ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
इतरपरामर्शाद्या जीवाशङ्का जाता, सा असम्भवान्निराकृताअथेदानीं मृतस्येवामृतसेकात् पुनः समुत्थानं जीवाशङ्कायाः क्रियतेउत्तरस्मात्प्राजापत्याद्वाक्यात्तत्र हि आत्मापहतपाप्माइत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं प्रतिज्ञाय, एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा’ (छा. उ. ८ । ७ । ४) इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशतिएतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति तमेव पुनः पुनः परामृश्य, एष स्वप्ने महीयमानश्चरत्येष आत्मा’ (छा. उ. ८ । १० । १) इति तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं विजानात्येष आत्मा’ (छा. उ. ८ । ११ । १) इति जीवमेवावस्थान्तरगतं व्याचष्टेतस्यैव चापहतपाप्मत्वादि दर्शयति — ‘एतदमृतमभयमेतद्ब्रह्मइतिनाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि’ (छा. उ. ८ । ११ । २) इति सुषुप्तावस्थायां दोषमुपलभ्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इति चोपक्रम्य, शरीरसम्बन्धनिन्दापूर्वकम्एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते उत्तमः पुरुषःइति जीवमेव शरीरात्समुत्थितमुत्तमं पुरुषं दर्शयतितस्मादस्ति सम्भवो जीवे पारमेश्वराणां धर्माणाम्अतःदहरोऽस्मिन्नन्तराकाशःइति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात्; तं प्रति ब्रूयात् — ‘आविर्भूतस्वरूपस्तुइतितुशब्दः पूर्वपक्षव्यावृत्त्यर्थःनोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सम्भवतीत्यर्थःकस्मात् ? यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यतेआविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः; भूतपूर्वगत्या जीववचनम्एतदुक्तं भवति — ‘ एषोऽक्षिणिइत्यक्षिलक्षितं द्रष्टारं निर्दिश्य, उदशरावब्राह्मणेन एनं शरीरात्मताया व्युत्थाप्य, ‘एतं त्वेव तेइति पुनः पुनस्तमेव व्याख्येयत्वेनाकृष्य, स्वप्नसुषुप्तोपन्यासक्रमेणपरं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यतेइति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म, तद्रूपतयैनं जीवं व्याचष्टे; जैवेन रूपेणयत् परं ज्योतिरुपसम्पत्तव्यं श्रुतम् , तत्परं ब्रह्मतच्चापहतपाप्मत्वादिधर्मकम्तदेव जीवस्य पारमार्थिकं स्वरूपम् — ‘तत्त्वमसिइत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम्यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानम्अहं ब्रह्मास्मिइति प्रतिपद्यते, तावज्जीवस्य जीवत्वम्यदा तु देहेन्द्रियमनोबुद्धिसङ्घाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहेन्द्रियमनोबुद्धिसङ्घातः, नासि संसारी; किं तर्हि ? — तद्यत्सत्यं आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीतितदा कूटस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुध्य अस्माच्छरीराद्यभिमानात्समुत्तिष्ठन् एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति यो वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादिश्रुतिभ्यःतदेव चास्य पारमार्थिकं स्वरूपम् , येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यतेकथं पुनः स्वं रूपं स्वेनैव निष्पद्यत इति सम्भवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्यान्तरसम्पर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात्तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् तु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः सम्भवति असंसर्गित्वात् व्योम्न इवदृष्टविरोधाच्चदृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम्तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यतेसर्वो हि जीवः पश्यन् शृण्वन् मन्वानो विजानन्व्यवहरति, अन्यथा व्यवहारानुपपत्तेःतच्चेत् शरीरात्समुत्थितस्य निष्पद्येत, प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येतअतः किमात्मकमिदं शरीरात्समुत्थानम् , किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरितित्रोच्यतेप्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवतियथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति; प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन स्वेन रूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन्; तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम् , विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिःतथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं मन्त्रवर्णात् अशरीरं शरीरेषु’ (क. उ. १ । २ । २२) इति, शरीरस्थोऽपि कौन्तेय करोति लिप्यते’ (भ. गी. १३ । ३१) इति सशरीरत्वाशरीरत्वविशेषाभावस्मरणात्तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते त्वन्यादृशौ आविर्भावानाविर्भावौ स्वरूपस्य सम्भवतः, स्वरूपत्वादेवएवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदः, वस्तुकृतः; व्योमवदसङ्गत्वाविशेषात्कुतश्चैतदेवं