस्य भेदैकवित्तिवेद्यत्वनियतस्य घटादेश्च भ्रमैकविषयत्वात् प्रत्यक्षं निर्विशेषसन्मात्रग्राहि अद्वैतसिद्ध्यनुकूलमिति ।
न्यायसुधाकृतस्त्वाहुः− घटादेरैन्द्रियकत्वेऽपि ‘सन् घटः’ इत्यादिरधिष्ठानसत्तानुवेध इति न विरोधः । एवं नीलो घट इत्यादिरधिष्ठाननैल्यानुवेधः किं न स्यादिति चेत् , न श्रुत्या सद्रूपस्य वस्तुनो जगदुपादानत्वमुक्तम् अविरोधात् सर्वसम्मतमिति तदनुवेधेनैव ‘सन् घटः’ इत्यादिप्रतिभासोपपत्तौ घटादावपि सत्ताकल्पने गौरवम् , तस्य रूपादिहीनत्वान्नैल्यादिकं घटादावेव कल्पनीयमिति वैषम्यादिति ।
संक्षेपशारीरकाचार्यास्त्वाहुः− प्रत्यक्षस्य घटादिसत्त्वग्राहित्वेऽपि पराग्विषयस्य प्रत्यक्षादेस्तत्त्वावेदकत्वलक्षणप्रामाण्याभावान्न तद्विरोधेनाद्वैतश्रुत्यादिबाधशङ्का । अज्ञातबोधकं हि प्रमाणम् । न च प्रत्यक्षादि विषयस्य घटादेरज्ञातत्वमस्ति , जडे आवरणकृत्याभावेन अज्ञानविषयत्वानुपगमात् । स्वप्रकाशतया प्रसक्तप्रकाशं ब्रह्मैव अज्ञानविषय इति तद्बोधकमेव तत्त्वावेदकं प्रमाणम् , तदेव प्रमितिविषयः । अत एव श्रुतिरपि ‘आत्मा वा अरे द्रष्टव्यः’ इत्यात्मन एव प्रमेयत्वमिति नियच्छति । न हि द्रष्टव्य इत्यनेन दर्शनं विधीयते, प्रमाणपरतन्त्रस्य तस्य विध्यगोचरत्वात् , किं तु ‘आत्मा दर्शनार्हः’ इति अज्ञातत्वादात्मन एव प्रमेयत्वमुचितं ,नान्यस्येति नियम्यते − इति ।
केचित्तु - घटादिसत्त्वग्राहिणः प्रत्यक्षस्य प्रामाण्ये ब्रह्मप्रमाणन्यूनतानवगमेऽपि तद्ग्राह्यं सत्त्वमनुगतप्रत्ययात् सत्ताजातिरूपं वा, इहेदानीं घटोऽस्तीति देशकालसम्बन्धप्रतीतेः तत्तद्देशकालसम्बन्धरूपं वा, ‘नास्ति घट’ इति स्वरूपनिषेधप्रतीतेर्घटादिस्वरूपं वा पर्यवस्यति । तच्च स्वमिथ्यात्वेन न विरुध्यते । न हि मिथ्यात्ववादिनापि घटादेः स्वरूपं वा तस्य देशकालसम्बन्धो वा तत्र जात्यादिकं वा नाभ्युपगम्यते, किं तु तेषामबाध्यत्वम् । न चाबाध्यत्वमेव सत्त्वं प्रत्यक्षग्राह्यमस्त्विति वाच्यम् । ‘कालत्रयेऽपि नास्य बाधः’ इति वर्तमानमात्रग्राहिणा प्रत्यक्षेण ग्रहीतुमशक्यत्वात् - इत्याहुः ।
अन्ये तु - अबाध्यत्वरूपसत्त्वस्य प्रत्यक्षग्राह्यत्वेऽपि ‘प्राणा वै सत्यं तेषामेष सत्यं’ इति श्रुत्या प्रधानभूतप्राणग्रहणोपलक्षितस्य कृत्स्नस्य प्रपञ्चस्य ब्रह्मणश्च सत्यत्वोत्कर्षापकर्षप्रतीतेः, सत्यत्वे चाबाध्यत्वरूपे सर्वदैवाबाध्यत्वं किञ्चित्कालमबाध्यत्वम् इत्येवंविधोत्कर्षापकर्षं विना राजराजो मन्मथमन्मथ इत्यादि शब्दतात्पर्यगोचरनियन्तृत्वसौन्दर्यादीनामिव भूयोविषयत्वाल्पविषयत्वादिरूपोत्कर्षापकर्षासम्भवात्, विधान्तरेण तत्सम्भवेऽपि प्रपञ्चस्य ब्रह्मज्ञानबाध्यत्वश्रुत्यन्तरैकार्थ्यात् उक्तोत्कर्षापकर्ष एव पर्यवसानाच्च, प्रत्यक्षग्राह्यं घटादिसत्त्वं यावद्ब्रह्मज्ञानमबाध्यत्वरूपमिति न मिथ्यात्वश्रुतिविरोधः− इत्याहुः ।
अपरे तु - प्रपञ्चस्य मिथ्यात्वसत्यत्वग्राहिणोः श्रुतिप्रत्यक्षयोः विरोधेऽपि दोषशङ्काकलङ्कितात् प्रथमप्रवृत्तात् प्रत्यक्षात् निर्दोषत्वात् अपच्छेदन्यायेन परत्वाच्च श्रुतिरेव बलियसी । ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इति स्मरणाच्च । न च वेदैकगम्यार्थविषयमिदं स्मरणम् । तत्र प्रत्यक्षविरोधशङ्काया अभावेन शङ्कितप्रत्यक्षविरोध एव वेदार्थे वेदस्य प्राबल्योक्त्यौचित्यात् । ‘तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । न तलं विद्यते व्योम न खद्योतो हुताशनः ॥ तस्मात् प्रत्यक्षदृष्टेऽपि युक्तमर्थे परीक्षितुम् । परीक्ष्य ज्ञापयन्नर्थान् न धर्मात् परिहीयते’ ॥ इति नारदस्मृतौ साक्षिप्रकरणे प्रत्यक्षदृष्टस्यापि प्रत्यक्षमविश्वस्य प्रमाणोपदेशादिभिः परीक्षणीयत्वप्रतिपादनाच्च । न हि नभोनैल्यप्रत्यक्षं नभसः शब्दादिषु पञ्चसु शब्दैकगुणत्वप्रतिपादकागमोपदेशमन्तरेण प्रत्यक्षादिना शक्यमपवदितुम् । न च ‘नभसि समीपे नैल्यानुपलम्भात् दूरे तद्धीर्दूरत्वदोषजन्ये’ति निश्चयेन तद्बाधः । दूरे नैल्यादर्शनात् समीपे तदनुपलम्भस्तुहिनावकुण्ठनानुपलम्भवत्सामीप्यदोषजन्यः इत्यपि सम्भवात्, अनुभवबलात् नभोनैल्यमव्याप्यवृत्तीत्युपपत्तेश्च । नापि दूरस्थस्य पुंसो यत्र भूसन्निहिते नभःप्रदेशे नैल्यधीः, तत्रैव समीपं गतस्य नैल्यबुद्धेरभावप्रत्यक्षेण बाधः । उपरिस्थितस्यैव नैल्यस्याभ्रनक्षत्रादेरिव दूरत्वदोषात् भूसन्निधानावभास इत्युपपत्तेः । पृथिव्यादिषु सङ्कीर्णतया प्रतीयमानानां गन्धादीनाम् ‘उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणाः । पृथिव्यामेव तं विद्यात् अपो वायुं च संश्रितम्’ ॥ (म.भा.शा.२३८-७८) इत्यादिभिरागमैरेव व्यवस्थाया वक्तव्यत्वेन प्रत्यक्षादागमप्राबल्यस्य निर्विशङ्कत्वाच्च । न हि आजानसिद्धजलोपष्टम्भादिगतं गन्धादि ‘पृथिवीगुण एव गन्धः, न जलादिगुणः’ इत्यादिरूपेण अस्मदादिभिः प्रत्यक्षेण शक्यं विवेचयितुम् । पृथव्यादीनां प्रायः परस्परसंसृष्टतया अन्यधर्मस्यान्यत्रावभासः सम्भाव्यत इति शङ्कितदोषं प्रत्यक्षम्, अतस्त(त्रा) (दा)गमेन शिक्ष्यते - इति चेत् , तर्हीहापि ब्रह्मप्रपञ्चयोः उपादानोपादेयभावेन परस्परसंसृष्टतया अन्यधर्मस्यान्यत्रावभासः सम्भव्यत इति शङ्कितदोषं प्रत्यक्षं ‘अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥’ (दृग्दृश्यविवेकः -२०) इति वृद्धोक्तप्रकारेणागमेन व्यवस्थाप्यतामिति तुल्यम् । न चैवमुपजीव्यविरोधः । आगमप्रमाणेन वर्णपदवाक्यादिस्वरूपांशप्रत्यक्षमुपजीव्य अनुपजीव्यतत्सत्यत्वांशोपमर्दनात् - इत्याहुः ।
ननु - आगमस्य प्रत्यक्षात् बलीयस्त्वे ‘यजमानः प्रस्तरः’ इत्यत्र प्रत्यक्षाविरोधाय यजमानशब्दस्य प्रस्तरे गौणी वृत्तिर्न कल्पनीया । तथा ‘सोमेन यजेत’ इत्यत्र, वैयधिकरण्येनान्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापारभेदेन वाक्यभेदापत्तेः सामानाधिकरण्येनान्वये वक्तव्ये, प्रत्यक्षाविरोधाय सोमवता यागेनेति मत्वर्थलक्षणा न कल्पनीया । उभयत्रापि सत्यपि प्रत्यक्षविरोधे तदनादृत्य आगमेन बलीयसा प्रस्तरे यजमानाभेदस्य यागे सोमाभेदस्य च सिद्धिसम्भवात् इति चेत् –
अत्रोक्तं भामतीनिबन्धे – तात्पर्यवती श्रुतिः प्रत्यक्षात् बलवती, न श्रुतिमात्रम् । मन्त्रार्थवादानां तु स्तुतिद्वारभूतेऽर्थे वाक्यार्थद्वारभूते पदार्थ इव न तात्पर्यम् । तात्पर्याभावे मानान्तराविरुद्धदेवताविग्रहादिकं न तेभ्यः सिद्ध्येत् तात्पर्यवत्येव शब्दस्य प्रामाण्यनियमात् इति चेत् , न− ‘एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत’ (ता.ब्रा .१७ - ७ - १) इति विशिष्टविधेः तात्पर्यागोचरेऽपि विशेषणस्वरूपे प्रामाण्यदर्शनेन उक्तनियमासिद्धेः । अत्र हि रेवतीऋगाधारं वारवन्तीयं साम विशेषणम् । न चैतत् सोमादिविशेषणवल्लेकसिद्धम् । येन तद्विशिष्टयागविधिमात्रे प्रामाण्यं वाक्यस्य स्यात् । नापि विशिष्टविधिना विशेषणाक्षेपः । आक्षेपाद्विशेषणप्रतिपत्तौ विशिष्टगोचरो विधिः, तस्मिंश्च सति तेन विशेषणाक्षेपः, इति परस्पराश्रयापत्तेः । अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषणस्वरूपेऽपि प्रामाण्यं वक्तव्यम् । अथ च न तत्र तात्पर्यम् । उभयत्र तात्पर्ये वाक्यभेदापत्तेः । एवमर्थवादानामपि विधेयस्तुतिपराणां स्तुतिद्वारभूतेऽर्थे न तात्पर्यमिति तेभ्यः प्रत्यक्षस्यैव बलवत्त्वात् तदविरोधाय तेषु वृत्त्यन्तरकल्पनम् । ‘सोमेन यजेत’ इत्यत्र विशष्टविधिपरे वाक्ये सोमद्रव्याभिन्नयागरूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य ‘दध्ना जुहोति’ इत्यादौ विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विधिपराद्वाक्यादेव रेवत्याधारवारवन्तीयविशेषणस्येव विना तात्पर्यं सिद्धिरेष्टव्या । न हि तात्पर्यविरहितादागमाद्यागसोमलताभेदग्राहिप्रत्यक्षविरुद्धार्थः सिद्ध्यतीति तत्रापि तदविरोधाय मत्वर्थलक्षणाश्रयणम् । अद्वैतश्रुतिस्तु उपक्रमोपसंहारैकरूप्यादिषड्विधलिङ्गावगमिताद्वैततात्पर्या प्रत्यक्षाद्बलवतीति ततः प्रत्यक्षस्यैव बाधः, न तदविरोधाय श्रुतेरन्यथानयनमिति ।
विवरणवार्तिके तु प्रतिपादितं−
न तात्पर्यवत्त्वेन श्रुतेः प्रत्यक्षात् प्राबल्यम् । ‘कृष्णलं श्रपयेत्’ इति विधेः श्रपणस्य कृष्णलार्थत्वप्रतिपादने तात्पर्येऽपि कृष्णले रूपरसपरावृत्तिप्रादुर्भावपर्यन्तमुख्यश्रपणसम्बन्धः प्रत्यक्षविरुद्ध इति तदविरोधाय श्रपणशब्दस्य उष्णीकरणमात्रे लक्षणाभ्युपगमात् , ‘तत्त्वमसी’तिवाक्यस्य जीवब्रह्माभेदप्रतिपादने तात्पर्येऽपि त्वम्पदवाच्यस्य तत्पदवाच्याभेदः प्रत्यक्षविरुद्ध इति तदविरोधाय निष्कृष्टचैतन्ये लक्षणाभ्युपगमाच्च । अर्थवादानामपि प्रयाजाद्यङ्गविधिवाक्यानामिव स्वार्थप्रमितावनन्यार्थता, प्रमितानामेवार्थानां प्रयोजनवशादन्यार्थता, इति प्रयाजादिवाक्यवत्तेषामप्यवान्तरसंसर्गे तात्पर्यमस्त्येव, वाक्यैकवाक्यत्वात् , पदैकवाक्यतायामेव परम् अवान्तरतात्पर्यानभ्युपगमः− इति विवरणाचार्यैर्न्यायनिर्णये व्यवस्थापनेन ‘यजमानः प्रस्तरः’ इत्यादीनामपि मुख्यार्थतात्पर्यप्रसक्तौ प्रत्यक्षाविरोधायैव लक्षणाभ्युपगमाच्च ।
कथं तर्हि श्रुतेः प्राबल्यम् ? उच्यते− निर्दोषत्वात् परत्वाच्च श्रुतिमात्रस्य प्रत्यक्षात् प्राबल्यम् इत्युत्सर्गः । किं तु श्रुतिबाधितमपि प्रत्यक्षं कथञ्चित् स्वोचितविषयोपहारेण सम्भावनीयम् , निर्विषयज्ञानायोगात् । अत एव अद्वैतश्रुतिविरोधेन तत्त्वावेदनात् प्रच्यावितं प्रत्यक्षम् अर्थक्रियासमर्थव्यावहारिकविषयसमर्पणेनोपपाद्यते । किं बहुना−’नेदं रजतं’ इति सर्वसिद्धप्रत्यक्षबाधितमपि शुक्तिरजतप्रत्यक्षम् अनुभवानुरोधात् पुरोदेशे शुक्तिसम्भिन्नरजतोपगमेन समर्थ्यते, न तु तद्विरोधेन व्यवहितमान्तरमसदेव वा रजतं विषय इति परिकल्प्यते । एवं च प्रस्तरे यजमानभेदग्राहिणो यावद्ब्रह्मज्ञानमनुवर्तमानस्य प्रत्यक्षस्य अर्थक्रियासंवादेन प्रातिभासिकविषयत्वाभ्युपगमेनोपपादनायोगात् ‘यजमानः प्रस्तरः’ इति श्रुतिबाध्यत्वे सर्वथा निर्विषयत्वं स्यादिति तत्परिहाराय उत्सर्गमपोद्य श्रुतिरेव तत्सिद्ध्यधिकरणादि प्रतिपादितप्रकारेण अन्यथा नीयते । न च अद्वैतश्रुतिप्रत्यक्षयोरिव इह श्रुतिप्रत्यक्षयोस्तात्त्विकव्यावहारिकविषयत्वोपगमेन प्रत्यक्षोपपादनं कर्तुं शक्यम् । ब्रह्मातिरिक्तसकलमिथ्यात्वप्रतिपादकषड्विधतात्पर्यलिङ्गोपपन्नानेकश्रुतिविरुद्धेन एकेनार्थवादेन प्रस्तरे यजमानतादात्म्यस्य तात्त्विकस्य प्रतिपादनासम्भवात् । एवं तत्त्वमसिवाक्येन त्वम्पदवाच्यस्य सर्वज्ञत्वाभोक्तृत्वाकर्तृत्वादिविशिष्टब्रह्मस्वरूपत्वबोधने तत्र असर्वज्ञत्वभोक्तृत्वादिप्रत्यक्षमत्यन्तं निरालम्बनं स्यादिति, तत्परिहाराय अहङ्कारशबलितस्य भोक्तृत्वादि ततो निष्कृष्टस्य शुद्धस्य उदासीनब्रह्मस्वरूपत्वमिति व्यवस्थामाश्रित्य भागत्यागलक्षणा आश्रीयते । एवं ‘कृष्णलं श्रपयेत्’ इत्यादावपि प्रत्यक्षस्यात्यन्तनिर्विषयत्वप्रसक्तौ तत्परिहाराय श्रुतौ लक्षणा । कथञ्चिद्विषयोपपादनसम्भवे तु न प्रबलायाः श्रुतेरन्यथानयनमिति न कश्चिदप्यव्यवस्थाप्रसङ्गः ।
अथवा ‘कृष्णलं श्रपयेत्’, ‘सोमेन यजेत’ इत्यादौ न प्रत्यक्षानुरोधेन लक्षणाश्रयणम् , किं त्वनुष्ठानाशक्त्या । न हि कृष्णले उष्णीकरणमिव मुख्यः पाकोऽनुष्ठातुं शक्यते । न वा सोमद्रव्यकरणको याग इव तदभिन्नो यागः केनचिदनुष्ठातुं शक्यते । न चानुष्ठेयत्वाभिमतस्य प्रत्यक्षविरोध एव अनुष्ठानाशक्तिरिति शब्दान्तरेण व्यवह्रियत इति वाच्यम् । ‘शशिमण्डलं कान्तिमत् कुर्यात्’ इति विधौ अनुष्ठेयत्वाभिमतस्य शशिमण्डले कान्तिमत्त्वस्य प्रत्यक्षाविरोधेऽप्यनुष्ठानाशक्तिदर्शनेन तस्यास्ततो भिन्नत्वात् । तथा च तत्र तत एव लक्षणाश्रयणम् ।
तस्मात् अपच्छेदन्यायादिसिद्धस्य श्रुतिबलीयस्त्वस्य न कश्चित् बाध इति ।
अथ कथमत्रापच्छेदन्यायप्रवृत्तिः ? उच्यते − यथा ज्योतिष्टोमे बहिष्पवमानार्थं प्रसर्पताम् उद्गातुरपच्छेदे सति ‘यद्युद्गाताऽपच्छिद्येत अदक्षिणं तं यज्ञम् इष्ट्वा तेन पुनर्यजेत’ इति श्रुतिनिरीक्षणेन जाता उद्गात्रपच्छेदनिमित्त(प्रायश्चित्त)कर्तव्यताबुद्धिः पश्चात् प्रतिहर्त्रपच्छेदे सति ‘यदि प्रतिहर्तापच्छिद्येत सर्ववेदसं दद्यात्’ इति श्रुतिनिरीक्षणेन जातया तद्विरुद्धप्रतिहर्त्रपच्छेदनिमित्त(प्रायश्चित्त)कर्तव्यताबुद्ध्या बाध्यते । एवं पूर्वं घटादिसत्यत्वप्रत्यक्षं परया तन्मिथ्यात्वश्रुतिजन्यबुद्ध्या बाध्यते । न चोदाहृतस्थले पूर्वनैमित्तिककर्तव्यताबुद्धेः परनैमित्तिककर्तव्यताबुद्ध्या बाधेऽपि पूर्वनैमित्तिककर्तव्यताबुद्धिजनकं शास्त्रं यत्रोद्गातृमात्रापच्छेदः उभयोरपि युगपदपच्छेदो वा उद्गात्रपच्छेदस्य परत्वं वा, तत्र सावकाशम् , प्रत्यक्षं तु अद्वैतश्रुत्या बाधे विषयान्तराभावान्निरालम्बनं स्यादिति वैषम्यं − शङ्कनीयम् । यत्र घटादौ श्रुत्या बाध्यं प्रत्यक्षं प्रवर्तते तत्रैव व्यावहारिकं विषयं लब्ध्वा कृतार्थस्य तस्य परापच्छेदस्थले सर्वथा बाधितस्य पूर्वापच्छेदशास्त्रस्येव विषयान्तरान्वेषणाभावात्  । इहापि सर्वप्रत्ययवेद्यब्रह्मसत्तायां सावकाशं प्रत्यक्षमिति वक्तुं शक्यत्वाच्च ।
यत्तु - एकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां क्रतौ तत्तन्नैमित्तिककर्तव्यतयोर्बदरफले श्यामरक्तरूपयोरिव क्रमेणोत्पादात् रूपज्ञानद्वयवत् कर्तव्यताज्ञानद्वयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधे अपच्क्षेदन्याय उदाहरणम् । अत एवापच्छेदाधिकरणे (पू. मी . ६-५-१९)‘नैमित्तिक(शस्त्राणां)(शास्त्रस्य) ह्ययमर्थः निमित्तोपजननात् प्रागन्यथाकर्तव्योऽपि क्रतुः निमित्ते सत्यन्यथाकर्तव्यः’ इति शास्त्रदीपिकावचानमिति , तन्न ; अङ्गस्य सतः कर्तव्यत्वम् । न च पश्चाद्भाविप्रतिहर्त्रपच्छेदवति क्रतौ पूर्ववृत्तोद्गात्रपच्छेदनिमित्तकस्य प्रायश्चित्तस्याङ्गत्वमस्ति । आहवनीयशास्त्रस्य पदहोमातिरिक्तहोमविषयत्ववद्‘यद्युद्गातावऽपच्छेद्येत’ इति शास्त्रस्य पश्चाद्भाविप्रतिहर्त्रपच्छेदरहितक्रतुविषयत्वात् । उक्तं हि न्यायरत्नमालायाम् - ‘साधारणस्य शास्त्रस्य विशेषविषयादिना । सङ्कोचः क्लृप्तरूपस्य प्राप्तबाधोऽभिधीयते ॥’ इत्युक्तलक्षणप्राप्तबाधविवेचने , "तत्रैवं सति शास्त्रार्थो भवति , पश्चाद्भाव्युद्गात्रपच्छेदविधुरप्रतिहर्त्रपच्छेदवतः क्रतोस्सर्ववेदसदानमङ्गम् , एवमुद्गात्रपच्छेदेऽपि द्रष्टव्यम्’ इति । यत्तु शास्त्रदीपिकावचनमुदाहृतम् , तदपि ‘तेनोत्पन्नमपि पूर्वप्रायश्चित्तज्ञानं मिथ्या भवति, बाधितत्वात् , उत्तरस्य तु न किञ्चिद्बाधकमस्ति’ इति पूर्वकर्तव्यताबाध्यत्वप्रतिपादकग्रन्थोपसंहारपठितत्वात् ‘निमित्तोपजननात्प्राक् निमित्तोपजननं विना निमित्तोपजननाभावे सति अन्यथा कर्तर्व्योऽपि’ इति कृत्वाचिन्तामात्रपरम् , न तु ‘उत्तरनिमित्तोपजननात्प्राक्पूर्वनैमित्तिककर्तव्यता वस्तुत आसीत्’ इत्येवंपरम् । पूर्वग्रन्थसन्दर्भविरोधापत्तेः ।
आस्तां मीमांसकमर्यादा । श्यामतदुत्तररक्तरूपन्यायेन क्रमिककर्तव्यताद्वयोत्पत्त्युपगमे को विरोधः । उच्यते − तथा हि − किं तत्कर्तव्यत्वम् , यत् परनैमित्तिककर्तव्यतोत्पत्त्या निवर्तेत । न तावत् पूर्वनैमित्तिकस्य कृतिसाध्यत्वयोग्यत्वम् । तस्य पश्चादप्यनपायात् । नापि फलमुखं कृतिसाध्यत्वम् । तस्य पूर्वमप्यजननात् । नापि यदननुष्ठाने क्रतोर्वैकल्यं तत्त्वम् , अङ्गत्वं वा । अननुष्ठाने क्रतुवैकल्यप्रयोजकत्वस्य नियमविशेषरूपत्वेन, कर्माङ्गत्वस्य फलोपकारितया सन्निपातितया वा कारणत्वविशेषरूपत्वेन च, तयोः कादाचित्कत्वायोगेन स्वाभाविकत्वनिर्वाहाय ‘पश्चाद्भाविविरुद्धापच्छेदाभाववतः क्रतोः पूर्वापच्छेदनैमित्तिकमङ्गं तत्रैव तदननुष्ठानं क्रतुवैकल्यप्रयोजकं’ इति विशेषणीयतया पाश्चात्त्यापच्छेदान्तरवति क्रतौ पूर्वापच्छेदनैमित्तिके क्रत्वङ्गत्वस्य तदनुष्ठाने क्रतुवैकल्यप्रयोजकत्वस्य वा पाश्चात्त्यापच्छेदोत्पत्तेः पूर्वमसम्भवात् । न हि − वस्तु किञ्चिद्वस्त्वन्तरं प्रति कञ्चित्कालं व्यप्यं पश्चान्नेति वा, कञ्चित्कालं कारणं पश्चान्नेति वा, क्वचिद्दृष्टं युक्तं वा । नापि कर्तव्यत्वं नाम धर्मान्तरमेव आगमापाययोग्यं कल्प्यम् । मानाभावात् , विरुद्धापच्छेदशास्त्रयोः पदाहवनीयशास्त्रवद्व्यवस्थोपपत्तेः । तस्मात् निरालम्बनं क्रमिककर्तव्यताद्वयोत्पत्तिवचः ।
ननु चोपक्रमाधिकरणन्यायेन असञ्जातविरोधित्वात् प्रत्यक्षमेव आगमात् बलीयः किं न स्यात् ।
उच्यते − यत्रैकवाक्यता प्रतीयते तत्रैकस्मिन्नेवार्थे पर्यवसानेन भाव्यम् , अर्थभेदे प्रतितैकवाक्यताभङ्गप्रसङ्गात् । अतस्तत्र प्रथमसञ्जातप्रतिपक्षेण ‘प्रजापतिर्वरुणायाश्वमनयत्’ (तै.सं. २-३-१२) इत्याद्युपक्रमेण परकृतिसरूपार्थवादेन दातुरिष्टौ बुद्धिमधिरोपितायां तद्विरुद्धार्थं ‘यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निर्वपेत्’ इत्युपसंहारगतपदजातम् उपजातप्रतिपक्षत्वात् यथाश्रुतार्थसमर्पणेन तदेकवाक्यतामप्रतिपद्यमानम् एकवाक्यतानिर्वाहाय णिजर्थमन्तर्भाव्य तदानुगुण्येनैवात्मानं लभत इति उपक्रमस्य प्राबल्यम् । यत्र तु परस्परमेकवाक्यता न प्रतीयते तत्र पूर्ववृत्तमविगणय्य लब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थं बोधयत्येवेति न तत्र पूर्ववृत्तस्य प्राबल्यम् । अत एव षोडशिग्रहणवाक्यं पूर्ववृत्तमविगणय्य तदग्रहणवाक्यस्यापि स्वार्थबोधकत्वमुपेयते । किन्तु उभयोर्विषयान्तराभावात् अगत्या तत्रैव विकल्पानुष्ठानमिष्यते । एवं च अद्वैतागमस्य प्रत्यक्षेणैकवाक्यत्वशङ्काभावात् पूर्ववृत्तमपि तदविगणय्य स्वार्थबोधकत्वमप्रतिहतम् । तदर्थबोधजनने च ‘पूर्वं परमजातत्वादबाधित्वैव जायते । परस्यानन्यथोत्पादात् नाद्याबाधेन सम्भवः ॥’ (तन्त्रवा ३-३-१४) इत्यपच्छेदन्यायस्यैव प्रवृत्तिः, नोपक्रमन्यायस्य । अत एव लोकेऽपि प्रथमप्रवृत्तं शुक्तिरूप्यप्रत्यक्षम् आप्तोपदेशेन बाध्यते इति ।
ननु−तथाप्युपजीव्यत्वेन प्रत्यक्षस्यैव प्राबल्यं दुर्वारम् । अपच्छेदशास्त्रयोर्हि न पूर्वं परस्योपजीव्यमिति युक्तः परेण पूर्वस्य बाधः । इह तु वर्णपदादिस्वरूपग्राहकतया मिथ्यात्वबोधकागमं प्रति प्रत्यक्षस्योपजीव्यत्वात् आगमस्यैव तद्विरुद्धमिथ्यात्वाबोधकत्वरूपो बाधो युज्यते । न च मिथ्यात्वश्रुत्या वर्णपदादिसत्यत्वांशोपमर्देऽपि उपजीव्यस्वरूपांशोपमर्दाभावात् नोपजीव्यविरोध इति वाच्यम् । ‘नेह नानास्ति किञ्चन’ (क. उ. २ । ४ । ११) इत्यादिश्रुतिभिः स्वरूपेणैव प्रपञ्चाभावबोधनात् ।
अत्र केचिदाहुः − वृषमानयेत्यादिवाक्यं श्रवणदोषात् वृषभमानयेत्यादिरूपेण शृण्वतोऽपि शाब्दप्रमितिदर्शनेन शाब्दप्रमितौ वर्णपदादिप्रत्यक्षं प्रमाभ्रमसाधारणमेवापेक्षितमिति अद्वैतागमेन वर्णपदादिप्रत्यक्षमात्रमुपजीव्यं न तत्प्रमा । तथा च वर्णपदादिस्वरूपोपमर्देऽपि नोपजीव्यविरोध इति ।
अन्ये त्वाहु: − शाब्दप्रमितौ वर्णपदादिस्वरूपसिद्ध्यनपेक्षायामपि अयोग्यशब्दात् प्रमित्यनुदयात् योग्यतास्वरूपसिद्ध्यपेक्षाऽस्ति । तदपेक्षायामपि नोपजीव्यविरोधः । ‘नेह नानास्ति’ इति श्रुत्या निषेधेऽपि यावद्ब्रह्मज्ञानमनुवर्तमानस्यार्थक्रियासंवादिनोऽसद्विलक्षणप्रपञ्चस्वरूपस्याङ्गीकारात् । अन्यथा प्रत्यक्षादीनां व्यावहारिकप्रमाणानां निर्विषयत्वप्रसङ्गात् । न च −स्वरूपेण निषेधेऽपि कथं प्रपञ्चस्वरूपस्यात्मलाभः , निषेधस्य प्रतियोग्यप्रतिक्षेपरूपत्वे व्याघातात् - इति वाच्यम् । शुक्तौ ‘इदं रजतं’ ‘नेदं रजतं’ इति प्रतीतिद्वयानुरोधेन अधिष्ठानगताध्यस्ताभावस्य बाधपर्यन्तानुवृत्तिकासद्विलक्षणप्रतियोगिस्वरूपसहिष्णुत्वाभ्युपगमात् । एतेन प्रपञ्चस्य स्वरूपेण निषेधे शशशृङ्गवदसत्त्वमेव स्यादिति निरस्तम् । ब्रह्मज्ञाननिवर्त्यस्वरूपाङ्गीकारेण वैषम्यात् । न च अस्याध्यस्तस्य अधिष्ठाने स्परूपेण निषेधे अन्यत्र तस्य स्वरूपेण निषेधः स्वतस्सिद्ध इति तस्य सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वापत्त्या असत्त्वं दुर्वारम् । ‘सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वमसत्त्वं’ इत्येवासत्त्वनिर्वचनात् , विधान्तरेण तन्निर्वचनायोगादिति−वाच्यम् । असतः सर्वदेशकालसम्बन्धिनिषेधप्रतियोगित्वमुपगच्छता तस्य तथात्वे, प्रत्यक्षस्य सर्वदेशकालयोः प्रत्यक्षीकरणायोगेन आगमस्य तादृशागमानुपलम्भेन च प्रमाणयितुमशक्यतया, अनुमानमेव प्रमाणयितव्यमिति तदनुमाने यत् सद्व्यावृत्तं लिङ्गं वाच्यं तस्यैव प्रथमप्रतीतस्य असत्त्वनिर्वचनत्वोपपत्ते: − इति ।
