गतिसामान्यात् ।
गतिरवगतिः ।
तार्किकसमय इवेति ।
यथा हि तार्किकाणां समयभेदेषु परस्परपराहतार्थता, नैवं वेदान्तेषु परस्परपराहृतिः, अपि तु तेषु सर्वत्र जगत्कारणचैतन्यावगतिः समानेति ।
चक्षुरादीनामिव रूपादिष्विति ।
यथा हि सर्वेषां चक्षू रूपमेव ग्राहयति, न पुना रसादिकं कस्यचिद्दर्शयति कस्यचिद्रूपम् । एवं रसनादिष्वपि गतिसामान्यं दर्शनीयम् ॥ १० ॥