साङ्ख्यीयं स्वमतसमाधानमुपन्यस्य दूषयति -
यत्तूक्तं सत्त्वधर्मेणेति ।
पुनः साङ्ख्यमुत्थापयति -
ननूक्तमिति ।
परिहरति -
तदपीति ।
समुदाचरद्वृत्ति तावन्न भवति सत्त्वं, गुणवैषम्यप्रसङ्गेन साम्यानुपपत्तेः । न चाव्यक्तेन रूपेण ज्ञानमुपयुज्यते, रजस्तमसोस्तत्प्रतिबन्धस्यापि सूक्ष्मेण रूपेण सद्भावादित्यर्थः ।
अपि च चैतन्यप्रधानवृत्तिवचनो जानातिर्न चाचेतने वृत्तिमात्रे दृष्टचरप्रयोग इत्याह -
अपि च नासाक्षिकेति ।
कथं तर्हि योगिनां सत्त्वांशोत्कर्षहेतुकं सर्वज्ञत्वमित्यत आह -
योगिनां त्विति ।
सत्त्वांशोत्कर्षो हि योगिनां चैतन्यचक्षुष्मतामुपकरोति, नान्धस्य प्रधानस्येत्यर्थः ।
यदि तु कापिलमतमपहाय हैरण्यगर्भमास्थीयेत तत्राप्याह -
अथ पुनः साक्षिनिमित्तमिति ।
तेषामपि हि प्रकृष्टसत्त्वोपादानं पुरुषविशेषस्यैव क्लेशकर्मविपाकाशयापरामृष्टस्य सर्वज्ञत्वं, न तु प्रधानस्याचेतनस्य । तदपि चाद्वैतश्रुतिभिरपास्तमिति भावः ।
पूर्वपक्षबीजमनुभाषते -
यत्पुनरुक्तं ब्रह्मणोऽपीति ।
चैतन्यस्य शुद्धस्य नित्यत्वेऽप्युपहितं सदनित्यं कार्यं, आकाशमिव घटावच्छिन्नमित्यभिसन्धाय परिहरति -
इदं तावद्भवानिति ।