ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्विधिशेषत्वं ब्रह्मणः, न स्वरूपपर्यवसायित्वमिति, तन्न । श्रवणवदवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत, भवेत्तदा विधिशेषत्वम् । न तु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् । तस्मान्न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् । एवं च सति ‘अथातो ब्रह्मजिज्ञासा’ इति तद्विषयः पृथक्शास्त्रारम्भ उपपद्यते । प्रतिपत्तिविधिपरत्वे हि ‘अथातो धर्मजिज्ञासा’ इत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येत । आरभ्यमाणं चैवमारभ्येत — अथातः परिशिष्टधर्मजिज्ञासेति, ‘अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ (जै. सू. ४ । १। १) इतिवत् । ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः — ‘अथातो ब्रह्मजिज्ञासा’ इति । तस्मात् अहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विधयः सर्वाणि चेतराणि प्रमाणानि । न ह्यहेयानुपादेयाद्वैतात्मावगतौ , निर्विषयाण्यप्रमातृकाणि च प्रमाणानि भवितुमर्हन्तीति । अपि चाहुः — ‘गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात् । सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत् ॥ अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः । अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ॥ देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात्’ इति ॥ ४ ॥

ननूक्तं यदि जीवस्य ब्रह्मात्मत्वावगतिरेव सांसारिकधर्मनिवृत्तिहेतुः, हन्त मननादिविधानानर्थक्यम् , तस्मात्प्रतिपत्तिविधिपरा वेदान्ता इति, तदनुभाष्य दूषयति -

यत्पुनरुक्तं श्रवणात्पराचीनयोरिति ।

मनननिदिध्यासनयोरपि न विधिः, तयोरन्वयव्यतिरेकसिद्धसाक्षात्कारफलयोर्विधिसरूपैर्वचनैरनुवादात् । तदिदमुक्तम् -

अवगत्यर्थत्वादिति ।

ब्रह्मसाक्षात्कारोऽवगतस्तदर्थत्वं मनननिदिध्यासनयोरन्वयव्यतिरेकसिद्धमित्यर्थः ।

अथ कस्मान्मननादिविधिरेव न भवतीत्यत आह -

यदि ह्यवगतमिति ।

न तावन्मनननिदिध्यासने प्रधानकर्मणी अपूर्वविषये अमृतत्वफले इत्युक्तमधस्तात् । अतो गुणकर्मत्वमनयोरवघातप्रोक्षणादिवत्परिशिष्यते, तदप्ययुक्तम् , अन्यत्रोपयुक्तोपयोक्ष्यमाणत्वाभावादात्मनः, विशेषतस्त्वौपनिषदस्य कर्मानुष्ठानविरोधादित्यर्थः ।

प्रकृतमुपसंहरति -

तस्मादिति ।

एवं सिद्धरूपब्रह्मपरत्वं उपनिषदाम् ।

ब्रह्मणः शास्त्रार्थस्य धर्मादन्यत्वात् , भिन्नविषयत्वेन शास्त्रभेदात् , “अथातो ब्रह्मजिज्ञासा” (ब्र.सू.१ । १ । १) इत्यस्य शास्त्रारम्भत्वमुपपद्यत इत्याह -

एवं च सतीति ।

इतरथा तु धर्मजिज्ञासैवेति न शास्त्रान्तरमिति न शास्त्रारम्भत्वं स्यादित्यत आह -

प्रतिपत्तिविधिपरत्व इति ।

न केवलं सिद्धरूपत्वाद्ब्रह्मात्मैक्यस्य धर्मादन्यत्वमपि तु तद्विरोधादपीत्युपसंहारव्याजेनाह -

तस्मादहं ब्रह्मास्मीति ।

इतिकरणेन ज्ञानं परामृशति । विधयो हि धर्मे प्रमाणम् । ते च साध्यसाधनेतिकर्तव्यताभेदाधिष्ठाना धर्मोत्पादिनश्च तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्रभवन्ति, विरोधादित्यर्थः ।