अपरे तु−नेह नानास्तीति श्रुतेः सत्यत्वेन प्रपञ्चनिषेध एव तात्पर्यं न स्वरूपेण । स्वरूपेण निषेधस्य स्वरूपाप्रतिक्षेपकत्वे तस्य तन्निषेधत्वायोगात् । तत्प्रतिक्षेपकत्वे प्रत्यक्षविरोधात् । न च सत्यत्वस्यापि ‘सन् घटः’ इत्यादिप्रत्यक्षसिद्धत्वात् न तेनापि रूपेण निषेधो युक्त इति वाच्यम् । प्रत्यक्षस्य श्रुत्यविरोधाय सत्यत्वाभासरूपव्यावहारिकसत्यत्वविषयत्वोपपत्तेः । न चैवं सति पारमार्थिकसत्यत्वस्य ब्रह्मगतस्य प्रपञ्चे प्रसक्त्यभावात् तेन रूपेण प्रपञ्चनिषेधानुपपत्तिः । यथा शुक्तौ रजताभासप्रतीतिरेव सत्यरजतप्रसक्तिरिति तन्निषेधः, अत एव ‘नेदं रजतं किं तु तत्’ ‘नेयं मदीया गौः किं तु सैव’ ‘नात्र वर्तमानश्चैत्रः किं त्वपवरके’ इति निषिध्यमानस्यान्यत्र सत्त्वमवगम्यते ; एवं सत्यत्वाभासप्रतीतिरेव सत्यत्वप्रसक्तिरिति तन्निषेधोपपत्तेः । अतो वर्णपदयोग्यतादिस्वरूपोपमर्दशङ्काभावान्नोपजीव्यविरोध इत्याहु: ।
अन्ये तु - ब्रह्मणि पारमार्थिकसत्यत्वम् , प्रपञ्चे व्यावहारिकसत्यत्वं सत्यत्वाभासरूपम् , शुक्तिरजतादौ प्रातिभासिकसत्यत्वं ततोऽपि निकृष्टम् , इति सत्तात्रैविध्यं नोपेयते । अधिष्ठानब्रह्मगतपारमार्थिकसत्तानुवेधादेव घटादौ शुक्तिरजतादौ च सत्त्वाभिमानोपपत्त्या सत्यत्वाभासकल्पनस्य निष्प्रमाणकत्वात् । एवं च प्रपञ्चे सत्यत्वप्रतीत्यभावात् तत्तादात्म्यापन्ने ब्रह्मणि तत्प्रतीतेरेव अविवेकेन प्रपञ्चे तत्प्रसक्तित्वोपपत्तेश्च सत्यत्वेन प्रपञ्चनिषेधे नोपजीव्यविरोधः, न वा अप्रसक्तनेषेधनम् । न च ब्रह्मगतपारमार्थिकसत्तातिरेकेण प्रपञ्चे सत्त्वाभासानुपगमे व्यवहितसत्यरजतातिरेकेण शुक्तौ रजताभासोत्पत्तिः किमर्थमुपेयत इति वाच्यम् । व्यवहितस्यासन्निकृष्टस्यापरोक्ष्यासम्भवात् तन्निर्वाहाय तदुपगमात् इत्याहुः ।
नन्वेवं प्रतिबिम्बभ्रमस्थलेऽपि ग्रीवास्थमुखातिरेकेण दर्पणे मुखाभासोत्पत्तिरुपेया स्यात् । स्वकीये ग्रीवास्थमुखे नासाद्यवच्छिन्नप्रदेशापरोक्ष्यसम्भवेऽपि नयनगोलकललाटादिप्रदेशापरोक्ष्ययोगात् , प्रतिबिम्बभ्रमे नयनगोलकादिप्रदेशापरोक्ष्यदर्शनाच्च । न च बिम्बातिरिक्तप्रतिबम्बाभ्युपगमे इष्टापत्तिः । ब्रह्मप्रतिबिम्बजीवस्यापि ततो भेदेन मिथ्यात्वापत्तेः ।
अत्र विवरणानुसारिणः प्राहुः− ग्रीवास्थ एव मुखे दर्पणोपाधिसन्निधानदोषात् दर्पणस्थत्वप्रत्यङ्मुखत्वबिम्बभेदानामध्याससम्भवेन न दर्पणे मुखस्याप्यध्यासः कल्पनीयः , गौरवात् । ‘दर्पणे मुखं नास्ति’ इति संसर्गमात्रबाधात् । मिथ्यावस्त्वन्तरत्वे ‘नेदं मुखं’ इति स्वरूपबाधापत्तेः । ‘दर्पणे मम मुखं भाति‘ इति स्वमुखाभेदप्रत्यभिज्ञानाच्च । न च ग्रीवास्थमुखस्याधिष्ठानस्यापरोक्ष्यासम्भवः । उपाधिप्रतिहतनयनरश्मीनां परावृत्य बिम्बग्राहित्वनियमाभ्युपगमात् । तन्नियमानभ्युपगमे परमाणोः कुड्यादिव्यवहितस्थूलस्यापि चाक्षुषप्रतिबिम्बभ्रमप्रसङ्गात् । न चाव्यवहितस्थूलोद्भूतरूपवत एव चाक्षुषप्रतिबिम्बभ्रमः नान्यस्येति नियम इति वाच्यम् । बिम्बस्थौल्योद्भूतरूपयोः क्लृप्तेन चाक्षुषज्ञानजननेन उपयोगसम्भवे विधान्तरेणोपयोगकल्पनानुपपत्तेः । कुड्यादिव्यवधानस्य प्रतिहतनयनरश्मिसम्बन्धविघटनं विनैव इह प्रतिबन्धकत्वे तथैव घटप्रत्यक्षादिस्थलेऽपि तस्य प्रतिबन्धकत्वसम्भवेन चक्षुःसन्निकर्षमात्रस्य कारणत्वविलोपप्रसङ्गाच्च, दर्पणे मिथ्यामुखाध्यासवादिनापि कारणत्रयान्तर्गतसंस्कारसिद्ध्यर्थं नयनरश्मीनां कदाचित् परावृत्त्य स्वमुखग्राहकत्वकल्पनयैव पूर्वानुभवस्य समर्थनीयत्वाच्च । न च नासादिप्रदेशावच्छिन्नपूर्वानुभवादेव संस्कारोपपत्तिः । तावता नयनगोलकादिप्रतिबिम्बाध्यासानुपपत्तेः, तटाकसलिले तटविटपिसमारूढादृष्टचरपुरुषप्रतिबिम्बाध्यासस्थले कथमपि पूर्वानुभवस्य दुर्वचत्वाच्च । एवं च उपाधिप्रतिहतनयनरश्मीनां बिम्बं प्राप्य तद्ग्राहकत्वेऽवश्यं वक्तव्ये फलबलात् - दर्पणाद्यभिहतानामेव बिम्बं प्राप्यतद्ग्राहकत्वम् , न शिलादिप्रतिहतानाम् , अनतिस्वच्छताम्रादिप्रतिहतानां मलिनोपाधिसम्बन्धदोषात् मुखादिसंस्थानविशेषाग्राहकत्वम् , साक्षात्सूर्यं प्रेप्सूनामिव उपाधिं प्राप्य निवृत्तानां न तथा सौरतेजसा प्रतिहतिरिति न प्रतिबिम्बसूर्यावलोकने साक्षात्तदवलोकन इव अशक्यत्वम् , जलाद्युपाधिसन्निकर्षे केषाञ्चित् उपाधिप्रतिहतानां बिम्बप्राप्तावपि केषाञ्चित् तदन्तर्गमनेनान्तरसिकतादिग्रहणं - इत्यादिकल्पनान्न कश्चिद्दोष इति ।
अद्वैतविद्याकृतस्तु प्रतिबिम्बस्य मिथ्यात्वमभ्युपगच्छतां त्रिविधजीववादिनां विद्यारण्यगुरुप्रभृतीनामभिप्रायमेवमाहु: − चैत्रमुखात् भेदेन तत्सदृशत्वेन च पार्श्वस्थैः स्पष्टं निरीक्ष्यमाणं दर्पणे तत्प्रतिबिम्बं ततो भिन्नं स्वरूपतो मिथ्यैव, स्वकरगतादिव रजतात् शुक्तिरजतम् । न च ‘दर्पणे मम मुखं भाति’ इति बिम्बाभेदज्ञानविरोधः । स्पष्टभेदद्वित्वप्रत्यङ्मुखत्वादिज्ञानविरोधेन अभेदज्ञानासम्भवात् , ‘दर्पणे मम मुखं’ इति व्यपदेशस्य स्वच्छायां मुखे स्वमुखव्यपदेशवत् गौणत्वाच्च । न च अभेदज्ञानविरोधात् भेदव्यपदेश एव गौणः किं न स्यादिति शङ्क्यम् । बालानां प्रतिबिम्बे पुरुषान्तरभ्रमस्य हानोपादित्साद्यर्थक्रियापर्यन्तस्य अपलपितुमशक्यत्वात् । न च प्रेक्षावतामपि स्वमुखविशेषपरिज्ञानाय दर्पणाद्युपादानदर्शनात् अभेदज्ञानमप्यर्थक्रियापर्यन्तमिति वाच्यम् । भेदेऽपि प्रतिबिम्बस्य बिम्बसमानाकारत्वनियमविशेषपरिज्ञानादेव तदुपादानोपपत्तेः । यत्तु - नात्र मुखमिति दर्पणे मुखसंसर्गमात्रस्य बाधः, न मुखस्येति , तन्न - ‘नेदं रजतमि’त्यत्रापि इदमर्थे रजततादात्म्यमात्रस्य बाधो न रजतस्येत्यापत्तेः । यदि च इदमंशे रजतस्य तादात्म्येनाध्यासात् नेदं रजतमिति तादात्म्येन रजतस्यैव बाधः न तादात्म्यमात्रस्य, तदा दर्पणे मुखस्य संसर्गितयाऽध्यासात् नात्रमुखमिति संसर्गितया मुखस्यैव बाधः न संसर्गमात्रस्येति तुल्यम् । यत्तु धर्मिणोऽप्यध्यासकल्पने गौरवमिति, तद्रजताभासकल्पनागौरववत् प्रामाणिकत्वान्न दोषः । स्वनेत्रगोलकादिप्रतिबिम्बभ्रमस्थले बिम्बापरोक्ष्यकल्पनोपायाभावात् । नयनरश्मीनामुपाधिप्रतिहतानां बिम्बप्राप्तिकल्पने हि दृष्टविरुद्धं बह्वापद्यते । कथं जलसन्निकर्षे केषुचिन्नयनरश्मिषु अप्रतिहतमन्तर्गच्छत्सु अन्ये जलसम्बन्धेनापि प्रतिहन्यमाना नितान्तमृदवः सकलनयनरश्मिप्रतिघातिनं किरणसमूहं निर्जित्य तन्मध्यगतं सूर्यमण्डलं प्रविशेयुः । कथं च चन्द्रावलोकन इव तत्प्रतिबिम्बावलोकनेऽपि अमृतशीतलतद्बिम्बसन्निकर्षाविशेषे लोचनयोः शैत्याभिव्यक्त्या आप्यायनं न स्यात् । कथं च जलसम्बन्धेनापि प्रतिहन्यमानाः शिलादिसम्बन्धेन न प्रतिहन्येरन् , तत्प्रतिहत्या परावृत्तौ वा नयनगोलकादिभिर्न संसृज्येरन् , तत्संसर्गे वा संसृष्टं न साक्षात्कारयेयुः । दोषेणापि हि विशेषांशग्रहणमात्रं प्रतिबध्यमानं दृश्यते, न तु सन्निकृष्टधर्मिस्वरूपग्रहणमपि । प्रतिमुखाध्यासपक्षे तु न किञ्चिद्दृष्टविरुद्धं कल्पनीयम् । तथा हि - अव्यवहितस्थूलोद्भूतरूपस्यैव चाक्षुषाध्यासदर्शनात् बिम्बगतस्थौल्योद्भूतरूपयोः स्वाश्रयसाक्षात्कारकारणत्वेन क्लृप्तयोः स्वाश्रयप्रतिबिम्बाध्यासेऽपि कारणत्वम् , कुड्याद्यावरणद्रव्यस्य त्वगिन्द्रियन्यायेन प्राप्यकारितयावगतनयनसन्निकर्षविघटनद्वारा व्यवहितवस्तुसाक्षात्कारप्रतिबन्धकत्वेन क्लृप्तस्य व्यवहितप्रतिबिम्बाध्यासेऽपि विनैव द्वारान्तरं प्रतिबन्धकत्वं च कल्पनीयम् । तत्र को विरोधः क्वचित्कारणत्वादिना क्लृप्तस्य फलबलादन्यत्रापि कारणत्वादिकल्पने । एतेन− उपाधिप्रतिहतनयनरश्मीनां बिम्बप्राप्त्यनुगमने व्यवहितस्योद्भूतरूपादिरहितस्य च चाक्षुषप्रतिबिम्बभ्रमप्रसङ्ग इति−निरस्तम् । किं च तदुपगम एव उक्तदूषणप्रसङ्गः । कथम् ? साक्षात् सूर्यावलोकन इव विनापि चक्षुर्विक्षेपम् अवनतमौलिना निरीक्ष्यमाणे सलिले तत्प्रतिहतानां नयनरश्मीनामूर्ध्वमुत्प्लुत्य बिम्बसूर्यग्राहकत्ववत् तिर्यक्चक्षुर्विक्षेपं विना ऋजुचक्षुषा दर्पणे विलोक्यमाने तत्प्रतिहतानां पर्श्वस्थमुखग्राहकत्ववच्च वदनसाचीकरणाभावेऽप्युपाधिप्रतिहतानां पृष्ठभागव्यवहितग्राहकत्वं तावत् दुर्वारम् । उपाधिप्रतिहतनयनरश्मीनां प्रतिनिवृत्तिनियमं विहाय यत्र बिम्बं तत्रैव गमनोपगमात् । तथा मलिनदर्पणे श्यामतया गौरमुखप्रतिबिम्बस्थले विद्यमानस्यापि बिम्बगतगौररूपस्य चाक्षुषज्ञानेऽनुपयोगितया पीतशङ्खभ्रमन्यायेनारोप्यरूपवैशिष्ट्येनैव बिम्बमुखस्य चाक्षुषत्वं निर्वाह्यमिति तथैव नीरूपस्यापि दर्पणोपाधिश्यामत्ववैशिष्ट्येन चाक्षुषप्रतिबिम्बभ्रमविषयत्वमपि दुर्वारम् । स्वतो नीरूपस्यापि नभसोऽध्यस्तनैल्यवैशिष्ट्येन चाक्षुषत्वसंप्रतिपत्तेः । तस्मात् स्वरूपतः प्रतिमुखाध्यासपक्ष एव श्रेयन् । न च तत्रापि पूर्वानुभवसंस्कारदौर्घट्यम् । पुरुषसामान्यानुभवसंस्कारमात्रेण स्वप्नेष्वदृष्टचरपुरुषाध्यासवत् मुखसामान्यानुभवसंस्कारमात्रेण दर्पणेषु मुखविशेषाध्यासोपपत्तेः । इयांस्तु भेदः− स्वप्नेषु शुभाशुभहेत्वदृष्टानुरोधेन पुरुषाकृतिविशेषाध्यासः, इह तु बिम्बसन्निधानानुरोधेन मुखाकृतिविशेषाध्यास इति । न च प्रतिबिम्बस्य स्वरूपतो मिथ्यात्वे ब्रह्मप्रतिबिम्बजीवस्यापि मिथ्यात्वापत्तिर्दोषः । प्रतिबिम्बजीवस्य तथात्वेऽपि अवच्छिन्नजीवस्य सत्यतया मुक्तिभाक्त्वोपपत्तेरिति ।
यत्तु प्रतिबिम्बं दर्पणादिषु मुखच्छायाविशेषरूपतया सत्यमेवेति कस्यचिन्मतं, तन्न । छाया हि नाम शरीरादेः शरीरतदवयवैः आलोके कियद्देशव्यापिनि निरुद्धे तत्र देशे लब्धात्मकं तम एव । न च मौक्तिकमाणिक्यादिप्रतिबिम्बस्य तमोविरुद्धसितलोहितादिरूपवतः तमोरूपच्छायात्वं यक्तम् , न वा तमोरूपच्छायारहिततपनादिप्रतिबिम्बस्य तथात्वमुपपन्नम् । ननु - तर्हि प्रतिबिम्बरूपच्छायायाः तमोरूपत्वासम्भवे द्रव्यान्तरत्वमस्तु , क्लृप्तद्रव्यानन्तर्भावे तमोवत् द्रव्यान्तरत्वकल्पनोपपत्तेरिति चेत् , तत् किं द्रव्यान्तरं प्रतीयमानरूपपरिमाणसंस्थानविशेषप्रत्यङ्मुखत्वादिधर्मयुक्तं तद्रहितं वा स्यात् । अन्त्ये न तेन द्रव्यान्तरेण रूपविशेषादिघटितप्रतिबिम्बोपलम्भनिर्वाह इति व्यर्थं तत्कल्पनम् । प्रथमे तु कथम् एकस्मिन्नल्पपरिमाणे युगपदसङ्कीर्णतया प्रतीयमानानां महापरिमाणानामनेकमुखप्रतिबिम्बानां सत्यतानिर्वाहः । कथं च निबिडावयवानुस्यूते दर्पणे तथैवावतिष्ठमाने तदन्तः हनुनासिकाद्यनेकनिम्नोन्नतप्रदेशवतो द्रव्यान्तरस्योत्पत्तिः । किं च सितपीतरक्ताद्यनेकवर्णादिमतः प्रतिबिम्बस्योत्पत्तौ दर्पणमध्ये स्थितं तत्सन्निहितं न तादृशं कारणमस्ति । यद्युच्येत − ‘उपाधिमध्यविश्रान्तियोग्यपरिमाणानामेव प्रतिबिम्बानां महापरिमाणज्ञानं तादृशनिम्नोन्नतादिज्ञानं च भ्रम एव । यथापूर्वं दर्पणतदवयवावस्थानाविरोधेन तादृक्प्रतिबिम्बोत्पादनसमर्थं च किञ्चित् कारणं कल्प्यमि’ति । तर्हि शुक्तिरजतमपि सत्यमस्तु । तत्रापि शुक्तौ यथापूर्वं स्थितायामेव तत्तादात्म्यापन्नरजतोत्पादनसमर्थं किञ्चित्कारणं परिकल्प्य तस्य रजतस्य दोषत्वाभिमतकारणसहकृतेन्द्रियग्राह्यत्वनियमवर्णनोपपत्तेः किं शुक्तिरजतमसत्यं प्रतिबिम्बः सत्य इत्यर्धजरतीयन्यायेन । न च तथासति रजतमितिदृश्यमानायाः शुक्तेः अग्नौ प्रक्षेपे रजतवत् द्रवीभावापत्तिः । अनलकस्तूरिकादिप्रतिबिम्बस्यौष्ण्यसौरभ्यादिराहित्यवत् शुक्तिरजतस्य द्रवीभावयोग्यताराहित्योपपत्तेः । अथोच्येत – ‘नेदं रजतं’ ‘मिथ्यैव रजतमभात्’ इति सर्वसम्प्रतिपन्नबाधात् न शुक्तिरजतं सत्यमिति, तर्हि ‘दर्पणे मुखं नास्ति मिथ्यैवात्र दर्पणे मुखमभात्’ इत्यादि सर्वसिद्धबाधात् प्रतिबिम्बमप्यसत्यमित्येव युक्तम् । तस्मादसङ्गतः प्रतिबिम्बसत्यत्ववादः ॥
ननु तन्मिथ्यात्ववादोऽप्ययुक्तः । शुक्तिरजत इव कस्यचिदन्वयव्यतिरेकशालिनः कारणस्याज्ञानस्य निवर्तकस्य ज्ञानस्य चानिरूपणात् ।
अत्र केचित् – यद्यपि सर्वात्मनाऽधिष्ठानज्ञानानन्तरमपि जायमाने प्रतिबिम्बाध्यासे नाधिष्ठानावरणमज्ञानमुपादानं न वाऽधिष्ठानविशेषांशज्ञानं निवर्तकम् , तथाऽपि अधिष्ठानाज्ञानस्य आवरणशक्त्यंशेन निवृत्तावपि विक्षेपशक्त्यंशेनानुवृत्तिसम्भवात् तदेवोपादानम् । बिम्बोपाधिसन्निधिनिवृत्तिसचिवं चाधिष्ठानज्ञानं सोपादानस्य तस्य निवर्तकम् इति ।
अन्ये तु−ज्ञानस्य विक्षेपशक्त्यंशं विहाय आवरणशक्त्यंशमात्रनिवर्तकत्वं न स्वाभाविकम् । ब्रह्मज्ञानेन मूलाज्ञानस्य शुक्त्यादिज्ञानेनावस्थाज्ञानस्य च आवरणशक्त्यंशमात्रनिवृत्तौ तस्य विक्षेपशक्त्या सर्वदा अनुवृत्तिप्रसङ्गात् । न च विम्बोपाधिसन्निधिरूपविक्षेपशक्त्यंशनिवृत्तिप्रतिबन्धकप्रयुक्तं तत् । बिम्बोपाधिसन्निधानात् प्रागेव बिम्बे चैत्रमुखे दर्पणसंसर्गाद्यभावे दर्पणे चैत्रमुखाभावे वा प्रत्यक्षतोऽवगम्यमाने विक्षेपशक्त्यंशस्यापि निवृत्त्यवश्यम्भावेन तत्काले तयोस्सन्निधाने सति उपादानाभावेन प्रतिबिम्बभ्रमाभावप्रसङ्गात् । अतो मूलाज्ञानमेव प्रतिबिम्बाध्यासस्योपादानम् । न चात्राप्युक्तदोषतौल्यम् । पराग्विषयवृत्तिपरिणामानां स्वस्वविषयावच्छिन्नचैतन्यप्रदेशे मूलाज्ञानावरणशक्त्यंशाभिभावकत्वेऽपि तदीयविक्षेपशक्त्यंशानिवर्तकत्वात् । अन्यथा तत्प्रदेशस्थितव्यावहारिकविक्षेपाणामपि विलयापत्तेः । न च प्रतिबिम्बस्य मूलाज्ञानकार्यत्वे व्यावहारिकत्वापत्तिः । अविद्यातिरिक्तदोषाजन्यत्वस्य व्यवहारिकत्वप्रयोजकत्वात्‌ , प्रकृते च तदतिरिक्तबिम्बोपाधिसन्निधानदोषसद्भावेन प्रातिभासिकत्वोपपत्तेः । न च −एवं सति बिम्बोपाधिसन्निधिनिवृत्तिसहकृतस्याप्यधिष्ठानज्ञानस्य प्रतिबिम्बाध्यासानिवर्तकत्वप्रसङ्गः, तन्मूलाज्ञाननिवर्तकत्वाभावात् − इति वाच्यम् , विरोधाभावात् । ब्रह्माज्ञाननिवर्तकत्वेपि तदुपादानकप्रतिबिम्बाध्यासविरोधिविषयकतया अधिष्ठानयाथात्म्यज्ञानस्य प्रतिबन्धकविरहसचिवस्य तन्निवर्तकत्वोपपत्तेः । अवस्थाज्ञानोपादानत्वपक्षेऽपि तस्य प्राचीनाधिष्ठानज्ञाननिवर्तितावरणशक्तिकस्य समानविषयत्वभङ्गेन प्रतिबन्धकाभावकालीनाधिष्ठानज्ञानेन निवर्तयितुमशक्यतया प्रतिबिम्बाध्यासमात्रस्यैव तन्निवर्त्यत्वस्योपेयत्वात् । अथवा स्वोपादानाज्ञाननिवर्तकब्रह्मज्ञाननिवर्त्य एवायमध्यासोऽस्तु । व्यावहारिकत्वापत्तिस्तु अविद्यातिरिक्तदोषजन्यत्वेन प्रत्युक्ता – इत्याहुः ।
एवं स्वप्नाध्यासस्यापि अनवच्छिन्नचैतन्ये अहङ्कारोपहितचैतन्ये वा अवस्थारूपाज्ञानशून्येऽध्यासात् ‘सुषुप्त्याख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः’(उ. सा. १७ । २६) इति आचार्याणां स्वप्नजाग्रत्प्रपञ्चयोरेकाज्ञानकार्यत्वोक्तेश्च मूलाज्ञानकार्यतया स्वोपादाननिवर्तकब्रह्मज्ञानैकबाध्यस्य अविद्यातिरिक्तनिद्रादिदोषजन्यतयैव प्रातिभासिकत्वम् इति केचिदाहुः ।
अन्ये तु – ‘बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे’ इति भाष्योक्तेः ‘अविद्यात्मकबन्धप्रत्यनीकत्वात् जाग्रद्बोधवत्’ इति विवरणदर्शनात् उत्थितस्य स्वप्नमिथ्यात्वानुभवाच्च जाग्रद्बोधः स्वप्नाध्यासनिवर्तक इति ब्रह्मज्ञानेतरज्ञानबाध्यतयैव तस्य प्रातिभासिकत्वम् । न चाधिष्ठानयाथात्म्यागोचरं स्वोपादानाज्ञानानिवर्तकं ज्ञानं कथमध्यासनिवर्तकं स्यादिति वाच्यम् । रज्जुसर्पाध्यासस्य स्वोपादानाज्ञाननिवर्तकाधिष्ठानयाथात्म्यज्ञानेनेव तत्रैव स्वानन्तरोत्पन्नदण्डभ्रमेणापि निवृत्तिदर्शनात् - इत्याहुः ।
अपरे तु जाग्रद्भोगप्रदकर्मोपरमे सति जाग्रत्प्रपञ्चद्रष्टारं प्रतिबिम्बरूपं व्यावहारिकजीवं तद्दृश्यं जाग्रत्प्रपञ्चमप्यावृत्य जायमानो निद्रारूपो मूलाज्ञानस्यावस्थाभेदः स्वाप्नप्रपञ्चाध्यासोपादानम् , न मूलाज्ञानम् । न च निद्राया अवस्थाज्ञानरूपत्वे मानाभावः । मूलाज्ञानेनानावृतस्य जाग्रत्प्रपञ्चद्रष्टुः व्यावहारिकजीवस्य ‘मनुष्योऽहम् , ब्राह्मणोऽहम् , देवदत्तपुत्रोऽहं’ इत्यादिना स्वात्मानमसन्दिग्धविपर्यस्तमभिमन्यमानस्य तदीयचिरपरिचयेन तं प्रति सर्वदा अनावृतैकरूपस्य अनुभूतस्वपितामहात्ययादिजाग्रत्प्रपञ्चवृत्तान्तस्य च स्वप्नसमये केनचिदावरणाभावे जागरण इव स्वप्नेऽपि ‘व्याघ्रोऽहम् , शूद्रोऽहम् , यज्ञदत्तपुत्रोऽहं’ इत्यादिभ्रमस्य स्वपितामहजीवद्दशादिभ्रमस्य च अभावप्रसङ्गेन निद्राया एव तत्कालोत्पन्नव्यावहारिकजगज्जीवावारकाज्ञानावस्थाभेदरूपत्वसिद्धेः । न चैवं जीवस्याप्यावृतत्वात् स्वप्नप्रपञ्चस्य द्रष्ट्रभावप्रसङ्गः । स्वप्नप्रपञ्चेन सह द्रष्टुर्जीवस्यापि प्रातिभासिकस्य अध्यासात् । एवं च पुनर्जाग्रद्भोगप्रदकर्मोद्भूते बोधे व्यावहारिकजीवस्वरूपज्ञानात् स्वोपादाननिद्रारूपाज्ञाननिवर्तकादेव स्वाप्नप्रपञ्चबाधः । न चैवं तद्द्रष्टुः प्रातिभासिकजीवस्यापि ततो बाधे ‘स्वप्ने करिणमन्वभूवं’ इत्यनुसन्धानं न स्यादिति वाच्यम् । व्यावहारिकजीवे प्रातिभासिकजीवस्याध्यस्ततया तदनुभवात् व्यावहारिकजीवस्यानुसन्धानोपगमेऽप्यतिप्रसङ्गाभावात् −इत्याहुः ।
नन्वनवच्छिन्नचैतन्ये अहङ्कारोपहितचैतन्ये वा स्वाप्नप्रपञ्चाध्यास इति प्रागुक्तं पक्षद्वयमप्ययुक्तम् । आद्ये – स्वाप्नगजादेः अहङ्कारोपहितसाक्षिणो विच्छिन्नदेशत्वेन सुखादिवदन्तःकरणवृत्तिसंसर्गमनपेक्ष्य तेन प्रकाशस्य चक्षुरादीनामुपरततया वृत्त्युदयासम्भवेन तत्संसर्गमपेक्ष्य तेन प्रकाशस्य च, अयोगात् । द्वितीये ‘इदं रजतमि’तिवत् ‘अहं गजः’ इति वा, ‘अहं सुखी’तिवद् ‘अहं गजवान्’ इति वा अध्यासप्रसङ्गात् ।
अत्र केचित् आद्यपक्षं समर्थयन्ते−अहङ्कारानवच्छिन्नचैतन्यं न देहाद्बहिः स्वाप्नप्रपञ्चस्याधिष्ठानमुपेयते, किं तु तदन्तरेव । अत एव दृश्यमानपरिमाणोचितदेशसम्पत्त्यभावात् स्वाप्नगजादीनां मायामयत्वमुच्यते । एवं च अन्तःकरणस्य देहाद्बहिरस्वातन्त्र्यात् जागरणे बाह्यशुक्तीदमंशादिगोचरवृत्त्युत्पादाय चक्षुराद्यपेक्षायामपि देहान्तरन्तःकरणस्य स्वतन्त्रस्य स्वयमेव वृत्तिसम्भवात् देहान्तरन्तःकरणवृत्त्यभिव्यक्तस्यानवच्छिन्नचैतन्यस्याधिष्ठानत्वे न काचिदनुपपत्तिः । अत एव – यथा जागरणे सम्प्रयोगजन्यवृत्त्यभिव्यक्तशुक्तीदमंशावच्छिन्नचैतन्यस्थिताऽविद्या रूप्याकारेण विवर्तते, तथा स्वप्नेऽपि देहस्यान्तरन्तःकरणवृत्तौ निद्रादिदोषोपप्लुतायाम् अभिव्यक्तचैतन्यस्थाविद्या अदृष्टोद्बोधितनानाविषयसंस्कारसहिता प्रपञ्चाकारेण विवर्ततामिति ववरणोपन्यासे भारतीतीर्थवचनमिति ।
अन्ये तु अनवच्छिन्नचैतन्यं न वृत्त्यभिव्यक्तं सत् स्वाप्नप्रपञ्चस्याधिष्ठानम् , अशब्दमूलकानवच्छिन्नचैतन्यगोचरवृत्त्युदयासम्भवात् । अहङ्काराद्यवच्छिन्नचैतन्य एव अहमाकारवृत्त्युदयदर्शनात् । तस्मात् स्वतोऽपरोक्षमहङ्काराद्यनवच्छिन्नचैतन्यं तदधिष्ठानम् । अत एव सङ्क्षेपशारीरके−
‘अपरोक्षरूपविषयभ्रमधीरपरोक्षमास्पदमपेक्ष्य भवेत् ।
मनसा स्वतो नयनतो यदि वा स्वपनभ्रमादिषु तथाप्रथितेः ॥’ (१ । ४१) इति श्लोकेन अपरोक्षाध्यासापेक्षितमधिष्ठानापरोक्ष्यं क्वचित्स्वतः क्वचिन्मानसवृत्त्या क्वचिद्बहिरिन्द्रियवृत्त्या इत्यभिधाय
‘स्वतोऽपरोक्षा चितिरत्र विभ्रमस्तथापि रूपाकृतिरेव जायते ।
मनोनिमित्तं स्वपतो मुहुर्मुहुर्विनापि चक्षुर्विषयं स्वमास्पदम् ।
मनोऽवगम्येऽप्यपरोक्षताबलात् तथाऽम्बरे रूपमुपोल्लिखन् भ्रमः ।
सितादिभेदैर्बहुधा समीक्ष्यते यथाऽक्षिगम्ये रजतादिविभ्रमः’ ॥ (१ । ४२,४३) इत्याद्यनन्तरश्लोकेन स्वप्नाध्यासे स्वतोऽधिष्ठानापरोक्ष्यमुदाहृतम् । न चाहङ्कारानवच्छिन्नचैतन्यमात्रमावृतमिति वृत्तिमन्तरेण न तदभिव्यक्तिरिति वाच्यम् । ब्रह्मचैतन्यमेवावृतम् अविद्याप्रतिबिम्बजीवचैतन्यमहङ्कारानवच्छिन्नमप्यनावृतम् इत्युपगमात् । एवं च अहङ्कारानवच्छिन्नचैतन्येऽध्यस्यमाने स्वाप्नगजादौ तत्समयनियताधिष्ठानगोचरान्तःकरण(णादि) वृत्तिकृताभेदाभिव्यक्त्या प्रमातृचैतन्यस्यापि इदं पश्यामीति व्यवहारः − इत्याहुः ।
अपरे तु द्वितीयं पक्षं समर्थयन्ते−
अहङ्कारावच्छिन्नचैतन्यमधिष्ठानमिति अहङ्कारस्य विशेषणभावेनाधिष्ठानकोटिप्रवेशो नोपेयते, किं तु अहङ्कारोपहितं तत्प्रतिबिम्बरूपचैतन्यमात्रमधिष्ठानमिति , अतो ‘नाहं गजः’ इत्याद्यनुभवप्रसङ्ग इति ।
एवं शुक्तिरजतमपि शुक्तीदमंशावच्छिन्नचैतन्यप्रतिबिम्बे वृत्तिमदन्तःकरणगतेऽध्यस्यते । शुक्तीदमंशावच्छिन्नबिम्बचैतन्ये सर्वसाधारणे तस्याध्यासे सुखादिवदनन्यवेद्यत्वाभावप्रसङ्गात् इति केचित् ।
केचित्तु बिम्बचैतन्य एव तदध्यासमुपेत्य यदीयाज्ञानोपादानकं यत् तत् तस्यैव प्रत्यक्षं न जीवान्तरस्य इत्यनन्यवेद्यत्वमुपपादयन्ति ।
ननु शुक्तिरजताध्यासे चाक्षुषत्वानुभवः साक्षाद्वा अधिष्ठानज्ञानद्वारा तदपेक्षणाद्वा समर्थ्यते । स्वाप्नगजादिचाक्षुषत्वानुभवः कथं समर्थनीयः ?
