व्यष्टिदेहसृष्टिमाह –
ताभ्य इति ।
मूर्छयित्वेति ।
निबिडतया परस्परावयवसंयोजनेन सृष्ट्वेत्यर्थः ।
न योग्य इति ।
गोशरीरस्योपरिदन्तानामभावेन दूर्वादिमूलस्योत्खातुमशक्यत्वादित्यर्थः ।
अश्वमिति ।
तस्योभयतोदन्तत्वेनोक्तदोषाभावादित्यर्थः ।
न वै नोऽयमलमिति ।
अश्वस्यापि विवेकज्ञानाभावादयोग्यत्वादित्यर्थः ॥२॥