ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
जन्माद्यस्य यतः ॥ २ ॥
जन्म उत्पत्तिः आदिः अस्य — इति तद्गुणसंविज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थः । जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च । श्रुतिनिर्देशस्तावत् — ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इति, अस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् । वस्तुवृत्तमपि — जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात् । अस्येति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशः । षष्ठी जन्मादिधर्मसम्बन्धार्था । यत इति कारणनिर्देशः । अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति, तद्ब्रह्मेति वाक्यशेषः । अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम् । यास्कपरिपठितानां तु ‘जायतेऽस्ति’ इत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले सम्भाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशा जगतो न गृहीताः स्युरित्याशङ्क्येत । तन्मा शङ्कि; इति या उत्पत्तिर्ब्रह्मणः, तत्रैव स्थितिः प्रलयश्च, त एव गृह्यन्ते । न यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यः अभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम् । न च स्वभावतः, विशिष्टदेशकालनिमित्तानामिहोपादानात् । एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणवादिनः ॥

तदेवं प्रथमसूत्रेण मीमांसारम्भमुपपाद्य ब्रह्ममीमांसामारभते -

जन्माद्यस्य यतः ।

सूत्रावयवान् विभजते -

जन्मोत्पत्तिरादिरस्येति ।

लाघवाय सूत्रकृता जन्मादीति नपुंसकप्रयोगः कृतस्तदुपपादनाय समाहारमाह -

जन्मस्थितिभङ्गमिति ।

जन्मनश्च इत्यादिः

कारणनिर्देशः

इत्यन्तः सन्दर्भो निगदव्याख्यातः ।

स्यादेतत् । प्रधानकालग्रहलोकपालक्रियायदृच्छास्वभावाभावेषूपप्लवमानेषु सत्सु सर्वज्ञं सर्वशक्तिस्वभावं ब्रह्म जगज्जन्मादिकारणमिति कुतः सम्भावनेत्यत आह -

अस्य जगत इति ।

अत्र

नामरूपाभ्यां व्याकृतस्य इति

चेतनभावकर्तृकत्वसम्भावनया प्रधानाद्यचेतनकर्तृकत्वं निरुपाख्यकर्तृकत्वं च व्यासेधति । यत्खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टम् , यथा घटादि । विवादाध्यासितं च जगन्नामरूपाभ्यां व्याकृतं तस्माच्चेतनकर्तृकं सम्भाव्यते । चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना, रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति । अत एव घटस्य निर्वर्त्यस्याप्यन्तः सङ्कल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोतीति । यथाहुः - “बुद्धिसिद्धं तु न तदसत्”(न्या.सू. ४ । १ । ५०) इति । तथा चाचेतनो बुद्धावनालिखितं करोतीति न शक्यं सम्भावयितुमिति भावः ।

स्यादेतत् । चेतना ग्रहा लोकपाला वा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति, कृतमुक्तस्वभावेन ब्रह्मणेत्यत आह -

अनेककर्तृभोक्तृसंयुक्तस्येति ।

केचित्कर्तारो भवन्ति, यथा सूदर्त्विगादयः, न भोक्तारः । केचित्तु भोक्तारः, यथा श्राद्धवैश्वानरीयेष्ट्यादिषु पितापुत्रादयः, न कर्तारः । तस्मादुभयग्रहणम् । देशकालनिमित्तक्रियाफलानि इतीतरेतरद्वन्द्वः । देशादीनि च तानि प्रतिनियतानि चेति विग्रहः । तदाश्रयो जगत्तस्य । केचित्खलु प्रतिनियतदेशोत्पादाः, यथा कृष्णमृगादयः । केचित्प्रतिनियतकालोत्पादाः, यथा कोकिलालापादयो वसन्ते । केचित्प्रतिनियतनिमित्ताः, यथा नवाम्बुदध्वानादिनिमित्ता बलाकागर्भादयः । केचित्प्रतिनियतक्रियाः, यथा ब्राह्मणानां याजनादयो नेतरेषाम् । एवं प्रतिनियतफलाः, यथा केचित्सुखिनः, केचिद्दुःखिनः, एवं य एव सुखिनस्त एव कदाचिद्दुःखिनः । सर्वमेतदाकस्मिकापरनाम्नि यादृच्छिकत्वे वा स्वाभाविकत्वे वा सर्वज्ञासर्वशक्तिकर्तृकत्वे च न घटते, परिमितज्ञानशक्तिभिर्ग्रहलोकपालादिभिर्ज्ञातुं कर्तुं चाशक्यत्वात् ।

