ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यदपि केचिदाहुःप्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति, तन्नऔपनिषदस्य पुरुषस्यानन्यशेषत्वात्योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मस्वरूपः उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोऽनन्यशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम् एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यात्मशब्दात् आत्मनश्च प्रत्याख्यातुमशक्यत्वात् , एव निराकर्ता तस्यैवात्मत्वात्न्वात्मा अहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम्, तत्साक्षित्वेन प्रत्युक्तत्वात् ह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्माअतः केनचित्प्रत्याख्यातुं शक्यः, विधिशेषत्वं वा नेतुम्; आत्मत्वादे सर्वेषाम् हेयो नाप्युपादेयःसर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यतिपुरुषो हि विनाशहेत्वभावादविनाशीविक्रियाहेत्वभावाच्च कूटस्थनित्यःअत एव नित्यशुद्धबुद्धमुक्तस्वभावः; तस्मात् पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्वे उपपद्यतेअतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम्
तत्तु समन्वयात् ॥ ४ ॥
यदपि केचिदाहुःप्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति, तन्नऔपनिषदस्य पुरुषस्यानन्यशेषत्वात्योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मस्वरूपः उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोऽनन्यशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम् एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यात्मशब्दात् आत्मनश्च प्रत्याख्यातुमशक्यत्वात् , एव निराकर्ता तस्यैवात्मत्वात्न्वात्मा अहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम्, तत्साक्षित्वेन प्रत्युक्तत्वात् ह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्माअतः केनचित्प्रत्याख्यातुं शक्यः, विधिशेषत्वं वा नेतुम्; आत्मत्वादे सर्वेषाम् हेयो नाप्युपादेयःसर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यतिपुरुषो हि विनाशहेत्वभावादविनाशीविक्रियाहेत्वभावाच्च कूटस्थनित्यःअत एव नित्यशुद्धबुद्धमुक्तस्वभावः; तस्मात् पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्वे उपपद्यतेअतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम्

प्रकृतिसिद्ध्यर्थमेकदेशिमतं दूषयितुमनुभाषते -

यदपि केचिदाहुरिति ।

दूषयति -

तन्नेति ।

इदमत्राकूतम् - “कार्यबोधे यथा चेष्टा लिङ्गं हर्षादयस्तथा । सिद्धबोधेऽर्थवत्तैवं शास्त्रत्वं हितशासनात्” ॥ यदि हि पदानां कार्याभिधाने तदन्वितस्वार्थाभिधाने वा, नियमेन वृद्धव्यवहारात्सामर्थ्वमवधृतं भवेत् , न भवेदहेयोपादेयभूतब्रह्मात्मतापरत्वमुपनिषदाम् । तत्राविदितसामर्थ्यत्वात्पदानां लोके, तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेः । अथ तु भूतेऽप्यर्थे पदानां लोके शक्यः सङ्गतिग्रहस्तत उपनिषदान्तत्परत्वं पौर्वापर्यपर्यालोचनयावगम्यमानमपहृत्य न कार्यपरत्वं शक्यं कल्पयितुम् , श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । तत्र तावदेवमकार्येऽर्थे न सङ्गतिग्रहः, यदि तत्परः प्रयोगो न लोके दृश्येत, तत्प्रत्ययो वा व्युत्पन्नस्योन्नेतुं न शक्येत । न तावत्तत्परः प्रयोगो न दृश्यते लोके । कुतूहलभयादिनिवृत्त्यर्थानामकार्यपराणां पदसन्दर्भाणां प्रयोगस्य लोके बहुलमुपलब्धेः । तद्यथाखण्डलादिलोकपालचक्रवालाधिवसतिः, सिद्धविद्याधरगन्धर्वाप्सरःपरिवारो ब्रह्मलोकावतीर्णमन्दाकिनीपयःप्रवाहपातधौतकलधौतमयशिलातलो नन्दनादिप्रमदावनविहारिमणिमयशकुन्तकमनीयनिनदमनोहरः पर्वतराजः सुमेरुरिति । नैष भुजङ्गो रज्जुरियमित्यादिः । नापि भूतार्थबुद्धिर्व्युत्पन्नपुरुषवर्तिनी न शक्या समुन्नेतुम् , हर्षादेरुन्नयनहोतोः सम्भवात् । तथा ह्यविदितार्थदेशजनभाषार्थो द्रविडो नगरगमनोद्यतो राजमार्गाभ्यर्णं देवदत्तमन्दिरमध्यासीनः प्रतिपन्नजनकानन्दनिबन्धनपुत्रजन्मा वार्त्ताहारेण सह नगरस्थदेवदत्ताभ्याशमागतः पटवासोपायनार्पणपुरःसरं दिष्ट्या वर्धसे देवदत्त पुत्रस्ते जातैति वार्त्ताहारव्याहारश्रवणसमनन्तरमुपजातरोमाञ्चकञ्चुकं विकसितनयनोत्पलमतिस्मेरमुखमहोत्पलमवलोक्य देवदत्तमुत्पन्नप्रमोदमनुमिमीते, प्रमोदस्य च प्रागभूतस्य तद्व्याहारश्रवणसमनन्तरं प्रभवतस्तद्धेतुताम् । न चायमप्रतिपादयन् हर्षहेतुमर्थं हर्षाय कल्पत इत्यनेन हर्षहेतुरर्थ उक्त इति प्रतिपद्यते । हर्षहेत्वन्तरस्य चाप्रतीतेः पुत्रजन्मनश्च तद्धेतोरवगमात्तदेव वार्त्ताहारेणाभ्यधायीति निश्चिनोति । एवं भयशोकादयोऽप्युदाहार्याः । तथा च प्रयोजनवत्तया भूतार्थाभिधानस्य प्रेक्षावत्प्रयोगोऽप्युपपन्नः । एवं च ब्रह्मस्वरूपज्ञानस्य परमपुरुषार्थहेतुभावादनुपदिशतामपि पुरुषप्रवृत्तिनिवृत्ती वेदान्तानां पुरुषहितानुशासनाच्छास्त्रत्वं सिद्धं भवति । तत्सिद्धमेतत् , विवादाध्यासितानि वचनानि भूतार्थविषयाणि, भूतार्थविषयप्रमाजनकत्वात् । यद्यद्विषयप्रमाजनकं तत्तद्विषयं, यथा रूपादिविषयं चक्षुरादि, तथा चैतानि, तस्मात्तथेति ।

