ज्योतिश्चरणाभिधानात् ।
इदमामनन्ति - “अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतःपृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः”(छा. उ. ३ । १३ । ७) इति ।
यज्ज्योतिरतो दिवो द्युलोकात्परं दीप्यते प्रकाशते विश्वतःपृष्ठेषु विश्वेषामुपरि । असङ्कुचद्वृत्तिरयं विश्वशब्दोऽनवयवत्वेन संसारमण्डलं ब्रूत इति दर्शयितुमाह -
सर्वतःपृष्ठेषूत्तमेषु ।
न चेदमुत्तममात्रमपितु सर्वोत्तममित्याह -
अनुत्तमेषु
नास्त्येभ्योऽन्य उत्तम इत्यर्थः । “इदं वाव तद्यदिदमस्मिन्पुरुषेऽन्तर्ज्योतिः”(छा. उ. ३ । १३ । ७) त्वग्राह्येण शारीरेणोष्मणा, श्रोत्रग्राह्येण च पिहितकर्णेन पुंसा घोषेण लिङ्गेनानुमीयते । तत्र शारीरस्योष्मणस्त्वचा दर्शनं दृष्टिः, घोषस्य च श्रवणं श्रुतिः, तयोश्च दृष्टिश्रुती ज्योतिष एव, तल्लिङ्गेन तदनुमानादिति । अत्र संशयः - किं ज्योतिःशब्दः तेज उत ब्रह्मेति । किं तावत्प्राप्तं, तेज इति । कुतः, गौणमुख्यग्रहणविषये मुख्यग्रहणस्य “औत्सर्गिकत्वाद्वाक्यस्थतेजोलिङ्गोपलम्भनात् । वाक्यान्तरेणानियमात्तदर्थाप्रतिसन्धितः” ॥ बलवद्बाधकोपनिपातेन खल्वाकाशप्राणशब्दौ मुख्यार्थत्वात्प्रच्याव्यान्यत्र प्रतिष्ठापितौ । तदिह ज्योतिष्पदस्य मुख्यतेजोवचनत्वे बाधकस्तावत्स्ववाक्यशेषो नास्ति । प्रत्युत तेजोलिङ्गमेव “दीप्यते” इति । कोक्षेयज्योतिःसारूप्यं च चक्षुष्यो रूपवान् श्रुतो विश्रुतो भवतीत्यल्पफलत्वं च स्ववाक्ये श्रूयते । न जातु ज्वलनापरनामा दीप्तिर्विना तेजो ब्रह्मणि सम्भवति । न च कौक्षेयज्योतिःसारूप्यमृते बाह्यात्तोजसो ब्रह्मण्यस्ति । न चौष्ण्यघोषलिङ्गदर्शनश्रवणमौदर्यात्तेजसोऽन्यत्र ब्रह्मण्युपपद्यते । नच महाफलं ब्रह्मोपासनमणीयसे फलाय कल्पते । औदर्ये तु तेजस्यध्यस्य बाह्यं तेज उपासनमेतत्फलानुरूपं युज्यते । तदेतत्तेजोलिङ्गम् । एतदुपोद्बलनाय च निरस्तमपि मर्यादाधारबहुत्वमुपन्यस्तं, इह तन्निरासकारणाभावात् । नच मर्यादावत्त्वं तेजोराशेर्न सम्भवति, तस्य सौर्यादेः सावयवत्वेन तदेकदेशमर्यादासम्भवात्तस्य चोपास्यत्वेन विधानात् , ब्रह्मणस्त्वनवयवस्यावयवोपासनानुपपत्तेः, अवयवकल्पनायाश्च सत्यां गतावनवकल्पनात् । नच “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि” (छा. उ. ३ । १२ । ६) इति ब्रह्मप्रतिपादकं वाक्यान्तरं, “यदतः परो दिवो ज्योतिः” (छा. उ. ३ । १३ । ७) शब्दं ब्रह्मणि व्यवस्थापयतीति युक्तम् । नहि संनिधानमात्राद्वाक्यान्तरेण वाक्यान्तरगता श्रुतिः शक्या मुख्यार्थाच्च्यावयितुम् । नच वाक्यान्तरेऽधिकरणत्वेन द्यौः श्रुता दिव इति मर्यादाश्रुतौ शक्या प्रत्यभिज्ञातुम् । अपिच वाक्यान्तरस्यापि ब्रह्मार्थत्वं प्रसाध्यमेव नाद्यापि सिध्यति, तत्कथं तेन नियन्तुं ब्रह्मपरतया “यदतः परः” इति वाक्यं शक्यम् । तस्मात्तेज एव ज्योतिर्न ब्रह्मेति प्राप्तम् । तेजःकथनप्रस्तावे तमःकथनं प्रतिपक्षोपन्यासेन प्रतिपक्षान्तरे दृढा प्रतीतिर्भवतीत्येतदर्थम् ।
