ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
साङ्ख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम्अशब्दं हि तत्कथमशब्दत्वम् ? ईक्षतेः ईक्षितृत्वश्रवणात्कारणस्यकथम् ? एवं हि श्रूयतेसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य तदैक्षत बहु स्यां प्रजायेयेति त्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतितत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य, तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयतितथान्यत्रआत्मा वा इदमेक एवाग्र आसीत्नान्यत्किञ्चन मिषत् ईक्षत लोकान्नु सृजा इति ।’ (ऐ. उ. १ । १ । १) इमाँल्लोकानसृजत’ (ऐ. उ. १ । १ । २) इतीक्षापूर्विकामेव सृष्टिमाचष्टेक्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३), प्राणमसृजत’ (प्र. उ. ६ । ४) इतिईक्षतेरिति धात्वर्थनिर्देशोऽभिप्रेतः, यजतेरितिवत् , धातुनिर्देशःतेन यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपःतस्मादेतद्ब्रह्म नाम रूपमन्नं जायते’ (मु. उ. १ । १ । ९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि
ईक्षतेर्नाशब्दम् ॥ ५ ॥
साङ्ख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम्अशब्दं हि तत्कथमशब्दत्वम् ? ईक्षतेः ईक्षितृत्वश्रवणात्कारणस्यकथम् ? एवं हि श्रूयतेसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य तदैक्षत बहु स्यां प्रजायेयेति त्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतितत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य, तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयतितथान्यत्रआत्मा वा इदमेक एवाग्र आसीत्नान्यत्किञ्चन मिषत् ईक्षत लोकान्नु सृजा इति ।’ (ऐ. उ. १ । १ । १) इमाँल्लोकानसृजत’ (ऐ. उ. १ । १ । २) इतीक्षापूर्विकामेव सृष्टिमाचष्टेक्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३), प्राणमसृजत’ (प्र. उ. ६ । ४) इतिईक्षतेरिति धात्वर्थनिर्देशोऽभिप्रेतः, यजतेरितिवत् , धातुनिर्देशःतेन यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपःतस्मादेतद्ब्रह्म नाम रूपमन्नं जायते’ (मु. उ. १ । १ । ९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यान्युदाहर्तव्यानि

