अनवस्थितेरसम्भवाच्च नेतरः ।
'य एषोऽक्षिणि” इति नित्यवच्छ्रुतमनित्ये छायापुरुषे नावकल्पते । कल्पनागौरवं चास्मिन्पक्षे प्रसज्यत इत्याह -
न चोपासनाकाल इति ।
तथा विज्ञानात्मनोऽपीति ।
विज्ञानात्मनो हि न प्रदेशे उपासनाऽन्यत्र दृष्टचरी, ब्रह्मणस्तु तत्र श्रुतपूर्वेत्यर्थः । मिषा भिया । अस्मात् ब्रह्मणः । शेषमतिरोहितार्थम् ॥ १७ ॥