ऐतरेयोपनिषद्भाष्यम्
प्रथमः अध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ् निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥ ४ ॥ इति प्रथमः खण्डः ॥
तं पिण्डं पुरुषविधमुद्दिश्य अभ्यतपत् , तदभिध्यानं सङ्कल्पं कृतवानित्यर्थः, ‘यस्य ज्ञानमयं तपः’ (मु. उ. १ । १ । ९) इत्यादिश्रुतेः । तस्य अभितप्तस्य ईश्वरसङ्कल्पेन तपसाभितप्तस्य पिण्डस्य मुखं निरभिद्यत मुखाकारं सुषिरमजायत ; यथा पक्षिणः अण्डं निर्भिद्यते एवम् । तस्माच्च निर्भिण्णात् मुखात् वाक् करणमिन्द्रियं निरवर्तत ; तदधिष्ठाता अग्निः, ततो वाचः, लोकपालः । तथा नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः, प्राणाद्वायुः ; इति सर्वत्राधिष्ठानं करणं देवता च — त्रयं क्रमेण निर्भिण्णमिति । अक्षिणी, कर्णौ, त्वक् , हृदयमन्तःकरणाधिष्ठानम् , मनः अन्तःकरणम् ; नाभिः सर्वप्राणबन्धनस्थानम् । अपानसंयुक्तत्वात् अपान इति पाय्विन्द्रियमुच्यते ; तस्मात् तस्याधिष्ठात्री देवता मृत्युः । यथा अन्यत्र, तथा शिश्नं निरभिद्यत प्रजननेन्द्रियस्थानम् । इन्द्रियं रेतः रेतोविसर्गार्थत्वात्सह रेतसोच्यते । रेतस आपः इति ॥

विराडुत्पत्तिमुक्त्वा तदवयवेभ्यो लोकपालोत्पत्तिमाह –

तं पिण्डमित्यादिना ।

तपःशब्देनाभिध्यानशब्दितं ज्ञानमुच्यते न कृच्छ्रादीत्यत्र श्रुतिमाह –

यस्येति ।

यस्य तपो ज्ञानमेव न कृच्छ्रादीत्यर्थः । ततो वाचो लोकपालोऽग्निर्वागधिष्ठाता निरवर्ततेत्यन्वयः । यद्यपि वागादिकरणजातमपञ्चीकृतभूतकार्यं न मुखादिगोलककार्यं तथाऽपि मुखाद्याश्रये तदभिव्यक्तेर्मुखाद्वागित्युक्तम् । नासिकाभ्यां प्राण इत्यत्र प्राणशब्देन प्राणवृत्तिसहितं घ्राणेन्द्रियमुच्यते ।

अधिष्ठानमिति ।

गोलकमित्यर्थः । त्वग्गोलकम् । लोमेति लोमसहचरितं स्पर्शनेन्द्रियमुच्यते । ओषधिवनस्पतय इत्योषध्याद्यधिदेवता वायुरुच्यते ।

चित्तं तु चेतो हृदयं हृदयज्ञं चाहृदयज्ञं चेत्यादौ हृदयशब्दस्यान्तःकरणार्थत्वदर्शनान्मनःशब्देनापि तस्यैवाभिधाने पौनरुक्त्यमित्यत आह –

हृदयमिति ।

अन्तःकरणाधिष्ठानं हृदयकमलमुच्यत इत्यर्थः ।

सर्वप्राणबन्धनस्थानमिति ।

गुदमूलमित्यर्थः ।

अपानशव्देन पाय्विन्द्रियलक्षणायां सम्बन्धमाह –

अपानेति ।

ननु शिश्नं निरभिद्यतेति पर्याये शिश्नरेतसोरुत्पत्त्यभिधाने स्त्रीयोन्यादेरुत्पत्तिरनुक्ता स्यादित्याशङ्क्य शिश्नशब्देनोपस्थेन्द्रियस्थानं लक्ष्यते रेत इति तद्विसर्गार्थत्वेन तत्सहितमुपस्थेन्द्रियमप्यशव्देन तल्लक्षितपञ्चभूतोपाधिकः प्रजापतिश्चोच्यत इत्याह –

यथेति ।

यथाऽन्यत्र पर्यायान्तरे स्थानं करणं देवता चेति त्रयमुक्तमेवमिहापि शिश्नादिशब्दैस्त्रयमप्युच्यत इत्यर्थः ।

रेत इति ।

इन्द्रियमुच्यत इत्यन्वयः ।

तल्लक्षणायां सम्बन्धमाह –

सह रेतसेति ।

रेतसा सहितं तत्सम्बद्धमित्यर्थः ।

सम्बन्धमुपपादयति –

रेतोविसर्गार्थत्वादिति ॥४॥