उच्यते −
न तावत् तत्समर्थनाय स्वाप्नदेहवद्विषयवच्च इन्द्रियाणामपि प्रातिभासिको विवर्तः शक्यतेवक्तुम् , प्रातिभासिकस्याज्ञातसत्त्वाभावात् । इन्द्रियाणां चातीन्द्रियाणां सत्त्वेऽज्ञातसत्त्वस्य वाच्यत्वात् ।
नापि व्यावकारिकाणामेवेन्द्रियाणां स्वस्वगोलकेभ्यो निष्क्रम्य स्वाप्नदेहमाश्रित्य स्वस्वविषयग्राहकत्वं वक्तुं शक्यते , स्वप्नसमये तेषां व्यापारराहित्यरूपोपरतिश्रवणात्  । व्यावहारिकस्य स्पर्शनेन्द्रियस्य स्वोचितव्यावहारिकदेशसम्पत्तिविधुरान्तःशरीरे स्वाधिकपरिमाणकृत्स्नस्वाप्नशरीरव्यापित्वायोगाच्च । तदेकदेशाश्रयत्वे च तस्य स्वाप्नजलावगाहनजन्यसर्वाङ्गीणशीतस्पर्शानिर्वाहात् ।
अत एव−स्वप्ने जाग्रदिन्द्रियाणामुपरतावपि तैजसव्यवहारोपयुक्तानि सूक्ष्मशरीरावयवभूतानि सूक्ष्मेन्द्रियाणि सन्तीति तैः स्वाप्नपदार्थानामैन्द्रियकत्वम् इत्युपपादनशङ्कापि−निरस्ता । जाग्रदिन्द्रियव्यतिरिक्तसूक्ष्मेन्द्रियाप्रसिद्धेः ।
किञ्च ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । ९) इति जागरे आदित्यादिज्योतिर्व्यतिकराच्चक्षुरादिवृत्तिसञ्चाराच्च दुर्विवेकम् आत्मनः स्वयञ्ज्योतिष्ट्वमिति स्वप्नावस्थामधिकृत्य तत्रात्मनः स्वयञ्ज्योतिष्ट्वं प्रतिपादयति । अन्यथा तस्य सर्वदा स्वयञ्ज्योतिष्ट्वेन अत्रेति वैयर्थ्यात् । तत्र यदि स्वप्नेऽपि चक्षुरादिवृत्तिसञ्चारः कल्प्येत, तदा तत्रापि जागर इव तस्य स्वयञ्ज्योतिष्ट्वं दुर्विवेकं स्यादिति उदाहृता श्रुतिः पीड्येत । ननु स्वप्ने चक्षुराद्युपरमकल्पनेऽपि अन्तःकरणमनुपरतमास्त इति परिशेषासिद्धेः न स्वयञ्ज्योतिष्ट्वविवेकः । मैवम् – ‘कर्ता शास्त्रार्थवत्त्वात्’ (ब्र. सू. २ । ३ । ३३) इत्यधिकरणे न्यायनिर्णयोक्तरीत्या अन्तःकरणस्य चक्षुरादिकरणान्तरनिरपेक्षस्य ज्ञानसाधनत्वाभावाद्वा तत्त्वप्रदीपिकोक्तरीत्या स्वप्ने तस्यैव गजाद्याकारेण परिणामेन ज्ञानकर्मतयाऽवस्थितत्वेन तदानीं ज्ञानसाधनत्वायोगाद्वा परिशेषोपपत्तेः । न च स्वप्नेऽन्तःकरणवृत्त्यभावे उत्थितस्य स्वप्नदृष्टगजाद्यनुसन्धानानुपपत्तिः । सुषुप्तिक्लृप्तया अविद्यावृत्त्या तदुपपत्तेः । ‘सुषुप्तौ तदवस्थोपहितमेव स्वरूपचैतन्यम् अज्ञानसुखादिप्रकाशः, उत्थितस्यानुसन्धानमुपाधिभूतावस्थाविनाशजन्यसंस्कारेण’ इति वेदान्तकौमुद्यभिमते सुषुप्तावविद्यावृत्त्यभावपक्षे इहापि स्वाप्नगजादिभासकचैतन्योपाधिभूतस्वप्नावस्थाविनाशजन्यसंस्कारादनुसन्धानोपपत्तेश्च । अथवा ‘तदेतत् सत्त्वं येन स्वप्नं पश्यति’ (पै.र.ब्रा.उ) इत्यादिश्रुतेः अस्तु स्वप्नेऽपि कल्पतरूक्तरीत्या स्वाप्नगजादिगोचरान्तःकरणवृत्तिः । न च तावता परिशेषासिद्धिः । अन्तःकरणस्य अहमितिगृह्यमाणस्य सर्वात्मना जीवैक्येनाध्यस्ततया लोकदृष्ट्या तस्य तद्व्यतिरेकाप्रसिद्धेः परिशेषार्थं चक्षुरादिव्यापाराभावमात्रस्यैवापेक्षितत्वात् । प्रसिद्धदृश्यमात्रं दृगवभासयोग्यमिति निश्चयसत्त्वेनपरिशेषार्थमन्यानपेक्षणात् ।
तस्मात् सर्वथाऽपि स्वप्ने चक्षुरादिव्यापारासम्भवात् स्वाप्नगजादौ चाक्षुषत्वाद्यनुभवो भ्रम एव ।
ननु स्वप्नेऽपि ‘चक्षुरुन्मीलने गजाद्यनुभवः , तन्निमीलने न’ इति जागर इव गजाद्यनुभवस्य चक्षुरुन्मीलनाद्यनुविधानं प्रतीयत इति चेत् , ‘चक्षुषा गजादिकं पश्यामी’त्यनुभववत् अयमपि कश्चित् स्वप्नभ्रमो भविष्यति - यत् केवलसाक्षिरूपे स्वाप्नगजाद्यनुभवे चक्षुराद्यनुविधानं तदनुविधायिनी वृत्तिर्वा अध्यस्यते । किमिव हि दुर्घटमपि भ्रमं माया न करोति, विशेषतो निद्रारूपेण परिणता । यस्याः माहात्म्यात् स्वप्ने रथः प्रतीतः क्षणेन मनुष्य प्रतीयते, स च क्षणेन मार्जारः । स्वप्नद्रष्टुश्च न पूर्वापरविरोधानुसन्धानम् । तस्मादन्वयाद्यनुविधानप्रतीतितौल्येऽपि जाग्रद्गजाद्यनुभव एव चक्षुरादिजन्यः, न स्वाप्नगजाद्यनुभवः ।
दृष्टिसृष्टिवादिनस्तु कल्पितस्याज्ञातसत्त्वमनुपपन्नमिति कृत्स्नस्य जाग्रत्प्रपञ्चस्य दृष्टिसमसमयां सृष्टिमुपेत्य घटादिदृष्टेश्चक्षुःसन्निकर्षानुविधानप्रतीतिं दृष्टेः पूर्वं घटाद्यभावेनासङ्गच्छमानां स्वप्नवदेव समर्थयमानाः जाग्रद्गजाद्यनुभवोऽपि न चाक्षुष इत्याहुः ।
ननु - दृष्टिसृष्टिमवलम्ब्य कृत्स्नस्य जाग्रत्प्रपञ्चस्य कल्पितत्वोपगमे कस्तस्य कल्पकः । निरुपाधिरात्मा वा, अविद्योपहितो वा । नाद्यः−मोक्षेऽपि साधनान्तरनिरपेक्षस्य कल्पकस्य सत्त्वेन प्रपञ्चानुवृत्त्या संसाराविशेषप्रसङ्गात् । न द्वितीयः − आविद्याया अपि कल्पनीयत्वेन तत्कल्पनात्प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात् ।
अत्र केचिदाहुः − पूर्वपूर्वकल्पिताविद्योपहितोत्तरोत्तराविद्याकल्पकः । अनिदम्प्रथमत्वाच्च कल्पककल्पनाप्रवाहस्य नानवस्था दोषः । न च - अविद्याया अनादित्वोपगमाच्छुक्तिरजतवत् कल्पितत्वं न युज्यते, अन्यथा साद्यनादिविभागानुपपत्तेरिति - वाच्यम् । यथा स्वप्ने कल्प्यमानं गोपुरादि किञ्चित् पूर्वसिद्धत्वेन कल्प्यते किञ्चित्तदानीमुत्पाद्यमानत्वेन, एवं जागरेऽपि किञ्चित् कल्प्यमानं सादित्वेन कल्प्यते किञ्चिदन्यथेति तावता साद्यनादिविभागोपपत्तेः । एतेन कार्यकारणविभागोऽपि व्याख्यात इति ।
अन्ये तु−वस्तुतोऽनाद्येवाविद्यादि , तत्र दृष्टिसृष्टिर्नोपेयते, किं तु (ततः) अन्यत्र प्रपञ्चमात्रे − इत्याहुः ।
नन्वेवमपि श्रुतिमात्रप्रतीतस्य वियदादिसर्गतत्क्रमादेः कः कल्पकः । न कोऽपि । किमालम्बना तर्हि ‘आत्मन आकाशः सम्भूतः’ (तै-उ-२-१) इत्यादिश्रुतिः । निष्प्रपञ्चब्रह्मात्मैक्यावलम्बनेत्यवेहि । अध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मप्रतिपत्तिर्भवतीति तत्प्रतिपत्त्युपायतया श्रुतिषु सृष्टिप्रलयोपन्यासः , न तात्पर्येण इति भाष्याद्युद्घोषः । व्यर्थस्तर्हि तात्पर्याभावे वियत्प्राणपादयोर्वियदादिसर्गतत्क्रमादिविषयश्रुतीनां परस्परविरोधपरिहाराय यत्नः । न व्यर्थः । न्यायव्युत्पत्त्यर्थम् अभ्युपेत्यतात्पर्यं तत्प्रवृत्तेः । उक्तं हि शास्त्रदर्पणे−
‘श्रुतीनां सृष्टितात्पर्यं स्वीकृत्येदमिहेरितम् ।
ब्रह्मात्मैक्यपरत्वात्तु तासां तन्नैव विद्यते ।’ (१ । ४ । ४) इति ।
ज्योतिष्टोमादिश्रुतिबोधितानुष्ठानात् फलसिद्धिः स्वाप्नश्रुतिबोधितानुष्ठानप्रयुक्तफलसंवादतुल्या, ज्योतिष्टोमादिश्रुतीनां च सत्त्वशुद्धिद्वारा ब्रह्मणि तात्पर्यान्नाप्रामाण्यम् , इत्यादिदृष्टिसृष्टिव्युत्पादनप्रक्रियाप्रपञ्चस्तु आकरग्रन्थेषु द्रष्टव्यः । अयमेको दृष्टिसमसमया विश्वसृष्टिरिति दृष्टिसृष्टिवादः ।
अन्यस्तु− दृष्टिरेव विश्वसृष्टिः । दृश्यस्य दृष्टिभेदे प्रमाणाभावात् ,
‘ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः ।
अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्यन्ये कुदृष्टयः ।’ (वि. पु. १ । ४ । ४०) इति स्मृतेश्च इति - सिद्धान्तमुक्तावल्यादिदर्शितो दृष्टिसृष्टिवादः ।
द्विविधेऽपि दृष्टिसृष्टिवादे मनःप्रत्ययमलभमानाः केचिदाचार्याः सृष्टदृष्टिवादं रोचयन्ते – श्रुतिदर्शितेन क्रमेण परमेश्वरसृष्टम् अज्ञातसत्तायुक्तमेव विश्वम् , तत्तद्विषयप्रमाणावतरणे तस्य तस्य दृष्टिसिद्धिरिति । न चैवं प्रपञ्चस्य कल्पितत्वाभावे श्रुत्यादिप्रतिपन्नस्य सृष्टिप्रलयादिमतः प्रत्यक्षादिप्रतिपन्नार्थक्रियाकारिणश्च तस्य सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यम् , शुक्तिरजतादिवत् सम्प्रयोगसंस्कारदोषरूपेण अधिष्ठानज्ञानसंस्कारदोषरूपेण वा कारणत्रयेण अजन्यतया कल्पनासमसमयत्वाभावेऽपि ज्ञानैकनिवर्त्यत्वरूपस्य सदसद्विलक्षणत्वरूपस्य प्रतिपन्नोपाधिगतत्रैकालिकनिषेधप्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् । सत्यत्वपक्षे प्रपञ्चे उक्तरूपमिथ्यात्वाभावेन ततो भेदात् ।
नन्वेवं - अहङ्कारतद्धर्माणामपि उक्तरूपमिथ्यात्वं वियदादिवत् कल्पितत्वाभावेऽपि सिद्ध्यतीति, भाष्यटीकाविवरणेषु तदध्यासे कारणत्रितयसम्पादनादियत्नो व्यर्थः , इति चेत्−अहङ्कारादीनामपि केवलसाक्षिवेद्यतया शुक्तिरजतवत् प्रातिभासिकत्वमभिमतमिति चित्सुखाचार्याः ।
अभ्युपेत्यवादमात्रं तत् , ‘अद्वितीयाधिष्ठानब्रह्मात्मप्रमाणस्य चैतन्यस्य’ इत्यादितत्रत्यकारणत्रितयसम्पादनग्रन्थस्य, चैतन्यस्य प्रमाकरणत्वे वेदान्तकरणत्वादिकल्पनाभङ्गप्रसङ्गेन प्रौढिवादत्वस्य स्फुटत्वादिति रामाद्वयाचार्याः ।
ननु दृष्टिसृष्टिवादे सृष्टदृष्टिवादे च मिथ्यात्वसंप्रतिपत्तेः कथं मिथ्याभूतस्यार्थक्रियाकारित्वम् ?
