ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्विधिशेषत्वं ब्रह्मणः, स्वरूपपर्यवसायित्वमिति, न्नश्रवणवदवगत्यर्थत्वान्मनननिदिध्यासनयोःयदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत, भवेत्तदा विधिशेषत्वम् तु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात्तस्मान्न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमे ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम्एवं सतिअथातो ब्रह्मजिज्ञासाइति तद्विषयः पृथक्शास्त्रारम्भ उपपद्यतेप्रतिपत्तिविधिपरत्वे हिअथातो धर्मजिज्ञासाइत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येतआरभ्यमाणं चैवमारभ्येतअथातः परिशिष्टधर्मजिज्ञासेति, अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ (जै. सू. ४ । १। १) इतिवत्ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः — ‘अथातो ब्रह्मजिज्ञासाइतितस्मात् अहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विधयः सर्वाणि चेतराणि प्रमाणानि ह्यहेयानुपादेयाद्वैतात्मावगतौ , निर्विषयाण्यप्रमातृकाणि प्रमाणानि भवितुमर्हन्तीतिअपि चाहुः — ‘गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात्सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत्अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनःअन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितःदेहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितःलौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात्इति ॥ ४ ॥

ननूक्तं यदि जीवस्य ब्रह्मात्मत्वावगतिरेव सांसारिकधर्मनिवृत्तिहेतुः, हन्त मननादिविधानानर्थक्यम् , तस्मात्प्रतिपत्तिविधिपरा वेदान्ता इति, तदनुभाष्य दूषयति -

यत्पुनरुक्तं श्रवणात्पराचीनयोरिति ।

मनननिदिध्यासनयोरपि न विधिः, तयोरन्वयव्यतिरेकसिद्धसाक्षात्कारफलयोर्विधिसरूपैर्वचनैरनुवादात् । तदिदमुक्तम् -

अवगत्यर्थत्वादिति ।

ब्रह्मसाक्षात्कारोऽवगतस्तदर्थत्वं मनननिदिध्यासनयोरन्वयव्यतिरेकसिद्धमित्यर्थः ।

अथ कस्मान्मननादिविधिरेव न भवतीत्यत आह -

यदि ह्यवगतमिति ।

न तावन्मनननिदिध्यासने प्रधानकर्मणी अपूर्वविषये अमृतत्वफले इत्युक्तमधस्तात् । अतो गुणकर्मत्वमनयोरवघातप्रोक्षणादिवत्परिशिष्यते, तदप्ययुक्तम् , अन्यत्रोपयुक्तोपयोक्ष्यमाणत्वाभावादात्मनः, विशेषतस्त्वौपनिषदस्य कर्मानुष्ठानविरोधादित्यर्थः ।

प्रकृतमुपसंहरति -

तस्मादिति ।

एवं सिद्धरूपब्रह्मपरत्वं उपनिषदाम् ।

ब्रह्मणः शास्त्रार्थस्य धर्मादन्यत्वात् , भिन्नविषयत्वेन शास्त्रभेदात् , “अथातो ब्रह्मजिज्ञासा” (ब्र.सू.१ । १ । १) इत्यस्य शास्त्रारम्भत्वमुपपद्यत इत्याह -

एवं च सतीति ।

इतरथा तु धर्मजिज्ञासैवेति न शास्त्रान्तरमिति न शास्त्रारम्भत्वं स्यादित्यत आह -

प्रतिपत्तिविधिपरत्व इति ।

न केवलं सिद्धरूपत्वाद्ब्रह्मात्मैक्यस्य धर्मादन्यत्वमपि तु तद्विरोधादपीत्युपसंहारव्याजेनाह -

तस्मादहं ब्रह्मास्मीति ।

इतिकरणेन ज्ञानं परामृशति । विधयो हि धर्मे प्रमाणम् । ते च साध्यसाधनेतिकर्तव्यताभेदाधिष्ठाना धर्मोत्पादिनश्च तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्रभवन्ति, विरोधादित्यर्थः ।