तस्मात्सुष्ठूक्तम् -

तन्न, औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति ।

उपनिपूर्वात्सदेर्विशरणार्थात्क्विप्युपनिषत्पदं व्युत्पादितम् , उपनीय अद्वयं ब्रह्म सवासनामविद्यां हिनस्तीति ब्रह्मविद्यामाह । तद्धेतुत्वाद्वेदान्ता अप्युपनिषदः, ततो विदितः औपनिषदः पुरुषः ।

एतदेव विभजते -

योऽसावुपनिषत्स्वेवेति ।

अहंप्रत्ययविषयाद्भिनत्ति -

असंसारीति ।

अत एव क्रियारहितत्वाच्चतुर्विधद्रव्यविलक्षणः अतश्च चतुर्विधद्रव्यविलक्षणोपेतोऽयमनन्यशेषः, अन्यशेषं हि भूतं द्रव्यं चिकीर्षितं सदुत्पत्त्याद्याप्यं सम्भवति । यथा ‘यूपं तक्षति’ इत्यादि । यत्पुनरन्यशेषं भूतभाव्युपयोगरहितम् , यथा ‘सुवर्णं भार्यम्’ , ‘सक्तून् जुहोति’ इत्यादि, न तस्योत्पत्त्याद्याप्यता ।

कस्मात्पुनरस्यानन्यशेषतेत्यत आह -

यतःस्वप्रकरणस्थः ।

उपनिषदामनारभ्याधीतानां पौर्वापर्यपर्यालोचनया पुरुषप्रतिपादनपरत्वेन पुरुषस्यैव प्राधान्येनेदं प्रकरणम् । न च जुह्वादिवदव्यभिचरितक्रतुसम्बन्धः पुरुष इत्युपपादितम् । अतः स्वप्रकरणस्थः सोऽयं तथाविध उपनिषद्भ्यः प्रतीयमानो न नास्तीति शक्यो वक्तुमित्यर्थः ।

स्यादेतत् - मानान्तरागोचरत्वेनागृहीतसङ्गतितया अपदार्थस्य ब्रह्मणो वाक्यार्थत्वानुपपत्तेः कथमुपनिषदर्थतेत्यत आह -

स एष नेति नेत्यात्मेत्यात्मशब्दात् ।

यद्यपि गवादिवन्मानान्तरगोचरत्वमात्मनो नास्ति, तथापि प्रकाशात्मन एव सतस्तत्तदुपाधिपरिहाण्या शक्यं वाक्यार्थत्वेन निरूपणम् , हाटकस्येव कटककुण्डलादिपरिहाण्या । नहि प्रकाशः स्वसंवेदनो न भासते, नापि तदवच्छेदकः कार्यकारणसङ्घातः । तेन “स एष नेति नेत्यात्मा” (बृ. उ. ३ । ९ । २६) इति तत्तदवच्छेदपरिहाण्या बृहत्त्वादापनाच्च स्वयम्प्रकाशः शक्यो वाक्यात् ब्रह्मेति चात्मेति च निरूपयितुमित्यर्थः ।