न केवलं धर्मप्रमाणस्य शास्त्रस्येयं गतिः, अपि तु सर्वेषां प्रमाणानामित्याह -

सर्वाणि चेतराणि प्रमाणानीति ।

कुतः,

न हीति ।

अद्वैते हि विषयविषयिभावो नास्ति । न च कर्तृत्वम् , कार्याभावात् । न च कारणत्वम् , अत एव ।

तदिदमुक्तम् -

अप्रमातृकाणि च ।

इति चकारेण ।

अत्रैव ब्रह्मविदां गाथा उदाहरति -

अपि चाहुरिति ।

पुत्रदारादिष्वात्माभिमानो गौणः । यथा स्वदुःखेन दुःखी, यथा स्वसुखेन सुखी, तथा पुत्रादिगतेनापीति सोऽयं गुणः । न त्वेकत्वाभिमानः, भेदस्यानुभवसिद्धत्वात् । तस्मात् ‘गौर्वाहीकः’ इतिवद्गौणः । देहेन्द्रियादिषु त्वभेदानुभवान्न गौण आत्माभिमानः, किं तु शुक्तौ रजतज्ञानवन्मिथ्या, तदेवं द्विविधोऽयमात्माभिमानो लोकयात्रां वहति । तदसत्त्वे तु न लोकयात्रा, नापि ब्रह्मात्मैकत्वानुभवः, तदुपायस्य श्रवणमननादेरभावात् ।

तदिदमाह -

पुत्रदेहादिबाधनात् ।

गौणात्मनोऽसत्त्वे पुत्रकलत्रादिबाधनम् । ममकाराभाव इति यावत् । मिथ्यात्मनोऽसत्त्वे देहेन्द्रियादिबाधनं श्रवणादिबाधनं च । ततश्च न केवलं लोकयात्रासमुच्छेदःसद्ब्रह्माहमित्येवंबोधशीलं यत्कार्यम् , अद्वैतसाक्षात्कार इति यावत् ।

तदपि

कथं भवेत् ।

कुतस्तदसम्भव इत्यत आह -

अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः ।

उपलक्षणं चैतत् । प्रमाप्रमेयप्रमाणविभाग इत्यपि द्रष्टव्यम् । एतदुक्तं भवति - एष हि विभागोऽद्वैतसाक्षात्कारकारणम् , ततो नियमेन प्राग्भावात् । तेन तदभावे कार्यं नोत्पद्यत इति ।

न च प्रमातुरात्मनोऽन्वेष्टव्य आत्मान्य इत्याह -

अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ।

उक्तं ग्रीवास्थग्रैवेयकनिदर्शनम् ।

स्यादेतत् । अप्रमाणात्कथं पारमार्थिकाद्वैतानुभवोत्पत्तिरित्यत आह -

देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।

लौकिकं तद्वदेवेदं प्रमाणं तु ।

अस्यावधिमाह -

आत्मनिश्चयात् ।

आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः । एतदुक्तं भवति - पारमार्थिकप्रपञ्चवादिभिरपि देहादिष्वात्माभिमानो मिथ्येति वक्तव्यम् , प्रमाणबाधितत्वात् । तस्य च समस्तप्रमाणकारणत्वं भाविकलोकयात्रावाहित्वं चाभ्युपेयम् । सेयमस्माकमप्यद्वैतसाक्षात्कारे विधा भविष्यति । न चायमद्वैतसाक्षात्कारोऽप्यन्तःकरणवृत्तिभेद एकान्ततः परमार्थः । यस्तु साक्षात्कारो भाविकः, नासौ कार्यः, तस्य ब्रह्मस्वरूपत्वात् । अविद्या तु यद्यविद्यामुच्छिन्द्याज्जनयेद्वा, न तत्र काचिदनुपपत्तिः । तथा च श्रुतिः - “विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते”(ई. उ. ११) ॥ इति । तस्मात्सर्वमवदातम् ॥ ४ ॥

इति चतुःसूत्री समाप्ता ।