ईक्षत्यधिकरणविषयाः

एवं - “कार्यान्वयं विना सिद्धरूपे ब्रह्मणि मानता । पुरुषार्थे स्वयं तावद्वेदान्तानां प्रसाधिता” ॥ ब्रह्मजिज्ञासां प्रतिज्ञाय “जन्माद्यस्य यतः”(ब्र.सू.१ । १ । २) इत्यादिना “तत्तु समन्वयात्”(ब्र.सू.१ । १ । ३) इत्यन्तेन सूत्रसन्दर्भेण सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिविनाशकारणे प्रामाण्यं वेदान्तानामुपपादितम् । तच्च ब्रह्मणीति परमार्थतः । न त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम् । तदत्र सन्दिह्यते - तज्जगदुपादानकारणं किं चेतनमुताचेतनमिति । अत्र च विप्रतिपत्तेः प्रवादिनां विशेषानुपलम्भे सति संशयः । तत्र च प्रधानमचेतनं जगदुपादानकारणमनुमानसिद्धमनुवदन्त्युपनिषद इति साङ्ख्याः । जीवाणुव्यतिरिक्तचेतनेश्वरनिमित्ताधिष्ठिताश्चतुर्विधाः परमाणवो जगदुपादानकारणमनुमितमनुवदन्तीति काणादाः । आदिग्रहणेनाभावोपादानत्वादि ग्रहीतव्यम् । अनिर्वचनीयानाद्यविद्याशक्तिमच्चेतनोपादानं जगदागमिकमिति ब्रह्मविदः । एतासां च विप्रतिपत्तीनामनुमानवाक्यानुमानवाक्यतदाभासा बीजम् । तदेवं विप्रतिपत्तेः संशये किं तावत्प्राप्तम् । तत्र “ज्ञानक्रियाशक्त्यभावाद्ब्रह्मणोऽपरिणामिनः । न सर्वशक्तिविज्ञाने प्रधाने त्वस्ति सम्भवः” ॥ ज्ञानक्रियाशक्ती खलु ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे । न च ज्ञानक्रिये चिदात्मनि स्तः, तस्यापरिणामित्वादेकत्वाच्च । त्रिगुणे तु प्रधाने परिणामिनि सम्भवतः । यद्यपि च साम्यावस्थायां प्रधाने समुदाचरद्वृत्तिनी क्रियाज्ञाने न स्तः, तथाप्यव्यक्तेन शक्त्यात्मना रूपेण सम्भवत एव । तथा च प्रधानमेव सर्वज्ञं च सर्वशक्ति च । न तु ब्रह्म । स्वरूपचैतन्यं त्वस्यावृत्तितमनुपयोगि जीवात्मनामिवास्माकम् । न च स्वरूपचैतन्ये कर्तृत्वम् , अकार्यत्वात्तस्य । कार्यत्वे वा न सर्वदा सर्वज्ञता । भोगापवर्गलक्षणपुरुषार्थद्वयप्रयुक्तानादिप्रधानपुरुषसंयोगनिमित्तस्तु महदहङ्कारादिक्रमेणाचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य परिणामः सर्गः । दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थे प्रवर्तमानम् । यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते । “तदैक्षत बहु स्यां प्रजायेय” (छा. उ. ६ । २ । ३) इत्याद्याश्च श्रुतयोऽचेतनेऽपि चेतनवदुपचारात्स्वकार्योन्मुखत्वमादर्शयन्ति, यथा कूलं पिपतिषतीति । “यत्प्राये श्रूयते यच्च तत्तादृगवगम्यते । भाक्तप्राये श्रुतमिदमतो भाक्तं प्रतीयते” ॥ अपि चाहुर्वृद्धाः - “यथाग्र्यप्राये लिखितं दृष्ट्वा वदन्ति भवेदयमग्र्यः” इति, तथेदमपि “ता आप ऐक्षन्त” (छा. उ. ६ । २ । ४) “तत्तेज ऐक्षत” (छा. उ. ६ । २ । ३) इत्याद्युपचारप्राये क्षुतं “तदैक्षत”(छा. उ. ६ । २ । ३) इत्यौपचारिकमेव विज्ञेयम् । “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” (छा. उ. ६ । ३ । २) इति च प्रधानस्य जीवात्मत्वं जीवार्थकारितयाह । यथा हि भद्रसेनो राजार्थकारी राज्ञा भद्रसेनो ममात्मेत्युपचर्यते, एवं “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्याद्याः श्रुतयो भाक्ताः सम्पत्त्यर्था वा द्रष्टव्याः । “स्वमपीतो भवति” (छा. उ. ६ । ८ । १) इति च निरुक्तं जीवस्य प्रधाने स्वकीयेऽप्ययं सुषुप्तावस्थायां ब्रूते । प्रधानांशतमःसमुद्रके हि जीवोनिद्राणस्तमसीव मग्नो भवति । यथाहुः - “अभावप्रत्ययालम्बना वृत्तिर्निद्रा”(यो.सू. १.१०) इति । वृत्तीनामन्यासां प्रमाणादीनामभावस्तस्य प्रत्ययकारणं तमस्तदालम्बना निद्रा जीवस्य वृत्तिरित्यर्थः । तथा सर्वज्ञं प्रस्तुत्य श्वेताश्वतरमन्त्रोऽपि “सकारणं करणाधिपाधिपः” इति प्राधानाभिप्रायः । प्रधानस्यैव सर्वज्ञत्वं प्रतिपादितमधस्तात् । तस्मादचेतनं प्रधानं जगदुपादानमनुवदन्ति श्रुतय इति पूर्वः पक्षः । एवं काणादादिमतेऽपि कथञ्चिद्योजनीयाः श्रुतयः । अक्षरार्थस्तु -

प्रधानकारणपक्षेऽपीति प्रधानस्यापीति ।

अपिकारावेवकारार्थौ ।

स्यादेतत् । सत्त्वसम्पत्त्या चेदस्य सर्वज्ञताथ तमःसम्पत्त्या - सर्वज्ञतैवास्य कस्मान्न भवतीत्यत आह -

तेन च सत्त्वधर्मेण ज्ञानेनेति ।

सत्त्वं हि प्रकाशशीलं निरतिशयोत्कर्षं सर्वज्ञताबीजम् । तथाहुः - “निरतिशयं सर्वज्ञताबीजं” इति । यत्खलु सातिशयं तत्क्वचिन्निरतिशयं दृष्टं, यथा कुवलामलकबिल्वेषु, सातिशयं महत्त्वं व्योम्नि परममहति निरतिशयम् । एवं ज्ञानमप्येकद्विबहुविषयतया सातिशयमित्यनेनापि क्वचिन्निरतिशयेन भवितव्यम् । इदमेव चास्य निरतिशयत्वं यद्विदितसमस्तवेदितव्यत्वम् । तदिदं सर्वज्ञत्वं सत्त्वस्य निरतिशयोत्कर्षत्वे सम्भवति । एतदुक्तं भवति - यद्यपि रजस्तमसी अपि स्तः तथापि पुरुषार्थप्रयुक्तगुणवैषम्यातिशयात्सत्त्वस्य निरतिशयोत्कर्षे सार्वज्ञ्यं कार्यमुत्पद्यत इति प्रधानावस्थायामपि तन्मात्रं विवक्षित्वाविवक्षित्वा च तमःकार्यं प्रधानं सर्वज्ञमुपचर्यत इति ।