अथोपाधिनिरासवदुपहितमप्यात्मरूपं कस्मान्न निरस्यत इत्यत आह -

आत्मनश्च प्रत्याख्यातुमशक्यत्वात् ।

प्रकाशो हि सर्वस्यात्मा तदधिष्ठानत्वाच्च प्रपञ्चविभ्रमस्य । न चाधिष्ठानाभावे विभ्रमो भवितुमर्हति । न हि जातु रज्ज्वभावे रज्ज्वां भुजङ्ग इति वा धारेति वा विभ्रमो दृष्टपूर्वः । अपि चात्मानः प्रकाशस्य भासा प्रपञ्चस्य प्रभा । तथा च श्रुतिः - “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(क.उ.२-२-१५) इति । न चात्मनः प्रकाशस्य प्रत्याख्याने प्रपञ्चप्रथा युक्ता । तस्मादात्मनः प्रत्याख्यानायोगाद्वेदान्तेभ्यः प्रमाणान्तरागोचरसर्वोपाधिरहितब्रह्मस्वरूपावगतिसिद्धिरित्यर्थः ।

उपनिषत्स्वेवावगत इत्यवधारणममृष्यमाण आक्षिपति -

नन्वात्मेति ।

सर्वजनीनाहंप्रत्ययविषयो ह्यात्मा कर्ता भोक्ता च संसारी, तत्रैव च लौकिकपरीक्षकाणामात्मपदप्रयोगात् । य एव लौकिकाः शब्दास्त एव वैदिकास्त एव च तेषामर्था इत्यौपनिषदमप्यात्मपदं तत्रैव प्रवर्तितुमर्हति, नार्थान्तरे तद्विपरीत इत्यर्थः ।

समाधत्ते -

अहंप्रत्ययविषय औपनिषदः पुरुषः ।

कुतः

तत्साक्षित्वेन ।

अहंप्रत्ययविषयो यः कर्ता कार्यकरणसङ्घातोपहितो जीवात्मातत्साक्षित्वेन, परमात्मनोऽहंप्रत्ययविषयत्वस्य -

प्रत्युक्तत्वात् ।

एतदुक्तं भवति - यद्यपि “अनेन जीवेनात्मना” (छा. उ. ६ । ३ । २) इति जीवपरमात्मनोः पारमार्थिकमैक्यम् , तथापि तस्योपहितं रूपं जीवः, शुद्धं तु रूपं तस्य साक्षितच्च मानान्तरानधिगतमुपनिषद्गोचर इति ।

एतदेव प्रपञ्चयति -

न ह्यहंप्रत्ययविषयेति ।

विधिशेषत्वं वा नेतुं न शक्यः ।

कुतः

आत्मत्वादेव ।

न ह्यात्मा अन्यार्थोऽन्यत्तु सर्वमात्मार्थम् । तथा च श्रुतिः - “न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवति”(बृ. उ. ४ । ५ । ६) इति । अपि चातः सर्वेषामात्मत्वादेव न हेयो नाप्युपादेयः । सर्वस्य हि प्रपञ्चजातस्य ब्रह्मैव तत्त्वमात्मा । न च स्वभावो हेयः, अशक्यहानत्वात् । न चोपादेयः, उपात्तत्वात् । तस्माद्धेयोपादेयविषयौ विधिनिषेधौ न तद्विपरीतमात्मतत्त्वं विषयीकुरुत इति सर्वस्य प्रपञ्चजातस्यात्मैव तत्त्वमिति ।

एतदुपपादयति -

सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ।

अयमर्थः - पुरुषो हि श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायव्यवस्थापितत्वात्परमार्थसन् । प्रपञ्चस्त्वनाद्यविद्योपदर्शितोऽपरमार्थसन् । यश्च परमार्थसन्नसौ प्रकृतिः रज्जुतत्त्वमिव सर्पविभ्रमस्य विकारस्य । अत एवास्यानिर्वाच्यत्वेनादृढस्वभावस्य विनाशः । पुरुषस्तु परमार्थसन्नासौ कारणसहस्रेणाप्यसन् शक्यः कर्तुम् । न हि सहस्रमपि शिल्पिनो घटं पटयितुमीशत इत्युक्तम् । तस्मादविनाशिपुरुषान्तो विकारविनाशः शुक्तिरज्जुतत्त्वान्त इव रजतभुजङ्गविनाशः । पुरुष एव हि सर्वस्य प्रपञ्चविकारजातस्य तत्त्वम् ।

न च पुरुषस्यास्ति विनाशो यतोऽनन्तो विनाशः स्यादित्यत आह -

पुरुषो विनाशहेत्वभावादिति ।

नहि कारणानि सहस्रमप्यन्यदन्यथयितुमीशत इत्युक्तम् । अथ मा भूत्स्वरूपेण पुरुषो हेय उपादेयो वा, तदीयस्तु कश्चिद्धर्मो हास्यते, कश्चिच्चोपादास्यत इत्यत आह -

विक्रियाहेत्वभावाच्च कूटस्थनित्यः ।

त्रिविधोऽपि धर्मलक्षणावस्थापरिणामलक्षणो विकारो नास्तीत्युक्तम् । अपि चात्मनः परमार्थसतो धर्मोऽपि परमार्थसन्निति न तस्यात्मवदन्यथात्वं कारणैः शक्यं कर्तुम् । न च धर्मान्यथात्वादन्यो विकारः । तदिदमुक्तम् - विक्रियाहेत्वभावादिति । सुगममन्यत् ।