इतरपरामर्शात्स इति चेन्नासम्भवात् ।
सम्यक् प्रसीदत्यस्मिन् जीवो विषयेन्द्रियसंयोगजनितं कालुष्यं जहातीति सुषुप्तिः सम्प्रसादो जीवस्यावस्थाभेदः न ब्रह्मणः तथा शरीरात्समुत्थानमपि शरीराश्रयस्य जीवस्य, नत्वनाश्रयस्य ब्रह्मणः । तस्माद्यथा पूर्वोक्तैर्वाक्यशेषगतैर्लिङ्गैर्ब्रह्मावगम्यते दहराकाशः, एवं वाक्यशेषगताभ्यामेव सम्प्रसादसमुत्थानाभ्यां दहराकाशो जीवः कस्मान्नावगम्यते । तस्मान्नास्ति विनिगमनेति शङ्कार्थः । “नासम्भवात्”(ब्र. सू. १ । ३ । १८) । सम्प्रसादसमुत्थनाभ्यां हि जीवपरामर्शो न जीवपरः, किन्तु तदीयतात्त्विकरूपब्रह्मभावपरः । तथा चैष परामर्शो ब्रह्मण एवेति न सम्प्रसादसमुत्थाने जीवलिङ्गम् , अपि तु ब्रह्मण एव तादर्थ्यादित्यग्रे वक्ष्यते । आकाशोपमानादयस्तु ब्रह्माव्यभिचारिणश्च ब्रह्मपराश्चेत्यस्ति विनिगमनेत्यर्थः ॥ १८ ॥