स्वप्नवदिति ब्रूमः । ननु स्वाप्नजलादिसाध्यावगाहनादिरूपार्थक्रिया असत्यैव । किं तु जाग्रज्जलादिसाध्या सा सत्या । अविशिष्टमुभयत्रापि स्वसमानसत्ताकार्थक्रियाकारित्वमिति केचित्‌ ।
अद्वैतविद्याचार्यास्त्वाहुः− स्वाप्नपदार्थानां न केवलं प्रबोधबाध्यार्थक्रियामात्रकारित्वम्‌ , स्वाप्नाङ्गनाभुजङ्गमादीनां तदबाध्यसुखभयादिजनकत्वस्यापि दर्शनात्‌ । स्वाप्नविषयजन्यस्यापि हि सुखभयादेः प्रबोधानन्तरं न बाधोऽनुभूयते , प्रत्युत प्रबोधानन्तरमपि मनःप्रसादशरीरकम्पनादिना सह तदनुवृत्तिदर्शनात् प्रागपि सत्त्वमेवावसीयते । अत एव प्राणिनां पुनरपि सुखजनकविषयगोचरस्वप्ने वाञ्छा, अतादृशे च स्वप्ने प्रद्वेषः । सम्भवति च स्वप्नेऽपि ज्ञानवदन्तःकरणवृत्तिरूपस्य सुखभयादेरुदयः । न च - स्वाप्नाङ्गनादिज्ञानमेव सुखादिजनकम् , तच्च सदेवेति वाच्यम् , तस्यापि दर्शनस्पर्शनादिवृत्तिरूपस्य स्वप्नप्रपञ्चसाक्षिण्यध्यस्तस्य कल्पनामात्रसिद्धत्वात् । न ह्युपरतेन्द्रियस्य चक्षुरादिवृत्तयः सत्याः सम्भवन्ति । न च – तद्विषयापरोक्षमात्रं सुखजनकम् , तच्च साक्षिरूपं सदेवेति−वाच्यम् , दर्शनात् स्पर्शने कामिन्याः पदा स्पर्शनात् पाणिना स्पर्शने भुजङ्गमस्यामर्मस्थले स्पर्शनात् मर्मस्थले स्पर्शने सुखविशेषस्य भयविशेषस्य चानुभवसिद्धत्वेन स्वप्नेऽपि तत्तत्सुखभयादिविशेषस्य कल्पितदर्शनस्पर्शनादिवृत्तिविशेषजन्यत्वस्य वक्तव्यत्वादिति ।
तथा जागरे घटादिप्रकाशनक्षमतत्रत्यपुरुषान्तरनिरीक्ष्यमाणालोकवत्यपवरके सद्यः प्रविष्टेन पुंसा कल्पितस्य सन्तमसस्य प्रसिद्धसन्तमसोचितार्थक्रियाकारित्वं दृष्टम् । तेन तं प्रति घटाद्यावरणं दीपाद्यानयने तदपसरणं तन्नयने पुनरावरणम् इत्यादेर्दर्शनात् इत्यपि – केचित् ।
अन्ये तु पानावगाहनाद्यर्थक्रियायां जलादिस्वरूपमात्रमुपयोगि, न तद्गतं सत्यत्वम् , तस्य कारणत्वतदवच्छेदकत्वयोरभावादिति किं तेन । न चैवं सति मरुमरीचिकोदकशुक्तिरजतादेरपि प्रसिद्धोदकाद्युचितार्थक्रियाकारित्वप्रसङ्गः । ‘मरीचिकोदकादावुदकत्वादिजातिर्नास्तीति तद्विषयकभ्रमस्य उदकशब्दोल्लेखित्वं तदुल्लेखिपूर्वानुभवसंस्कारजन्यत्वप्रयुक्तं’ इति तत्त्वशुद्धिकारादि मते तत्तदर्थक्रियाप्रयोजकोदकत्वादिजात्यभावादेव तदप्रसङ्गात् । ‘तत्राप्युदकत्वादिजातिरस्ति, अन्यथा तद्वैशिष्ट्योल्लेखिभ्रमविरोधात् उदकाद्यर्थिनस्तत्र प्रवृत्त्यभावप्रसङ्गाच्च’ इति प्रातिभासिके पूर्वदृष्टसजातीयत्वव्यवहारानुरोधिनां मते क्वचिदधिष्ठानविशेषज्ञाने समूहाध्यासनाशात् क्वचिदधिष्ठानसामान्यज्ञानोपरमेण केवलाध्यासनाशात् क्वचित् गुञ्जापुञ्जादौ चक्षुषा वह्न्याद्यध्यासस्थले दाहपाकादिप्रयोजकस्योष्णस्पर्शादेरनध्यासाच्च तत्रतत्रार्थक्रियाऽभावोपपत्तेः, क्वचित् कासाञ्चिदर्थक्रियाणामिष्यमाणत्वाच्च । मरीचिकोदकादिव्यावर्तकस्यार्थक्रियोपयोगिरूपस्य वक्तव्यत्वे च श्रुतिविरुद्धं प्रत्यक्षादिना दुर्ग्रहं त्रिकालाबाध्यत्वं विहाय दोषविशेषाजन्यरजतत्वादेरेव रजताद्युचितार्थक्रियोपयोगिरूपस्य वक्तुं शक्यत्वाच्च । तस्मात् मिथ्यात्वेऽप्यर्थक्रियाकारित्वसम्भवात् मिथ्यैव प्रपञ्चः,न सत्यः - इति ।
ननु - मिथ्यात्वस्य प्रपञ्चधर्मस्य सत्यत्वे ब्रह्माद्वैतक्षतेः तदपि मिथ्यैव वक्तव्यमिति कुतः प्रपञ्चस्य सत्यत्वक्षतिः । ‘मिथ्याभूतं ब्रह्मणः सप्रपञ्चत्वं न निष्प्रपञ्चत्वविरोधि’ इति त्वदुक्तरीत्या मिथ्याभूतमिथ्यात्वस्य सत्यत्वाविरोधात् ।
अत्रोक्तमद्वैतदीपिकायां−
वियदादिप्रपञ्चसमानस्वभावं मिथ्यात्वम् । तच्च धर्मिणः सत्यत्वप्रतिक्षेपकम् । धर्मस्य स्वविरुद्धधर्मप्रतिक्षेपकत्वे हि उभयवादिसिद्धं धर्मिसमसत्त्वं तन्त्रम् , न पारमार्थिकत्वम् । घटत्वादिप्रतिक्षेपके पटत्वादौ अस्माकं पारमार्थिकत्वासम्प्रतिपत्तेः । ब्रह्मणः सप्रपञ्चत्वं न धर्मिसमसत्ताकमिति न निष्प्रपञ्चत्वप्रतिक्षेपकम् । अत एव−मिथ्यात्वस्य व्यावहारिकत्वे तद्विरोधिनोऽप्रातिभासिकस्य प्रपञ्चसत्यत्वस्य पारमार्थिकत्वं स्यादिति-निरस्तम् । धर्मिसमसत्ताकस्य मिथ्यात्वस्य व्यावहारिकत्वे धर्मिणोऽपि व्यावहारिकत्वनियमात् ।
अथवा यो यस्य स्वविषयसाक्षात्कारानिवर्त्यो धर्मः स तत्र स्वविरुद्धधर्मप्रतिक्षेपकः । शुक्तौ शुक्तितादात्म्यं तद्विषयसाक्षात्कारानिवर्त्यम् अशुक्तित्वविरोधि, तत्रैव रजततादात्म्यं तन्निवर्त्यम् अरजतत्वाविरोधि इति व्यवस्थादर्शनात् । एवं च प्रपञ्चमिथ्यात्वं कल्पितमपि प्रपञ्चसाक्षात्कारानिवर्त्यमिति सत्यत्वप्रतिक्षेपकमेव । ब्रह्मणः सप्रपञ्चत्वं तु ब्रह्मसाक्षात्कारनिवर्त्यमिति न निष्प्रपञ्चत्वप्रतिक्षेपकमिति । एतेन - शब्दगम्यस्य ब्रह्मणः सत्यत्वे शब्दयोग्यतायाः शाब्दधीप्रामाण्यस्य च सत्यत्वं वक्तव्यम्‌ । प्रातिभासिकयोग्यतावता अनाप्तवाक्येन व्यावहारिकार्थस्य व्यावहारिकयोग्यतावता अग्निहोत्रादिवाक्येन तात्त्विकार्थस्य वा सिद्ध्यभावेन योग्यतासमानसत्ताकस्यैव शब्दार्थस्य सिद्धिनियमात् । अर्थबाधरूपप्रामाण्यस्यासत्यत्वे अर्थस्य सत्यत्वायोगाच्च । तथा च ब्रह्मातिरिक्तसत्यवस्तुसत्त्वेन द्वैतावश्यम्भावे सति वियदादिप्रपञ्चोऽपि सत्योऽस्त्विति-निरस्तम् ।
व्यावहारिकस्यार्थक्रियाकारित्वस्य व्यवस्थापितत्वेन व्यावहारिकयोग्यताया अपि सत्यब्रह्मसिद्धिसम्भवात् । ब्रह्मपरे वेदान्ते सत्यादिपदसत्त्वात् ब्रह्मसत्यत्वसिद्धेः । अग्निहोत्रादिवाक्ये तादृशपदाभावात् तत्सत्त्वेऽपि प्रबलब्रह्माद्वैतश्रुतिविरोधात् तदसिद्धिः इत्येव वैषम्योपपत्तेः । शब्दार्थयोग्यतयोः समानसत्ताकत्वनियमस्य निष्प्रमाणकत्वात् , घटज्ञानप्रामाण्यस्य अघटघटितत्ववत् सत्यभूतब्रह्मज्ञानप्रामाण्यस्यापि तदतिरिक्तघटितत्वेन मिथ्यात्वोपपत्तेश्च ।
तस्मात् आरम्भणाधिकरणोक्तन्यायेन कृत्स्नस्य वियदादिप्रपञ्चस्य मिथ्यात्वं वज्रलेपायते ।
ननु – आरम्भणशब्दादिभिरचेतनस्य वियदादिप्रपञ्चस्य मिथ्यात्वसिद्धावपि चेतनानामपवर्गभाजां मिथ्यात्वायोगात् अद्वितीये ब्रह्मणि समन्वयो न युक्तः । न च तेषां ब्रह्माभेदः प्रागुक्तो युक्तः । परस्परभिन्नानां तेषाम् एकेन ब्रह्मणाऽभेदासम्भवात् । न च तद्भेदासिद्धिः । सुखदुःखादिव्यवस्थया तत्सिद्धेः−इति चेत् ,
न−तेषामभेदेऽपि उपाधिभेदादेव तद्व्यवस्थोपपत्तेः ।
ननु उपाधिभेदेऽपि तदभेदानपायात् कथं व्यवस्था । न ह्याश्रयभेदेनोपपादनीयः विरुद्धधर्मासङ्करः तदतिरिक्तस्य कस्यचित् भेदोपगमेन सिद्ध्यति ।
अत्र केचिदाहुः−सिध्यत्येवान्तःकरणोपाधिभेदेन सुखदुःखादिव्यवस्था । ‘कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीर्घीर्भीरित्येतत्सर्वं मन एव’ (बृ. उ. १ । ५ । ३) ‘विज्ञानं यज्ञं तनुते’ (तै. उ. २ । ५ । १) इत्यादिश्रुतिभिस्तस्यैव निखिलानर्थाश्रयत्वप्रतिपादनात् । ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५), ‘असङ्गो न हि सज्जते’ (बृ. उ. ४ । २ । ४) इत्यादिश्रुतिभिः चेतनस्य सर्वात्मना औदासीन्यप्रतिपादनाच्च । न चैवंसति कर्तृत्वादिबन्धस्य चैतन्यसामानाधिकरण्यानुभवविरोधः । अन्तःकरणस्य चेतनतादात्म्येनाध्यस्ततया तद्धर्माणां चैतन्यसामानाधिकरण्यानुभवोपपत्तेः । न चान्तःकरणस्य कर्तृत्वादिबन्धाश्रयत्वे चेतनः संसारी न स्यादिति वाच्यम् । कर्तृत्वादिबन्धाश्रयाहङ्कारग्रन्थितादात्म्याध्यासाधिष्ठानभाव एव तस्य संसार इत्युपगमात् । तावतैव भीषणत्वाश्रयसर्पतादात्म्याध्यासाधिष्ठाने रज्वादौ ‘अयं भीषणः’ इत्यभिमानवत् आत्मनोऽनर्थाश्रयत्वाभिमानोपपत्तेः । एतदभिप्रायेणैव ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) ‘अहङ्कारविमूढात्मा कर्ताहमिति मन्यते’ (भ. गी. ३ । २७) इत्यादिश्रुतिस्मृतिदर्शनाच्च । न च एकस्मिन्नेवात्मनि विचित्रसुखदुःखाश्रयतत्तदन्तःकरणानामध्यासात् आत्मन्याभिमानिकसुखदुःखादिव्यवस्था एवमपि न सिध्यतीति वाच्यम् । आध्यासिकतादात्म्यापन्नान्तःकरणगतानर्थजातस्येव तद्गतपरस्परभेदस्यापि अभिमानत आत्मीयतया आत्मनो यादृशमनर्थभाक्त्वं तदृशेन भेदेन तद्व्यवस्थोपपत्तेः । एतेन सुखदुःखादीनामन्तःकरणधर्मत्वेऽपि तदनुभवः साक्षिरूप इति तस्यैकत्वात् सुखदुःखानुभवरूपभोगव्यवस्था न सिध्यतीति - निरस्तम् । तत्तदन्तःकरणतादात्म्यापत्त्या तत्तदन्तःकरणभेदेन भेदवत एव साक्षिणः तत्तदन्तःकरणसुखदुःखाद्यनुभवरूपत्वेन तद्व्यवस्थाया अप्युपपत्तेरिति ।
अन्ये तु−जडस्य कर्तृत्वादिबन्धाश्रयत्वानुपपत्तेः ‘कर्ता शास्त्रार्थवत्त्वात्’ (ब्र. सू. २ । ३ । ३३) इति चेतनस्यैव तदाश्रयत्वप्रतिपादकसूत्रेण च अन्तःकरणे चिदाभासो बन्धाश्रयः, तस्य चासत्यस्य बिम्बाद्भिन्नस्य प्रत्यन्तःकरणं भेदात् विद्वदविद्वत्सुखिदुःखिकर्त्रकर्त्रादिव्यवस्था । न चैवमध्यस्तस्य बन्धाश्रयत्वे बन्धमोक्षयोर्वैयधिकरण्यापत्तिः । अस्य चिदाभासस्य अन्तःकरणावच्छिन्ने स्वरूपतस्सत्यतया मुक्त्यन्वयिनि परमार्थजीवेऽध्यस्ततया कर्तृत्वाश्रयचिदाभासतादात्म्याध्यासाधिष्ठानभावः तस्य बन्ध इत्यभ्युपगमात्-इत्याहुः ।
अपरे तु ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति सहकारित्वेन देहेन्द्रियैः तादात्म्ये मनसा च युक्तस्य चेतनस्य भोक्तृत्वश्रवणात् अन्तःकरणभेदेन तद्विशिष्टभेदात् व्यवस्था । न चैवं विशिष्टस्य बन्धः शुद्धस्य मोक्ष इति वैयधिकरण्यम् । विशिष्टगतस्य बन्धस्य विशेष्येऽनन्वयाभावात् , विशिष्टस्यानतिरेकात् - इत्याहुः ।
इतरे तु−अस्तु केवलश्चेतनः कर्तृत्वादिबन्धाश्रयः । स्फाटिकलौहित्यन्यायेन अन्तःकरणस्य तद्विशिष्टस्य वा कर्तृत्वाद्याश्रयस्य सन्निधानात् चेतनेऽपि कर्तृत्वाद्यन्तरस्याध्यासोपगमात् । न च तस्यैकत्वाद्व्यवस्थानुपपत्तिः । उपाधिभेदादेव तदुपपत्तेः । न चान्यभेदादन्यत्र विरुद्धधर्माणां व्यवस्था न युज्यत इति वाच्यम् मूलाग्ररूपोपाधिभेदमात्रेण वृक्षे संयोगतदभावव्यवस्थादर्शनात्, तत्तत्पुरुषकर्णपुटोपाधिभेदेन श्रोत्रभावमुपगतस्याकाशस्य तत्र तत्र शब्दोपलम्भकत्वानुपलम्भकत्वतारमन्द्रेष्टानिष्टशब्दोपलम्भकत्वादिवैचित्र्यदर्शनाच्च−इत्याहुः ।
एके तु - यद्याश्रयभेदादेव विरुद्धधर्मव्यवस्थोपपादननियमः, तदा चेतने निष्कृष्ट एव उपाधिवशात् भेदकल्पना अस्तु । अकल्पिताश्रयभेद एव व्यवस्थाप्रयोजक इति क्वाप्यसम्प्रतिपत्तेः, मणिमुकुरकृपाणाद्युपाधिकल्पितेन भेदेन मुखे श्यामावदातवर्तुलदीर्घभावादिधर्माणाम् अङ्गुल्युपष्टम्भोपाधिकल्पितेन भेदेन दीपे पाश्चात्यपौरस्त्यादिधर्माणां च व्यवस्थासम्प्रतिपत्तेः− इत्याहुः ।
एवमुपाधिवशाद्व्यवस्थोपपादने सम्भाविते जीवानां परस्परसुखाद्यननुसन्धानप्रयोजक उपाधिः क इति निरूपणीयम् ।
अत्र केचिदाहुः− भोगायतनाभेदतद्भेदौ अनुसन्धानाननुसन्धानप्रयोजकोपाधी । शरीरावच्छिन्नवेदनायाः तदवच्छिन्नेनानुसन्धानात् , चरणावच्छिन्नवेदनायाः हस्तावच्छिन्नेनाननुसन्धानाच्च । ‘हस्तावच्छिन्नोऽहं पादावच्छिन्नवेदनामनुभवामि’ इत्यप्रत्ययात् । कथं तर्हि चरणलग्नकण्टकोद्धाराय हस्तव्यापारः । नायं हस्तव्यापारः हस्तावच्छिन्नानुसन्धानात् , किन्तु अवयवावयविनोश्चरणशरीरयोर्भेदासत्त्वेन चरणावच्छिन्नवेदना शरीरावाच्छिन्नेन ‘अहं चरणे वेदनावान्’ इत्यनुसन्धीयत इति तदनुसन्धानात् । एवं च चैत्रमैत्रशरीरयोरभेदाभावात् चैत्रशरीरावच्छिन्नवेदना न मैत्रशरीरावच्छिन्नेनानुसन्धीयते, नाप्युभयशरीरानुस्यूतावयवान्तरावच्छिन्ने नानुसन्धीयते, उभयानुस्यूतस्यावविनो भोगायतनस्यैवाभावात् इति न चैत्रशरीरलग्नकण्टकोद्धाराय मैत्रशरीरव्यापारप्रसङ्ग इति ।
अन्ये तु - विश्लिष्टोपाधिभेदोऽननुसन्धानप्रयोजकः । तथ च हस्तावच्छिन्नस्य चरणावच्छिन्नवेदनानुसन्धानाभ्युपगमेऽपि न दोषः । न चैवंसति गर्भस्थस्य मातृसुखानुसन्धानप्रसङ्गः । एकस्मिन्नवयविन्यवयवभावेनाननुप्रविष्टयोः विश्लिष्टशब्देन विवक्षितत्वात् , मातृगर्भशरीरयोस्तथात्वात्− इत्याहुः ।
न च ‘उद्यतायुधदोर्दण्डाः पतितस्वशिरोऽक्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीनिह ॥’ इति भारतोक्त्याविश्लेषेऽप्यनुसन्धानमवगतमिति-वाच्यम् । तत्रापि शिरःकबन्धयोरेकस्मिन्नवयविन्यवयवभावेनानुप्रविष्टचरत्वात् , शिरच्छेदानन्तरं मूर्छामरणयोरन्यतरावश्यम्भावेन दृष्टविरुद्धार्थस्य तादृशवचनस्य कैमुत्यन्यायेन योधोत्साहातिशयप्रशंसापरत्वात् , तदृक्प्रभावयुक्तपुरुषविशेषविषयत्वेन भूतार्थवादत्वेऽपि निरुक्तस्य उत्सर्गतोऽननुसन्धानतन्त्रत्वाविघाताच्च । अत एव उक्तवक्ष्यमाणपक्षेषु योगिनां जातिस्मराणां च शरीरान्तरवृत्तान्तानुसन्धाने न दोषप्रसक्तिः ।
अपरे तु - शरीरैक्यभेदौ अनुसन्धानतदभावप्रयोजकोपाधी । बाल्यभवान्तरानुभूतयोरनुसन्धानतदभावदृष्टेः । न च बाल्ययौवनयोरपि शरीरभेदः शङ्कनीयः । प्रत्यभिज्ञानात् । न च परिमाणभेदेन तद्भेदावगमः । एकस्मिन् वृक्षे मूलाग्रभेदेनेव कालभेदेनैकस्मिन्ननेकपरिमाणान्वयोपपत्तेः । ननु अवयवोपचयमन्तरेण न परिमाणभेदः, अवयवाश्च पश्चादापतन्तो न पूर्वसिद्धं शरीरं परियुज्यन्ते इति परिमाणभेदे शरीरभेद आवश्यकः − इति चेत् , न−प्रदीपारोपणसमसमयसौधोदरव्यापिप्रभामण्डलविकासतत्पिधानसमसमयतत्सङ्कोचाद्यननुरोधिनः परमाणुप्रक्रियारम्भवादस्य अनभ्युपगमात् । विवर्तवादे च ऐन्द्रजालिकदर्शितशरीरवत् विनैवावयवोपाचयं मायया शरीरस्य वृद्ध्युपपत्तेः− इत्याहुः ।
इतरे तु - अन्तःकरणाभेदतद्भेदाभ्यामनुसन्धानाननुसन्धानव्यवस्थामाहुः । अयं च पक्षः प्रागुपपादितः ।
केचित्तु अज्ञानानि जीवभेदोपाधिभूतानि नानेति स्वीकृत्य तद्भेदाभेदाभ्याम् अनुसन्धानाननुसन्धानव्यवस्थामाहुः ।
अत्र केचित् ‘अंशो नानाव्यपदेशात्’ (ब्र. सू. २ । ३ । ४३) इत्यधिकरणे ‘अदृष्टानियमात्’ (ब्र. सू. २ । ३ । ५१) ‘अभिसन्ध्यादिष्वपि चैवम्’ (ब्र. सू. २ । ३ । ५२) ‘प्रदेशादिति चेन्नान्तर्भावात्’ (ब्र. सू. २ । ३ । ५३) इति सूत्रतद्गतभाष्यरीतिमनुसृत्य एकस्मिन्नात्मनि उपाधिभेदेन व्यवस्थानुपगमे कणभुगादिरीत्याऽऽत्मभेदवादेऽपि व्यवस्थानुपपत्तितौल्यमाहुः । तथा हि−चैत्रचरणलग्नकण्टकेन चैत्रस्य वेदनोत्पादनसमये अन्येषामप्यात्मनां कुतो वेदना न जायते । सर्वात्मनां सर्वगतत्वेन चैत्रशरीरान्तर्भावाविशेषात् । न च − यस्य शरीरे कण्टकवेधादि तस्यैव वेदना, नान्येषामिति-व्यवस्था । सर्वात्मसन्निधावुत्पद्यमानं शरीरं कस्यचिदेव नान्येषामिति नियन्तुमशक्यत्वात् । न च यददृष्टोत्पादितं यच्छरीरं तत्तदीयमिति नियमः । अदृष्टस्यापि नियमासिद्धेः । यदा हि तददृष्टोत्पादनाय केनचिदात्मना संयुज्यते मनः, संयुज्यत एव तदा अन्यैरपि । कथं कारणसाधारण्ये क्वचिदेव तददृष्टमुत्पद्येत ।ननु- मनस्संयोगमात्रसाधारण्येऽपि ‘अहमिदं फलं प्राप्नवानि’ इति अभिसन्धिः अदृष्टोत्पादककर्मानुकूलकृतिः इत्येवमादि व्यवस्थितमिति तत एवादृष्टनियमो भविष्यति इति चेत् , न−अभिसन्ध्यादीनामपि साधारणमनस्संयोगादिनिष्पाद्यतया व्यवस्थित्यसिद्धेः । ननु स्वकीयमनस्संयोगोऽभिसन्ध्यादिकारणमिति मनस्संयोग एवासाधारणो भविष्यतीति, न -नित्यं सर्वात्मसंयुक्तं मनः कस्यचिदेव स्वम् इति नियन्तुमशक्यत्वात्‌ । न च अदृष्टविशेषात् आत्मविशेषाणां मनसः स्वस्वामिभावसिद्धिः । तस्याप्यदृष्टस्य पूर्ववद्व्यवस्थित्यसिद्धेः । नन्वात्मनां विभुत्वेऽपि तेषां प्रदेशविशेषा एव बन्धभाज इति आत्मान्तराणां चैत्रशरीरे तत्प्रदेशविशेषाभावात् सुखदुःखादिव्यवस्था भविष्यतीति, न−यस्मिन् प्रदेशे चैत्रः सुखाद्यनुभूय तस्मात्प्रदेशादपक्रान्तः तस्मिन्नेव मैत्रे समागते तस्यापि तत्र सुखदुःखादिदर्शनेन शरीरान्तरे आत्मान्तरप्रदेशविशेषस्याप्यन्तर्भावात् ।
तस्मात् आत्मभेदेऽपि व्यवस्था दुरुपपादैव । कथञ्चित्तदुपपादने च श्रुत्यनुरोधाल्लाघवाच्च आत्मैक्यमङ्गीकृत्य तत्रैव तदुपपादनं कर्तुं युक्तमिति ।
सन्तु तर्ह्यणव एवात्मानः, यदि विभुत्वे व्यवस्था न सुवचा । मैवम्− आत्मनामणुत्वे कदाचित् सर्वाङ्गीणसुखोदयस्य करशिरश्चरणाधिष्ठानस्य चानुपपत्तेः ।
यदत्रार्वाचीनकल्पनम्-उत्क्रान्तिगत्यागतिश्रवणान्यथानुपपत्त्या ‘अणुर्ह्येवैष आत्मा यं वा एते सिनीतः पुण्यं च पापं च’ ‘वालाग्रशतभागस्य’ (श्वे. उ. ५ । ९) इत्यादिश्रुतिषु साक्षादणुत्वश्रवणेन च अणव एव जीवाः । तेषामणुत्वेऽपि ज्ञानसुखादीनां प्रदीपप्रभान्यायेन आश्रयातिरिक्तप्रदेशविशेषव्यापिगुणतया न सर्वाङ्गीणसुखानुपलब्धिः, ‘द्रोणं बृहस्पतेर्भागम्’ इत्यादिस्मृत्यनुरोधेन जीवानामंशसत्त्वात् करशिरश्चरणाद्यनुगतेषु सुखदुःखादियौगपद्यं कायव्यूहगतेषु योगिनां भोगवैचित्र्यं चेति न काचिदनुपपत्तिः । एवं च जीवानामणुत्वेनासङ्करात् सुखदुःखादिव्यवस्था विभोरीश्वरात् भेदश्च − इति ।
अत्रोक्तमद्वैतदीपिकायाम् - एवमपि कथं व्यवस्थासिद्धिः । चैत्रस्य ‘पादे वेदना शिरसि सुखम्’ इति स्वांशभेदगतसुखदुःखानुसन्धानवत् मैत्रगतसुखदुःखानुसन्धानस्यापि दुर्वारत्वात् अविशेषो हि चैत्रजीवात् तदंशयोः मैत्रस्य च भेदः । कायव्यूहस्थले वियुज्यान्यत्रप्रसरणसमर्थानामंशानां जीवाद्भेदावश्यम्भावात् , अंशांशिनोस्त्वया भेदाभेदाभ्युपगमाच्च । न च शुद्धभेदोऽननुसन्धानप्रयोजक इति वाच्यम् । शुद्धत्वं हि भेदस्य अंशांशिभावासहचरितत्वं वा अभेदासहचरितत्वं वा स्यात् ? नाद्यः (‘अंशो ह्येष परमस्य‘) ‘ममैवांशो जीवलोके’ (भ. गी. १५ । ७) ‘अंशो नानाव्यपदेशात्’ (ब्र. सू. २ । ३ । ४३) इति श्रुतिस्मृतिसूत्रैर्जीवस्य ब्रह्मांशत्वप्रतिपादनेन ब्रह्मजीवयोर्भोगसाङ्कर्यप्रसङ्गात् । ननु - जीवांशानां जीवं प्रतीव जीवस्य ब्रह्म प्रति नांशत्वम् , किं तु ‘चन्द्रबिम्बस्य गुरुबिम्बः शतांशः’ इतिवत् सदृशत्वे सति ततो न्यूनत्वमात्रमौपचारिकांशत्वमिति - चेत् , किं तदतिरेकेण मुख्यमंशत्वं जीवांशानां जीवं प्रति, यदत्राननुसन्धानप्रयोजकशरीरे निवेश्यते ? न तावत् पटं प्रति तन्तूनामिवारम्भकत्वम् । जीवस्यानादित्वात् । नापि महाकाशं प्रति घटाकाशादीनामिव प्रदेशत्वम् , टङ्कच्छिन्नपाषाणशकलादीनामिव खण्डत्वं वा । अणुत्वेन निष्प्रदेशत्वादच्छेद्यत्वाच्च । भिन्नाभिन्नद्रव्यत्वमंशत्वमभिमतमिति चेत् , न−तथा सति जीवेश्वरयोर्जीवानां च भोगसाङ्कर्यप्रसङ्गात् । स्वतो भिन्नानां तेषां चेतनत्वादिना अभेदस्यापि त्वयाऽङ्गीकारात् , समूहसमूहिनोर्भेदाभेदवादिनस्तव मते एकसमूहान्तर्गतजीवानां परस्परमप्यभेदसत्त्वाच्च स्वाभिन्नसमूहाभिन्नेन स्वस्याप्यभेदस्य दुर्वारत्वात् । ‘यदि संयोगादीनां जातेश्च अनेकाश्रितत्वं स्यात्, तदा गुणगुण्यादेरभेदात् घटाभिन्नसंयोगाभिन्नपटादेरपि घटाभेदः प्रसज्येत’ इत्यादि वदता त्वया तदभिन्नाभिन्नस्य तदभेदनियमाभ्युपगमात् । न च जीवान्तरसाधारणचेतनत्वादिधर्मैकरूप्यैकसमूहान्तर्गतत्वादिप्रयुक्ताभेदविलक्षणमभेदान्तरमंशांशिनोरस्ति भेदेऽप्यनुसन्धानप्रयोजकम् , यदत्रानतिप्रसङ्गाय विवक्ष्येत । तथा सति तस्यैव विशिष्य निर्वक्तव्यत्वापत्तेः । धर्मैकरूप्याद्यप्रयुक्तत्वमंशांशिनोरभेदे विशेष इति चेत् , न - जीवतदंशयोश्चेतनत्वादिधर्मैकरूप्यसत्त्वेन एकशरीरावच्छेदे कायव्यूहमेलने च समूहत्वेन च तयोरभेदे धर्मैकरूप्यादिप्रयुक्तत्वस्यापि सद्भावात् । धर्मैकरूप्यादिप्रयुक्ताभेदान्तरसत्त्वेऽपि जीवतदंशयोरंशांशिभावप्रयोजकाभेदो न तत्प्रयुक्त इति चेत् , न−तयोरभेदद्वयाभावात् , त्वन्मतेऽधिकरणैक्ये सति भेदस्याभेदस्य वा प्रतियोगिभेदेन तदाकारभेदेन वा अनेकत्वानभ्युपगमात् , तस्मादाद्यपक्षे सुस्थोऽतिप्रसङ्गः । एतेनैव द्वितीयपक्षोऽपि निरस्तः । अभेदासहचरितभेदस्याननुसन्धानप्रयोजकत्वे उक्तरीत्या त्वन्मते जीवब्रह्मणोर्जीवानां चाभेदस्यापि सत्त्वेनातिप्रसङ्गस्य दुर्वारत्त्वात् । ननु - अभेदप्रत्यक्षमनुसन्धाने तन्त्रमिति तदभावेऽननुसन्धानम् , स्वस्य स्वाभेदः स्वांशाभेदश्च प्रत्यक्ष इति तद्द्रष्टुर्दुःखाद्यनुसन्धानम् , जीवान्तरेणाभेदसत्त्वेऽपि तस्याप्रत्यक्षत्वात् न तद्दुःखाद्यनुसन्धानम् ; जातिस्मरस्य प्राग्भावीयात्मनापि अभेदस्य प्रत्यक्षसत्त्वात् तद्वृत्तान्तानुसन्धानम् , अन्येषां तदभावात् न; इत्यादि सर्वं सङ्गच्छते−इति चेत् , तर्ह्यैकात्म्यवादेऽपि सर्वात्मतावारकाज्ञानावरणात् चैत्रस्य न मैत्रात्माद्यभेदप्रत्यक्षमिति तत एव सर्वव्यवस्थोपपत्तेः व्यर्थः श्रुतिविरुद्ध आत्मभेदाभ्युपगमः । न चेत्थमपि प्रपञ्चतत्त्ववादिनस्तव व्यवस्थानिर्वाहः । सर्वज्ञस्येश्वरस्य वस्तुसज्जीवान्तराभेदप्रत्यक्षावश्यम्भावेन जीवेषु दुःखिषु ‘अहं दुःखी’ इत्यनुभवापत्तेः । अस्मन्मते तु ईश्वरः स्वाभिन्ने जीवे संसारं प्रतिबिम्बमुखे मालिन्यमिव पश्यन्नपि मिथ्यात्वनिश्चयात् न शोचतीति नैष प्रसङ्गः ।
