तदेवं स्वमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे -
अथवेति ।
पूर्वं प्राणस्यैकमुपासनमपरं जीवस्यापरं ब्रह्मण इत्युपासनात्रैविध्येन वाक्यभेदप्रसङ्गो दूषणमुक्तम् । इह तु ब्रह्मण एकस्यैवोपासात्रयविशिष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम् । तदेतदालोचनीयं कथं न वाक्यभेद इति । युक्तं “सोमेन यजेत” इत्यादौ सोमादिगुणविशिष्टयागविधानं, तद्गुणविशिष्टस्यापूर्वस्य कर्मणोऽप्राप्तस्य विधिविषयत्वात् । इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति, अभावार्थत्वात् । भावार्थस्य विधिविषयत्वनियमात् । वाक्यान्तरेभ्यश्च ब्रह्मावगतेः प्राप्तत्वात्तदनूद्याप्राप्तोपासना भावार्थो विधेयस्तस्य च भेदाद्विध्यावृत्तिलक्षणो वाक्यभेदोऽतिस्फुट इति भाष्यकृता नोद्घाटितः, स्वव्याख्यानेनैवोक्तप्रायत्वादिति सर्वमवदातम् ॥ ३१ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां प्रथमस्याध्यायस्य प्रथमः पादः ॥ १ ॥
इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः ॥