यदप्यौपनिषदात्मज्ञानमपुरुषार्थं मन्यमानेनोक्तम् -
कर्तव्यविध्यनुप्रवेशमन्तरेणेति ।
अत्र निगूढाभिसन्धिः पूर्वोक्तं परिहारं स्मारयति -
तत्परिहृतमिति ।
अत्राक्षेप्ता स्वोक्तमर्थं स्मारयति -
ननु श्रुतब्रह्मणोऽपीति ।
निगूढमभिसन्धिं समाधातोद्घाटयति -
अत्रोच्यते - नावगतब्रह्मात्मभावस्येति ।
सत्यं, न ब्रह्मज्ञानमात्रं सांसारिकधर्मनिवृत्तिकारणम् , अपि तु साक्षात्कारपर्यन्तम् । ब्रह्मसाक्षात्कारश्चान्तःकरणवृत्तिभेदः श्रवणमननादिजनितसंस्कारसचिवमनोजन्मा, षड्जादिभेदसाक्षात्कार इव गान्धर्वशास्त्रश्रवणाभ्याससंस्कृतमनोयोनिः । स च निखिलप्रपञ्चमहेन्द्रजालसाक्षात्कारं समूलमुन्मूलयन्नात्मानमपि प्रपञ्चत्वाविशेषादुन्मूलयतीत्युपपादितमधस्तात् । तस्माद्रज्जुस्वरूपकथनतुल्यतैवात्रेति सिद्धम् ।
अत्र च वेदप्रमाणमूलतया वेदप्रमाणजनितेत्युक्तम् । अत्रैव सुखदुःखानुत्पादभेदेन निदर्शनद्वयमाह -
न हि धनिन इति ।
श्रुतिमत्रोदाहरति -
तदुक्तमिति ।
चोदयति -
शरीरे पतित इति ।
परिहरति -
न सशरीरत्वस्येति ।
यदि वास्तवं सशरीरत्वं भवेन्न जीवतस्तन्निवर्तेत । मिथ्याज्ञाननिमित्तं तु तत् । तच्चोत्पन्नतत्त्वज्ञानेन जीवतापि शक्यं निवर्तयितुम् ।
यत्पुनरशरीरत्वं तदस्य स्वभाव इति न शक्यं निवर्तयितुम् , स्वभावहानेन भावविनाशप्रसङ्गादित्याह -
नित्यमशरीरत्वमिति ।
स्यादेतत् । न मिथ्याज्ञाननिमित्तं सशरीरत्वमपि तु धर्माधर्मनिमित्तम् , तच्च स्वकारणधर्माधर्मनिवृत्तिमन्तरेण न निवर्तते । तन्निवृत्तौ च प्रायणमेवेति न जीवतोऽशरीरत्वमिति शङ्कते -
तत्कृतेति ।
तदित्यात्मानं परामृशति ।
निराकरोति -
न, शरीरसम्बन्धस्येति ।
न तावदात्मा साक्षाद्धर्माधर्मौ कर्तुमर्हति, वाग्बुद्धिशरीरारम्भजनितौ हि तौ नासति शरीरसम्बन्धे भवतः, ताभ्यां तु शरीरसम्बन्धं रोचयमानो व्यक्तं परस्पराश्रयं दोषमावहति ।
तदिदमाह -
शरीरसम्बन्धस्येति ।
यद्युच्येत सत्यमस्ति परस्पराश्रयः, न त्वेष दोषोऽनादित्वात् , बीजाङ्कुरवदित्यत आह -
अन्धपरम्परैषानादित्वकल्पना
यस्तु मन्यते नेयमन्धपरम्परातुल्यानादिता ।
न हि यतो धर्माधर्मभेदादात्मशरीरसम्बन्धभेदस्तत एव स धर्माधर्मभेदः किन्त्वेष पूर्वस्मादात्मशरीरसम्बन्धात्पूर्वधर्माधर्मभेदजन्मनः, एष त्वात्मशरीरसम्बन्धोऽस्माद्धर्माधर्मभेदादिति, तं प्रत्याह -
क्रियासमवायाभावादिति ।
शङ्कते -
संनिधानमात्रेणेति ।
परिहरति -
नेति ।
उपार्जनं स्वीकरणम् ।
न त्वियं विधात्मनीत्याह -
न त्वात्मन इति ।
ये तु देहादावात्माभिमानो न मिथ्या, अपि तु गौणः, माणवकादाविव सिंहाभिमान इति मन्यन्ते, तन्मतमुपन्यस्य दूषयति -
अत्राहुरिति ।
प्रसिद्धो वस्तुभेदो यस्य पुरुषस्य स तथोक्तः । उपपादितं चैतदस्माभिरध्यासभाष्य इति नेहोपपाद्यते । यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे वस्तुनि पुरुषात् , सांशयिकौ पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, तत्र हि पुरुषत्वमनियतमपि समारोपितमेव ।
एवं संशये समारोपितमनिश्चितमुदाहृत्य विपर्ययज्ञाने निश्चितमुदाहरति -
यथा वा शुक्तिकायामिति ।
शुक्लभास्वरस्य द्रव्यस्य पुरःस्थितस्य सति शुक्तिकारजतसाधारण्ये यावदत्र रजतविनिश्चयो भवति तावत्कस्माच्छुक्तिविनिश्चय एव न भवति । संशयो वा द्वेधा युक्तः, समानधर्मधर्मिणोर्दर्शनात् उपलब्घ्यनुपलब्ध्यव्यवस्थातोविशेषद्वयस्मृतेश्च ।
संस्कारोन्मेषहेतोः सादृश्यस्य द्विष्ठत्वेनोभयत्र तुल्यमेतदित्यत उक्तम् -
अकस्मादिति ।
अनेन दृष्टस्य हेतोः समानत्वेऽप्यदृष्टं हेतुरुक्तः । तच्च कार्यदर्शनोन्नेयत्वेनासाधारणमिति भावः ।
आत्मानात्मविवेकिनामिति ।
श्रवणमननकुशलतामात्रेण पण्डितानाम् । अनुत्पन्नतत्त्वसाक्षात्काराणामिति यावत् । तदुक्तम् - “पश्वादिभिश्चाविशेषात्” इति । शेषमतिरोहितार्थम् ।
जीवतो विदुषोऽशरीरत्वे च श्रुतिस्मृती उदाहरति -
तथा चेति ।
सुबोधम् ।
प्रकृतमुपसंहरति -
तस्मान्नावगतब्रह्मात्मभावस्येति ।