अपिभ्यामवधारणस्य व्यवच्छेद्यमाह -

न केवलस्येति ।

नहि किञ्चिदेकं कार्यं जनयेदपि तु बहूनि । चिदात्मा चैकः, प्रधानं तु त्रिगुणमिति तत एव कार्यमुत्पत्तुमर्हति, न चिदात्मन इत्यर्थः ।

तवापि च योग्यतामात्रेणैव चिदात्मनःसर्Sवज्ञताभ्युपगमो न कार्ययोगादित्याह -

त्वयापीति ।

न केवलस्याकार्यकारणस्येत्येतत्सिंहावलोकितेन प्रपञ्चयति -

प्रागुत्पत्तेरिति ।

अपि च प्रधानस्येति ।

चस्त्वर्थः ।

एवं प्राप्त उच्यते -

ईक्षतेर्नाशब्दम् ।

नामरूपप्रपञ्चलक्षणकार्यदर्शनादेतत्कारणमात्रवदिति सामान्यकल्पनायामस्ति प्रमाणं, न तु तदचेतनं चेतनमिति वा विशेषकल्पनायामस्त्यनुमानमित्युपरिष्टात्प्रवेदयिष्यते । तस्मान्नामरूपप्रपञ्चकारणभेदप्रमायामाम्नाय एव भगवानुपासनीयः । तदेवमाम्नायैकसमधिगमनीये जगत्कारणे “पौर्वापर्यपरामर्शाद्यदाम्नायोऽञ्जसा वदेत् । जगद्बीजं तदेवेष्टं चेतने च स आञ्जसः” ॥ तेषु तेषु खल्वाम्नायप्रदेशेषु “तदैक्षत”(छा. उ. ६ । २ । ३) इत्येवंजातीयकैर्वाक्यैरीक्षितुः कारणाज्जगज्जन्माख्यायत इति । न च प्रधानपरमाण्वादेरचेतनस्येक्षितृत्वमाञ्जसम् । सत्त्वांशेनेक्षितृ प्रधानं, तस्य प्रकाशकत्वादिति चेन्न । तस्य जाड्येन तत्त्वानुपपत्तेः । कस्तर्हि रजस्तमोभ्यां सत्त्वस्य विशेषः । स्वच्छता । स्वच्छं हि सत्त्वम् । अस्वच्छे च रजस्तमसी । स्वच्छस्य च चैतन्यबिम्बोद्ग्राहितया प्रकाशकत्वव्यपदेशो नेतरयोः, अस्वच्छतया तद्ग्राहित्वाभावात् । पार्थिवत्वे तुल्य इव मणेर्बिम्बोद्ग्राहिता न लोष्टादीनाम् । ब्रह्मणस्त्वीक्षितृत्वमाञ्जसं, तस्याम्नायतो नित्यज्ञानस्वभावत्वविनिश्चयात् । नन्वत एवास्य नेक्षितृत्वं, नित्यस्य ज्ञानस्वभावभूतस्येक्षणस्याक्रियात्वेन ब्रह्मणस्तत्प्रति निमित्तभावाभावात् । अक्रियानिमित्तस्य च कारकत्वनिवृत्तौ तद्व्याप्तस्य तद्विशेषस्य कर्तृत्वस्य निवृत्तेः । सत्यं, ब्रह्मस्वभावश्चैतन्यं नित्यतया न क्रिया, तस्य त्वनवच्छिन्नस्य तत्तद्विषयोपधानभेदावच्छेदेन कल्पितभेदस्यानित्यत्वं कार्यत्वं चोपपद्यते । तथा चैवंलक्षण ईक्षणे सर्वविषये ब्रह्मणः स्वातन्त्र्यलक्षणं कर्तृत्वमुपपन्नम् । यद्यपि च कूटस्थनित्यस्यापरिणामिन औदासीन्यमस्य वास्तवं तथाप्यनाद्यनिर्वचनीयाविद्यावच्छिन्नस्य व्यापारवत्त्वमवभासत इति कर्तृत्वोपपत्तिः । परैरपि च चिच्छेक्तेः कूटस्थनित्याया वृत्तीः प्रति कर्तृत्वमीदृशमेवाभ्युपेयं, चैतन्यसामान्याधिकरण्येन ज्ञातृत्वोपलब्धेः । नहि प्राधानिकान्यन्तर्बहिःकरणानि त्रयोदश सत्त्वगुणप्रधानान्यपि स्वयमेवाचेतनानि, तद्वृत्तयश्च स्वं वा परं वा वेदितुमुत्सहन्ते । नो खल्वन्धाः सहस्रमपि पान्थाः पन्थानं विदन्ति । चक्षुष्मता चैकेन चेद्वेद्यते, स एव तर्हि मार्गदर्शी स्वतन्त्रः कर्ता नेता तेषाम् । एवं बुद्धिसत्त्वस्य स्वयमचेतनस्य चितिबिम्बसङ्क्रान्त्या चेदापन्नं चैतन्यस्य ज्ञातृत्वं, चितिरेव ज्ञात्री स्वतन्त्रा, नान्तर्बहिष्करणान्यन्धसहस्रप्रतिमान्यस्वतन्त्राणि । न चास्याश्चितेः कूटस्थनित्याया अस्ति व्यापारयोगः । न च तदयोगेऽप्यज्ञातृत्वं, व्यापारवतामपि जडानामज्ञत्वात् । तस्मादन्तःकरणवर्तिनं व्यापारमारोप्य चितिशक्तौ कर्तृत्वाभिमानः । अन्तःकरणे