यद्यप्यपौरुषेय इति ।
शास्त्रयोनित्वेऽपीश्वरस्य पूर्वपूर्वसृष्टिरचितसन्दर्भापेक्षरचनत्वेनास्वातन्त्र्यादपौरुषेयत्वाभिधानं, तथा चास्वातन्त्र्येण विवक्षा नास्तीत्युक्तम् । परिग्रहपरित्यागौ चोपादनानुपादाने उक्ते, न तूपादेयत्वमेव । अन्यथोद्देश्यतयानुपादेयस्य ग्रहादेरविवक्षितत्वेन चमसादावपि संमार्गप्रसङ्गात् । तस्मादनुपादेयत्वेऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः । तद्गतं त्वेकत्वमवच्छेदकत्वेन वर्जितमविवक्षितम् । इच्छानिच्छे च भक्तितः ।
तदिदमुक्तम् -
वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते इति ।
यत्परं वेदवाक्यं तत्तेनोपात्तं विवक्षितम् , अतत्परेण चानुपात्तमविवक्षितमित्यर्थः ॥ २ ॥