ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते । तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः । तत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न सम्बध्यते । तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति ? उच्यते — देहेन्द्रियादिषु अहंममाभिमानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः । न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति । न चाधिष्ठानमन्तरेण इन्द्रियाणां व्यवहारः सम्भवति । न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते । न चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । पश्वादिभिश्चाविशेषात् । यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले च प्रवर्तन्ते; यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य ‘मां हन्तुमयमिच्छति’ इति पलायितुमारभन्ते, हरिततृणपूर्णपाणिमुपलभ्य तं प्रति अभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकरान्बलवत उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्ते । अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः । पश्वादीनां च प्रसिद्धः अविवेकपुरस्सरः प्रत्यक्षादिव्यवहारः । तत्सामान्यदर्शनाद्व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समान इति निश्चीयते । शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते, तथापि न वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते, अनुपयोगात् अधिकारविरोधाच्च । प्राक् च तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते । तथा हि — ‘ब्राह्मणो यजेत’ इत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम । तद्यथा — पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति । तथा देहधर्मान् ‘स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि च’ इति । तथेन्द्रियधर्मान् ‘मूकः काणः क्लीबो बधिरोऽन्धोऽहम्’ इति; तथान्तःकरणधर्मान् कामसङ्कल्पविचिकित्साध्यवसायादीन् । एवमहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यति । एवमयमनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । यथा चायमर्थः सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः । वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम् —
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ; पण्डिता मन्यन्ते ; तद्विवेकेन च वस्तुस्वरूपावधारणम् - ; विद्यामाहुः, ; तत्रैवं सति, - ; यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाणुमात्रेणापि स न सम्बध्यते - ; तमेतमविद्याख्यमिति ; कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि ; शास्त्राणि चेति ; ; न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति ; न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः - ; सम्भवति ; न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते ; न चैतस्मिन्सर्वस्मिन् - ; असति, आत्मनोऽसङ्गस्य - ; प्रमातृत्वमुपपद्यते ; न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति ; तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि ; पश्वादिभिश्चाविशेषादिति ; यथा हि पश्वादय इति ; शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति ; शब्दादिविज्ञाने ; प्रतिकूले ; यथा दण्डेति ; शास्त्रीये त्विति ; प्राक्च तथाभूतात्मेति ; तथा हिति ; अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम ; तद्यथा पुत्रभार्यादिष्विति ; तथा देहधर्मानिति ; एवमहंप्रत्ययिनम् - ; स्वप्रचारसाक्षिणि - ; प्रत्यगात्मन्यध्यस्य ; तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण - ; अन्तःकरणादिष्वध्यस्यति ; एवमयमनादिरनन्तः - ; नैसर्गिक इति मिथ्याप्रत्ययरूपः - ; अस्यानर्थहेतोः प्रहाणाय ; आत्मैकत्वविद्याप्रतिपत्तये इति ; यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः ;

ननु सन्ति च सहस्रमध्यासाः, तत्किमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः नाध्यासमात्रमित्यत आह -

तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ।

अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धम् । तदुच्छेदाय वेदान्ताः प्रवृत्ता इति वक्ष्यति । प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुः न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्यमुच्छेत्तुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् । अत्र च ‘एवं लक्षणम्’ इत्येवंरूपतयानर्थहेतुतोक्ता । यस्मात्प्रत्यगात्मन्यशनायादिरहितेऽशनायाद्युपेतान्तःकरणाद्यहितारोपणे प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः ।

न चैवं पृथग्जना अपि मन्यन्तेऽध्यासम् , येन न व्युत्पाद्येतेत्यत उक्तम् -

पण्डिता मन्यन्ते ।

नन्वियमनादिरतिनिरूढनिबिडवासनानुबद्धाविद्या न शक्या निरोद्धुम् , उपायाभावादिति यो मन्यते तं प्रति तन्निरोधोपायमाह -

