अपि च मन्त्रब्राह्मणयोरुपेयोपायभूतयोः सम्प्रतिपत्तेर्ब्रह्मैवानन्दमयपदार्थः । मन्त्रे हि पुनः पुनः “अन्योऽन्तर आत्मा” (तै. उ. २ । ५ । १) इति परब्रह्मण्यान्तरत्वश्रवणात् , तस्यैव च “अन्योऽन्तर आत्मानन्दमयः” इति ब्राह्मणे प्रत्यभिज्ञानात् , परब्रह्मैवानन्दमयमित्याह सूत्रकारः -
मान्त्रवर्णिकमेव च गीयते ।
मान्त्रवर्णिकमेव परं ब्रह्म ब्राह्मणेऽप्यानन्दमय इति गीयत इति ॥ १५ ॥