ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
अत एव प्राणः ॥ २३ ॥
उद्गीथे — ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्ताइत्युपक्रम्य श्रूयतेकतमा सा देवतेति’ (छा. उ. १ । ११ । ४), प्राण इति होवाच, सर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता’ (छा. उ. १ । ११ । ५) इतितत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौप्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यतेवायुविकारे तु प्रसिद्धतरो लोकवेदयोःअत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयःकिं पुनरत्र युक्तम् ? वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम्तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचामननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम्इहापि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते, मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात्एवं ह्याम्नायतेयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः, यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते’ (श. ब्रा. १० । ३ । ३ । ६) इतिप्रत्यक्षं चैतत्स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले प्रादुर्भवन्तीतिइन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषःअपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येते तयोर्ब्रह्मत्वमस्तितत्सामान्याच्च प्राणस्यापि ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह

प्राणाधिकरणविषयाः

अत एव प्राणः ।

उद्गीथे “या देवता प्रस्तावमन्वायत्ता”(छा. उ. १ । १० । ९) इत्युपक्रम्य श्रूयते - “कतमा सा देवतेति प्राण इति होवाच”(छा. उ. १ । ११ । ४) उषस्तिश्चाक्रायणः । उद्गीथोपासनप्रसङ्गेन प्रस्तावोपासनमप्युद्गीथ इत्युक्तं भाष्यकृता । प्रस्ताव इति साम्नो भक्तिविशेषस्तमन्वायत्ता अनुगता प्राणो देवता । अत्र प्राणशब्दस्य ब्रह्मणि वायुविकारे च दर्शनात्संशयःकिमयं ब्रह्मवचन उत वायुविकारवचन इति । तत्र अत एव ब्रह्मलिङ्गादेव प्राणोऽपि ब्रह्मैव न वायुविकार इति युक्तम् । यद्येवं तेनैव गतार्थमेतदिति कोऽधिकरणान्तरस्यारम्भार्थः । तत्रोच्यते - “अर्थे श्रुत्यैकगम्ये हि श्रुतिमेवाद्रियामहे । मानान्तरावगम्ये तु तद्वशात्तद्व्यवस्थितिः” ॥ ब्रह्मणो वासर्वभूतकारणत्वं, आकाशस्य वा वाय्वादिभूतकारणत्वं प्रति नागमादृते मानान्तरं प्रभवति । तत्र पौर्वापर्यपर्यालोचनया यत्रार्थे समञ्जस आगमः स एवार्थस्तस्य गृह्यते, त्यज्यते चेतरः । इह तु संवेशनोद्गमने भूतानां प्राणं प्रत्युच्यमाने किं ब्रह्म प्रत्युच्येते आहो वायुविकारं प्रतीति विशये “यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति”(श. ब्रा. १० । ३ । ३ । ६) इत्यादिकायाः श्रुतेः सर्वभूतसारेन्द्रियसंवेशनोद्गमनप्रतिपादनद्वारा सर्वभूतसंवेशनोद्गमनप्रतिपादिकाया मानान्तरानुग्रहलब्धसामर्थ्याया बलात्संवेशनोद्गमने वायुविकारस्यैव प्राणस्य, न ब्रह्मणः । अपि चात्रोद्गीथप्रतिहारयोः सामभक्त्योर्ब्रह्मणोऽन्ये आदित्यश्चान्नं च देवते अभिहिते कार्यकारणसङ्घातरूपे, तत्साहचर्यात्प्राणोऽपि कार्यकारणसङ्घातरूप एव देवता भवितुमर्हति । निरस्तोऽप्ययमर्थ ईक्षत्यधिकरणे, पूर्वोक्तपूर्वपक्षहेतूपोद्बलनाय पुनरुपन्यस्तः । तस्माद्वायुविकार एवात्र प्राणशब्दार्थ इति प्राप्तम् । एवं प्राप्तेऽभिधीयते “पुंवाक्यस्य बलीयस्त्वं मानान्तरसमागमात् । अपौरुषेये वाक्ये तत्सङ्गतिः किं करिष्यति” ॥ नो खलु स्वतःसिद्धप्रमाणभावमपौरुषेयं वचः स्वविषयज्ञानोत्पादे वा तद्व्यवहारे वा मानान्तरमपेक्षते, तस्यापौरुषेयस्य निरस्तसमस्तदोषाशङ्कस्य स्वत एव निश्चायकत्वात् , निश्चयपूर्वकत्वाद्व्यवहारप्रवृत्तेः । तस्मादसंवादिनो वा चक्षुष इव रूपे त्वगिन्द्रियसंवादिनो वा तस्यैव द्रव्ये नादार्ढ्यं वा दार्ढ्यं वा । तेन स्तामिन्द्रियमात्रसंवेशनोद्गमने वायुविकारे प्राणे । सर्वभूतसंवेशनोद्गमने तु न ततो वाक्यात्प्रतीयेते । प्रतीतौ वा तत्रापि प्राणो ब्रह्मैव भवेन्न वायुविकारः । “यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति”(कौ. उ. ३ । ३) इत्यत्र वाक्ये यथा प्राणशब्दो ब्रह्मवचनः । न चास्मिन्वायुविकारे सर्वेषां भूतानां संवेशनोद्गमने मानान्तरेण दृश्येते । नच मानान्तरसिद्धसंवादेन्द्रियसंवेशनोद्गमनवाक्यदार्ढ्यात्सर्वभूतसंवेशनोद्गमनवाक्यं कथञ्चिदिन्द्रिविषयतया व्याख्यानमर्हति, स्वतःसिद्धप्रमाणभावस्य स्वभावदृढस्य मानान्तरानुपयोगात् । न चास्य तेनैकवाक्यता । एकवाक्यतायां च तदपि ब्रह्मपरमेव स्यादित्युक्तम् । इन्द्रियसंवेशनोद्गमनं त्ववयुत्यानुवादेनापि घटिष्यते, एकं वृणीते द्वौ वृणीते इतिवत् । नतु सर्वशब्दार्थः सङ्कोचमर्हति । तस्मात्प्रस्तावभक्तिं प्राणशब्दाभिधेयब्रह्मदृष्ट्योपासीत , न वायुविकारदृष्ट्येति सिद्धम् । तथा चोपासकस्य प्राणप्राप्तिः कर्मसमृद्धिर्वा फलं भवतीति ।