तद्विवेकेन च वस्तुस्वरूपावधारणम् -

निर्विचिकित्सं ज्ञानम्

विद्यामाहुः,

पण्डिताः । प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्याद्यात्मत्वतद्धर्माध्यासः । तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्यासापबाधात्मकं वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः ।

स्यादेतत् । अतिनिरूढनिबिढवासनानुविद्धाविद्या विद्ययापबाधितापि स्ववासनावशात्पुनरुद्भविष्यति प्रवर्तयिष्यति च वासनादि कार्यं स्वोचितमित्यत आह -

तत्रैवं सति, -

एवंभूतवस्तुतत्त्वावधारणे सति,

यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाणुमात्रेणापि स न सम्बध्यते -

अन्तःकरणादिदोषेणाशनायादिना चिदात्मा, चिदात्मनो गुणेन चैतन्यानन्दादिनान्तःकरणादि न सम्बध्यते । एतदुक्तं भवति - तत्त्वावधारणाभ्यासस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति । तत्त्वपक्षपातो हि स्वभावो धियाम् , यथाहुर्बाह्या अपि - “निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधोयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥”(प्रमाणवार्तिकम्-२१२) इति । विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतोऽनिर्वाच्ययाविद्यया बाध इति । यदुक्तम् , सत्यानृते मिथुनीकृत्य, विवेकाग्रहादध्यस्याहमिदंममेदमिति लोकव्यवहार इति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः ।

इतिशब्दसूचितं लोकव्यवहारमादर्शयति -

तमेतमविद्याख्यमिति ।

निगदव्याख्यातम् ।

आक्षिपति -

कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि ।

तत्त्वपरिच्छेदो हि प्रमा विद्या, तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि । नाविद्यावन्तं प्रमाणान्याश्रयन्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः ।

सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा, शास्त्राणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह -

शास्त्राणि चेति ।

समाधत्ते - उच्यते - देहेन्द्रियादिष्वहंममाभिमानहीनस्य, तादात्म्यतद्धर्माध्यासहीनस्य प्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः । अयमर्थः - प्रमातृत्वं हि प्रमां प्रति कर्तृत्वं तच्च स्वातन्त्र्यम् । स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् । तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् । न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति । न च कूटस्थनित्यश्चिदात्मापरिणामी स्वतो व्यापारवान् । तस्माद्व्यापारवद्बुद्ध्यादितादात्म्याध्यासात् , व्यापारवत्तया प्रमाणमधिष्ठातुमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति ।

अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह -

न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति ।

व्यवह्रियते अनेनेति व्यवहारः फलम् , प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः । ‘इन्द्रियाणि’ इति, इन्द्रियलिङ्गादीनीति द्रष्टव्यम् , दण्डिनो गच्छन्तीतिवत् । एवं हि ‘प्रत्यक्षादि’ इत्युपपद्यते । व्यवहारक्रियया च व्यवहार्याक्षेपात्समानकर्तृकता । अनुपादाय यो व्यवहार इति योजना ।

किमिति पुनः प्रमातोपादत्ते प्रमाणानि, अथ स्वयमेव कस्मान्न प्रवर्तत इत्यत आह -

न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः -

प्रमाणानां व्यापारः

सम्भवति ।

न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति ।

अथ देह एवाधिष्ठाता कस्मान्न भवति, कृतमत्रात्माध्यासेनेत्यत आह -

न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते ।

सुषुप्तेऽपि व्यापारप्रसङ्गादि भावः ।

स्यादेतत् । यथानध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एवमनध्यस्तात्मभावं देहेन्द्रियादिति व्यापारयन् भविष्यति तदभिज्ञः प्रमातेत्यत आह -

न चैतस्मिन्सर्वस्मिन् -

इतरेतराध्यासे इतरेतरधर्माध्यासे च,

असति, आत्मनोऽसङ्गस्य -

सर्वथा सर्वदा सर्वधर्मवियुक्तस्य

प्रमातृत्वमुपपद्यते ।

व्यापारवन्तो हिकुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अनध्यस्तात्मभावस्य तु देहादिष्वात्मनो न व्यापारयोगोऽसङ्गत्वादित्यर्थः ।