स्यादेतत् - माभूदंशभेदः । करशिरश्चरणादीनां कायव्यूहस्य च अधिष्ठानम् , आत्मदीपस्यानपायिनी ज्ञानप्रभाऽस्ति व्यापिनीति सैव सर्वाधिष्ठानं भविष्यतीति चेत् , न−ज्ञानवदात्मधर्मस्य सुखदुःखभोगस्य ज्ञानमाश्रित्य उत्पत्त्यसम्भवेन करचरणाद्यवयवभेदेन अवयविनः, कायव्यूहवतः कायभेदेन च भोगवैचित्र्याभावप्रसङ्गात् । ‘सुखदुःखभोगादि ज्ञानधर्म एव नात्मधर्मः’ इत्यभ्युपगमे तद्वैचित्र्येण आत्मगुणस्य ज्ञानस्य भेदसिद्धावपि आत्मनो भेदासिद्ध्या भोगवैचित्र्यादिना आत्माभेदप्रतिक्षेपायोगात् । ‘भोगाद्याश्रयस्यात्मनोऽणुत्वेन प्रतिशरीरं विच्छिन्नतया तद्व्यापित्ववाद इव तदभेदवाद इव च न सर्वधर्मसङ्करापत्तिः’ इति मतहानेश्च ।
तस्माज्जीवस्याणुत्वोपगमेन व्यवस्थोपपादनं न युक्तमिति ।
नापि तेन तस्य ईश्वरात् भेदसाधनं युक्तम् । ‘उत्क्रान्त्यादिश्रवणात् साक्षादणुत्वश्रवणाच्च अणुर्जीवः’ इति वदतः तव मते ‘तत्सृष्ट्वा । तदेवानुप्राविशत् ।’ (तै. उ. २ । ६ । १) ‘अन्तःप्रविष्टश्शास्ता जनानाम्’ (तै. आ. ३ । ११) ‘गुहां प्रविष्टौ परमे परार्धे’ (क. उ. १ । ३ । १) इत्यादिश्रुतिषु प्रवेशादिश्रवणात् ‘स य एषोऽणिमा’ (छा. उ. ६ । ८ । ७) ‘एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा’(छा. उ. ३ । १४ । ३) इति श्रुतौ साक्षादणुत्वश्रवणाच्च परोऽप्यणुरेव सिध्येदिति कुतः परजीवयोर्विभुत्वाणुत्वाभ्यां भेदसिद्धिः । ननु − ‘आकाशवत् सर्वगतश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) ‘ज्यायानन्तरिक्षात् ज्यायान्दिवः’ (छा. उ. ३ । १४ । ३) इत्यादिश्रवणात् सर्वप्रपञ्चोपादानत्वाच्च परस्य सर्वगतत्वसिद्धेः तदणुत्वश्रुतयः उपासनार्था दुर्ग्रहत्वाभिप्राया वा उन्नेयाः । प्रवेशश्रुतयश्च शरीराद्युपाधिना निर्वाह्याः न च जीवोत्क्रान्त्यादिश्रुतयोऽपि बुद्ध्याद्युपाधिना निर्वोढुं शक्या इति शङ्क्यम् । ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ (बृ. उ. ४ । ४ । २) इति प्राणाख्यबुद्ध्युत्क्रान्तेः प्रागेव जीवोत्क्रान्तिवचनात् । ‘तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. ३ । २ । ८) इति नामरूपविमोक्षानन्तरमपि गतिश्रवणाच्च । ‘तद्याथाऽनस्सुसमाहितमुत्सर्जन्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन् याति’ (बृ. उ. ४ । ३ । ३५) इति स्वाभाविकगत्याश्रयशकटदृष्टान्तोक्तेश्च - इति चेत् , नैतत्सारम्− ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः’ (बृ. उ. ४ । ४ । २२) ‘घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः’ । (अमृतबि-१३) इत्यादिश्रुतिषु जीवस्यापि विभुत्वश्रवणात् । त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जगदुपादानत्वाभावात् जीवस्य कायव्यूहगतविचित्रसुखदुःखोपादानत्ववत् अणुत्वेऽपि जगदुपादानत्वसम्भवाच्च, ततस्तस्य सर्वगतत्वासिद्धेः । तत्प्रवेशश्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रान्त्यादिश्रुतीनामपि बुद्ध्युपाधिकत्वोपगमसम्भवात् ।
‘पञ्चवृत्तिर्मनोवद्व्यपदिश्यते’ (ब्र. सू. २ । ४ । १२) इति सूत्रभाष्ये बुद्धिप्राणयोः कार्यभेदाद्भेदस्य प्रतिपादितत्वेन बुद्ध्युपाधिके जीवे प्रथममुत्क्रामति प्राणस्यानूत्क्रमणोपपत्तेः । नामरूपविमोक्षानन्तरं ब्रह्मप्राप्तिश्रवणस्य प्राप्तरि जीव इव प्राप्तव्ये ब्रह्मण्यपि विभुत्वविरोधित्वात् , प्राकृतनामरूपविमोक्षानन्तरमपि अप्राकृतलोकविग्रहाद्युपधानेन ब्रह्मणः प्राप्तव्यत्ववादिमते प्राप्तुर्जीवस्यापि अप्राकृतदेहेन्द्रियादिसत्त्वेन तदुपधानेन ब्रह्मप्राप्तिश्रवणाविरोधात् , स्वाभाविकगत्याश्रयशकटदृष्टान्तश्रवणमात्रात् जीवस्य स्वाभाविकगतिसिद्धौ ‘गुहां प्रविष्टौ’ इति स्वाभाविकप्रवेशाश्रयजीवसमभिव्याहारेण ब्रह्मणोऽपि स्वाभाविकप्रवेशसिद्ध्यवश्यम्भावात् , ब्रह्मजीवोभयान्वयिन एकस्य प्रविष्टपदस्य एकरूपप्रवेशपरत्वस्य वक्तव्यत्वात् । तस्मात् परमते ब्रह्मजीवयोर्विभुत्वाणुत्वव्यवस्थित्यसिद्धेः ततो भेदसिद्धिप्रत्याशा दूरादपनेया । अस्मन्मते ब्रह्मात्मैक्यपरमहावाक्यानुरोधेन अवान्तरवाक्यानां नेयत्वात् ‘स्वरूपेण जीवस्य विभुत्वम् औपाधिकरूपेण परिच्छेदः’ इत्यादिप्रकारेण जीवब्रह्मभेदप्रापकश्रुतीनामुपपादनं भाष्यादिषु व्यक्तम् ।
तस्मात् अचेतनस्य प्रपञ्चस्य मिथ्यात्वात् चेतनप्रपञ्चस्य ब्रह्माभेदाच्च न वेदान्तानाम् अद्वितीये ब्रह्मणि विद्यैकप्राप्ये समन्वयस्य कश्चिद्विरोध इति ॥
॥ इति शास्त्रसिद्धान्तलेशसङ्ग्रहे द्वितीयः परिच्छेदः ॥
ननु - कथं विद्ययैव ब्रह्मप्राप्तिः । यावता कर्मणामपि तत्प्राप्तिहेतुत्वं स्मर्यते− ‘तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं माहामुने’ (वि. पु. ६ । ५ । ६०) इति ।
सत्यम् । ‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति श्रुतेः नित्यसिद्धब्रह्मावाप्तौ कण्ठगतविस्मृतकनकमालावाप्तितुल्यायां विद्यातिरिक्तस्य साधनत्वासम्भवाच्च । ब्रह्मावाप्तौ परम्परया कर्मापेक्षामात्रपरा तादृशी स्मृतिः ।
क्व तर्हि कर्मणामुपयोगः ।
अत्र भामतीमतानुवर्तिन आहुः - ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’(बृ. उ. ४ । ४ । २२) इति श्रुतेः विद्यासम्पादनद्वारा ब्रह्मावाप्त्युपायभूतायां विविदिषायामुपयोगः । नन्विष्यमाणायां विद्यायामेवोपयोगः किं न स्यात् ? न स्यात् – प्रत्ययार्थस्य प्राधान्यात् , ‘विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमदमादीनि, विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनि’ इति सर्वापेक्षाधिकरणभाष्याच्च । ननु – विविदिषार्थं यज्ञाद्यनुष्ठातुर्वेदनगोचरेच्छावत्त्वे विविदिषायाः सिद्धत्वेन तदभावे वेदनोपायविविदिषायां कामनाऽसम्भवेन च विविदिषार्थं यज्ञाद्यनुष्ठानायोगात् न यज्ञादीनां विविदिषायां विनियोगो युक्त इति चेत्, न – अन्नद्वेषेण कार्श्यं प्राप्तस्य तत्परिहारायान्नविषयौन्मुख्यलक्षणायामिच्छायां सत्यामपि उत्कटाजीर्णादिप्रयुक्तधातुवैषम्यदोषात् तत्र प्रवृत्तिपर्यन्ता रुचिर्न जायत इति तद्रोचकौषधविधिवत् ‘निरतिशयानन्दरूपं ब्रह्म, तत्प्राप्तौ विद्या साधनम्’ इत्यर्थे प्राचीनबहुजन्मानुष्ठितानभिसंहितफलकनित्यनैमित्तिककर्मोपसञ्जातचित्तप्रसादमहिम्नासम्पन्नविश्वासस्य पुरुषस्य ब्रह्मावाप्तौ विद्यायां च तदौन्मुख्यलक्षणायामिच्छायां सत्यामपि अनादिभवसञ्चितानेकदुरितदोषेण आस्तिककामुकस्य हेयकर्मणीव विषयभोगे प्रावण्यं सम्पादयता प्रतिबन्धात् विद्यासाधने श्रवणादौ प्रवृत्तिपर्यन्ता रुचिर्न जायत इति प्रतिबन्धनिरासपूर्वकं तत्सम्पादकयज्ञादिविधानोपपत्तेः – इति ।
विवरणानुसारिणस्त्वाहुः – ‘प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यम्’ इति सामान्यन्यायात् ‘इच्छाविषयतया शब्दबोध्य एव शाब्दसाधनताऽन्वयः’ इति स्वर्गकामादिवाक्ये क्लृप्तविशेषन्यायस्य बलवत्त्वात्  । ‘अश्वेन जिगमिषति’ ‘असिना जिघांसति’ इत्यादिलौकिकप्रयोगे अश्वादिरूपसाधनस्य ‘तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’(छा. उ. ८ । १ । १) ‘मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इत्यादिवैदिकप्रयोगे तव्यार्थभूतविधेश्च सन्प्रत्ययाभिहितेच्छाविषय एव गमनादौ अन्वयस्य व्युत्पन्नत्वाच्च प्रकृत्यभिहितायां विद्यायां यज्ञादीनां विनियोगः । ननु तथा सति यावद्विद्योदयं कर्मानुष्ठानापत्त्या ‘त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक् परं पदम्’ इत्यादिश्रुतिसिद्धा कर्मत्यागरूपस्य सन्न्यासस्य विद्यार्थता पीड्येतेति चेत् , न – प्राग् बीजावापात् कर्षणं तदनन्तरमकर्षणमिति कर्षणाकर्षणाभ्यां व्रीह्यादिनिष्पत्तिवत् ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥’ (भ. गी. ६ । ३) इत्यादिवचनानुसारेण चेतसश्शुद्धौ विविदिषादिरूपप्रत्यक्प्रावण्योदयपर्यन्तं कर्मानुष्ठानं ततः सन्न्यासः इति कर्मतत्सन्न्यासाभ्यां विद्यानिष्पत्त्यभ्युपगमात् । उक्तं हि नैष्कर्म्यसिद्धौ – ‘प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥’ (१ । ४९) इति ।
कर्मणां विद्यार्थत्वपक्षेऽपि विविदिषापर्यन्तमेव कर्मानुष्ठाने विविदिषार्थत्वपक्षात् को भेद इति चेत् , अयं भेदः – कर्मणां विद्यार्थत्वपक्षे द्वारभूतविविदिषासिद्ध्यनन्तरमुपरतावपि फलपर्यन्तानि विशिष्टगुरुलाभान्निर्विघ्नश्रवणमननादिसाधनानि निवृत्तिप्रमुखानि सम्पाद्य विद्योत्पादकत्वनियमोऽस्ति । विविदिषार्थत्वपक्षे तु श्रवणादिप्रवृत्तिजननसमर्थोत्कटेच्छासम्पादनमात्रेण कृतार्थतेति नावश्यं विद्योत्पादकत्वनियमः । ‘यस्यैते चत्वारिंशत् संस्काराः’ (गौ. ध. सू. १ । ८ । २५) इति स्मृतिमूले कर्मणामात्मज्ञानयोग्यतापादकमलापकर्षणगुणाधानलक्षणसंस्कारार्थत्वपक्ष इव - इति वदन्ति ॥
ननु केषां कर्मणाम् उदाहृतश्रुत्या विनियोगो बोध्यते ।
अत्र कैश्चत् उक्तं−’वेदानुवचतेन’ इति ब्रह्मचारिधर्माणां ‘यज्ञेन दानेन’ इति गृहस्थधर्माणां च ‘तपसाऽनाशकेन’ इति वानप्रस्थधर्माणां च उपलक्षणम् इत्याश्रमधर्माणामेव विद्योपयोगः । अत एव ‘विहितत्वाच्चाश्रमकर्मापि’ (ब्र. सू. ३ । ४ । ३२) इति शारीरकसूत्रे विद्यार्थकर्मस्वाश्रमकर्मपदप्रयोगः - इति ।
कल्पतरौ तु − नाश्रमधर्माणामेव विद्योपयोगः, ‘अन्तरा चापि तु तद्दृष्टेः’ (ब्र. सू. ३ । ४ । ३६) इत्यधिकरणे अनाश्रमिविधुराद्यनुष्ठितकर्मणामपि विद्योपयोगनिरूपणात् । न च −विधुरादीनामनाश्रमिणां प्राग्जन्मानुष्ठितयज्ञाद्युत्पादितविविदिषाणां विद्यासाधनश्रवणादावधिकारनिरूपणमात्रपरं तदधिकरणम् , न तु तदनुष्ठितकर्मणां विद्योपयोगनिरूपणपरमिति−शङ्क्यम् । ‘विशेषानुग्रहश्च’ (ब्र. सू. ३ । ४ । ३८) इति तदधिकरणसूत्रतद्भाष्ययोः तदनुष्ठितानां जपादिरूपवर्णमात्रधर्माणामपि विद्योपयोगस्य कण्ठत उक्तेः । ‘विहितत्वाच्चाश्रमकर्मापि’ इति सूत्रे आश्रमकर्मपदस्य वर्णधर्माणामप्युपलक्षणत्वात् इत्यभिप्रायेण−उक्तम् । आश्रमधर्मव्यतिरिक्तानामप्यस्ति विद्योपयोगः, किं तु नित्यानामेव । तेषां हि फलं दुरितक्षयं विद्या अपेक्षते, न काम्यानां फलं स्वर्गादि । तत्र यथा प्रकृतौ क्लृप्तोपकाराणामङ्गानामतिदेशे सति न प्राकृतोपकारातिरिक्तोपकारकल्पनम् , एवं ज्ञाने विनियुक्तानां यज्ञादीनां नित्यक्लृप्तफलपापक्षयातिरेकेण न नित्यकाम्यसाधारणविद्योपयोग्युपकारकल्पनमिति ।
सङ्क्षेपशरीरके तु नित्यानां काम्यानां च कर्मणां विनियोग उक्तः । यज्ञादिशब्दाविशेषात् । प्रकृतौ क्लृप्तोपकाराणां पदार्थानां क्लृप्तप्राकृतोपकारातिदेशमुखेनैव विकृतिष्वतिदेशेन सम्बन्धः, न तु पदार्थानामतिदेशानन्तरमुपकारकल्पना, इति न तत्र प्राकृतोपकारातिरिक्तोपकारकल्पनाप्रसक्तिः । इह तु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनाम् उपदिष्टानामङ्गानामिव पश्चात्कल्पनीय उपकारः प्रथमावगतविनियोगनिर्वाहाय अक्लृप्तोऽपि सामान्यशब्दोपात्तसकलनित्यकाम्यसाधारणः कथं न कल्प्यः । अध्वरमीमांसकैरपि हि ‘उपकारमुखेन पदार्थान्वय एव क्लृप्तोपकारनियमः, पदार्थान्वयानन्तरम् उपकारकल्पने तु अक्लृप्तोऽपि विनियुक्तपदार्थानुगुण्येन उपकारः कल्पनीयः’ इति सम्प्रतिपद्यैव बाधलक्षणारम्भसिद्ध्यर्थम् उपकारमुखेन विकृतिषु प्राकृतान्वयो दशमाद्ये समर्थितः । किं च कॢप्तोपकारालाभात् नित्यानामेवायं विनियोग इत्यभ्युपगमे नित्येभ्यो दुरितक्षयस्य तस्माच्च ज्ञानोत्पत्तेः अन्यतः सिद्धौ व्यर्थोऽयं विनियोगः, अन्यतस्तदसिद्धौ ज्ञानापेक्षितोपकारजनकत्वं तेष्वकॢप्तमिति अविशेषात् नित्यकाम्यसाधारणो विनियोगो दुर्वारः । ननु – नित्यानां दुरितक्षयमात्रहेतुत्वस्य अन्यतः सिद्धावपि विशिष्य ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिबर्हकत्वं न सिद्धम् , किन्तु अस्मिन् विनियोगे सति ज्ञानोद्देशेन नित्यानुष्ठानात् अवश्यं ज्ञानं भावति, इतरथा शुद्धिमात्रं न नियता ज्ञानोत्पत्तिः, इति सार्थकोऽयं विनियोग इति चेत्, तर्हि नित्यानामपि अक्लृप्तमेव ज्ञानोत्पत्तिप्रतिबन्धकदुरितनिबर्हणत्वं, ज्ञानसाधनविशिष्टगुरुलाभश्रवणमननादिसम्पादकापूर्वं च द्वारं कल्पनीयमिति अक्लृप्तोपकारकल्पनाविशेषात् न सामान्यश्रुत्यापादितो नित्यकाम्यसाधारणो विनियोगो भञ्जनीय इति ।
ननु-एवमपि कथं ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।’ (भ. गी. ३ । २०) इत्यादिस्मरणनिर्वाहः । न च तस्य विद्यार्थकर्मानुष्ठानपरत्वम् । विविदिषावाक्ये ब्राह्मणग्रहणेन ब्राह्मणानामेव विद्यार्थकर्मण्यधिकारप्रतीतेः । अतो जनकाद्यनुष्ठितकर्मणां साक्षादेव मुक्त्युपयोगो वक्तव्यः, मैवम् - विविदिषावाक्ये ब्राह्मणग्रहणस्य त्रैवर्णिकोपलक्षणत्वात् । यथाहुः अत्रभवन्तो वार्तिककाराः ‘ब्राह्मणग्रहणं चात्र द्विजानामुपलक्षणम् । अविशिष्टाधिकारत्वात् सर्वेषामात्मबोधने ॥’ (४-४-१०२९) इति । न हि ‘विद्याकामो यज्ञादीननुतिष्ठेत्’ इति विपरिणमिते विद्याकामाधिकारविधौ ब्राह्मणपदस्याधिकारिविशेषसमर्पकत्वं युज्यते । उद्देश्ये विशेषणायोगात् । नापि-‘राजा स्वाराज्यकामो राजसूयेन यजेत’ इति स्वाराज्यकामाधिकारे राजसूयविधौ ‘स्वाराज्यकामो राजकर्तृकेण राजसूयेन यजेत’ इति कर्तृतया यागविशेषणत्वेन विधेयस्य राज्ञः, राजकर्तृकराजसूयस्य अराज्ञा सम्पादयितुमशक्यत्वात् अर्थादधिकारिकोटिनिवेशवत् , इह यज्ञादिकर्तृतया विधेयस्य ब्राह्मणस्य अर्थादधिकारिकोटिनिवेश इति युज्यते । ‘सर्वथापि त एवोभयलिङ्गात्’ (ब्र. सू. ३ । ४ । ३४) इति सूत्रे, अन्यत्र विहितानामेव यज्ञादीनां विविदिषावाक्ये फलविशेषसम्बन्धविधिः नापूर्वयज्ञादिविधिरिति व्यवस्थापितत्वेन, प्राप्तयज्ञाद्यनुवादेन एकस्मिन् वाक्ये कर्तृरूपगुणविधिः फलसम्बन्धविधिश्च इत्युभयविधानाद्वाक्यभेदापत्तेः । नापि-राजसूयवाक्ये राज्ञः कर्तृतया विधेयत्वाभावपक्षे राजपदसमभिव्याहारमात्राद्विशिष्टकर्तृकत्वलाभवत् , इह वाक्याभेदाय कर्तृतया ब्राह्मणाविधानेऽपि ब्राह्मणपदसमभिव्याहारमात्रेण ब्राह्मणकर्तृकत्वलाभात्, तदधिकारपर्यवसानमित्युपपद्यते । अन्यत्र त्रैवर्णिकाधिकारिकत्वेन क्लृप्तानाम् इहापि त्रैवर्णिकाधिकारात्मविद्यार्थत्वेन विधीयमानानां यज्ञादीनां त्रैवर्णिकाधिकारत्वस्य युक्ततया विधिसंसर्गहीनब्राह्मणपदसमभिव्याहारमात्रादधिकारसङ्कोचासम्भवेन ब्राह्मणपदस्य यथाप्राप्तविद्याधिकारिमात्रोपलक्षणत्वौचित्यात् ।
ननु विद्याधिकारिमात्रोपलक्षणत्वे शूद्रस्यापि विद्यायामर्थित्वादिसम्भवेन तस्यापि विद्यार्थकर्माधिकारप्रसङ्ग इति चेत् , न – ‘अध्ययनगृहीतस्वाध्यायजन्यतदर्थज्ञानवत एव वैदिकेष्वधिकारः’ (ब्र. सू. १ । ३ । ३४) इत्यपशूद्राधिकरणे अध्ययनवेदवाक्यश्रवणादिविधुरस्य शूद्रस्य विद्याधिकारनिषेधात् , ‘न शूद्राय मतिं दद्यात्’ (म. नु. ४ । ८०) इति स्मृतेः आपाततोऽपि तस्य विद्यामहिमावगत्युपायासम्भवेन तदर्थित्वानुपपत्तेश्च, तस्य विद्यायामनधिकारादिति केचित् ।
अन्ये त्वाहुः – शूद्रस्याप्यस्त्येव विद्यार्थकर्माधिकारः, तस्य वेदानुवचनाग्निहोत्राद्यसम्भवेऽपि कण्ठोक्तसर्ववर्णाधिकारश्रीपञ्चाक्षरमन्त्रराजविद्यादिजपपापक्षयहेतुतपोदानपाकयज्ञादिसम्भवात् ‘वेदानुवचनेन यज्ञेन दानेन’(बृ. उ. ४ । ४ । २२) इत्यादिपृथक्कारकविभक्तिश्रुतेः विधुरादीनां विद्यार्थजपदानादिमात्रानुष्ठानानुमतेश्च वेदानुवचनादिसमुच्चयापेक्षणात् । न च शूद्रस्य विद्यायामर्थित्वासम्भवः । ‘श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः ।’ इति इतिहासपुराणश्रवणे चातुर्वर्ण्याधिकारस्मरणेन पुराणाद्यवगतविद्यामाहात्म्यस्य तस्यापि तदर्थित्वसम्भवात् । ‘न शूद्राय मतिं दद्यात्’ इति स्मृतेश्च तदनुष्ठानानुपयोग्यग्निहोत्रादिकर्मज्ञानदाननिषेधपरत्वात् । अन्यथा तस्य स्ववर्णधर्मस्याप्यवगत्युपायासम्भवेन ‘शूद्रश्चतुर्थो वर्ण एकजातिः’ ‘तस्यापि सत्यमक्रोधश्शौचम्’ ‘आचमनार्थे पाणिपादप्रक्षालनमेवैके’ ‘श्राद्धकर्म’ ‘भृत्यभरणम्’ ‘स्वदारतुष्टिः’ ‘परिचर्या चोत्तरेषाम्’ (गौ. ध. सू. २  । १ । ५१-५७) इत्यादितद्धर्मविभाजकवचनानामननुष्ठानलक्षणाप्रामाण्यापत्तेः । न चैवं सति अपशूद्राधिकरणस्य निर्विषयत्वम् । तस्य ‘न शूद्रे पातकं किञ्चित् न च संस्कारमर्हति’ (मनु. १० । १२६) इत्यादि स्मृतेः गुरूपसदनाख्यविद्याङ्गोपनयनसंस्कारविधुरस्य शूद्रस्य सगुणविद्यासु निर्गुणविद्यासाधनवेदान्तश्रवणादिषु च अधिकारनिषेधपरत्वात् , निर्गुणविद्यायां शूद्रस्यापि विषयसौन्दर्यप्रयुक्तार्थित्वस्य निषेद्धुमशक्यत्वात् , अविधेयायां च तस्यां तदतिरिक्ताधिकाराप्रसक्त्या तन्निषेधायोगाच्च । न च तस्य वेदान्तश्रवणासम्भवे विद्यार्थकर्मानुष्ठानसम्भवेऽपि विद्यानुत्पत्तेः तस्य तदर्थकर्मानुष्ठानं व्यर्थमिति वाच्यम् । तस्य वेदान्तश्रवणाधिकाराभावेऽपि भगवत्पादैः -‘श्रावयेच्चतुरो वर्णान्’ इति चेतिहासपुराणाधिगमे चातुर्वर्ण्याधिकारस्मरणात् वेदपूर्वस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् - इति अपशूद्राधिकरणोपसंहारभष्ये ब्रह्मात्मैक्यपरपुराणादिश्रवणे विद्यासाधनेऽधिकारस्य दर्शितत्वात्; विद्योत्पत्तियोग्यविमलदेवशरीरनिष्पादनद्वारा मुक्त्यर्थं भविष्यतीति त्रैवर्णिकानां क्रममुक्तिफलकसगुणविद्यार्थकर्मानुष्ठानवत् वेदान्तश्रवणयोग्यत्रैवर्णिकशरीरनिष्पादनद्वारा विद्योत्पत्त्यर्थत्वं भविष्यतीति शूद्रस्य विद्यार्थकर्मानुष्ठानाविरोधाच्च । तस्मात् विविदिषावाक्ये ब्राह्मणपदस्य यथाप्राप्तविद्याधिकारिमात्रविषयत्वेन शूद्रस्यापि विद्यार्थकर्माधिकारः सिद्ध्यत्येवेति ।
नन्वस्तु कर्मणां चित्तशुद्धिद्वारा विद्योपयोगः, सन्न्यासस्य किंद्वारा तदुपयोगः ?