चक्षुर्वृत्तेर्निरोधकमिति ।
अर्थावरकत्वेन ।
आक्षेप्ताह -
ननु कार्यस्यापीति ।
समाधातैकदेशी ब्रूते -
अस्तु तर्हीति ।
यत्तु तेजोऽबन्नाभ्यामसम्पृक्तं तदत्रिवृत्कृतमुच्यते ।
आक्षेप्ता दूषयति -
नेति ।
नहि तत्क्वचिदप्युपयुज्यते; सर्वास्वर्थक्रियासु त्रिवत्कृतस्यैवोपयोगादित्यर्थः ।
एकदेशिनः शङ्कामाह -
इदमेवेति ।
आक्षेप्ता निराकरोति -
न ।
प्रयोजनान्तरेति ।
'एकैकां त्रिवृतं त्रिवृतं करवाणि” इति तेजःप्रभृत्युपासनामात्रविषया श्रुतिर्न सङ्कोचयितुं युक्तेत्यर्थः ।
एवमेकदेशिनि दूषिते परमसमाधाता पूर्वपक्षी ब्रूते -
अस्तु तर्हि त्रिवृत्कृतमेवेति ।
भागिनी युक्ता ।
यद्यप्याधारबहुत्वश्रुतिर्ब्रह्मण्यपि कल्पितोपाधिनिबन्धना कथञ्चिदुपपद्यते, तथापि यथा कार्ये ज्योतिष्यतिशयेनोपपद्यते न तथात्रेत्यत उक्तम् -
उपपद्येततरामिति ।
प्राकृतं
प्रकृतेर्जातं, कार्यमिति यावत् । एवं प्राप्त उच्यते - “सर्वनामप्रसिद्धार्थं प्रसाध्यार्थविघातकृत् । प्रसिद्ध्यपेक्षि सत्पूर्ववाक्यस्थमपकर्षति ॥ तद्बलात्तेन नेयानि तेजोलिङ्गान्यपि ध्रुवम् । ब्रह्मण्येव प्रधानं हि ब्रह्मच्छन्दो न तत्र तु” ॥ औत्सर्गिकं तावद्यदप्रसिद्धार्थानुवादकत्वं यद्विधिविभक्तिमप्यपूर्वार्थावबोधनस्वभावात्प्रच्यावयति । यथा “यस्याहिताग्नेरग्निर्गृहान्दहेत्” “यस्योभयं हविरार्तिमार्च्छेत्”(तै.ब्रा. ३.७.१) इति । यत्र पुनस्तत्प्रसिद्धमन्यतो न कथञ्चिदाप्यते, तत्र वचनानि त्वपूर्वत्वादिति सर्वनाम्नः प्रसिद्धार्थत्वं बलादपनीयते । यथा “यदाग्नेयोऽष्टाकपालो भवति”(तै.ब्रा. २५.१४.४) इति । तदिह “यदतः परो दिवो ज्योतिः” (छा. उ. ३ । १३ । ७) इति यच्छब्दसामर्थ्यात् द्युमर्यादेनापि ज्योतिषा प्रसिद्धेन भवितव्यम् । नच तस्य प्रमाणान्तरतः प्रसिद्धिरस्ति । पूर्ववाक्ये च द्युसम्बन्धितया त्रिपाद्ब्रह्म प्रसिद्धमिति प्रसिद्ध्यपेक्षायां तदेव सम्बध्यते । नच प्रधानस्य प्रातिपदिकार्थस्य तत्त्वेन प्रत्यभिज्ञाने तद्विशेषणस्य विभक्त्यर्थस्यान्यतामात्रेणान्यता युक्ता । एवं च तद्वाक्यस्थानि तेजोलिङ्गान्यसमञ्जसानीति ब्रह्मण्येव गमयितव्यानि, गमितानि च भाष्यकृता । तत्र ज्योतिर्ब्रह्मविकार इति ज्योतिषा ब्रह्मैवोपलक्ष्यते । अथवा प्रकाशमात्रवचनो ज्योतिःशब्दः प्रकाशश्च ब्रह्मेति ब्रह्मणि मुख्य इति ज्योतिर्बह्मेति सिद्धम् ।