न केवलं धर्मप्रमाणस्य शास्त्रस्येयं गतिः, अपि तु सर्वेषां प्रमाणानामित्याह -

सर्वाणि चेतराणि प्रमाणानीति ।

कुतः,

न हीति ।

अद्वैते हि विषयविषयिभावो नास्ति । न च कर्तृत्वम् , कार्याभावात् । न च कारणत्वम् , अत एव ।

तदिदमुक्तम् -

अप्रमातृकाणि च ।

इति चकारेण ।

अत्रैव ब्रह्मविदां गाथा उदाहरति -

अपि चाहुरिति ।

पुत्रदारादिष्वात्माभिमानो गौणः । यथा स्वदुःखेन दुःखी, यथा स्वसुखेन सुखी, तथा पुत्रादिगतेनापीति सोऽयं गुणः । न त्वेकत्वाभिमानः, भेदस्यानुभवसिद्धत्वात् । तस्मात् ‘गौर्वाहीकः’ इतिवद्गौणः । देहेन्द्रियादिषु त्वभेदानुभवान्न गौण आत्माभिमानः, किं तु शुक्तौ रजतज्ञानवन्मिथ्या, तदेवं द्विविधोऽयमात्माभिमानो लोकयात्रां वहति । तदसत्त्वे तु न लोकयात्रा, नापि ब्रह्मात्मैकत्वानुभवः, तदुपायस्य श्रवणमननादेरभावात् ।

तदिदमाह -

पुत्रदेहादिबाधनात् ।

गौणात्मनोऽसत्त्वे पुत्रकलत्रादिबाधनम् । ममकाराभाव इति यावत् । मिथ्यात्मनोऽसत्त्वे देहेन्द्रियादिबाधनं श्रवणादिबाधनं च । ततश्च न केवलं लोकयात्रासमुच्छेदःसद्ब्रह्माहमित्येवंबोधशीलं यत्कार्यम् , अद्वैतसाक्षात्कार इति यावत् ।

तदपि

कथं भवेत् ।

कुतस्तदसम्भव इत्यत आह -

अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः ।

उपलक्षणं चैतत् । प्रमाप्रमेयप्रमाणविभाग इत्यपि द्रष्टव्यम् । एतदुक्तं भवति - एष हि विभागोऽद्वैतसाक्षात्कारकारणम् , ततो नियमेन प्राग्भावात् । तेन तदभावे कार्यं नोत्पद्यत इति ।

न च प्रमातुरात्मनोऽन्वेष्टव्य आत्मान्य इत्याह -

अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ।

उक्तं ग्रीवास्थग्रैवेयकनिदर्शनम् ।

स्यादेतत् । अप्रमाणात्कथं पारमार्थिकाद्वैतानुभवोत्पत्तिरित्यत आह -

देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।

लौकिकं तद्वदेवेदं प्रमाणं तु ।

अस्यावधिमाह -

आत्मनिश्चयात् ।

आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः । एतदुक्तं भवति - पारमार्थिकप्रपञ्चवादिभिरपि देहादिष्वात्माभिमानो मिथ्येति वक्तव्यम् , प्रमाणबाधितत्वात् । तस्य च समस्तप्रमाणकारणत्वं भाविकलोकयात्रावाहित्वं चाभ्युपेयम् । सेयमस्माकमप्यद्वैतसाक्षात्कारे विधा भविष्यति । न चायमद्वैतसाक्षात्कारोऽप्यन्तःकरणवृत्तिभेद एकान्ततः परमार्थः । यस्तु साक्षात्कारो भाविकः, नासौ कार्यः, तस्य ब्रह्मस्वरूपत्वात् । अविद्या तु यद्यविद्यामुच्छिन्द्याज्जनयेद्वा, न तत्र काचिदनुपपत्तिः । तथा च श्रुतिः - “विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते”(ई. उ. ११) ॥ इति । तस्मात्सर्वमवदातम् ॥ ४ ॥

इति चतुःसूत्री समाप्ता ।