केचिदाहुः−विद्योत्पत्तिप्रतिबन्धकदुरितानामनन्तत्वात् किञ्चित् यज्ञाद्यनुष्ठाननिवर्त्यं किञ्चित् सन्न्यासापूर्वनिवर्त्यमिति कर्मवत् चित्तशुद्धिद्वारैव सन्न्यासस्यापि तदुपयोगः । तथा च गृहस्थादीनां कर्मच्छिद्रेषु श्रवणाद्यनुतिष्ठतां न तस्मिन् जन्मनि विद्यावाप्तिः, किं तु जन्मान्तरे सन्न्यासं लब्ध्वैव । येषां तु गृहस्थानामेव सतां जनकादीनां विद्या विद्यते, तेषां पूर्वजन्मनि सन्न्यासात् विद्यावाप्तिः । अतो न विद्यायां सन्न्यासापूर्वव्यभिचारशङ्काऽपीति ।
अन्ये तु - ‘शान्तो दान्त उपरतः’ (बृ. उ. ४। ४। २३) इत्यादिश्रुतौ उपरतशब्दगृहीततया सन्न्यासस्य साधनचतुष्टयान्तर्गतत्वात् , ‘सहकार्यन्तरविधिः’ (ब्र. सू. ३ । ४ । ४७) इति सूत्रभष्ये तद्वतः-विद्यावतः सन्न्यासिनः, बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं विधीयते । “तस्मात् ब्राह्मणः पाण्डित्यम्” इत्यादिश्रुतौ (तेः) ततः प्राक् “भिक्षाचर्यं चरन्ति” इति सन्न्यासाधिकारात्’ इति प्रतिपादनात् , ‘त्यक्ताशेषक्रियस्यैव संसारं प्रजिहासतः । जिज्ञासोरेव चैकात्म्यं त्रय्यन्तेष्वधिकारिता ।’ (सं. वा. १२) इति वार्तिकोक्तेश्च सन्न्यासापूर्वस्य ज्ञानसाधनवेदान्तश्रवणाद्यधिकारिविशेषणत्वमिति तस्य विद्योपयोगमाहुः ।
अपरे तु - ‘श्रवणाद्यङ्गतया आत्मज्ञानफलता सन्न्यासस्य सिद्धा’ इति विवरणोक्तेः अनन्यव्यापारतया श्रवणादिनिष्पादनं कुर्वतः तस्य विद्यायामुपयोगः । दृष्टद्वारे सम्भवति अदृष्टकल्पनायोगात् । यदि त्वनलसस्य धीमतः पुरुषधौरेयस्य आश्रमान्तरस्थस्यापि कर्मच्छिद्रेषु श्रवणादिसम्पद्यते, तदा चतुर्ष्वाश्रमेषु सन्न्यासाश्रमपरिग्रहेणैव श्रवणादि निर्वर्तनीयमिति नियमोऽभ्युपेयः - इति ।
ननु अस्मिन् पक्षद्वये क्षत्रियवैश्ययोः कथं वेदान्तश्रवणाद्यनुष्ठानम् ? सन्न्यासस्य ब्राह्मणाधिकारिकत्वात्, ‘ब्राह्मणो निर्वेदमायात्’ ‘ब्राह्मणो व्युत्थाय’ ‘ब्राह्मणः प्रव्रजेत्’ इति सन्न्यासविधिषु ब्राह्मणग्रहणात् , ‘अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः । न सन्न्यासविधिर्यस्माच्छ्रुतौ क्षत्रियवैश्ययो: ।’ (बृ. वा. ३ । ५ । ८८) इति वार्तिकोक्तेश्च−इति चेत् ।
अत्र केचित् - ‘यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा’ (जा. उ. ४) इत्यविशेषश्रुत्या ‘ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेत् गृहात् । त्रयाणामपि वर्णानाममी चत्वार आश्रमाः ।’ इति स्मृत्यनुगृहीतया क्षत्रियवैश्ययोरपि सन्न्यासाधिकारसिद्धेः श्रुत्यन्तरेषु ब्राह्मणग्रहणं त्रयाणामुपलक्षणम् । अत एव वार्तिकेऽपि ‘अधिकारिविशेषस्य’ इति श्लोकेन भाष्याभिप्रायमुक्त्वा ‘त्रयाणामविशेषेण सन्न्यासः श्रूयते श्रुतौ । यदोपलक्षणार्थं स्यात् ब्राह्मणग्रहणं तदा ।’ (बृ. वा. ३ । ५ । ८९) इत्यनन्तरश्लोकेन स्वमते क्षत्रियवैश्ययोरपि सन्न्यासाधिकारो दर्शित इति - तयोः श्रवणाद्यनुष्ठानसिद्धिं समर्थयन्ते ।
अन्ये तु-अनेकेषु सन्न्यासविधिवाक्येषु ब्राह्मणग्रहणात् , उदाहृतजाबालश्रुतौ सन्न्यासविधिवाक्ये ब्राह्मणग्रहणाभावेऽपि श्रुत्यन्तरसिद्धं ब्राह्मणाधिकारमेव सिद्धं कृत्वा सन्न्यासावस्थायाम् ‘अयज्ञोपवीती कथं ब्रह्मणः’ इति ब्राह्मणपरामर्शाच्च ब्राह्मणस्यैव सन्न्यासाधिकारः । विरोधाधिकरणन्यायेन श्रुत्यविरुद्धस्यैव स्मृत्यर्थस्य सङ्ग्राह्यत्वात् । यत्तु सन्न्यासस्य सर्वाधिकारत्वेन वार्तिकवचनं तत् विद्वत्सन्न्यासविषयम् , न तु आतुरविविदिषासन्न्यासे‌ भाष्याभिप्रायविरुद्धसर्वाधिकारप्रतिपादनपरम् । ‘सर्वा(कर्मा)धिकारविच्छेदि विज्ञानं चेदुपेयते । कुतोऽधिकारनियमो व्युत्थाने क्रियते बलात् ॥’ (बृ. वा. ३ । ५ । ९०) इत्यनन्तरश्लोकेन ब्रह्मज्ञानोदयानन्तरं जीवन्मुक्तिकाले विद्वत्सन्न्यास एव अधिकारनियमनिराकरणात् । एवं च − ब्राह्मणानामेव श्रवणाद्यनुष्ठाने सन्न्यासोऽङ्गम् , क्षत्रियवैश्ययोः तन्निरपेक्षः श्रवणाद्यधिकार इति, तयोः श्रवणाद्यनुष्ठाननिर्वाहः । न हि सन्न्यासस्य श्रवणापेक्षितत्वपक्षे श्रवणमात्रस्य तदपेक्षा नियन्तुं शक्यते । क्रममुक्तिफलकसगुणोपासनया देवभागं प्राप्तस्य श्रवणादौ सन्न्यासनैरपेक्ष्यस्य अवश्यं वक्तव्यत्वात्, देवानां कर्मानुष्ठानाप्रसक्त्या तत्त्यागरूपस्य सन्न्यासस्य तेष्वसम्भवात् - इत्याहुः ।
अपरे तु ‘ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १) इति श्रुत्युदिता यस्य ब्रह्मणि संस्थासमाप्तिः – अनन्यव्यापारत्वरूपं तन्निष्ठत्वं तस्य श्रवणादिषु मुख्याधिकारः । ‘गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत उच्यते । आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया ॥’ इत्यादिस्मृतिषु सर्वदा विचारविधानात् । सा च ब्रह्मणि संस्था विना सन्न्यासम् आश्रमान्तरस्थस्य न सम्भवति स्वस्वाश्रमविहितकर्मानुष्ठानवैयग्र्यात् , इति सन्न्यासरहितयोः क्षत्रियवैश्ययोः न मुख्य: श्रवणाद्यधिकारः । किं तु ‘दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिषु’ इति ‘अन्तरा चापि तु तद्दृष्टेः’ (ब्र. सू. ३ । ४ । ३६) इत्यधिकरणभाष्योक्तन्यायेन शूद्रवदप्रतिषिद्धयोस्तयोः विधुरादीनामिव देहान्तरे विद्याप्रापकेण अमुख्याधिकारमात्रेण श्रवणाद्यनुमतिः । न हि ‘अन्तरा चापि तु तद्दृष्टेः’ (ब्र. सू. ३ । ४ । ३६) इत्यधिकरणे विधुरादीनामङ्गीकृतः श्रवणाद्यधिकारो मुख्य इति वक्तुं शक्यते । ‘अतस्त्वितरज्ज्यायो लिङ्गाच्च’ (ब्र. सू. ३ । ४ । ३९) इति सूत्रकारेणैव तेषाममुख्याधिकारस्फुटीकरणात् । न च−तत्र तेषां श्रवणाद्यधिकार एव नोक्तः, किं तु तदीयकर्मणां विद्यानुग्राहकत्वमिति शङ्क्यम् । ‘दृष्टार्था च विद्या’ इत्युदाहृततदधिकरणभाष्यविरोधात् । न च −क्षत्रियवैश्ययोः सन्न्यासाभावात् अमुख्याधिकारे तत एव देवानामपि श्रवणादिष्वमुख्य एवाधिकारः स्यात् , तथा च क्रममुक्तिफलकसगुणविद्यया देवदेहं प्राप्य श्रवणाद्यनुतिष्ठतां विद्याप्राप्त्यर्थं सन्न्यासार्हं पुनर्ब्राह्मणजन्म वक्तव्यमिति ‘ब्रह्मलोकमभिसम्पद्यते, न च पुनरावर्तते’ (छा. उ. ८ । १५ । १) ‘अनावृत्तिः शब्दात्’ (ब्र. सू. ४ । ४ । २२) इत्यादिश्रुतिसूत्रविरोधः इति - वाच्यम् । देवानामनुष्ठेयकर्मवैयग्र्याभावात् स्वत एव अनन्यव्यापारत्वं सम्भवतीति क्रममुक्तिफलकसगुणविद्याभिधायिशास्त्रप्रामाण्यात् विनाऽपि सन्न्यासं तेषां मुख्याधिकाराभ्युपगमात् इत्याहुः ।
ननु - अमुख्याधिकारिणा दृष्टफलभूतवाक्यार्थावगत्यर्थम् अविहितशास्त्रान्तरविचारवत् क्रियमाणो वेदान्तविचारः कथं जन्मान्तरविद्यावाप्तावुपयुज्यते । न खल्वद्यतनविचारस्य दिनान्तरीयविचार्यावगतिहेतुत्वमपि युज्यते, दूरे जन्मान्तरीयतद्धेतुत्वम् । न च वाच्यं – मुख्याधिकारिणा परिव्राजकेन क्रियमाणमपि श्रवणं दृष्टार्थमेव, अवगतेर्दृष्टार्थत्वात् ; तस्य यथा प्रारब्धकर्मविशेषरूपप्रतिबन्धात् इह जन्मनि फलमजनयतो जन्मान्तरे प्रतिबन्धकापगमेन फलजनकत्वम् ‘ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्’ (ब्र. सू. ३ । ४ । ५१) इत्यधिकरणे तथा निर्णयात् , एवममुख्याधिकारिकृतस्यापि स्यात् इति । यतः शास्त्रीयाङ्गयुक्तं श्रवणम् अपूर्वविधित्वपक्षे फलपर्यन्तमपूर्वं नियमविधित्वपक्षे नियमादृष्टं वा जनयति, तच्च जातिस्मरत्वप्रापकादृष्टवत् प्राग्भवीयसंस्कारमुद्बोध्य तन्मूलभूतस्य विचारस्य जन्मान्तरीयविद्योपयोगितां घटयतीति युज्यते । शास्त्रीयाङ्गविधुरं श्रवणं नादृष्टोत्पादकमिति कुतस्तस्य जन्मान्तरीयविद्योपयोगित्वमुपपद्यते, घटकादृष्टं विना जन्मान्तरीयप्रमाणव्यापारस्य जन्मान्तरीयावगतिहेतुत्वोपगमे अतिप्रसङ्गात् ।
उच्यते−अमुख्याधिकारिणाऽपि उत्पान्नविविदिषेण क्रियमाणं श्रवणं द्वारभूतविविदिषोत्पादकप्राचीनविद्यार्थयज्ञाद्यनुष्ठानजन्यापूर्वप्रयुक्तमिति तदेवापूर्वं विद्यारूपफलपर्यन्तं व्याप्रियमाणं जन्मान्तरीयायामपि विद्यायां स्वकारितश्रवणस्य उपकारितां घटयतीति नानुपपत्तिः । श्रवणादौ विध्यभावपक्षे तु सन्न्यासपूर्वकं कृतस्यापि श्रवणस्य अदृष्टानुत्पादकत्वात् प्रतिबन्धके सति तस्य जन्मान्तरीयविद्याहेतुत्वम् इत्थमेव निर्वाह्यम् ।
आचार्यास्तु−नियमविधिपक्षेऽपि अयमेव निर्वाहः । श्रवणमभ्यस्यतः फलप्राप्तेरर्वाक् प्रायेण तन्नियमादृष्टानुत्पत्तेः, तस्य फलपर्यन्तावृत्तिगुणकश्रवणानुष्ठाननियमसाध्यत्वात् । न हि नियमादृष्टजनकश्रवणनियमः फलपर्यन्तमावर्तनीयस्य श्रवणस्य उपक्रममात्रेण निर्वर्तितो भवति, येन तज्जन्यनियमादृष्टस्यापि फलपर्यन्तश्रवणावृत्तेः प्रागेवोत्पत्तिः सम्भाव्येत ।अवघातवत् आवृत्तिगुणकस्यैव श्रवणस्य फलसाधनत्वेन फलसाधनपदार्थनिष्पत्तेः प्राक् तन्नियममनिर्वर्तिवचनस्य निरालम्बनत्वात् , श्रवणावघाताद्युपक्रममात्रेण नियमनिष्पत्तौ तावतैव नियमशास्त्रानुष्ठानं सिद्धमिति तदनावृत्तावप्यवैकल्यप्रसङ्गाच्च-इत्याहुः ।
केचित्तु -दृष्टार्थस्यैव वेदान्तश्रवणस्य ‘दिने दिने तु वेदान्तश्रवणात् भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात् कृच्छ्राशीतिफलं लभेत्’ इत्यादिवचनप्रामाण्यात् स्वतन्त्रादृष्टोत्पादकत्वमप्यस्ति । यथा अग्निसंस्कारार्थस्याधानस्य पुरुषसंस्कारेषु परिगणनात् तदर्थत्वमपि, एवं वचनबलादुभयार्थत्वोपपत्ते: । तथा च प्रतिदिनश्रवणजनितादृष्टमहिम्नैव आमुष्मिकविद्योपयोगित्वं श्रवणमननादिसाधनानाम् - इत्याहुः ।
एवं श्रवणमननादिसाधनानुष्ठानात् (प्रणाल्या) (प्रवणस्य) विद्यावाप्तिः इत्यस्मिन्नर्थे सर्वसम्प्रतिपन्ने स्थिते भारतीतीर्थाः ध्यानदीपे विद्यावाप्तौ उपायान्तरमप्याहुः-
‘तत् कारणं साङ्ख्ययोगाभिपन्नम्’ (श्वे. उ. ६ । १३) ‘यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।’ (भ. गी. ५ । ५) इति श्रुतिस्मृतिदर्शनात् यथा सङ्ख्यं नाम वेदान्तविचारः श्रवणशब्दितो मननादिसहकृतो विद्यावाप्त्युपायः, एवं योगशब्दितं निर्गुणब्रह्मोपासनमपि । न च निर्गुणस्योपासनमेव नास्तीति शङ्क्यम् । प्रश्नोपनिषदि शैब्यप्रश्ने ‘यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ (प्र. उ. ५ । ५) इति निर्गुणस्यैवोपासनप्रतिपादनात् । तदनन्तरं ‘स एतस्माज्जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते’ इति उपासनाफलवाक्ये ईक्षतिकर्मत्वेन निर्दिष्टं यन्निर्गुणं ब्रह्म, तदेवोपासनावाक्येऽपि ध्यायतिकर्म, नान्यत् । ईक्षतिध्यानयोः कार्यकारणभूतयोरेकविषयत्वनियमात् - इत्यस्यार्थस्य ईक्षतिकर्माधिकरणे भाष्यकारादिभिरङ्गीकृतत्वात् । अन्यत्रापि तापनीयकठवल्ल्यादिश्रुत्यन्तरे निर्गुणोपास्तेः प्रपञ्चितत्वात् । सूत्रकृताऽपि उपास्यगुणपरिच्छेदार्थमारब्धे गुणोपसंहारपादे निर्गुणेऽपि ‘आनन्दादयः प्रधानस्य’ (ब्र. सू. ३ । ३ । ११) इति सूत्रेण भावरूपाणां ज्ञानानन्दादिगुणानाम् ‘अक्षरधियां त्ववरोधः’ (ब्र. सू. ३ । ३ । ३३) इत्यादिसूत्रेण अभावरूपाणामस्थूलत्वादिगुणानां चोपसंहारस्य दर्शितत्वाच्च । ननु आनन्दादिगुणोपसंहारे उपास्यं निर्गुणमेव न स्यादिति चेत्, न-आनन्दादिभिरस्थूलत्वादिभिश्चोपलक्षितमखण्डैकरसं ब्रह्मास्मीति निर्गुणत्वानुपमर्दनेन उपासनासम्भवात् । ननु ‘तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ (के. उ. १ । ५) इति श्रुतेः न परं ब्रह्मोपास्यमिति चेत् , ‘अन्यदेव तद्विदितात्’ (के. उ. १ । ४) इति श्रुतेः तस्य वेद्यत्वस्याप्यसिद्ध्यापातात् । श्रुत्यन्तरेषु ब्रह्मवेदनप्रसिद्धेः अवेद्यत्वश्रुतिर्वास्तवावेद्यत्वपरा चेत् , आथर्वणादौ तदुपासनप्रसिद्धेः तदनुपास्यत्वश्रुतिरपि वस्तुवृत्तपराऽस्तु ।
एवं च ‘श्रवणायापि बहुभिर्यो न लभ्यः’ (क. उ. १ । २ । ७) इति श्रवणात् येषां बुद्धिमान्द्यात् न्यायव्युत्पादनकुशलविशिष्टगुर्वलाभाद्वा श्रवणादि न सम्भवति, तेषामध्ययनगृहीतैर्वेदान्तैरापाततोऽधिगमितब्रह्मात्मभावानां तद्विचारं विनैव प्रश्नोपनिषदाद्युक्तम् आर्षग्रन्थेषु ब्राह्मवासिष्ठादिकल्पेषु पञ्चीकरणादिषु च अनेकशाखाविप्रकीर्णसर्वार्थोपसंहारेण कल्पसूत्रेष्वग्निहोत्रादिवत् निर्धारितानुष्ठानप्रकारं निर्गुणोपासनं सम्प्रदायमात्रविद्भ्यो गुरुभ्योऽवधार्य तदनुष्ठानात् क्रमेण उपास्यभूतनिर्गुणब्रह्मसाक्षात्कारः सम्पद्यते । अविसंवादिभ्रमन्यायेन उपास्तेरपि क्वचित् फलकाले प्रमापर्यवसानसम्भवात् , पाणौ पञ्च वराटकाः पिधाय केनचित् ‘करे कति वराटकाः’ इति पृष्टे ‘पञ्च वराटकाः’ इति तदुत्तरवक्तुः वाक्यप्रयोगमूलभूतसङ्ख्याविशेषज्ञानस्य मूलप्रमाणशून्यस्याहार्यारोपरूपस्यापि यथार्थत्ववत् निर्गुणब्रह्मोपासनस्य अर्थतथात्वविवेचकनिर्विचिकित्समूलप्रमाणनिरपेक्षस्य दहराद्युपासनवत् उपासनाशास्त्रमात्रमवलम्ब्य क्रियमाणस्यापि वस्तुतो यथार्थत्वेन दहराद्युपासनेनेव निर्गुणोपासनेन जन्यस्य स्वविषयसाक्षात्कारस्य श्रवणादिप्रणालीजन्यसाक्षात्कारवदेव तत्त्वार्थविषयत्वावश्यम्भावाच्च ।
इयांस्तु विशेषः - प्रतिबन्धरहितस्य पुंसः श्रवणादिप्रणाड्या ब्रह्मसाक्षात्कारो झटिति सिध्यतीति साङ्ख्यमार्गो मुख्यः कल्पः, उपास्या तु विलम्बेनेति योगमार्गोऽनुकल्पः इति ।
नन्वस्मिन् पक्षद्वयेऽपि ब्रह्मसाक्षात्कारे किं करणम् ?
केचिदाहुः−प्रत्ययाभ्यासरूपं प्रसङ्ख्यानमेव । योगमार्गे आदित आरभ्य उपासनरूपस्य साङ्ख्यमार्गे मननान्तरनिदिध्यासनरूपस्य च तस्य सत्त्वात् । न च तस्य ब्रह्मसाक्षात्कारकरणत्वे मानाभावः । ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ (मु. उ. ३ । १ । ८) इति श्रवणात् । कामातुरस्य व्यवहितकामिनीसाक्षात्कारे प्रसङ्ख्यानस्य करणत्वक्लृप्तेश्च, ‘आ प्रायणात् तत्रापि हि दृष्टम्’ (ब्र. सू. ४ । १ । १२) इत्यधिकरणे ‘विकल्पोऽविशिष्टफलत्वात्’ (ब्र. सू. ३ । ३ । ५९) इत्यधिकरणे च दहराद्यहङ्ग्रहोपासकानां प्रसङ्ख्यानादुपास्यसगुणब्रह्मसाक्षात्काराङ्गीकाराच्च । ननु च−प्रसङ्ख्यानस्य प्रमाणपरिगणनेष्वपरिगणनात् तज्जन्यो ब्रह्मसाक्षात्कारः प्रमा न स्यात् । न च काकतालीयसंवादिवराटकसङ्ख्याविशेषाहार्यज्ञानवत् अर्थाबाधेन प्रमात्वोपपत्तिः । प्रमाणामूलकस्य प्रमात्वायोगात् । आहार्यवृत्तेश्च उपासनावृत्तिवत् ज्ञानभिन्नमानसक्रियारूपतया इच्छादिवदबाधितार्थविषयत्वेऽपि प्रमात्वानभ्युपगमात् । मैवम्; क्लृप्तप्रमाकरणामूलकत्वेऽपि ईश्वरमायावृत्तिवत् प्रमात्वोपपत्तेः, विषयाबाधतौल्यात् । मार्गद्वयेऽपि प्रसङ्ख्यानस्य विचारितादविचारिताद्वा वेदान्तात् ब्रह्मावगतिमूलकतया प्रसङ्ख्यानजन्यस्य ब्रह्मसाक्षात्कारस्य प्रमाणमूलकत्वाच्च । उक्तं च कल्पतरुकारैः— “वेदान्तवाक्यजज्ञानभावनाजापरोक्षधीः । मूलप्रमाणदार्ढ्येन न भ्रमत्वं प्रपद्यते ॥” न च प्रामाण्यपरतस्त्वापत्तिस्तु प्रसज्यते । अपवादनिरासाय मूलशुद्ध्यनुरोधात्” (ब्र.सू. १-१-१) इति ।
अन्ये तु−‘एषोऽणुरात्मा चेतसा वेदितव्यः’ (मु. उ. ३ । १ । ९) ‘दृश्यते त्वग्र्यया बुद्ध्या’ (क. उ. १ । ३ । १२) इत्यादिश्रुतेः मन एव ब्रह्मसाक्षात्कारे करणम् । तस्य सोपाधिकात्मनि अहंवृत्तिरूपप्रमाकरणत्वकॢप्तेः, ‘स्वप्नप्रपञ्चविपरीतप्रमात्रादिज्ञानसाधनस्यान्तःकरणस्य’ इत्यादिपञ्चपादिकाविवरणग्रन्थैरपि तथा प्रतिपादनात् ‘अहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः’ (बृ. उ. ४ । ३ । २०) इति श्रुत्युक्ते स्वाप्ने ब्रह्मसाक्षात्कार एव मनसः करणत्वसम्प्रतिपत्तेश्च, तदा करणान्तराभावात् । प्रसङ्ख्यानं तु मनस्सहकारिभावेनापि उपयुज्यते । ‘वाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वंपदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थताम् आविर्भावयति’ (ब्र.सू.१-१-१) इति भामतीवचनात् । ‘ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः’ (मु. उ. ३ । १ । ८) इति श्रुतावपि ज्ञानप्रसादशब्दितचित्तैकाग्र्यहेतुतयैव ध्यानोपादानात् । न तु प्रसङ्ख्यानं स्वयं करणम् । तस्य क्कचिदपि ज्ञानकरणत्वाक्लृप्तेः, कामातुरकामिनीसाक्षात्कारादावपि प्रसङ्ख्यानसहकृतस्य मनस एव करणत्वोपपत्त्या अक्लृप्तज्ञानकरणान्तरकल्पनायोगात् - इत्याहुः ।
अपरे तु−‘तद्धास्य विजज्ञौ’ (छा. उ. ६ । १६ । ३) ‘तमसः पारं दर्शयति’ (छा. उ. ७ । २६ । २) ‘आचार्यवान् पुरुषो वेद तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इत्यादिश्रुतिषु आचार्योपदेशानन्तरमेव ब्रह्मसाक्षात्कारोदये जीवन्मुक्तिश्रवणात् ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ (मु. उ. ३ । २ । ६) इति ज्ञानान्तरनैराकाङ्क्ष्यश्रवणात् ‘तं त्वौपनिषदं पुरुषम्’ (बृ. उ. ३ । ९ । २६) इति ब्रह्मण उपनिषदेकगम्यत्वश्रवणाच्च, औपनिषदं महावाक्यमेव ब्रह्मसाक्षात्कारे करणम् । न मनः । ‘यन्मनसा न मनुते’ (के. उ. १ । ६) इति तस्य ब्रह्मसाक्षात्कारकरणत्वनिषेधात् । न चापक्वमनोविषयमिदम् । ‘येनाहुर्मनो मतम्’ (के. उ. १ । ६) इति वाक्यशेषे मनोमात्रग्रहणात् । न चैवं ‘यद्वाचाऽनभ्युदितम्’ (के. उ. १ । ४) इति शब्दस्यापि तत्करणत्वं निषिध्यत इति शङ्क्यम् । मनःकरणत्ववादिनामपि शब्दस्य निर्विशेषे परोक्षज्ञानकरणत्वस्याभ्युपगतत्वेन तस्य ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ४ । १) इति श्रुत्यनुरोधेन शब्दार्थप्राप्तिरूपशक्तिमुखेन शब्दस्य तत्करणत्वनिषेधे तात्पर्यस्य वक्तव्यतया शक्यसम्बन्धरूपलक्षणामुखेन तस्य तत्करणत्वाविरोधात् । न च ‘मनसैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । १९) इति श्रुतिसिद्धं मनसोऽपि तत्करणत्वं न पराकर्तुं शक्यमिति वाच्यम् । शाब्दसाक्षात्कारजननेऽपि तदैकाग्र्यस्यापेक्षितत्वेन हेतुत्वमात्रेण तृतीयोपपत्तेः । ‘मनसा ह्येव पश्यति मनसा श्रृणोति’ (बृ. उ. १ । ५ । ३) इत्यादौ तथा दर्शनात् , गीताविवरणे भाष्यकारीयमनःकरणत्ववचनस्य मतान्तराभिप्रायेण प्रवृत्तेः - इत्याहुः ।
ननु तथाऽपि शब्दस्य परोक्षज्ञानजनकत्वस्वभावस्यापरोक्षज्ञानजनकत्वं न सङ्गच्छते इति चेत् अत्र केचित् - स्वतोऽसमर्थोऽपि शब्दः शास्त्रश्रवणमननपूर्वकप्रत्ययाभ्यासजनितसंस्कारप्रचयलब्धब्रह्मैकाग्र्यवच्चित्तदर्पणानुगृहीतः अपरोक्षज्ञानमुत्पादयति, शास्रीयसंस्कारसहकृताग्न्यधिकरणक इव होमोऽपूर्वम् - इति कल्प्यते । ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) इति शास्त्रप्रामाण्यात् । अपरोक्षस्य कर्तृत्वाद्यध्यासस्य अपरोक्षाधिष्ठानज्ञानं विना निवृत्त्ययोगात् , औपनिषदे च ब्रह्मणि मानान्तराप्रवृत्तेः, शब्दादप्यपरोक्षज्ञानानुत्पत्तौ अनिर्मोक्षप्रसङ्गात् −इत्याहुः ।
