स्यादेतत् । ब्रह्मैव ज्ञीप्सितं, तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्सम्बद्धं प्रधानमेव स्थूलतयात्मत्वेन ग्राह्यते श्वेतकेतुररुन्धतीमिवातीव सूक्ष्मां दर्शयितुं तत्संनिहितां स्थूलतारकां दर्शयतीयमसावरुन्धतीति । अस्यां शङ्कायामुत्तरम् -
हेयत्वावचनाच्च
इति सूत्रम् । चकारोऽनुक्तसमुच्चयार्थः । तच्चानुक्तं भाष्य उक्तम् ॥ ८ ॥