ऐतरेयोपनिषद्भाष्यम्
द्वितीयः अध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (ऐतरेय)
 
कथं तर्हि तस्य स म आत्मेति वेदनम् ; ब्रूहि केन प्रकारेण तमहं स म आत्मेति विद्याम् । अत्राख्यायिकामाचक्षते — कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः कस्मिंश्चिदपराधे सति धिक्त्वां नासि मनुष्य इति । स मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कञ्चिदुपेत्याह — ब्रवीतु भवान्कोऽहमस्मीति । स तस्य मुग्धतां ज्ञात्वा आह — क्रमेण बोधयिष्यामीति । स्थावराद्यात्मभावमपोह्य न त्वममनुष्य इत्युक्त्वोपरराम । स तं मुग्धः प्रत्याह — भवान्मां बोधयितुं प्रवृत्तस्तूष्णीं बभूव, किं न बोधयतीति । तादृगेव तद्भवतो वचनम् । नास्यमनुष्य इत्युक्तेऽपि मनुष्यत्वमात्मनो न प्रतिपद्यते यः, स कथं मनुष्योऽसीत्युक्तोऽपि मनुष्यत्वमात्मनः प्रतिपद्येत ? तस्माद्यथाशास्त्रोपदेश एवात्मावबोधविधिः, नान्यः । न ह्यग्नेर्दाह्यं तृणादि अन्येन केनचिद्दग्धुं शक्यम् । अत एव शास्त्रमात्मस्वरूपं बोधयितुं प्रवृत्तं सत् अमनुष्यत्वप्रतिषेधेनेव ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इत्युक्त्वोपरराम । तथा ‘अनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९)(बृ. उ. ३ । ८ । ८) ‘अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इत्यनुशासनम् ; ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४)(बृ. उ. ४ । ५ । १५) इत्येवमाद्यपि च । यावदयमेव यथोक्तमिममात्मानं न वेत्ति, तावदयं ब्राह्मानित्यदृष्टिलक्षणमुपाधिमात्मत्वेनोपेत्य अविद्यया उपाधिधर्मानात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु स्थानेषु पुनः पुनरावर्तमानः अविद्याकामकर्मवशात्संसरति । स एवं संसरन् उपात्तदेहेन्द्रियसङ्घातं त्यजति । त्यक्त्वा अन्यमुपादत्ते । पुनः पुनरेवमेव नदीस्रोतोवज्जन्ममरणप्रबन्धाविच्छेदेन वर्तमानः काभिरवस्थाभिर्वर्तते इत्येतमर्थं दर्शयन्त्याह श्रुतिः वैराग्यहेतोः —

वाङ्मनसागोचरत्वे श्रवणमननयोरसम्भवादात्मनो वेदनं न सम्भवतिति शङ्कते –

कथमिति ।

तर्हि माऽस्त्वात्मवेदनमित्याशङ्क्य श्रुतेरनतिशङ्क्यत्वादात्मवेदननिषेधायोगात्तत्रोपायं पृच्छामीत्याह ब्रूहीति । केन प्रकारेण स म आत्मेति विद्यां तं प्रकारं ब्रूहीत्यन्वयः ।

नेति नेतीत्यादिश्रुत्युदाहरणेनैवेतरनिषेधेनैव तस्य स्वप्रकाशस्य बोध इति वेदनप्रकारस्योक्तत्वात्प्रकारान्तरासम्भवादनेनैव प्रकारेणाविषयतया वेदितव्य इति मत्वा सोपहासमुत्तरमाह –

अत्राऽऽख्यायिकामिति ।

मुग्ध इति ।

मूढ इत्यर्थः । स्थावरादीति । न त्वं स्थावरादिरूप इत्यर्थः । नन्वितरनिषेधेन तद्भेदज्ञानेऽपि त्वमेवम्भूत इत्यनभिधानेऽहमेवम्भूत इति ज्ञानाभावात्तदर्थं विधिमुखेन बोधनं कार्यमत आह नासीति । अपरोक्षतया प्रतीयमाने वस्तुनि विपर्ययेण गृहीते विपर्ययनिरासमात्रे यत्नः कार्यो न तु स्वरूपबोधे तस्य स्वयमेव प्रतीतेः । तथाऽपि चेन्न बोद्धुं शक्नोति तर्ह्यतिमूढत्वादुपदेशानर्ह एव स इत्यर्थः ।