आतश्चाध्यासाश्रयाणि प्रमाणानीत्याह -

न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति ।

प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति । अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कर्तृस्थश्चित्स्वभावः प्रमा । कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत् , यदि चिदात्मा तत्र नाध्यस्येत । कथं चैष चिदात्मकर्तृको भवेत् , यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत् । तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति । तत्सिद्धौ च प्रमातृत्वम् , तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः । प्रमातृत्वेन च प्रमोपलक्ष्यते । प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत । तथा च प्रमाणमप्रमाणं स्यादित्यर्थः ।

उपसंहरति -

तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि ।

स्यादेतत् । भवतु पृथग्जनानामेवम् । आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्त इति कथमविद्यावद्विषयाण्येव प्रमाणानीत्यत आह -

पश्वादिभिश्चाविशेषादिति ।

विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगात्मानम् । प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते । यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते । तेन तत्सामान्यात्तेषामपि व्यवहारसमये अविद्यावत्त्वमनुमेयम् । चशब्दः समुच्चये । उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिः अविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः ।

एतदेव विभजते -

यथा हि पश्वादय इति ।

अत्र च

शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति

इति प्रत्यक्षं प्रमाणं दर्शितम् ।

शब्दादिविज्ञाने

इति तत्फलमुक्तम् ।

प्रतिकूले

इति च अनुमानफलम् । तथा हि - शब्दादिस्वरूपमुपलभ्य तज्जातीयस्य प्रतिकूलतामनुस्मृत्य तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीत इति ।

उदाहरति -

यथा दण्डेति ।

शेषमतिरोहितार्थम् । स्यादेतत् । भवन्तु प्रत्यक्षादीन्यविद्यावद्विषयाणि । शास्त्रं तु ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति । अत्र खल्वामुष्मिकफलोपभोगयोग्योऽधिकारी प्रतीयते । तथा च पारमर्षं सूत्रम् - “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात्” (अ. ३ पा. ७ सू. १८) इति ।

न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चिदात्मानमधिकारिणमाक्षिपति शास्त्रम् , तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह -

शास्त्रीये त्विति ।

तु शब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम् । अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसम्बन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत् , न त्वस्यासंसारित्वमपि, तस्याधिकारेऽनुपयोगात् । प्रत्युत औपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात् । प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति । तत्र कथमकर्ता प्रयोक्ता, कथं वाऽभोक्ता कर्मजनितफलभोगभागी । तस्मादनाद्यविद्यालब्धकर्तृत्वभोक्तृत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेधशास्त्रं प्रवर्तते । एवं वेदान्ता अप्यविद्यावत्पुरुषविषया एव । न हि प्रमात्रादिविभागादृते तदर्थाधिगमः । ते त्वविद्यावन्तमनुशासन्तो निर्मृष्टनिखिलाविद्यमनुशिष्टं स्वरूपे व्यवस्थापयन्तीत्येतावानेषां विशेषः । तस्मादविद्यावत्पुरुषविषयाण्येव शास्त्राणीति सिद्धम् ।

स्यादेतत् । यद्यपि विरोधानुपयोगाभ्यामौपनिषदः पुरुषोऽधिकारे नापेक्ष्यते, तथाप्युपनिषद्भ्योऽवगम्यमानः शक्नोत्यधिकारं निरोद्धुम् । तथा च परस्परापहतार्थत्वेन कृत्स्न एव वेदः प्रामाण्यमपजह्यादित्यत आह -

