अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात् ।
'स्वकर्मोपार्जितं देहं तेनान्यच्च नियच्छति । तक्षादिरशरीरस्तु नात्मान्तर्यमितां भजेत्” ॥ १ ॥ प्रवृत्तिनियमलक्षणं हि कार्यं चेतनस्य शरीरिणः स्वशरीरेन्द्रियादौ वा शरीरेण वा वास्यादौ दृष्टं नाशरीरस्य ब्रह्मणो भवितुमर्हति । नहि जातु वटाङ्कुरः कुटजबीजाज्जायते । तदनेन “जन्माद्यस्य यतः”(ब्र.सू. १-१-२) इत्येदप्याक्षिप्तं वेदितव्यम् । तस्मात्परमात्मनः शरीरेन्द्रियादिरहितस्यान्तर्यामित्वाभावात् , प्रधानस्य वा पृथिव्याद्यभिमानवत्या देवताया वाणिमाद्यैश्वर्ययोगिनो योगिनो वा जीवात्मनो वान्तर्यामिता स्यात् । तत्र यद्यपि प्रधानस्यादृष्टत्वाश्रुतत्वामतत्वविज्ञातत्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टृत्वश्रोतृत्वमन्तृत्वविज्ञातृत्वानां श्रुतानामभावात् , अनात्मत्वाच्च “एष त आत्मा”(बृ. उ. ३ । ७ । ३) इति श्रुतेरनुपपत्तेर्न प्रधानस्यान्तर्यामिता । यद्यपि पृथिव्याद्यभिमानिनो देवस्यात्मत्वमस्ति, अदृष्टत्वादयश्च सह दृष्टृत्वादिभिरुपपद्यन्ते, शरीरेन्द्रियादियोगाच्च, “पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिः”(बृ. उ. ३ । ९ । १०) इत्यादिश्रुतेः, तथापि तस्य प्रतिनियतनियमनात् “यः सर्वांल्लोकानन्तरो यमयति यः सर्वाणि भूतान्यन्तरो यमयति”(बृ. उ. ३ । ७ । १) इति श्रुतिविरोधादनुपपत्तेः, योगी तु यद्यपि लोकभूतवशितया सर्वांल्लोकान्सर्वाणि च भूतानि नियन्तुमर्हति तत्र तत्रानेकविधदेहेन्द्रियादिनिर्माणेन “स एकधा भवति त्रिधा भवति” (छा. उ. ७ । २६ । २) इत्यादिश्रुतिभ्यः, तथापि “जगद्व्यापारवर्जं प्रकरणात्” (ब्र.सू. ४-४-१७) इति वक्ष्यमाणेन न्यायेन विकारविषये विद्यासिद्धानां व्यापारभावात्सोऽपि नान्तर्यामी । तस्मात्पारिशेष्याज्जीव एव चेतनो देहेन्द्रियादिमान् दृष्टृत्वादिसम्पन्नः स्वयमदृश्यादिः स्वात्मनि वृत्तिविरोधात् । अमृतश्च, देहेन्द्रियादिनाशेऽप्यनाशात् । अन्यथामुष्मिकफलोपभोगाभावेन कृतविप्रणाशाकृताभ्यागमप्रसङ्गात् । “य आत्मनि तिष्ठन्” इति चाभेदेऽपि कथञ्चिद्भेदोपचारात् “स भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि”(छा. उ. ७ । २४ । १) इतिवत् । “यमात्मा न वेद” इति च स्वात्मनि वृत्तिविरोधाभिप्रायम् । “यस्यात्मा शरीरम्” इत्यादि च सर्वं “स्वे महिम्नि” इतिवद्योजनीयम् । यदि पुनरात्मनोऽपि नियन्तुरन्यो नियन्ता भवेत् वेदिता वा ततस्तस्याप्यन्य इत्यनवस्था स्यात् । सर्वलोकभूतनियन्तृत्वं च जीवस्यादृष्टद्वारा । तदुपार्जितौ हि धर्माधर्मौ नियच्छत इत्यनया द्वारा जीवो नियच्छति । एकवचनं च जात्यभिप्रायम् । तस्माज्जीवात्मैवान्तर्यामी, न परमात्मेति । एवं प्राप्तेऽभिधीयते - “देहेन्द्रियादिनियमे नास्य देहेन्द्रियान्तरम् । तत्कर्मोपार्जितं तच्चेत्तदविद्यार्जितं जगत्” ॥ श्रुतिस्मृतीतिहासपुराणेषु तावदत्रभवतः सर्वज्ञस्य सर्वशक्तेः परमेश्वरस्य जगद्योनित्वमवगम्यते । न तत्पृथग्जनसाधाण्यानुमानाभासेनागमविरोधिना शक्यमपह्नोतुम् । तथाच सर्वं विकारजातं तदविद्याशक्तिपरिणामस्तस्य शरीरेन्द्रियस्थाने वर्तत इति यथायथं पृथिव्यादिदेवतादिकार्यकरणैस्तानेव पृथिव्यादिदेवतादीञ्छक्नोति नियन्तुम् । न चानवस्था । नहि नियन्त्रन्तरं तेन नियम्यते, किन्तु यो जीवो नियन्ता लोकसिद्धः स परमात्मैवोपाध्यवच्छेदकल्पितभेदस्तथा व्याख्यायत इत्यसकृदावेदितं, तत्कुतो नियन्त्रन्तरं कुतश्चानवस्था । तथाच “नान्योऽतोऽस्ति द्रष्टा” (बृ. उ. ३ । ७ । २३) इत्याद्या अपि श्रुतय उपपन्नार्थाः । परमार्थतोऽन्तर्यामिणोऽन्यस्य जीवात्मनो द्रष्टुरभावात् । अविद्याकल्पितजीवपरमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रुतयः, प्रत्यक्षादीनि प्रमाणानि, संसारानुभवः, विधिनिषेधशास्त्राणि च । एवं चाधिदैवादिष्वेकस्यैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति, “यः सर्वांल्लोकान्”(बृ. उ. ३ । ७ । १) “यः सर्वाणि भूतानि” इत्यत्र य इत्येकवचनमुपपद्यते । अमृतत्वं च परमात्मनि समञ्जसं नान्यत्र । “य आत्मनि तिष्ठन्” इत्यादौ चाभेदेऽपि भेदोपचारक्लेशो न भविष्यति । तस्मात्परमात्मान्तर्यामी न जीवादिरिति सिद्धम् । पृथिव्यादि स्तनयित्न्वन्तमधिदैवम् । “यः सर्वेषु लोकेषु” इत्याधिलोकम् । “यः सर्वेषु वेदेषु” इत्यधिवेदम् । “यः सर्वेषु यज्ञेषु” इत्यधियज्ञम् । “यः सर्वेषु भूतेषु” इत्यधिभूतम् । प्राणाद्यात्मान्तमध्यात्मम् । संज्ञाया अप्रसिद्धत्वादित्युपक्रममात्रं पूर्वः पक्षः ॥ १८ ॥॥ १९ ॥