अतः प्रकृत आत्मनो नित्यापरोक्षस्याहं मनुष्य इत्यादिनाऽऽरोपितरूपेण प्रतीतेस्तस्य नेति नेति यतो वाचो निवर्तन्त इतीतरनिषेधे कृते स्वप्रकाशस्य स्वयमेव प्रतीतिसम्भवादयमेवोपदेशप्रकारो नान्य इत्युपसंहरति –

तस्मादिति ।

ननु शास्त्रं विनाऽप्यन्यतो विधिमुखेनाऽऽत्मावबोधोऽस्त्वित्यत आह –

न ह्यग्नेरिति ।

शास्त्रैकसमधिगम्यत्वादात्मनो न हेत्वन्तरेण बोधः सम्भवतीत्यर्थः ।

शास्त्रीयोऽप्यवबोधप्रकारोऽयमेव नान्य इतीतरनिषेधमात्रेणोपरमान्निश्चीयत इत्याह –

अत एवेति ।

इत्यनुशासनमितिपदेनार्थादनुशासनान्तरनिषेधादप्येवमेवेत्याह –

तथाऽनन्तरमिति ।

तत्त्वमसीत्यत्रापि तत्पदार्थसामानाधिकरण्येन त्वम्पदार्थे कर्तृत्वादिनिषेधेनैव तस्य ब्रह्मत्वबोध इत्याह –

तत्त्वमसीति ।

तत्केन कं पश्येदिति दर्शनक्रियाकर्मत्वनिषेधादप्यवेद्यतयैवाऽऽत्मनो ज्ञानमित्याह –

यत्र त्वस्येति ।

एवमाद्यपीति ।

वेद्यत्वं निषेधतीति शेषः ।

तस्मादात्मनः कर्तृत्वादिधर्मवत्तया प्रमाणेन ज्ञातुमशक्यत्वात्तद्धर्मवत्त्वप्रत्तीतेरज्ञानमूलत्वेन भ्रमत्वात्संसारित्वेन प्रतीतस्य वस्तुतो ब्रह्ममात्रत्वादनेनैव न्यायेनेश्वरस्यापि सर्वज्ञत्वादिकोपाधिकल्पनस्य भ्रमत्वाद्भेदे मानाभावात्तस्यापि वस्तुतो ब्रह्ममात्रत्वान्न त्रय आत्मानः किन्त्वात्मैक एवाखण्डैकरस इत्यभिप्रेत्यैवम्भूतस्य कथं संसारप्रतीतिरित्याशङ्क्याऽऽत्मनः संसारस्याज्ञानत औपाधिकत्वमुत्तराध्यायसङ्गत्युपयोगितयाऽऽह –

यावदयमिति ।

बाह्यानित्यदृष्टिलक्षणमिति ।

प्रत्यगात्मनो बाह्यामन्तःकरणवृत्तिं वृत्तिवृत्तिमतोरभेदादन्तःकरणमित्यर्थः ।

एवमध्यारोपापवादाभ्यामात्मतत्त्वं निरूप्योक्तात्मतत्त्वज्ञाने वैराग्यं हेतुरिति तदर्थं जीवावस्थाः प्रपञ्चयन्नर्थात्तस्य त्रय आवसथा इत्युपक्षिप्तं शरीरत्रयं च प्रपञ्चयितुं पञ्चमाध्यायमवतारयन्भूमिकां करोति –

स एवमिति ।

यावदयमित्यारभ्य वोत्तराध्यायस्य भूमिका ।

इदानीमध्यायमवतारयति स एवमिति । –

इत्येतमर्थमिति ।

इति जिज्ञासायामवस्थारूपमर्थमित्यर्थः ।

वैराग्यहेतोरिति ।

वैराग्यार्थमित्यर्थः । जीवावस्थारूपस्य जन्मत्रयस्यात्यन्तबीभत्सारूपत्वात्तद्विचारे वैराग्यं भवतीति भावः ।