न खलु मुख्ये कर्तृत्वे सम्भवति करणे कर्तृत्वोपचारो युक्त इति कृत्वाचिन्तामुद्धाटयति -
अपर आह ।
सत्त्वं बुद्धिः ।
शङ्कते -
सत्त्वशब्द इति ।
सिद्धान्तार्थं ब्राह्मणं व्याचष्ट इत्यर्थः ।
निराकरोति -
तन्नेति ।
येन स्वप्नं पश्यतीति ।
येनेति करणमुपदिशति । ततश्च भिन्नं कर्तारं क्षेत्रज्ञम् ।
योऽयं शारीर उपद्रष्टेति ।
अस्तु तर्ह्यस्याधिकरणस्य पूर्वपक्षे एव ब्राह्मणार्थः,
वचनविरोधे न्यायस्याभासत्वादित्यत आह -
नाप्यस्याधिकरणस्य पूर्वपक्षं भजत इति ।
एवं हि पूर्वपक्षमस्य भजेत, यदि हि क्षेत्रज्ञे संसारिणि पर्यवस्येत । तस्य तु ब्रह्मरूपतायां पर्यवस्यन्न पूर्वपक्षमपि स्वीकरोतीत्यर्थः ।
अपिच ।
तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसत इति ।
रजोऽविद्या नाध्वंसनं संश्लेषमेवंविदि करोतीति ।
एतावतैव विद्योपसंहाराज्जीवस्य ब्रह्मात्मतापरतास्य लक्ष्यत इत्याह -
तावता चेति ।
चोदयति -
कथं पुनरिति ।
निराकरोति -
उच्यते - नेयं श्रुतिरिति ।
अनश्नन् जीवो ब्रह्माभिचाकशीतीत्युक्ते शङ्केत, यदि जीवो ब्रह्मात्मा नाश्नाति, कथं तर्ह्यस्मिन्भोक्तृत्वावगमः, चैतन्यसमानाधिकरणं हि भोक्तृत्वमवभासत इति । तन्निरासायाह श्रुतिः - “तयोरन्यः पिप्पलं स्वाद्वत्ति”(मु. उ. ३ । १ । १) इति । एतदुक्तं भवति - नेदं भोक्तृत्वं जीवस्य तत्त्वतः, अपितु बुद्धिसत्त्वं सुखादिरूपपरिणतं चितिच्छायापत्त्योपपन्नचैतन्यमिव भुङ्क्ते, नतु तत्त्वतो जीवः परमात्मा भुङ्क्ते । तदेतदध्यासाभाष्ये कृतव्याख्यानम् । तदनेन कृत्वाचिन्तोद्धाटिता ॥ १२ ॥