प्राक्च तथाभूतात्मेति ।

सत्यमौपनिषदपुरुषाधिगमोऽधिकारविरोधी, तस्मात्तु पुरस्तात्कर्मविधयः स्वोचितं व्यवहारं निर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम् । न च परस्परापहतिः, विद्याविद्यावत्पुरुषभेदेन व्यवस्थोपपत्तेः । यथा “न हिंस्यात्सर्वा भूतानि” इति साध्यांशनिषेधेऽपि ‘श्येनेनाभिचरन् यजेत’ इति शास्त्रं प्रवर्तमानं न हिंस्यादित्यनेन न विरुध्यते, तत्कस्य हेतोः, पुरुषभेदादिति ।

अवजितक्रोधारातयः पुरुषा निषेधेऽधिक्रियन्ते, क्रोधारातिवशीकृतास्तु श्येनादिशास्त्र इति अविद्यावत्पुरुषविषयत्वं नातिवर्तत इति यदुक्तं तदेव स्फोरयति -

तथा हिति ।

वर्णाध्यासः - ‘राजा राजसूयेन यजेत’ इत्यादिः । आश्रमाध्यासः - ‘गृहस्थः सदृशीं भार्यां विन्देत’ इत्यादिः । वयोऽध्यासः - ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिः । अवस्थाध्यासः - “अप्रतिसमाधेयव्याधीनां जलादिप्रवेशेन प्राणत्यागः” इति । आदिग्रहणं महापातकोपपातकसङ्करीकरणापात्रीकरणमलिनीकरणाद्यध्यासोपसङ्ग्रहार्थम् । तदेवमात्मानात्मनोः परस्पराध्यासमाक्षेपसमाधानाभ्यामुपपाद्य प्रमाणप्रमेयव्यवहारप्रवर्तनेन च दृढीकृत्य तस्यानर्थहेतुत्वमुदाहरणप्रपञ्चेन प्रतिपादयितुं तत्स्वरुपमुक्तं स्मारयति -

अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम ।

'स्मृतिरूपः परत्र पूर्वदृष्टावभासः” इत्यस्य सङ्क्षेपाभिधानमेतत् । तत्र अहमिति धर्मितादात्म्याध्यासमात्रम् , ममेत्यनुत्पादितधर्माध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षादशेषानर्थसंसारकारणमुदाहरणप्रपञ्चेनाह -

तद्यथा पुत्रभार्यादिष्विति ।

देहतादात्म्यमात्मन्यध्यस्य देहधर्मं पुत्रकलत्रादिस्वाम्यं च कृशत्वादिवदारोप्य आह - अहमेव विकलः, सकलः इति । स्वस्य खलु साकल्येन स्वाम्यसाकल्यात्स्वामीश्वरः सकलः सम्पूर्णो भवति । तथा स्वस्य वैकल्येन स्वाम्यवैकल्यात् , स्वामीश्वरो विकलोऽसम्पूर्णो भवति । बाह्यधर्मा ये वैकल्यादयः स्वाम्यप्रणालिकया सञ्चरिताः शरीरे तानात्मन्यध्यस्यतीत्यर्थः ।

यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृशत्वादिष्वित्याशयवानाह -

तथा देहधर्मानिति ।

देहादेरप्यन्तरङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान्मूकत्वादीन् , ततोऽप्यन्तरङ्गस्यान्तःकरणस्य अध्यस्तात्मभावस्य धर्मान् कामसङ्कल्पादीन् आत्मन्यध्यस्यतीति योजना ।

तदनेन प्रपञ्चेन धर्माध्यासमुक्त्वा तस्य मूलं धर्म्यध्यासमाह -

एवमहंप्रत्ययिनम् -

अहंप्रत्ययो वृत्तिर्यस्मिन्नन्तःकरणादौ, सोऽयमहंप्रत्ययीतम् ।

स्वप्रचारसाक्षिणि -

अन्तःकरणप्रचारसाक्षिणि,

चैतन्योदासीनताभ्यां,

प्रत्यगात्मन्यध्यस्य ।

तदनेन कर्तृत्वभोक्तृत्वे उपपादिते ।

चैतन्यमुपपादयति -

तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण -

अन्तःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनम् , तस्य विपर्ययः चैतन्यम् , तेन । इत्थम्भूतलक्षणे तृतीया ।

