इममेव न्यायं “द्वा सुपर्णा” (मु. उ. ३ । १ । १) इत्यत्राप्युदाहरणे कृत्वाचिन्तया योजयति -
एष एव न्याय इति ।
अत्रापि किं बुद्धिजीवौ उत जीवपरमात्मानाविति संशय्य करणरूपाया अपि बुद्धेरेधांसि पचन्तीतिवत्कर्तृत्वोपचाराद्बुद्धिजीवाविह पूर्वपक्षयित्वा सिद्धान्तयितव्यम् । सिद्धान्तश्च भाष्यकृता स्फोरितः । तद्दर्शनादिति च “समाने वृक्षे पुरुषो निमग्नः”(मु. उ. ३ । १ । २) इत्यत्र मन्त्रे ।