अन्ये तु−भावनाप्रचयसाहित्ये सति बहिरसमर्थस्यापि मनसो नष्टवनितासाक्षात्कारजनकत्वदर्शनात् निदिध्यासनसाहित्येन शब्दस्याप्यपरोक्षज्ञानजनकत्वं युक्तमिति दृष्टानुरोधेन समर्थयन्ते ।
अपरे तु−अपरोक्षार्थविषयत्वं ज्ञानस्यापरोक्षत्वं नाम । अन्यानिरुक्तेः । अर्थापरोक्षत्वं तु नापरोक्षज्ञानविषयत्वम् , येनान्योन्याश्रयः स्यात् । किं तु तत्तत्पुरुषीयचैतन्याभेदः । अन्तःकरणतद्धर्माणां साक्षिणि कल्पिततया तदभेदसत्त्वात् , बाह्यचैतन्ये कल्पितानां घटादीनां बाह्यचैतन्ये वृत्तिकृततत्तत्पुरुषीयचैतन्याभेदाभिव्यक्त्या तदभेदसत्त्वाच्च न क्वाप्यव्याप्तिः । न च अन्तःकरणतद्धर्माणां ज्ञानादीनामिव धर्माधर्मसंस्काराणामपि साक्षिणि कल्पितत्वाविशेषात् आपरोक्ष्यापत्तिः । तेषामनुद्भूतत्वात् , उद्भूतस्यैव जडस्य चैतन्याभेदे आपरोक्ष्यम् इत्यभ्युपगमात् । एवं च सर्वदा सर्वपुरुषचैतन्याभिन्नत्वात् ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) इति श्रुत्या स्वत एवापरोक्षं ब्रह्मेति अपरोक्षार्थविषयत्वात् शाब्दस्यापि ब्रह्मज्ञानस्य अपरोक्षत्ववाचोयुक्तिर्युक्ता−इत्याहुः ।
अद्वैतविद्याचार्यास्तु − नापरोक्षार्थविषयत्वं ज्ञानस्यापरोक्ष्यम् , स्वरूपसुखापरोक्षरूपस्वरूपज्ञानाव्यापनात् । स्वविषयत्वलक्षणस्वप्रकाशत्वनिषेधात् । किं तु यथा तत्तदर्थस्य स्वव्यवहारानुकूलचैतन्याभेदोऽर्थापरोक्ष्यम् , एवं तत्तद्व्यवहारानुकूलचैतन्यस्य तत्तदर्थाभेदो ज्ञानापरोक्ष्यम् । तथा च चैतन्यधर्म एवापरोक्ष्यम् , न त्वनुमितित्वादिवत् अन्तःकरणवृत्तिधर्मः । अत एव सुखादिप्रकाशरूपे साक्षिणि स्वरूपसुखप्रकाशरूपे चैतन्ये च आपरोक्ष्यम् । न च घटाद्यैन्द्रियकवृत्तौ तदनुभवविरोधः । अनुभवस्य वृत्त्यवच्छिन्नचैतन्यगतापरोक्ष्यविषयत्वोपपत्तेः ।
ननु उक्तं ज्ञानार्थयोरापरोक्ष्यं हृदयादिगोचरशाब्दवृत्तिशाब्दविषययोरतिप्रसक्तम् , तत्र दैवात् कदाचित् वृत्तिविषयसंसर्गे सति वृत्त्यवच्छिन्नचैतन्यस्य विषयावच्छिन्नचैतन्यस्य चाभेदाभिव्यक्तेः अवर्जनीयत्वात् इति चेत् , न−परोक्षवृत्तेः विषयावच्छिन्नचैतन्यगताज्ञाननिवर्तनाक्षमतया तत्र अज्ञानेनावृतस्य विषयचैतन्यस्य अनावृतेन वृत्त्यवच्छिन्नसाक्षिचैतन्येन अभेदाभिव्यक्तेरभावात् आपरोक्ष्याप्रसक्तेः । अत एव जीवस्य संसारदशायां वस्तुतस्सत्यपि ब्रह्माभेदे न तदापरोक्ष्यम् , अज्ञानावरणकृतभेदसत्त्वात् । न चैवं ब्रह्मणो जीवापरोक्ष्यासम्भवात् असर्वज्ञत्वापत्तिः । अज्ञानस्य ईश्वरं प्रत्यनावारकतया तं प्रति जीवभेदानापादनात् । यं प्रति यदज्ञानमावारकं तस्य तं प्रत्येव स्वाश्रयभेदापादकत्वात् । अत एव चैत्रज्ञानेन तस्य घटाज्ञाने निवृत्ते अनिवृत्तं मैत्राज्ञानं मैत्रं प्रत्येव विषयचैतन्यस्य भेदापादकमिति न चैत्रस्य घटापरोक्ष्यानुभवानुपपत्तिरपि ।
ननु−एवं वृत्तिविषयचैतन्याभेदाभिव्यक्तिलक्षणस्यापरोक्ष्यस्य स्वविषयचैतन्यगताज्ञाननिवृत्तिप्रयोज्यत्वे तस्य अज्ञाननिवृत्तिप्रयोजकत्वायोगात् ज्ञानमात्रमज्ञाननिवर्तकं भवेदिति चेत् , न−यत् ज्ञानम् उत्पद्यमानं स्वकारणमहिम्ना विषयसंसृष्टमेवोत्पद्यते तदेवाज्ञाननिवर्तकमिति विशेषणात् , ऐन्द्रियकज्ञानानां तथात्वात् । एवं च शब्दादुत्पद्यमानमपि ब्रह्मज्ञानं सर्वोपादानभूतस्वविषयब्रह्मसंसृष्टमेव उत्पद्यत इति तस्याज्ञाननिवर्तकत्वम् अज्ञाननिवृत्तौ तन्मूलभेदप्रविलयादापरोक्ष्यं चेत्युपपद्यतेतराम् । नन्वेवम् अध्ययनगृहीतवेदान्तजन्येनापि तज्ज्ञानेन मूलाज्ञाननिवृत्त्या आपरोक्ष्यं किं न स्यात् । न च तत् सत्तानिश्चयरूपत्वाभावात् नाज्ञाननिवर्तकमिति वाच्यम् । तथापि कृतश्रवणस्य निर्विचिकित्सशाब्दज्ञानेन तन्निवृत्त्या मननादिवैयर्थ्यापत्तिरिति चेत् , न – सत्यपि श्रवणात् निर्विचिकित्सज्ञाने चित्तविक्षेपदोषेण प्रतिबन्धात् अज्ञाननानिवृत्त्या तन्निराकरणे मनननिदिध्यासननियमविध्यर्थानुष्ठानस्यार्थवत्त्वात् , भवान्तरीयमननाद्यनुष्ठाननिरस्तचित्तविक्षेपस्य उपदेशमात्रात् ब्रह्मापरोक्ष्यस्य इष्यमाणत्वाच्च इत्याहुः ।
अथैवमपि−कृतनिदिध्यासनस्य वेदान्तजन्यब्रह्मज्ञानेनेव घटादिज्ञानेनापि ब्रह्मज्ञाननिवृत्तिः किं न स्यात् । न च तस्य ब्रह्माविषयत्वात् न ततो ब्रह्माज्ञाननिवृत्तिरिति वाच्यम् । ‘घटस्सन्’ इत्यादिबुद्धिवृत्तेः सद्रूपब्रह्मविषयत्वोपगमात् । न च तत्र घटाद्याकारवृत्त्या तदज्ञाननिवृत्तौ स्वतःस्फुरणादेव तदवच्छिन्नं चैतन्यं सदिति प्रकाशते, न तस्य घटाद्याकारवृत्तिविषयत्वमिति – वाच्यम् । तदभावे घटविषयं ज्ञानं तदवच्छिन्नचैतन्यविषयमज्ञानमिति भिन्नविषयेण ज्ञानेन तदज्ञाननिवृत्तेरयोगात् , जडे आवरणकृत्याभावेन घटस्याज्ञानाविषयत्वात् । न च घटादिवृत्तेः तदवच्छिन्नचैतन्यविषयत्वेऽपि अखण्डानन्दाकारत्वाभावात् न ततो मूलाज्ञाननिवृत्तिरिति वाच्यम् । वेदान्तजन्यसाक्षात्कारेऽपि तदभावात् । न हि तत्र अखण्डत्वमानन्दत्वं वा कश्चिदस्ति प्रकारः । वेदान्तानां संसर्गागोचरप्रमाजनकत्वलक्षणाखण्डार्थत्वहानापत्तेः । न च वेदान्तजन्यज्ञानादेव तन्निवृत्तिनियम इति वाच्यम् । क्लृप्ताज्ञाननिवर्तकत्वप्रयोजकस्य रूपस्य ज्ञानान्तरेऽपि सद्भावे तथानियन्तुमशक्यत्वात् । न च घटाद्याकारवृत्तिविषयस्यावच्छिन्नचैतन्यस्यापि कल्पितत्वेन यत् मूलाज्ञानविषयभूतं सत्यमनवच्छिन्नचैतन्यं तद्विषयत्वाभावात् घटादिवृत्तीनां निवर्त्यत्वाभिमताज्ञानसमानविषयत्वलक्षणं कॢप्तप्रयोजकमेव नास्तीति वाच्यम् । तत्र अवच्छेदकांशस्य कल्पितत्वेऽपि अवच्छेद्यांशस्य अकल्पितमूलाज्ञानविषयचैतन्यरूपत्वात् , तस्य कल्पितत्वे घटवज्जडतया अवस्थाज्ञानं प्रत्यपि विषयत्वायोगेन अवस्थाज्ञानस्य मूलाज्ञानविषयाकल्पितचैतन्यविषयत्वस्य वक्तव्यतया तन्निवर्तकघटादिज्ञानस्यापि तद्विषयत्वावश्यम्भावेन तत्पक्षेऽपि ततो मूलाज्ञाननिवृत्तिप्रसङ्गस्य अपरिहारात् ।
अत्राहुः आचार्याः − न चैतन्यं चक्षुरादिजन्यवृत्तिविषयः । ‘न सन्दृशे तिष्ठतिरूपमस्य न चक्षुषा पश्यति कश्चनैनम्’ (क. उ. २ । ३ । ९) ‘पराञ्चि खानि व्यतृणत्स्वयम्भूः तस्मात् पराङ् पश्यति नान्तरात्मन्’ (क. उ. २ । १ । १) इत्यादिश्रुत्या तस्य परमाण्वादिवत् चक्षुराद्ययोग्यत्वोपदेशात् ‘औपनिषदम्’ इति विशेषणाच्च । न च ‘सर्वप्रत्ययवेद्ये (वा) (च) ब्रह्मरूपे व्यवस्थिते ।’ इत्यादिवार्तिकविरोधः । तस्य घटाद्याकारवृत्त्युदये सति आवरणाभिभवात् स्वप्रभं सद्रूपं ब्रह्म ‘घटस्सन्’ इति घटवद्व्यवहार्यं भवतीति औपचारिकघटादिवृत्तिवेद्यत्वपरत्वात् । आवरणाभिभावकत्वं च घटादिज्ञानस्य घटादिविषयत्वादेव उपपन्नम् । घटादेरप्यज्ञानविषयत्वात् ‘घटं न जानामि’ ‘घटज्ञानेन घटाज्ञानं नष्टम्’ इति अवस्थाज्ञानस्य घटादिविषयत्वानुभवात् । न च - तत्र आवरणकृत्याभावादज्ञानाङ्गीकारो न युक्तः, तद्भासकस्य तदवच्छिन्नचैतन्यस्य आवरणादेव तदप्रकाशोपपत्तेरिति−वाच्यम् । उक्तभङ्ग्या जडस्य साक्षादज्ञानविषयत्वस्य प्रतिक्षेपेऽपि जडावच्छिन्नचैतन्यप्रकाशस्याज्ञानेनावरणम् , ततो नित्यचैतन्यप्रकाशसंसर्गेऽपि जडस्य ‘नास्ति न प्रकाशते’ इत्यादिव्यवहारयोग्यत्वमिति परम्परया अज्ञानविषयत्वाभ्युपगमात् साक्षात्परम्परया वा यदज्ञानावरणीयं तद्विषयत्वस्यैव ज्ञानस्य तदज्ञाननिवर्तकत्वप्रयोजकशरीरे निवेशात् । न चैवं घटादीनामुक्तरीत्या मूलाज्ञानविषयत्वमपीति घटादिसाक्षात्कारादेव मूलाज्ञाननिवृत्त्यापातः । फलबलात् तदज्ञानकार्यातिरिक्ततद्विषयविषयकत्वस्यैव तन्निवर्तकत्वे तन्त्रत्वात् ।
अथवा, मूलाज्ञानस्यैव जडं न विषयः । अवस्थाज्ञानानां तु अवच्छिन्नचैतन्याश्रितानां तत्तज्जडमेव विषयः । अन्यथा चाक्षुषवृत्त्या चन्दनखण्डचैतन्याभिव्यक्तौ तत्संसर्गिणो गन्धस्याप्यापरोक्ष्यापत्तेः, तदनभिव्यक्तौ चन्दनतद्रूपयोरप्यप्रकाशापत्तेः । न च - चाक्षुषवृत्त्या चन्दनतद्रूपावच्छिन्नचैतन्ययोरभिव्यक्त्या तयोः प्रकाशः, गन्धाकारवृत्त्यभावेन गन्धावच्छिन्नचैतन्यस्यानभिव्यक्त्या तस्याप्रकाशश्चेति - वाच्यम् । चैतन्यस्य द्विगुणीकृत्य वृत्त्ययोगेन एकद्रव्यगुणानां स्वाश्रये सर्वत्र व्याप्य वर्तमानानां पृथक्पृथग्गगनावच्छेदकत्वस्येव चैतन्यावच्छेदकत्वस्याप्यसम्भवात् । तेषां स्वाश्रयद्रव्यावच्छिन्नचैतन्येनैव शुक्तीदमंशावच्छिन्नचैतन्येन शुक्तिरजतवत् प्रकाश्यतया तस्याभिव्यक्तौ गन्धस्यापि (आपरोक्ष्यापत्तेः) प्रकाशस्य अनभिव्यक्तौ रजतादेरप्यप्रकाशस्य चापत्तेः । न च गन्धाकारवृत्त्युपरक्त एव चैतन्ये गन्धः प्रकाशत इति नियमः । प्रकाशसंसर्गस्यैव प्रकाशमानशब्दार्थत्वेन असत्यामपि तदाकारवृत्तौ अनावृतप्रकाशसंसर्गे अप्रकाशमानत्वकल्पनस्य विरुद्धत्वात् , अभिव्यक्तस्य च गन्धोपादानचैतन्यस्य गन्धासंसर्गोक्त्यसम्भवात् । तस्मात् यथा चैत्रस्य घटवृत्तौ तं प्रत्यावरकस्यैवाज्ञानस्य निवृत्तिरिति तस्यैव विषयप्रकाशो नान्यस्य, तथा तत्तद्विषयाकारवृत्त्या तत्तदावारकाज्ञानस्यैव निवृत्तेः न विषयान्तरस्यापरोक्ष्यम् , ‘अनावृतार्थस्यैव संविदभेदात् आपरोक्ष्यम् ‘इत्यभ्युपगमादिति प्रमातृभेदेनेव विषयभेदेनाप्येकत्र चैतन्ये अवस्थाज्ञानभेदस्य वक्तव्यतया अवस्थाज्ञानानां तत्तज्जडविषयकत्वमिति घटादिवृत्तीनां नावस्थाज्ञाननिवर्तकत्वे काचिदनुपपत्तिः, न वा मूलाज्ञाननिवर्तकत्वापत्तिः ।
न चैवमपि जीवविषयाया अहमाकारावृत्तेर्मूलाज्ञाननिवर्तकत्वापत्तिः । तस्याः स्वयम्प्रकाशमानचित्संवलिताचिदंशमात्रविषयत्वात् , ‘सोऽहम्’ इति प्रत्यभिज्ञाया अपि स्वयम्प्रकाशे चैतन्ये अन्तःकरणवैशिष्ट्येन सह पूर्वापरकालवैशिष्ट्यमात्रविषयत्वेन चैतन्यविषयत्वाभावात् − इति ।
केचित्तु - घटादिवृत्तीनां तत्तदवच्छिन्नचैतन्यविषयत्वमभ्युपगम्य ‘सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् । श्रोतव्येतिवचः प्राह वेदान्तावरुरुत्सया’ (बृ.वा. २-४-२१२) इति वार्तिकोक्तश्रोतव्यवाक्यार्थवेदान्तनियमविध्यनुसारेण वेदान्तजन्यमेव नियमादृष्टसहितं ब्रह्मज्ञानमप्रतिबद्धं ब्रह्माज्ञाननिवर्तकमिति घटादिज्ञानान्न तन्निवृत्तिप्रसङ्गः−इत्याहुः ।
अन्ये तु−तत्त्वमस्यादिवाक्यजन्यं जीवब्रह्माभेदगोचरमेव ज्ञानं मूलाज्ञाननिवर्तकम् , मूलाज्ञानस्य तदभेदगोचरत्वात् , इति न चैतन्यस्वरूपमात्रगोचरात् घटादिज्ञानात्तन्निवृत्तिप्रसङ्गः । न च अभेदस्य तत्त्वावेदकप्रमाणबोध्यस्य चैतन्यातिरेके द्वैतापत्तेः चैतन्यमात्रमभेदः इति तद्गोचरं घटादिज्ञानमप्यभेदगोचरमिति वाच्यम् । नह्यभेदज्ञानमिति विषयतो विशेषं ब्रूमः, किं तु तत्त्वम्पदवाच्यार्थधर्मिद्वयपरामर्शादिरूपकारणविशेषाधीनेन स्वरूपसम्बन्धविशेषेण चैतन्यविषयत्वमेव तदभेदज्ञानत्वम् ।
यथा हि विशेषणविशेष्यतत्सम्बन्धगोचरत्वाविशेषेऽपि विशिष्टज्ञानस्य विशेषणज्ञानादिकारणविशेषाधीनस्वरूपसम्बन्धविशेषेण तत्त्रितयगोचरत्वमेव समूहालम्बनव्यावृत्तं विशिष्टज्ञानत्वम् , यथा वा ‘स्थाणुत्वपुरुषत्ववान्’ इत्याहार्यवृत्तिव्यावृत्तं संशयत्वम् , विषयतो विशेषानिरूपणात् ; तथा घटादावपि ‘सोऽयं घटः’ इत्यादिज्ञानस्य स्वरूपसम्बन्धविशेषेण घटादिविषयत्वमेव केवलघटशब्दादिजन्यज्ञानव्यावृत्तं तदभेदज्ञानत्वम् । अतिरिक्ताभेदानिरूपणात् । अभावसादृश्यादीनामधिकरणप्रतियोग्यादिभिः स्वरूपसम्बन्धयुक्तानाम् अधिकरणेन आधाराधेयभावरूपः स्वरूपसम्बन्धविशेषः प्रतियोगिना प्रतियोग्यनुयोगिभावरूपः, इत्यादिप्रकारेण स्वरूपसम्बन्धे अवान्तरविशेषकल्पनावत् वृत्तीनां विषयेऽपि संयोगतादात्म्ययोरतिप्रसक्त्या विषयैः विषयविषयिभावरूपस्वरूपसम्बन्धवतीनां विषयविशेषनिरूपणासम्भवे क्लृप्त एव स्वरूपसम्बन्धे अवान्तरविशेषकल्पनेन अभेदज्ञानत्वादिपरस्परवैलक्षण्यनिर्वाहाच्च । एवं च ब्रह्मज्ञानस्य अभेदाख्यकिञ्चित्संसर्गगोचरत्वानभ्युपगमात् न वेदान्तानामखण्डार्थत्वहानिरपि−इत्याहुः ।
ननु − घटादिज्ञानवत् ब्रह्मज्ञानस्यापि न मूलाज्ञाननिवर्तकत्वं युक्तम् , निवर्तकत्वे तदवस्थानासहिष्णुत्वरूपस्य विरोधस्य तन्त्रत्वात् , कार्यस्य चोपादानेन सह तादृशविरोधाभावात् इति चेत् − न - कार्यकारणयोः अन्यत्र तादृशविरोधादर्शनेऽपि एकविषयज्ञानाज्ञानभावप्रयुक्तस्य तादृग्विरोधस्य अत्र सत्त्वात् , कार्यकारणयोरप्यग्निसंयोगपटयोः तादृशविरोधस्य दृष्टेश्च । न च अग्निसंयोगात् अवयवविभागप्रक्रियया असमवायिकारणसंयोगनाशादेव पटनाशः नाग्निसंयोगादितिवाच्यम् । दग्धपटेऽपि पूर्वसंस्थानानुवृत्तिदर्शनेन मुद्गरचूर्णीकृतघटवदवयवविभागादर्शनात् तत्र अवयवविभागादिकल्पनाया अप्रामाणिकत्वात् । नापि तत्र तन्तूनामपि दाहेन समवायिकारणनाशात् पटनाश इति युक्तम् । अंशुतन्त्वादिभिस्सह युगपदेव पटस्य दाहदर्शनेन क्रमकल्पनायोगात् । यतोऽधस्तात् नावयवनाशः तत्रावयवे अग्निसंयोगादेव नाशस्य वाच्यत्वात् ।
ननु−अस्त्वेतदेवम् , तथापि सविलासाज्ञाननाशकमिदं ब्रह्मज्ञानं कथं नश्येत् , नाशकान्तरस्याभावात् − इति चेत् , न−यथा कतकरजः सलिलेन संयुज्य पूर्वयुक्तरजोऽन्तरविश्लेषं जनयत् स्वविश्लेषमपि जनयति, तथा आत्मन्यध्यस्यमानं ब्रह्मज्ञानं पूर्वाध्यस्तसर्वप्रपञ्चं निवर्तयत् स्वात्मानमपि निवर्तयतीति केचित् ।
अन्ये तु अन्यन्निवर्त्य स्वयमपि निवृत्तौ दग्धलोहपीताम्बुन्यायमुदाहरन्ति ।
अपरे तु अत्र दग्धतृणकूटदहनोदाहरणमाहुः ।
न च ध्वंसस्य प्रतियोग्यतिरिक्तजन्यत्वनियमः । अप्रयोजकत्वात् , निरिन्धनदहनादि ध्वंसे व्यभिचाराच्च । न च - ध्वंसस्य प्रतियोगिमात्रजन्यत्वेऽतिप्रसङ्गात् कारणान्तरमवश्यं वाच्यम् , निरिन्धनदहनादिध्वंसेऽपि कालादृष्टेश्वरेच्छादिकारणान्तरमस्ति इति - वाच्यम् । अतिप्रसङ्गापरिज्ञानात् । न च ‘घटादिध्वंसस्यापि कारणान्तरनिरपेक्षत्वं स्यात्’ इत्यतिप्रसङ्गः । ध्वंसमात्रे कारणान्तरनैरपेक्ष्यानभिधानात् । न च घटध्वंसदृष्टान्तेन ब्रह्मज्ञानध्वंसस्य कारणान्तरापेक्षासाधनम् । तद्दृष्टान्तेन मुद्गरपतनापेक्षाया अपि साधनापत्तेः । नापि ज्ञानध्वंसत्वसाम्यात् घटज्ञानादिध्वंसस्यापि कारणान्तरनैरपेक्ष्यं स्यादित्यतिप्रसङ्गः । सेन्धनानलध्वंसस्य जलसेकादिदृष्टकारणापेक्षत्वेऽपि निरिन्धनानलध्वंसस्य तदनपेक्षत्ववत् , जाग्रज्ज्ञानध्वंसस्य विरोधिविशेषगुणान्तरापेक्षत्वेऽपि सुषुप्तिपूर्वज्ञानध्वंसस्य तदनपेक्षत्ववच्च, मूलाज्ञाननिवर्तकज्ञानध्वंसस्य कारणान्तरसापेक्षत्वेऽपि तन्निवर्तकज्ञानध्वंसस्य तदनपेक्षत्वोपपत्तेः । नापि कारणान्तरनैरपेक्ष्ये स्वोत्पत्त्युत्तरक्षण एव नाशः स्यादित्यतिप्रसङ्गः । इष्टापत्तेः । तदुत्पत्त्युत्तरक्षण एव ब्रह्माध्यस्तनिखिलप्रपञ्चदाहेन तदन्तर्गतस्य तस्यापि तदैव दाहाभ्युपगमात् , निरिन्धनदहनध्वंसन्यायेन ब्रह्मज्ञानध्वंसस्यापि कालादृष्टेश्वरेच्छादिकारणान्तरजन्यत्वेऽप्यविरोधाच्च, ‘सर्वप्रपञ्चनिवृत्त्यनन्तरम् एकशेषस्य ब्रह्मज्ञानस्य निवृत्तिः’ इत्यनभ्युपगमेन युगपत् सर्वदाहे पूर्वक्षणे चिदविद्यासम्बन्धरूपस्य द्रव्यान्तररूपस्य वा कालस्य ईश्वरप्रसादरूपस्यान्तःकरणगुणविशेषस्य वा अदृष्टस्य अन्येषां च सत्त्वात् । न च − तत्र ज्ञानातिरिक्तकारणापेक्षणे ब्रह्मज्ञानस्य अमिथ्यात्वप्रसङ्गः, ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यभ्युपगमात् इति वाच्यम् । ज्ञानाघटितसामग्र्यनिवर्त्यत्वे सति ज्ञाननिवर्त्यत्वस्य तदर्थत्वात् । ‘नान्यः पन्थाः’ (श्वे. उ. ३ । ८) इति श्रुतेरपि तत्रैव ताप्तर्यात् । अतो युक्त एव दग्धदाह्यदहनादिन्यायः ।
केचित्तु - वृत्तिरूपं ब्रह्मज्ञनं नाज्ञानतन्मूलप्रपञ्चनिबर्हकम् । अज्ञानस्य प्रकाशनिवर्त्यत्वनियमेन जडरूपवृत्तिनिवर्त्यत्वायोगात् । किं तु तदारूढचैतन्यप्रकाशः तन्निवर्तकः । स्वरूपेण तस्य अज्ञानादिसाक्षितया तदनिवर्तकत्वेऽपि अखण्डाकारवृत्त्युपारूढस्य तस्य तन्निवर्तकत्वोपपत्तेः । ‘तृणादेर्भासिकाऽप्येषा सूर्यदीप्तिस्तृणं दहेत् । सूर्यकान्तमुपारुह्य तन्न्यायं तत्र योजयेत् ॥’ इत्यभियुक्तोक्तेः । एवं च, यथा (किञ्चित्) काष्ठमुपारुह्य ग्रामनगरादिकं दहन् वह्निः दहत्येव तदपि काष्ठम् , तथा चरमवृत्तिमुपारुह्य निखिलप्रपञ्चमुन्मूलयन् अखण्डचैतन्यप्रकाशः तन्निवर्तनेऽपि प्रगल्भत इति तन्नाशे न काचिदनुपपत्तिः − इत्यहुः ।
अन्ये तु – ब्रह्मज्ञानमज्ञानस्यैव निवर्तकम् , ज्ञानाज्ञानयोरेव साक्षाद्विरोधात् , प्रपञ्चस्य तु उपादाननाशान्नाश इति प्रपञ्चान्तर्गतब्रह्मज्ञानस्यापि तत एव नाशः । न च प्रपञ्चस्य ज्ञानानिवर्त्यत्वे मिथ्यात्वानुपपत्तिः । प्रपञ्चनिवृत्तेः साक्षात् ज्ञानजन्यत्वाभावेऽपि ज्ञानजन्याज्ञाननाशजन्यत्वात् , साक्षात् परम्परया वा ज्ञानैकनिवर्त्यत्वं मिथ्यात्वमित्यङ्गीकारात् । एवं च तत्त्वसाक्षात्कारोदयेऽपि जीवन्मुक्तस्य देहादिप्रतिभास उपपद्यते । प्रारब्धकर्मणा प्रतिबन्धेन, तत्त्वसाक्षात्कारोदयेऽपि प्रारब्धकर्मतत्कार्यदेहादिप्रतिभासानुवृत्त्या, उपादानाविद्यालेशानुवृत्त्युपपत्तेः । अज्ञानवत् प्रपञ्चस्यापि साक्षात् ब्रह्मसाक्षात्कारनिवर्त्यत्वे नायमुपपद्यते । विरोधिनि ब्रह्मसाक्षात्कारे सति प्रारब्धकर्मणः स्वयमेवावस्थानासम्भवेन अविद्यालेशनिवृत्तिप्रतिबन्धकत्वायोगात् - इत्याहुः ॥
॥ इति शास्त्रसिद्धान्तलेशसङ्ग्रहे तृतीयः परिच्छेदः ॥
अथ कोऽयमविद्यालेशः, यदनुवृत्त्या जीवन्मुक्तिः ?
आवरणविक्षेपशक्तिमत्या मूलाविद्यायाः प्रारब्धकर्मवर्तमानदेहाद्यनुवृत्तिप्रयोजको विक्षेपशक्त्यंश इति केचित् ।
क्षालितलशुनभाण्डानुवृत्तलशुनवासनाकल्पोऽविद्यासंस्कार इति − अन्ये ।
दग्धपटन्यायेनानुवृत्ता मूलाविद्यैवेति − अपरे ।
सर्वज्ञात्मगुरवस्तु − विरोधिसाक्षात्कारोदये लेशतोऽप्यविद्यानुवृत्त्यसम्भवात् जीवन्मुक्तिशास्त्रं श्रवणादिविध्यर्थवादमात्रम् , शास्त्रस्य जीवन्मुक्तिप्रतिपादने प्रयोजनाभावात् । अतः कृतनिदिध्यासनस्य ब्रह्मसाक्षात्कारोदयमात्रेण सविलासवासनाविद्यानिवृत्तिः – इत्यपि कञ्चित् पक्षमाहुः ।
अथ केयमविद्यानिवृत्ति: ?