तदिदमुक्तम् -

मनसाप्यचिन्त्यरचनारूपस्येति ।

एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित् , प्रागेव जगद्रचनायाः, किमङ्ग पुनः कर्तुमित्यर्थः ।

सूत्रवाक्यं पूरयति -

तद्ब्रह्मेति वाक्यशेषः ।

स्यादेतत् । कस्मात्पुनर्जन्मस्थितिभङ्गमात्रमिहादिग्रहणेन गृह्यते, न तु वृद्धिपरिणामापक्षया अपीत्यत आह -

अन्येषामपि भावविकाराणां -

वृद्ध्यादीनां

त्रिष्वेवान्तर्भाव इति ।

वृद्धिस्तावदवयवोपचयः । तेनाल्पावयवादवयविनो द्वितन्तुकादेरन्य एव महान्पटो जायत इति जन्मैव वृद्धिः । परिणामोऽपि त्रिविधो धर्मलक्षणावस्थालक्षणः उत्पत्तिरेव । धर्मिणो हि हाटकादेर्धर्मलक्षणः परिणामः कटकमुकुटादिस्तस्योत्पत्तिः, एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणः परिणाम उत्पत्तिः । एवमवस्थापरिणामो नवपुराणत्वादिरुत्पत्तिः । अपक्षयस्त्ववयवह्रासो नाश एव । तस्माज्जन्मादिषु यथास्वमन्तर्भावाद्वृद्ध्यादयः पृथङ्नोक्ता इत्यर्थः ।

अथैते वृद्ध्यादयो न जन्मादिष्वन्तर्भवन्ति, तथाप्युत्पत्तिस्थितिभङ्गमेवोपादातव्यम् । तथा सति हि तत्प्रतिपादके “यतो वा इमानि भूतानि” (तै.उ. ३-१-१) इति वेदवाक्ये बुद्धिस्थीकृते जगन्मूलकारणं ब्रह्म लक्षितं भवति । अन्यथा तु जायतेऽस्ति वर्धते इत्यादीनां ग्रहणे तत्प्रतिपादकं नैरुक्तवाक्यं बुद्धौ भवेत् , तच्च न मूलकारणप्रतिपादनपरम् , महासर्गादूर्ध्वं स्थितिकालेऽपि तद्वाक्योदितानां जन्मादीनां भावविकाराणामुपपत्तेः, इति शङ्कानिराकरणार्थं वेदोक्तोत्पत्तिस्थितिभङ्गग्रहणमित्याह -

यास्कपरिपठितानां त्विति ।

नन्वेवमप्युत्पत्तिमात्रं सूच्यताम् , तन्नान्तरीयकतया तु स्थितिभङ्गं गम्यत इत्यत आह -

योत्पत्तिर्ब्रह्मणः

कारणादिति । त्रिभिरस्योपादानत्वं सूच्यते । उत्पत्तिमात्रं तु निमित्तकारणसाधारणमिति नोपादानं सूचयेत् ।

तदिदमुक्तम् -

तत्रैवेति ।

पूर्वोक्तानां कार्यकारणविशेषणानां प्रयोजनमाह -

न यथोक्तेति ।

तदनेन प्रबन्धेन प्रतिज्ञाविषयस्य ब्रह्मस्वरूपस्य लक्षणद्वारेण सम्भावनोक्ता । तत्र प्रमाणं वक्तव्यम् । यथाहुर्नैयायिकाः - “सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः” ॥

यथा च वन्ध्या जननी” इत्यादिरिति । इत्थं नाम जन्मादि सम्भावनाहेतुः, यदन्ये वैशेषिककादय इत एवानुमानादीश्वरविनिश्चयमिच्छन्तीति सम्भावनाहेतुतां द्रढयितुमाह -

एतदेवेति ।