आनन्दमयोऽभ्यासात् ।
तत्र तावत्प्रथममेकदेशिमतेनाधिकरणमारचयति -
तैत्तिरीयकेऽन्नमयमित्यादि ।
'गौणप्रवाहपातेऽपि युज्यते मुख्यमीक्षणम् । मुख्यत्वे तूभयोस्तुल्ये प्रायदृष्टिर्विशेषिका” ॥ आनन्दमय इति हि विकारे प्राचुर्ये च मयटस्तुल्यं मुख्यार्थत्वमिति विकारार्थान्नमयादिपदप्रायपाठादानन्दमयपदमपि विकारार्थमेवेति युक्तम् । न च प्राणमयादिषु विकारार्थत्वायोगात्स्वार्थिको मयडिति युक्तम् । प्राणाद्युपाध्यवच्छिन्नो ह्यात्मा भवति प्राणादिविकाराः, घटाकाशमिव घटविकाराः । न च सत्यर्थे स्वार्थिकत्वमुचितम् । “चतुःकोशान्तरत्वे तु न सर्वान्तरतोच्यते । प्रियादिभागी शरीरो जीवो न ब्रह्म युज्यते” ॥ न च सर्वान्तरतया ब्रह्मैवानन्दमयं, न जीव इति साम्प्रतम् । नहीयं श्रुतिरानन्दमयस्य सर्वान्तरतां ब्रूते अपि त्वन्नमयादिकोशचतुष्टयान्तरतामानन्दमयकोशस्य । न चास्मादन्यस्यान्तरस्याश्रवणादयमेव सर्वान्तर इति युक्तम् । यदपेक्षं यस्यान्तरत्वं श्रुतं तत्तस्मादेवान्तरं भवति । नहि देवदत्तो बलवानित्युक्ते सर्वान्सिंहशार्दूलादीनपि प्रति बलवानप्रतीयतेऽपि तु समानजातीयनरान्तरमपेक्ष्य । एवमानन्दमयोऽप्यन्नमयादिभ्योऽन्तरो न तु सर्वस्मात् । न च निष्कलस्य ब्रह्मणः प्रियाद्यवयवयोगः, नापि शरीरत्वं युज्यत इति संसार्येवानन्दमयः । तस्मादुपहितमेवात्रोपास्यत्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः । अपि च यदि प्राचुर्यार्थोऽपि मयट् , तथापि संसार्येवानन्दमय; न तु ब्रह्म । आनन्दप्राचुर्य हि तद्विपरीतदुःखलवसम्भवे भवति न तु तदत्यन्तासम्भवे ।
न च परमात्मनो मनागपि दुःखलवसम्भवः, आनन्दैकरसत्वादित्याह -
न च सशरीरस्य सत इति ।
अशरीरस्य पुनरप्रियसम्बन्धो मनागपि नास्तीति प्राचुर्यार्थोऽपि मयड्नोपपद्यत इत्यर्थः ।