ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यदप्युक्तम् — कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात् ‘सप्तद्वीपा वसुमती’ इत्यादिवदिति, तत्परिहृतम् । ‘रज्जुरियम् , नायं सर्पः’ इति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात् । ननु श्रुतब्रह्मणोऽपि यथापूर्वं संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमित्युक्तम् । अत्रोच्यते — नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम् , वेदप्रमाणजनितब्रह्मात्मभावविरोधात् । न हि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति, तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् । न हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं दुःखं भवति । न च कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमानरहितस्य तदेव कुण्डलित्वाभिमाननिमित्तं सुखं भवति । तदुक्तं श्रुत्या — ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति । शरीरे पतितेऽशरीरत्वं स्यात् , न जीवत इति चेत् , न; सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात् । न ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम् । नित्यमशरीरत्वमकर्मनिमित्तत्वादित्यवोचाम । तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् , न । शरीरसम्बन्धस्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः, शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात् । अन्धपरम्परैषा अनादित्वकल्पना । क्रियासमवायाभावाच्चात्मनः कर्तृत्वानुपपत्तेः । सन्निधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेत् , न । धनदानाद्युपार्जितभृत्यसम्बन्धित्वात्तेषां कर्तृत्वोपपत्तेः । न त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिभावसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् । मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुः । एतेन यजमानत्वमात्मनो व्याख्यातम् । अत्राहुः — देहादिव्यतिरिक्तस्यात्मनः आत्मीये देहादावभिमानो गौणः, न मिथ्येति चेत् , न । प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः । यस्य हि प्रसिद्धो वस्तुभेदः — यथा केसरादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः, ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः सम्पन्नः सिद्धः, तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतः । नाप्रसिद्धवस्तुभेदस्य । तस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः, न गौणौ । यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथा वा शुक्तिकायामकस्माद्रजतमिदमिति निश्चितौ शब्दप्रत्ययौ, तद्वद्देहादिसङ्घाते अहम् इति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम् । आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतः । तस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव, न गौणः । तस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतोऽपि विदुषोऽशरीरत्वम् । तथा च ब्रह्मविद्विषया श्रुतिः — ‘तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति; ‘सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव सवागवागिव समना अमना इव सप्राणोऽप्राण इव’ इति च । स्मृतिरपि — ‘स्थितप्रज्ञस्य का भाषा’ (भ. गी. २ । ५४) इत्याद्या स्थितप्रज्ञस्य लक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसम्बन्धं दर्शयति । तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् । यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम् ॥

यदप्यौपनिषदात्मज्ञानमपुरुषार्थं मन्यमानेनोक्तम् -

कर्तव्यविध्यनुप्रवेशमन्तरेणेति ।

अत्र निगूढाभिसन्धिः पूर्वोक्तं परिहारं स्मारयति -

तत्परिहृतमिति ।

अत्राक्षेप्ता स्वोक्तमर्थं स्मारयति -

ननु श्रुतब्रह्मणोऽपीति ।

निगूढमभिसन्धिं समाधातोद्घाटयति -

अत्रोच्यते - नावगतब्रह्मात्मभावस्येति ।

सत्यं, न ब्रह्मज्ञानमात्रं सांसारिकधर्मनिवृत्तिकारणम् , अपि तु साक्षात्कारपर्यन्तम् । ब्रह्मसाक्षात्कारश्चान्तःकरणवृत्तिभेदः श्रवणमननादिजनितसंस्कारसचिवमनोजन्मा, षड्जादिभेदसाक्षात्कार इव गान्धर्वशास्त्रश्रवणाभ्याससंस्कृतमनोयोनिः । स च निखिलप्रपञ्चमहेन्द्रजालसाक्षात्कारं समूलमुन्मूलयन्नात्मानमपि प्रपञ्चत्वाविशेषादुन्मूलयतीत्युपपादितमधस्तात् । तस्माद्रज्जुस्वरूपकथनतुल्यतैवात्रेति सिद्धम् ।

अत्र च वेदप्रमाणमूलतया वेदप्रमाणजनितेत्युक्तम् । अत्रैव सुखदुःखानुत्पादभेदेन निदर्शनद्वयमाह -

न हि धनिन इति ।

श्रुतिमत्रोदाहरति -

तदुक्तमिति ।

चोदयति -

शरीरे पतित इति ।

परिहरति -

न सशरीरत्वस्येति ।

यदि वास्तवं सशरीरत्वं भवेन्न जीवतस्तन्निवर्तेत । मिथ्याज्ञाननिमित्तं तु तत् । तच्चोत्पन्नतत्त्वज्ञानेन जीवतापि शक्यं निवर्तयितुम् ।