आत्मैवेति ब्रह्मसिद्धिकाराः । न च तस्य नित्य(त्वेन)सिद्धत्वात् ज्ञानवैयर्थ्यम् । असति ज्ञाने अनर्थहेत्वविद्याया विद्यमानतया अनर्थमपि तिष्ठेदिति तदन्वेषणात् , ‘यस्मिन् सति अग्रिमक्षणे यस्य सत्त्वं यद्व्यतिरेके च अभावः तत् तत्साध्यम्‘ इति लक्षणानुरोधेन आत्मरूपाया अप्यविद्यानिवृत्तेः ज्ञानसाध्यत्वाच्च । ज्ञाने सति अग्रिमक्षणे आत्मरूपाविद्यानिवृत्तिसत्त्वं तद्व्यतिरेके तत्प्रतियोग्यविद्यारूपः तदभाव इति उक्तलक्षणसत्त्वात् ।
आत्मन्यैव अविद्यानिवृत्तिः । सा च न सती । अद्वैतहानेः । नाप्यसती । ज्ञानसाध्यत्वायोगात् । नापि सदसद्रूपा । विरोधात् । नाप्यनिर्वाच्या, अनिर्वाच्यस्य सादेः अज्ञानोपादानकत्वनियमेन मुक्तावपि तदुपादानाज्ञानानुवृत्त्यापत्तेः, ज्ञाननिवर्त्यत्वापत्तेश्च । किन्तु उक्तप्रकारचतुष्टयोत्तीर्णा पञ्चमप्रकारा इति आनन्दबोधाचार्याः ।
अविद्यावत् तन्निवृत्तिरप्यनिर्वाच्यैव । न च तदनुवृत्तौ तदुपादानाज्ञानस्याप्यनुवृत्तिनियमात् अनिर्मोक्षप्रसङ्गः । तदनुवृत्तौ प्रमाणाभावात् । उत्पत्तेः प्रथमसमयमात्रसंसर्गिभावविकारत्ववत् निवृत्तेरपि चरमसमयमात्रसंसर्गिभावविकारत्वोपपत्तेः । अत एव, यथा पूर्वं पश्चाच्च ‘उत्पत्स्यते’ ‘उत्पन्नः’ इति भाविभूतभावेन व्यवह्रियमाणाया उत्पत्तेः प्रथमसमयमात्रे ‘उत्पद्यते’ इति वर्तमानत्वव्यवहारः, तथा पूर्वं पश्चाच्च ‘निवर्तिष्यते’ ‘निवृत्तः’ इति भाविभूतभावेन व्यवह्रियमाणाया निवृत्तेः चरमसमयमात्रे ‘निवर्तते’ ‘नश्यति’ ‘ध्वंसते’ इति वर्तमानत्वव्यपदेशः । निवृत्तेरनुवृत्तौ तु चिरशकलितेऽपि घटे ‘इदानीं निवर्तते’ इत्यादिव्यवहारः स्यात् । आख्यातानां प्रकृत्यर्थगतवर्तमानत्वाद्यर्थाभिधायित्वात् ।
ननु च तेषां स्वाभिहितसङ्ख्याश्रयप्रकृत्यर्थकर्तृकर्मगतवर्तमानत्वाद्यर्थाभिधायकत्वं स्वाभिहितप्रकृत्यर्थानुकूलव्यापारगतवर्तमानत्वाद्यर्थाभिधायकत्वं वा अस्तु । तथा च निवृत्तिक्रियाकर्तुश्चिरचूर्णितस्य घटस्य तद्गतनिवृत्त्यनुकूलव्यापारस्य च अवर्तमानत्वात् नोक्तातिप्रसङ्ग−इति चेत् , न − आद्ये उत्पन्नेऽपि घटे उत्पद्यत इति व्यवहारापत्तेः । उत्पत्तिक्रियाकर्तुर्घटस्य वर्तमानत्वात् । द्वितीये आमवातजडीकृतकलेवरे उत्थानानुकूलयत्नवति उत्थानानुदयेऽपि ‘उत्तिष्ठति’ इति व्यवहारापत्तेः । आख्यातार्थस्य प्रकृत्यर्थभूतोत्थानानुकूलस्य यत्नरूपव्यापारस्य वर्तमानत्वात् । तस्मात् प्रकृत्यर्थगतमेव वर्तमानत्वादि आख्यातार्थ इति, ध्वंसस्य स्थायित्वे चिरनिवृत्तेऽपि घटे ‘निवर्तते’ इति व्यवहारो दुर्वारः ।
यदि च मुद्गरादिशकलिते घटे ध्वंसो नाम कश्चिदभावः तत्प्रतियोगिकः स्थायी भूतलाद्याश्रितः उपेयेत, तदा कपालमालापसरणे तदनपसरणेऽपि मणिकशरवादिकपालव्यावृत्तकपालसंस्थानविशेषादर्शने च किमिति स प्रत्यक्षो न स्यात् ।
कपालसंस्थानविशेषादिना अनुमेयो घटादिध्वंसो न प्रत्यक्ष इति चेत् तर्हि तेन मुद्गरनिपातकालीनस्य उत्पत्तिवद्भावविकाररूपतया प्रतियोग्याश्रितध्वंसस्य अनुमानं सम्भवतीति न ततः पश्चादनुवर्तमानप्रतियोग्यधिकरणाश्रिताभावरूपध्वंससिद्धिः । ‘इह भूतले घटो ध्वस्तः’ इति भूतले ध्वंसाधिकरणत्वव्यवहारस्य ‘इह भूतले घट उत्पन्नः’ इतिवत् भावविकारयुक्तप्रतियोग्यधिकरणत्वविषयत्वोपपत्तेः । घटध्वंसानन्तरं भूतले घटाभावव्यवहारस्य घटापसरणानन्तरं तदभावव्यवहारवत् समयविशेषसंसर्ग्यत्यन्ताभावावलम्बनतोपपत्त्या ध्वंसविषयत्वस्याकल्पनीयत्वाच्च ।
एवं सति घटोत्पत्तेः पूर्वं तदभावव्यवहारोऽपि अत्यन्ताभावेन चरितार्थ इति प्रागभावोऽपि न स्यादिति चेत् , सोऽपि माभूत् । नन्वेवं ‘प्रागभावाधारकालः पूर्वकालः’ ‘ध्वंसाधारः उत्तरकालः’ इति निर्वचनासम्भवात् काले पूर्वोत्तरादिव्यवहारः किमालम्बनः स्यात् ? घटादिषु प्रतियोगित्वादिव्यवहारवत् अखण्डकिञ्चिद्धर्मगोचरोऽस्तु । अभावस्वरूपस्थायिध्वंसाभ्युपगमेऽपि तेषु ध्वंसत्वादेरखण्डस्यैव वक्तव्यत्वात् । न च जन्याभावत्वरूपं सखण्डमेव ध्वंसत्वम् । ध्वंसप्रागभावरूपस्य घटस्य तद्ध्वंसत्वापत्तेः । न च सप्तमपदार्थरूपाभावत्वं विवक्षितम् । घटस्य प्रागभावं प्रत्यपि ध्वंसत्वाभावप्रसङ्गेन घटकाले प्रगभावोत्तरकालत्वव्यवहारस्य निरालम्बनत्वापत्तेः । न च प्रतियोग्यतिरिक्तः प्रागभावध्वंसः । तथा सति, तुल्यन्यायतया ध्वंसप्रागभावोऽपि प्रतियोग्यतिरिक्तः स्यादिति, प्रागभावध्वंसस्यापि प्रागभावोऽन्यः, तस्यापि कश्चित् ध्वंसः, तस्यापि प्रागभावोऽन्यः, इत्यप्रामाणिकानवधिकध्वंसप्रागभावकल्पनापत्तेः । न चान्यत् ध्वंसत्वम् आत्माश्रयादिशून्यं निर्वक्तुं शक्यम् , एवं प्रागभावत्वमपि, इत्यन्यत्र विस्तरः ।
तस्मान्न पूर्वं प्रागभावः, न च पश्चात् ध्वंसाभावः, मध्ये परं किञ्चित्कालम् अनिर्वचनीयोत्पत्तिस्थितिध्वंसरूपभावविकारवान् घटाद्यध्यासः । एवं च अविद्यानिवृत्तिरपि ब्रह्मसाक्षात्कारोदयानन्तरक्षणवर्ती कश्चिद्भावविकार इति तस्या मुक्तावनुवृत्त्यभावात् न तदनिर्वाच्यत्वे कश्चिद्दोष इति− अद्वैतविद्याचार्याः ।
नन्वेवमविद्यानिवृत्तेः क्षणिकत्वे मोक्षः स्थिरपुरुषार्थो न स्यादिति चेत् , भ्रान्तोऽसि । न ह्यविद्यानिवृत्तिः स्वयमेव पुरुषार्थ इति तस्या ज्ञानसाध्यत्वमुपेयते । तस्याः सुखदुःखाभावेतरत्वात् । किं तु अखण्डानन्दावारकसंसारदुःखहेत्वविद्योच्छेदे अखण्डानन्दस्फुरणं संसारदुःखोच्छेदश्च भवतीति तदुपयोगितया तस्यास्तत्त्वज्ञानसाध्यत्वमुपेयते ।
चित्सुखाचार्यास्तु − दुःखाभावोऽपि मुक्तौ न स्वतः पुरुषार्थः । सर्वत्र दुःखाभावस्य स्वरूपसुखाभिव्यक्तिप्रतिबन्धकाभावतया सुखशेषत्वात् । सुखस्यैव स्वतः पुरुषार्थत्वम् अन्येषां सर्वेषामपि तच्छेषत्वमिति सुखसाधनताज्ञानस्यैव प्रवर्तकत्वे सम्भवति, दुःखाभावस्यापि स्वतः पुरुषार्थत्वं परिकल्प्य तत्साधनप्रवर्तकसङ्ग्रहाय इष्टसाधनताज्ञानस्य इच्छाविषयत्वप्रवेशेन गुरुघटितस्य प्रवर्तकत्वकल्पनायोगात् । न च दुःखाभाव एव स्वतःपुरुषार्थः तच्छेषतया सुखं काम्यमिति वैपरीत्यापत्तिः । बहुकालदुःखसाध्येऽपि क्षणिकसुखजनके निन्दितग्राम्यधर्मादौ प्रवृत्तिदर्शनात् । तत्र क्षणिकसुखकालीनदुःखाभावस्य पुरुषार्थत्वे तदर्थं बहुकालदुःखानुभवायोगात् । न च तत्र क्षणिकसुखस्य पुरुषार्थत्वेऽपि दोषतौल्यम् । भावरूपे सुखे उत्कर्षापकर्षयोरनुभवसिद्धत्वेन क्षणमप्यत्युत्कृष्टसुखार्थं बहुकालदुःखानुभवोपपत्तेः । दुःखाभावे चोत्कर्षा(द्य)(पकर्षा)सम्भवात् । तस्मात् मुक्तौ संसारदुःखनिवृत्तिरप्यविद्यानिवृत्तिवत् सुखशेष इति अनवच्छिन्नानन्दप्राप्तिरेव स्वतःपुरुषार्थ इत्याहुः ।
नन्वनवच्छिन्नानन्दः प्रत्यग्रूपतया नित्यमेव प्राप्तः । सत्यम् । नित्यप्राप्तोऽपि अनवच्छिन्नानन्दः तमावृत्य तद्विपरीतमनर्थं प्रदर्शयन्त्या अविद्यया संसारदशायामसत्कल्पत्वं नीत इति अकृतार्थताऽभूत् । निवर्तितायां च तस्यां निरस्ते निखिलानर्थविक्षेपे स्वकण्ठगतविस्मृतकनकाभरणवत् प्राप्यत इवेति औपचरिकी तस्य प्राप्तव्यतेति केचित् ।
अन्ये तु - संसारदशयां ‘नास्ति, न प्रकाशते’ इति व्यवहारयोग्यत्वरूपाज्ञानावरणप्रयुक्तस्य ’मम निरतिशयानन्दो नास्ति’ इति प्रत्ययस्य सर्वसिद्धत्वात् तदालम्बनभूतः कश्चत् ब्रह्मानन्दस्याभावः काल्पनिको यावदविद्यमनुवर्तते,अविद्यानिवृत्तौ च तन्मूलत्वान्निवर्तत इति, ‘यस्मिन् सत्यग्रिमक्षणे’ इत्यादिलक्षणानुरोधेन मुख्यमेव तस्य प्राप्यत्वम् इत्याहुः ।
अपरे तु - अवेद्यस्यापुरुषार्थत्वात् संसारदशायां सदप्यनवच्छिन्नसुखम् आपरोक्ष्याभावात् न पुरुषार्थः । न च− स्वरूपज्ञानेनापरोक्ष्यं तदाप्यस्ति, तस्य सर्वदा स्वरूपसुखाभिन्नत्वात् , वृत्तिज्ञानेनापरोक्ष्यं तु न मुक्तावपीति−वाच्यम् । न हि स्वव्यवहारानुकूलचैतन्याभेदमात्रमापरोक्ष्यम् । घटावच्छिन्नचैतन्याभिव्यक्तौ तदभिन्नस्य घटगन्धस्यापि आपरोक्ष्यापत्तेः । किन्तु अनावृतार्थस्य तदभेदः । तथा च अनावृतत्वांशः तत्त्वसाक्षात्कारे सत्येवेति निरतिशयसुखापरोक्ष्यस्य पुरुषार्थस्य विद्याप्राप्यत्वं युक्तम् इत्याहुः ।
इतरे तु−अस्तु व्यवहारानुकूलचैतन्याभेदमात्रमापरोक्ष्यम् , तथाऽपि अज्ञानमहिम्ना जीवभेदवत् चिदानन्दभेदोऽपि अध्यस्त इति संसारदशायां पुरुषान्तरस्य पुरुषान्तरचैतन्यापरोक्ष्यवत् अनवच्छिन्नसुखापरोक्ष्यमपि नास्ति । अज्ञाननिवृत्तौ तु चिदानन्दभेदप्रविलयात्तदापरोक्ष्यमिति तस्य विद्यासाध्यत्वम् इत्याहुः ।
अथ विद्योदये सति उपाधिविलयादपेतजीवभावस्य किमीश्वरभावापत्तिर्भवति, उत शुद्धचैतन्यमात्ररूपेणावस्थानम् ? इति विवेचनीयम् ।
उच्यते−एकजीववादे तदेकाज्ञानकल्पितस्य जीवेश्वरविभागादिकृत्स्रभेदप्रपञ्चस्य तद्विद्योदये विलयात् निर्विशेषचैतन्यरूपेणैवावस्थानम् ।
अनेकजीववादमभ्युपगम्य बद्धमुक्तव्यवस्थाङ्गीकारेऽपि यद्यपि कस्यचित् विद्योदये तदविद्याकृतप्रपञ्चविलयेऽपि बद्धपुरुषान्तराविद्याकृतः जीवेश्वरविभागादिप्रपञ्चोऽनुवर्तते, तथापि ‘जीव इवेश्वरोऽपि प्रतिबिम्बविशेषः’ इति पक्षे मुक्तस्य बिम्बभूतशुद्धचैतन्यरूपेणैवावस्थानम् । अनेकोपाधिषु एकस्य प्रतिबिम्बे सति एकोपाधिविलये तत्प्रतिबिम्बस्य बिम्बभावेनैवावस्थानौचित्येन प्रतिबिम्बान्तरत्वापत्त्यसम्भवात् । तत्सम्भवे कदाचिज्जीवरूपप्रतिबिम्बान्तरत्वापत्तेरपि दुर्वारत्वेन अवच्छेदपक्ष इव मुक्तस्य पुनर्बन्धापत्तेः । अत एव अनेकजीववादे अवच्छेदपक्षो नाद्रियते । यदवच्छेदेन मुक्तिः तदवच्छेदेनान्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेः ।
“प्रतिबिम्बो जीवः विम्बस्थानीय ईश्वरः उभयानुस्यूतं शुद्धचैतन्यम्” , इति पक्षे तु मुक्तस्य यावत्सर्वमुक्तिसर्वज्ञत्वसर्वकर्तृत्वसर्वेश्वरत्वसत्यकामत्वादिगुणपरमेश्वरभावापत्तिरिष्यते । यथा−अनेकेषु दर्पणेषु एकस्य मुखस्यप्रतिबिम्बे सति एकदर्पणापनये तत्प्रतिबिम्बो बिम्बभावेनावतिष्ठते, न तु मुखमात्ररूपेण, तदानीमपि दर्पणान्तरसन्निधानप्रयुक्तस्य मुखे बिम्बत्वस्यानपायात् ; तथा एकस्य ब्रह्मचैतन्यस्य अनेकेषूपाधिषु प्रतिबिम्बे सति एकस्मिन् प्रतिबिम्बे विद्योदये तेन तदुपाधिविलये तत्प्रतिबिम्बस्य बिम्बभावेनावस्थानावश्यम्भावात् । न च मुक्तस्य अविद्याऽभावात् सत्यकामत्वादिगुणविशिष्टसर्वेश्वरत्वानुपपत्तिः । तदविद्याऽभावेऽपि तदानीं बद्धपुरुषान्तराविद्यासत्त्वात् । न हि ईश्वरस्येश्वरत्वं सत्यकामादिगुणवैशिष्ट्यं च स्वाविद्याकृतम् , तस्य निरञ्जनत्वात् । किं तु बद्धपुरुषाविद्याकृतमेव तत्सर्वमेष्टव्यम् ।
न च ‘यथाक्रतुरस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवति’ (छा.उ.३-१४) ‘तं यथायथोपासते’ (मुद्गलोपनिषत्.३) इत्यादिश्रुतिषु सगुणोपासकानामपि ईश्वरसायुज्यश्रवणान्मुक्तेः सगुणविद्याफलाविशेषापत्तिः । सगुणोपासकानामखण्डसाक्षात्काराभावात् नाविद्यानिवृत्तिः, न वा तन्मूलाहङ्कारादेर्विलयः । आवरणानिवृत्तेर्नाखण्डानन्दस्फुरणम् । ‘जगद्व्यापारवर्जं प्रकरणादसन्निहित्वाच्च’ (ब्र.सू. ४-४-१७) ‘भोगमात्रसाम्यलिङ्गाच्च’ (ब्र.सू.४-४-२१) इत्यादिसूत्रोक्तन्यायेन तेषां परमेश्वरेण भोगसाम्येऽपि सङ्कल्पमात्रात् स्वभोगोपयुक्तदिव्यदेहेन्द्रियवनितादिसृष्टिसामर्थ्येऽपि सकलजगत्सृष्टिसंहारादिस्वातन्त्र्यलक्षणं न निरवग्रहमैश्वर्यम् , मुक्तानां तु निस्सन्धिबन्धमीश्वरभावं प्राप्तानां तत्सर्वमिति महतो विशेषस्य सद्भावात् । न च परमेश्वरस्य रघुनाथाद्यवतारे तमस्वित्वदुःखसंसर्गादिश्रवणात् मुक्तानामीश्वरभावे पुनर्बन्धापत्तिः । तस्य विप्रशापामोघत्वादिस्वकृतमर्यादापरिपालनाय कथञ्चित् भृगुशापादि सत्यत्वं प्रत्याययितुं नटवदीश्वरस्य तदभिनयमात्रपरत्वात् । अन्यथा तस्य नित्यमुक्तत्वनिरवग्रहस्वातन्त्र्यसमाभ्यधिकराहित्यादिश्रुतिविरोधात् । तस्माद्यावत्सर्वमुक्ति परमेश्वरभावो मुक्तस्येति बिम्बेश्वर (पक्षे) (वादे) न कश्चिद्दोषः ॥
अयमेव पक्षः श्रुतिसूत्रभाष्याद्यनुगुणः । तथा हि− समन्वयाध्याये तावत् ‘दहर उत्तरेभ्यः’ (ब्र.सू.१-३-१४) इत्यधिकरणे ‘अथयदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशः’ (छा.उ.८-१-१) इत्यादिश्रुतिनिर्दिष्टो दहराकाशो न भूताकाशः, नापि जीवः, किं तु परमेश्वरः, उत्तरेभ्यो - वाक्यशेषेभ्यः । ‘उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते’ ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ (छा.उ.८-१-३) ‘एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सेऽपिपासः सत्यकामः सत्यसङ्कल्पः’ (छा.उ.८-१-५) इत्यादिना प्रतिपाद्यमानेभ्यो द्यावापृथिव्याद्याधारत्वलक्षणगुणेभ्यो हेतुभ्य’ इति निर्णीय ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ (ब्र.सू. १-३-१९) इति सूत्रान्तरेण दहरविद्यानन्तरमिन्द्रप्रजापतिसंवादे ‘य आत्मापहतपाप्मा’ (छा.उ. ८-७-३) इत्यादिना अपहतपाप्मत्वादिगुणाष्टकयुक्तमात्मानमुपदेश्यमुपक्षिप्य ‘य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मा’ (छा.उ.८-७-४) इति जाग्रदवस्थायां द्रष्टृत्वेनाक्षिसन्निहितस्य ’य एष स्वप्ने महीयमानश्चरति एष आत्मा’(छा.उ. ८-१०-१) स्वप्नावस्थापन्नस्य तद्यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्नः स्वप्नं न विजानाति एष आत्मा’ (छा.उ.८-११-१) इति सुषुप्त्यवस्थापन्नस्य ‘एषसम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’ (छा.उ.८-१२-३) इत्यवस्थात्रयोत्तीर्णस्य च जीवस्योपदेशात् जीवेऽप्यस्ति अपहतपाप्मत्वादिगुणाष्टकमिति न तद्दहराकाशस्य परमेश्वरत्वनिर्णायकम् । ‘य एष स्वप्ने’ इत्यादिपर्यायेषु प्रतिपर्यायं ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा.उ.८-१०-४) इति श्रवणेन ‘स्फुटस्वप्नादिजीवलिङ्गानां द्वितीयादिपर्यायाणामेव जीवविषयत्वं प्रथमपर्यायस्य च ब्रह्मविषयत्वं’ इति चोद्यानवकाशात्−इत्याशङ्क्य तत्र चतुर्थपर्याये निरूप्यमाणः सकलबन्धविनिर्मुक्तत्वेनाविर्भूतस्वरूपो जीवः प्रतिपाद्यः, न तु सांसारिकावस्थाभेदकलुषितः, तत्र सत्यसङ्कल्पत्वादिगुणबाधात् अवस्थात्रयोपन्यासस्य तत्तदवस्थादोषाभिधानेन चतुर्थपर्यायोपदेशशेषत्वप्रतिपत्तेः’ इति समादधानः सूत्रकारः चतुर्थपर्याये प्रतिपाद्यस्य मुक्तस्येश्वरभावापत्तिं स्पष्टमाह । तदभावे मुक्तेऽपि सत्यसङ्कल्पत्वाद्ययोगात् अनुक्रान्तस्य गुणाष्टकस्य ईश्वरादन्यत्रापि भावे कृतशङ्कापरिहारालाभाच्च । तस्मिन् सूत्रे ‘तस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं रूपं विद्यया प्रतिपद्यते’ इति भाष्यकारोऽप्यतिस्पष्टं मुक्तस्य सगुणेश्वरभावापत्तिमाह ।
अविरोधाध्यायेऽपि ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’ (कौ.उ.३-८) इत्यादिश्रुतेः तत्तत्कर्मकर्तृत्वेन तत्तत्कर्मकारयितृत्वेन च उपकार्योपकारकभावेनावगतयोः जीवेश्वरयोः अंशांशिभावरूपसम्बन्ध निरूपणार्थत्वेनावतारिते ‘अंशो नानाव्यपदेशात्’ (ब्र.सू. २-३-४३) इत्यधिकरणे ‘जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखभोगेन ईश्वरस्यापि दुःखित्वं स्यात् , यथा लोके हस्तपादाद्यन्यतमांशगतेन दुःखेनांशिनो देवदत्तस्यापि दुःखित्वम् , तद्वत् ; ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् , ततो वरं पूर्वावस्था संसार एवास्तु इति सम्यग्ज्ञानानर्थक्यप्रसङ्गः’ इति शङ्काग्रन्थेन, भामत्यादिषु स्पष्टीकृतं बिम्बप्रतिबिम्बभावकृतासङ्करमुपादाय समाहितेन भाष्यकारो मुक्तस्य ईश्वरभावापत्तिं स्पष्टीचकार ।
साधनाध्यायेऽपि ‘सन्ध्ये सृष्टिराह हि’ (ब्र.सू . ३-२-१) इत्यधिकरणे स्वप्नप्रपञ्चस्य मिथ्यात्वे व्यवस्थापिते तत्र मिथ्याभूते स्वप्नप्रपञ्चे जीवस्य कर्तृत्वमाशङ्क्य ‘पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ’ (ब्र.सू.३-२-५) इति सूत्रेण ‘जीवस्येश्वराभिन्नत्वात् सदपि सत्यसङ्कल्पत्वादिकमविद्यादोषात्तिरोहितमिति न तस्य स्वप्नप्रपञ्चे स्रष्टृत्वं सम्भवति’ इति वदन् सूत्रकारः ‘तत्पुनस्तिरोहितं सत् परमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव दृक्छक्तिः औषधवीर्यात् ईश्वरप्रसादात्संसिद्धस्य कस्यचिदेवाविर्भवति, न स्वभावत एव सर्वेषां जन्तूनाम्’ इति तत्सूत्राभिप्रायं वर्णयन् भाष्यकारश्च मुक्तस्य स्वप्नसृष्ट्याद्युपयोगिसत्यसङ्कल्पत्वाद्यभिव्यक्त्यङ्गीकरेण परमेश्वरभावापत्तिं स्पष्टीचकार ।
फलाध्यायेऽपि ‘स्वेन रूपेणाभिनिष्पद्यते’ (छा.उ. ८-३-४) इति मुच्यमानविषयायां श्रुतौ केन रूपेणाभिनिष्पत्तिर्विवक्षिता इति बुभुत्सायां ‘ब्राह्मेण जैमिनिरुपन्यासादिभ्यः’ (ब्र.सू. ४-४-५) इति सूत्रेण यत् ब्राह्मं रूपमपहतपाप्मत्वादि सत्यसङ्कल्पत्वाद्यवसानं सर्वज्ञत्वसर्वेश्वरत्वादि च तेनाभिनिष्पत्तिः ‘य आत्मापहतपाप्मा’ (छा.उ. ८-७-१३) इत्याद्युपन्यासेन ‘स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा’ (छा.उ. ८-१२-३) इत्याद्यैश्वर्यावेदनेन च इति जैमिनिमतम् , ‘चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः’ (ब्र.सू. ४-४-६) इत्यनन्तरेण सूत्रेण ‘एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ.उ. ४-५-१३) इत्यादिश्रुत्या चैतन्यमात्रमात्मस्वरूपमित्यवगतेः तन्मात्रेणाभिनिष्पत्तिः−इति मतान्तरं चोपन्यस्य ‘एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः’ (ब्र.सू. ४-४-७) इति सिद्धान्तसूत्रेण ‘वस्तुदृष्ट्या चैतन्यमात्रत्वेऽपि पूर्वेक्तगुणकलापस्य उपन्यासाद्यवगतस्य मायामयस्य बद्धपुरुषव्यवहारदृष्ट्या सम्भवात् न श्रुतिद्वयविरोधः’ इति अविरोधं वदन् सूत्रकारः, सूत्रत्रयमिदमुक्तार्थपरत्वेन व्याकुर्वन् भाष्यकारश्च, मुक्तस्येश्वरभावापत्तिं स्पष्टमनुमेने । भामतीनिबन्धृप्रभृतयश्च श्रुत्युपबृंहितमिदं सूत्रजातं भगवतो भाष्यकारस्य उदाहृतं वचनजातं च तथैवान्ववर्तन्त ।
न च श्रुत्युपबृंहितस्य एतावतः सूत्रभाष्यवचनजातस्य ‘ऐश्वर्यमज्ञानतिरोहितं सत् ध्यानादभिव्यज्यत इत्यवोचत् । शरीरिणः सूत्रकृदस्य यत्तु तदभ्युपेत्योदितमुक्तहेतोः ।’ (सं .शा. ३-१७५) इति सङ्क्षेपशारीरकोक्तरीत्या अभ्युपेत्यवादत्वं युक्तं वक्तुम् । तस्मान्मुक्तानामीश्वरभावापत्तेरवश्याभ्युपेयत्वात् एतदसम्भव एव प्रतिबिम्बेश्वरवादे दोषः । तदाहुः कल्पतरुकाराः − ‘न मायाप्रतिबिम्बस्य विमुक्तैरुपसृप्यता’(कल्पतरुः १-४-३) इति । एतदसम्भवश्च एकजीववादपारमार्थिकजीवभेदवादयोरपि दोषः ।
यत्तु कैश्चित् द्वैतिभिरुच्यते−भेदस्य पारमार्थिकत्वेन मुक्तौ जीवस्येश्वरभावाभावेऽपि तत्रापीश्वर इव पृथगपहतपाप्मत्वादिगुणसम्भवादविरोध इति, तत्तुच्छम् – तथा सति जीवस्यापहतपाप्मत्वादिकमस्तीति न तस्य ब्रह्मलिङ्गत्वमिति शङ्कापरिहारालाभेन ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ (ब्र.सू.१-३-१९) इति सूत्रविरोधात् ‘ब्राह्मेण जैमिनिः’ (ब्र.सू.४-४-५) इति सूत्रे जीवगतस्यापहतपाप्मत्वादेः ‘उपन्यासादिभ्यः’ (ब्र.सू.४-४-६) इत्यत्रादिशब्दार्थत्वेन परेषामप्यभिमतस्य ‘जक्षत् क्रीडन् रममाणः’ (छा.उ.८-१२-३) इत्यादिश्रुत्युदितस्य जक्षणादेश्च ब्राह्मत्वनिर्देशविरोधाच्च । भेदे तेषां गुणानां सत्यत्वेन ‘चितितन्मात्रेण’ (ब्र.सू . ४-४-६) इति सूत्रोक्तस्य मुक्तजीवानां चैतन्यमात्रत्वस्य ‘एवमपि’ (ब्र.सू. ४-४-६) इतिसिद्धान्तसूत्रेऽङ्गीकारविरोधाच्च । ‘सम्पद्याविर्भावः’(ब्र.सू. ४-४-१) इत्यधिकारणविरोधाच्च । तत्र हि ’स्वेन रूपेणाभिनिष्पद्यते’ (छा.उ.८-३-४) इति श्रुतौ आगन्तुना केनचिद्रूपेणाभिनिष्पत्तिर्नोच्यते । स्वेनशब्दवैयर्थ्यापत्तेः । येन रूपेण आगन्तुना स्वयमभिनिष्पद्यते तस्यात्मीयत्वस्यावक्तव्यत्वात् । तस्मादात्मवाचिस्वशब्दोपादानात् नित्यसिद्धेन स्वस्वरूपेणैव अभिनिष्पत्तिर्विवक्षिता न तु केनचिद्धर्मेणेति व्यवस्थापितम् ।
किञ्चेदमपहतपाप्मत्वादि जीवस्य मुक्तावागन्तुकं चेत् , ‘सम्पद्याविर्भावः’ (ब्र.सू. ४-४-१) इति मुक्तावागन्तुकरूपनिषेधेन ‘पराभिध्यानात्तु तिरोहितम्’ (ब्र.सू. ३-२-५) ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ (ब्र.सू.१-३-१९) इति अपहतपाप्मत्वादेर्बन्धमुक्त्योस्तिरोभावाविर्भावप्रतिपादनेन च विरोधः स्यादिति नित्यसिद्धं वाच्यमिति बन्धस्य मिथ्यात्वं दुर्वारम् ।
नित्यसिद्धमपहतपाप्मत्वं हि सर्वदा पाप्मरहितत्वम् । न च वस्तुतः सर्वदा पाप्मरहिते पाप्मसम्बन्धः तन्मूलककर्तृत्वभोक्तृत्वसम्बन्धो वा पारमार्थिकः सम्भवति । एवं च जीवस्येश्वराभेदोऽपि दुर्वारः । श्रुतिबोध्यतदभेदविरोधिबन्धस्य सत्यत्वाभावात् । अन्यथा संसारिणि नित्यसिद्धसत्यसङ्कल्पतिरोधानोक्त्ययोगाच्च । न हि जीवस्य संसारदशायामनुवर्तमानो यत्किञ्चिदर्थगोचरः कश्चिदस्त्यवितथसङ्कल्पः तिरोहित इति परैरपीष्यते । किं त्वीश्वरस्य यन्नित्यसिद्धं निरवग्रहं सत्यसङ्कल्पत्वं तदेव जीवस्य संसारदशायामीश्वराभेदानभिव्यक्त्या स्वकीयत्वेनानवभासमानं तं प्रति तिरोहितमित्येव समर्थनीयमिति घट्टकुटीप्रभातवृत्तान्तः ।
ननु अपहतपाप्मत्वं न पाप्मविरहः, किं तु पाप्महेतुकर्माचरणेऽपि पापोत्पत्तिप्रतिबन्धकशक्तियोगित्वमिति, न तस्य नित्यसिद्धत्वेन बन्धस्य मिथ्यात्वप्रसङ्गः । एवं सत्यसङ्कल्पत्वमपि शक्तिरूपेण निर्वाच्यमिति नेश्वराभेदप्रसङ्गः− इति चेत् , मैवम् - एवं शब्दार्थकल्पने प्रमाणाभावात् । न हि पापजननप्रतिबन्धिका शक्तिः संसाररूपपरिभ्रमणदशायां पापानुत्पत्त्यर्थं कल्पनीया । तदानीं तदुत्पत्तेरिष्टत्वात् । विद्योदयप्रभृति तु विद्यामाहात्म्यादेवाश्लेषः ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’ (ब्र.सू. ४-१-१३) इति सूत्रेण दर्शितः । तत एव मुक्तावप्यश्लेष उपपद्यत इति व्यर्था शक्तिकल्पना । तस्मादुदाहृतश्रुतिसूत्रानुसारिभिः मुक्तजीवानां यावत्सर्वमुक्तिवस्तुसच्चैतन्यमात्रत्वाविरोधिबद्धपुरुषाविद्याकृतनिरवग्रहैश्वर्यतदनुगुणगुणकलापविशिष्टनिरतिशयानन्दस्फुरणसमृद्धनिस्सन्धिबन्धपरमेश्वरभावापत्तिरादर्तव्येति सिद्धम् ॥

विद्वद्गुरोर्विहितविश्वजिदध्वरस्य
श्रीसर्वतोमुखमहाव्रतयाजिसूनोः ।
श्रीरङ्गराजमखिनः श्रितचन्द्रमौलेः
अस्त्यप्पदीक्षित इति प्रथितस्तनूजः ॥

तन्त्राण्यधीत्य सकलानि सदाऽवदात-
व्याख्यानकौशलकलाविशदीकृतानि । आम्नायमूलमनुरुद्ध्य च सम्प्रदायं
सिद्धान्तभेदलवसङ्‌ग्रहमित्यकार्षीत् ॥

सिद्धान्तरीतिषु मया भ्रमदूषितेन
स्यादन्यथापि लिखितं यदि किञ्चिदस्य । संशोधने सहृदयास्सदया भवन्तु
सत्सम्प्रदायपरिशीलननिर्विशङ्काः ॥

॥ इति शास्त्रसिद्धान्तलेशसङ्ग्रहे चतुर्थः परिच्छेदः ॥
॥ समाप्तोऽयं ग्रन्थः ॥
॥ शिवाभ्यां नमः ॥