साक्षादप्यविरोधं जैमिनिः ।
यदेतत्प्रकृतं मूर्धादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवान् सम्पाद्य पुरुषविधत्वं कल्पितं तदभिप्रायेणेदमुच्यते “पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद” (श. ब्रा. १० । ६ । १ । ११) इति । अत्रावयवसम्पत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूर्धादिचुबुकान्तःप्रतिष्ठानाच्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायमध्यपतितत्वात्तदवयवानां समुदायिनाम् ।
अत्रैव निदर्शनमाह -
यथा वृक्षे शाखामिति ।
शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः ।
समाधानान्तरमाह -
अथवेति ।
अन्तःप्रतिष्ठत्वं माध्यस्थ्यं तेन साक्षित्वं लक्षयति । एतदुक्तं भवति - वैश्वानरःपरमात्मा चराचरसाक्षीति ।
पूर्वपक्षिणोऽनुशयमुन्मूलयति -
निश्चिते चेति ।
विश्वात्मकत्वात् वैश्वानरः प्रत्यागात्मा । विश्वेषां वायं नरः, तद्विकारत्वाद्विश्वप्रपञ्चस्य । विश्वे नरा जीवा वात्मानोऽस्य तादात्म्येनेति ॥ २८ ॥