अन्तःकरणादिष्वध्यस्यति ।

तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंस्वरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारोऽहङ्कारास्पदं संसारी सर्वानर्थसम्भारभाजनं जीवात्मा इतरेतराध्यासोपादानः, तदुपादानश्चाध्यास इत्यनादित्वाद् बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति ।

प्रमाणप्रमेयव्यवहारदृढीकृतमपि शिष्यहिताय स्वरूपाभिधानपूर्वकं सर्वलोकप्रत्यक्षतयाध्यासं सुदृढीकरोति -

एवमयमनादिरनन्तः -

तत्त्वज्ञानमन्तरेणाशक्यसमुच्छेदः ।

अनाद्यनन्तत्वे हेतुरुक्तः -

नैसर्गिक इति । मिथ्याप्रत्ययरूपः -

मिथ्याप्रत्ययानां रूपमनिर्वचनीयत्वम् तद्यस्य स तथोक्तः । अनिर्वचनीय इत्यर्थः ।

प्रकृतमुपसंहरति -

अस्यानर्थहेतोः प्रहाणाय ।

विरोधिप्रत्ययं विना कुतोऽस्य प्रहाणमित्यत उक्तम् -

आत्मैकत्वविद्याप्रतिपत्तये इति ।

प्रतिपत्तिः प्राप्तिः तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये, आत्मैकत्वं विगलितनिखिलप्रपञ्चत्वमानन्दरूपस्य सतः, तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समूलघातमध्यासमुपघ्नन्ति । एतदुक्तं भवति - अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणो ज्ञातत्वान्निष्प्रयोजनत्वाच्च न जिज्ञासा स्यात् । तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन् । अपि त्वविवक्षितार्था जपमात्रे उपयुज्येरन् । न हि तदौपनिषदात्मप्रत्ययः प्रमाणतामश्नुते । न चासावप्रमाणमभ्यस्तोऽपि वास्तवं कर्तृत्वभोक्तृत्वाद्यात्मनोऽपनोदितुमर्हति । आरोपितं हि रूपं तत्त्वज्ञानेनापोद्यते, न तु वास्तवमतत्त्वज्ञानेन । न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्पधाराप्रत्यया अपवदितुं समुत्सहन्ते । मिथ्याज्ञानप्रसञ्जितं च स्वरूपं शक्यं तत्त्वज्ञानेनापवदितुम् । मिथ्याज्ञानसंस्कारश्च सुदृढोऽपि तत्त्वज्ञानसंस्कारेणादरनैरन्तर्यदीर्घकालातत्त्वज्ञानाभ्यासजन्मनेति ।

स्यादेतत् । प्राणाद्युपासना अपि वेदान्तेषु बहुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपादनमर्थ इत्यत आह -

यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः ।

शरीरमेव शरीरकम् तत्र निवासी शारीरको जीवात्मा, तस्य त्वम्पदाभिधेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता । एतावानत्रार्थसङ्क्षेपः - यद्यपि स्वाध्यायाध्ययनपरविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम् , यद्यपि च “अविशिष्टस्तु वाक्यार्थः” इति न्यायात् मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम् , यद्यपि च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोकमोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन सन्देहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वेत्यविवक्षितस्वार्थाः । तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या । न च सर्वजनीनाहमनुभवसिद्ध आत्मा सन्दिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेति पूर्वः पक्षः । सिद्धान्तस्तु भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम् । तस्य तूक्तेन प्रकारेण श्रुत्यादिबाधकत्वानुपपत्तेः, श्रुत्यादिभिश्च समस्ततीर्थकरैश्च प्रामाण्यानभ्युपगमादध्यासत्वम् । एवं च वेदान्ता नाविवक्षितार्थाः, नाप्युपचरितार्थाः, किं तूक्तलक्षणाः । प्रत्यगात्मैव तेषां मुख्योऽर्थः ।