वा चैतन्यमारोप्य तस्य ज्ञातृत्वाभिमानः । सर्वथा भवन्मतेऽपि नेदं स्वाभाविकं क्वचिदपि ज्ञातृत्वं, अपि तु सांव्यवहारिकमेवेति परमार्थः । नित्यस्यात्मनो ज्ञानं परिणाम इति च भेदाभेदपक्षमपाकुर्वद्भिरपास्तम् । कूटस्थस्य नित्यस्यात्मनोऽव्यापारवत एव भिन्नं ज्ञानं धर्म इति चोपरिष्टादपाकरिष्यते । तस्माद्वस्तुतोऽनवच्छिन्नं चैतन्यं तत्त्वान्यत्वाभ्यामनिर्वचनीयाव्याकृतव्याचिकीर्षितनामरूपविषयावच्छिन्नं सज्ज्ञानं कार्यं, तस्य कर्ता ईश्वरो ज्ञाता सर्वज्ञः सर्वशक्तिरिति सिद्धम् । तथा च श्रुतिः - “तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥”(मु.उ. १.१.८) इति । तपसा ज्ञानेन अव्याकृतनामरूपविषयेण चीयते तद्व्याचिकीर्षवद्भवति, यथा कुविन्दादिरव्याकृतं पटादि बुद्धावालिख्य चिकीर्षति । एकधर्मवान् द्वितीयधर्मोपजननेन उपचित उच्यते । व्याचिकीर्षायां चोपचये सति ततो नामरूपमन्नमदनीयं साधारणं संसारिणां व्याचिकीर्षितमभिजायते । तस्मादव्याकृताद्व्याचिकीर्षितादन्नात्प्राणो हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठानं जगत्सूत्रात्मा साधारणो जायते, यथाऽव्याकृतात्व्याचिकीर्षितात्पटादवान्तरकार्यं द्वितन्तुकादि । तस्माच्च प्राणान्मन अख्यं सङ्कल्पविकल्पादिव्याकरणात्मकं जायते । ततो व्याकरणात्मकान्मनसः सत्यशब्दवाच्यान्याकाशादीनि जायन्ते । तेभ्यश्च सत्याख्येभ्योऽनुक्रमेण लोका भूरादयः तेषु मनुष्यादिप्राणिनो वर्णाश्रमक्रमेण कर्माणि धर्माधर्मरूपाणि जायन्ते । कर्मसु चामृतं फलं स्वर्गनरकादि । तच्च स्वनिमित्तयोर्धर्माधर्मयोः सतोर्न विनश्यतीत्यमृतम् । यावद्धर्माधर्मभावीति यावत् । यः सर्वज्ञः सामान्यतः, सर्वविद्विशेषतः । यस्य भगवतो ज्ञानमयं तपो धर्मो नायासमयम् , तस्माद्ब्रह्मणः पूर्वस्मादेतत्परं कार्यं ब्रह्म । किञ्च नामरूपमन्नं च व्रीहियवादि जायत इति । तस्मात्प्रधानस्य साम्यावस्थायामनीक्षितृत्वात् , क्षेत्रज्ञानां च सत्यपि चैतन्ये सर्गादौ विषयानीक्षणात् , मुख्यसम्भवे चोपचारस्यान्याय्यत्वात् , मुमुक्षोश्चायथार्थोपदेशानुपपत्तेः, मुक्तिविरोधित्वात् , तेजःप्रभृतीनां च मुख्यासम्भवेनोपचाराश्रयणस्य युक्तिसिद्धत्वात् , संशये च तत्प्रायपाठस्य निश्चायकत्वात् , इह तु मुख्यस्यौत्सर्गिकत्वेन निश्चये सति संशयाभावात् , अन्यथा किरातशतसङ्कीर्णदेशनिवासिनो ब्राह्मणायनस्यापि किरातत्वापत्तेः, ब्रह्मैवेक्षित्रनाद्यनिर्वाच्याविद्यासचिवं जगदुपादानं, शुक्तिरिव समारोपितस्य रजतस्य, मरीचय इव जलस्य, एकश्चन्द्रमा इव द्वतीयस्य चद्रमसः । न त्वचेतनं प्रधानपरमाण्वादि । अशब्दं हि तत् । न च प्रधानं परमाणवो वा तदतिरिक्तसर्वज्ञेश्वराधिष्ठिता जगदुपादानमिति साम्प्रतं कार्यत्वात् । कारणात्कार्याणां भेदाभावात् कारणज्ञानेन समस्तकार्यपरिज्ञानस्य मृदादिनिदर्शनेनागमेन प्रसाधितत्वात् , भेदे च तदनुपपत्तेः । साक्षाच्च “एकमेवाद्वितीयम्” (छा. उ. ६ । २ । १) “नेह नानास्ति किञ्चन” (बृ. उ. ४ । ४ । १९) “मृत्योः स मृत्युमाप्नोति” (क. उ. २ । ४ । १०) इत्यादिभिर्बहुभिर्वचोभिर्ब्रह्मातिरिक्तस्य प्रपञ्चस्य प्रतिषेधाचेतनोपादानमेव जगत् , भुजङ्ग इवारोपितो रज्जूपादान इति सिद्धान्तः ।