यत्पुनरशरीरत्वं तदस्य स्वभाव इति न शक्यं निवर्तयितुम् , स्वभावहानेन भावविनाशप्रसङ्गादित्याह -

नित्यमशरीरत्वमिति ।

स्यादेतत् । न मिथ्याज्ञाननिमित्तं सशरीरत्वमपि तु धर्माधर्मनिमित्तम् , तच्च स्वकारणधर्माधर्मनिवृत्तिमन्तरेण न निवर्तते । तन्निवृत्तौ च प्रायणमेवेति न जीवतोऽशरीरत्वमिति शङ्कते -

तत्कृतेति ।

तदित्यात्मानं परामृशति ।

निराकरोति -

न, शरीरसम्बन्धस्येति ।

न तावदात्मा साक्षाद्धर्माधर्मौ कर्तुमर्हति, वाग्बुद्धिशरीरारम्भजनितौ हि तौ नासति शरीरसम्बन्धे भवतः, ताभ्यां तु शरीरसम्बन्धं रोचयमानो व्यक्तं परस्पराश्रयं दोषमावहति ।

तदिदमाह -

शरीरसम्बन्धस्येति ।

यद्युच्येत सत्यमस्ति परस्पराश्रयः, न त्वेष दोषोऽनादित्वात् , बीजाङ्कुरवदित्यत आह -

अन्धपरम्परैषानादित्वकल्पना

यस्तु मन्यते नेयमन्धपरम्परातुल्यानादिता ।

न हि यतो धर्माधर्मभेदादात्मशरीरसम्बन्धभेदस्तत एव स धर्माधर्मभेदः किन्त्वेष पूर्वस्मादात्मशरीरसम्बन्धात्पूर्वधर्माधर्मभेदजन्मनः, एष त्वात्मशरीरसम्बन्धोऽस्माद्धर्माधर्मभेदादिति, तं प्रत्याह -

क्रियासमवायाभावादिति ।

शङ्कते -

संनिधानमात्रेणेति ।

परिहरति -

नेति ।

उपार्जनं स्वीकरणम् ।

न त्वियं विधात्मनीत्याह -

न त्वात्मन इति ।

ये तु देहादावात्माभिमानो न मिथ्या, अपि तु गौणः, माणवकादाविव सिंहाभिमान इति मन्यन्ते, तन्मतमुपन्यस्य दूषयति -

अत्राहुरिति ।

प्रसिद्धो वस्तुभेदो यस्य पुरुषस्य स तथोक्तः । उपपादितं चैतदस्माभिरध्यासभाष्य इति नेहोपपाद्यते । यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे वस्तुनि पुरुषात् , सांशयिकौ पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, तत्र हि पुरुषत्वमनियतमपि समारोपितमेव ।

एवं संशये समारोपितमनिश्चितमुदाहृत्य विपर्ययज्ञाने निश्चितमुदाहरति -

यथा वा शुक्तिकायामिति ।

शुक्लभास्वरस्य द्रव्यस्य पुरःस्थितस्य सति शुक्तिकारजतसाधारण्ये यावदत्र रजतविनिश्चयो भवति तावत्कस्माच्छुक्तिविनिश्चय एव न भवति । संशयो वा द्वेधा युक्तः, समानधर्मधर्मिणोर्दर्शनात् उपलब्घ्यनुपलब्ध्यव्यवस्थातोविशेषद्वयस्मृतेश्च ।

संस्कारोन्मेषहेतोः सादृश्यस्य द्विष्ठत्वेनोभयत्र तुल्यमेतदित्यत उक्तम् -

अकस्मादिति ।

अनेन दृष्टस्य हेतोः समानत्वेऽप्यदृष्टं हेतुरुक्तः । तच्च कार्यदर्शनोन्नेयत्वेनासाधारणमिति भावः ।

आत्मानात्मविवेकिनामिति ।

श्रवणमननकुशलतामात्रेण पण्डितानाम् । अनुत्पन्नतत्त्वसाक्षात्काराणामिति यावत् । तदुक्तम् - “पश्वादिभिश्चाविशेषात्” इति । शेषमतिरोहितार्थम् ।

जीवतो विदुषोऽशरीरत्वे च श्रुतिस्मृती उदाहरति -

तथा चेति ।

सुबोधम् ।

प्रकृतमुपसंहरति -

तस्मान्नावगतब्रह्मात्मभावस्येति ।