सदुपादानत्वे हि सिद्धे जगतस्तदुपादानं चेतनमचेतनं वेति संशय्य मीमांस्येत । अद्यापि तु सदुपादानत्वमसिद्धमित्यत आह -

तत्रेदंशब्दवाच्यमित्यादिदर्शयतिइत्यन्तेन ।

तथापीक्षिता पारमार्थिकप्रधानक्षेत्रज्ञातिरिक्त ईश्वरो भविष्यति, यथाहुर्हैरण्यगर्भा इत्यतः श्रुतिः पठिता “एकमेवाद्वितीयम्” (छा. उ. ६ । २ । १) इति । “बहु स्याम्”(छा. उ. ६ । २ । ३) इति चाचेतनं कारणमात्मन एव बहुभावमाह । तेनापि कारणाच्चेतनादभिन्नं कार्यमभ्युपगम्यते ।

यद्यप्याकाशाद्या भूतसृष्टिस्तथापि तेजोऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वात्तत्र तेजसः प्राथम्यात्तेजः प्रथममुक्तम् । एकमद्वितीयं जगदुपादानमित्यत्र श्रुत्यन्तरमपि पठति -

तथान्यत्रेति ।

ब्रह्म चतुष्पादष्टाशफं षोडशकलशम् । तद्यथा - प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला ब्रह्मणः प्रकाशवान्नाम प्रथमः पादः । तदर्धं शफः । तथा पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यपरश्चतस्रः कला द्वितीयः पादोऽनन्तवान्नाम । तथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः, स ज्योतिष्मान्नाम तृतीयः पादः । प्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कालाः, स चतुर्थमायतनवान्नाम ब्रह्मणः पादः । तदेवं षोडशकलं षोडशावयवं ब्रह्मोपास्यमिति सिद्धम् ।

स्यादेतत् । ईक्षतेरिति तिपा धातुस्वरूपमुच्यते । न चाविवक्षितार्थस्य धातुस्वरूपस्य चेतनोपादानसाधनत्वसम्भव इत्यत आह -

ईक्षतेरिति

धात्वर्थनिर्देशोऽभिमतः, विषयिणां विषयलक्षणात् ।

प्रसिद्धा चेयं लक्षणेत्याह -

यजतेरितिवदिति ।

‘यः सर्वज्ञः’ इति सामान्यतः; ‘सर्ववित्’ इति विशेषतः ।