प्रतिपत्तव्यम् ? यतः एषोऽक्षिणि पुरुषो दृश्यतेइत्युपदिश्यएतदमृतमभयमेतद्ब्रह्मइत्युपदिशतियोऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते, सोऽमृताभयलक्षणाद्ब्रह्मणोऽन्यश्चेत्स्यात् , ततोऽमृताभयब्रह्मसामानाधिकरण्यं स्यात्नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात्तथा द्वितीयेऽपि पर्याये एष स्वप्ने महीयमानश्चरतिइति प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामिइत्युपक्रमात्किञ्चअहमद्य स्वप्ने हस्तिनमद्राक्षम् , नेदानीं तं पश्यामिइति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टेद्रष्टारं तु तमेव प्रत्यभिजानाति — ‘ एवाहं स्वप्नमद्राक्षम् , एवाहं जागरितं पश्यामिइतितथा तृतीयेऽपि पर्याये — ‘नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानिइति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति, विज्ञातारं प्रतिषेधतियत्तु तत्रविनाशमेवापीतो भवतिइति, तदपि विशेषविज्ञानविनाशाभिप्रायमेव, विज्ञातृविनाशाभिप्रायम्; हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) इति श्रुत्यन्तरात्तथा चतुर्थेऽपि पर्यायेएतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्इत्युपक्रम्यमघवन् मर्त्यं वा इदं शरीरम्इत्यादिना प्रपञ्चेन शरीराद्युपाधिसम्बन्धप्रत्याख्यानेन सम्प्रसादशब्दोदितं जीवम्स्वेन रूपेणाभिनिष्पद्यतेइति ब्रह्मस्वरूपापन्नं दर्शयन् , परस्माद्ब्रह्मणोऽमृताभयस्वरूपादन्यं जीवं दर्शयतिकेचित्तु परमात्मविवक्षायाम्एतं त्वेव तेइति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयोऽनुव्याख्यास्यामीति कल्पयन्तितेषाम्एतम्इति सन्निहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येतभूयःश्रुतिश्चोपरुध्येतपर्यायान्तराभिहितस्य पर्यायान्तरेऽनभिधीयमानत्वात् । ‘एतं त्वेव तेइति प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येततस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि, तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पादिविलयनेनेव रज्ज्वादीन्अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्तेऽस्मदीयाश्च केचित्तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिषेधायेदं शारीरकमारब्धम्एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया, मायया मायाविवत् , अनेकधा विभाव्यते, नान्यो विज्ञानधातुरस्तीतित्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारःनासम्भवात्’ (ब्र. सू. १ । ३ । १८) इत्यादिना, तत्रायमभिप्रायःनित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम्; तत् आत्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीतिपरमात्मनो जीवादन्यत्वं द्रढयतिजीवस्य तु परस्मादन्यत्वं प्रतिपिपादयिषतिकिं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम्एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो विरुध्यन्त इति मन्यतेप्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयतिशास्त्रदृष्ट्या तूपदेशो वामदेववत्’ (ब्र. सू. १ । १ । ३०) इत्यादिनावर्णितश्चास्माभिः विद्वदविद्वद्भेदेन कर्मविधिविरोधपरिहारः ॥ १९ ॥

उत्तराच्चेदाविर्भूतस्वरूपस्तु ।

दहराकाशमेव प्रकृत्योपाख्यायते - यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् , तमात्मानं विविदिषन्तौ सुरासुरराजविन्द्रविरोचनौ समित्पाणी प्रजापतिं वरिवसितुमाजग्मतुः । आगत्य च द्वात्रिंशतं वर्षाणि तत्परिचरणपरौ ब्रह्मचर्यमूषतुः । अथैतौ प्रजापतिरुवाच, किङ्कामाविहस्थौ युवामिति । तावूचतुः, य आत्मापहतपाप्मा तमावां विविदिषाव इति । ततः प्रजापतिरुवाच, य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मापहतपाप्मत्वादिगुणः, यद्विज्ञानात्सर्वलोककामावाप्तिः । एतदमृतमभयम् । अथैतच्छुत्वैतावप्रक्षीणकल्मषावरणतया छायापुरुषं जगृहतुः । प्रजापतिं च पप्रच्छतुः, अथ योऽयं भगवोऽप्सु दृश्यते, यश्चादर्शे, यश्च स्वङ्गादौ कतम एतेष्वसौ अथवैक एव सर्वेष्विति । तमेतयोः श्रुत्वा प्रश्नं प्रजापतिर्बताहो सुदूरमुद्भ्रान्तावेतौ, अस्माभिरक्षिस्थान आत्मोपदिष्टः, एतौ च छायापुरुषं प्रतिपन्नौ, तद्यदि वयं भ्रान्तौ स्थ इति ब्रूमस्ततः स्वात्मनि समारोपितपाण्डित्यबहुमानौ विमानितौ सन्तौ दौर्मनस्येन यथावदुपदेशं न गृह्णीयाताम् , इत्यनयोराशयमनुरुध्य यथार्थं ग्राहयिष्याम इत्यभिसन्धिमान्प्रत्युवाच, उदशराव आत्मानमवेक्षेथामस्मिन्यत्पश्यथस्तद्ब्रूतमिति । तौ च दृष्ट्वा सन्तुष्टहृदयौ नाब्रूताम् । अथ प्रजापतिरेतौ विपरीतग्राहिणौ मा भूतामित्याशयवान्पप्रच्छ, किमत्रापश्यतामिति । तौ होचतुः, यथैवावमतिचिरब्रह्मचर्यचरणसमुपजातायतनखलोमादिमन्तावेवमावयोः प्रतिरूपकं नखलोमादिमदुदशरावेऽपश्यावेति । पुनरेतयोश्छायात्मविभ्रममपनिनीषुर्यथैव हि छायापुरुष उपजनापायधर्माभेदेनावगम्यमान आत्मलक्षणविरहान्नात्मैवेवमेवेदं शरीरं नात्मा, किन्तु ततो भिन्नमित्यन्वयव्यतिरेकाभ्यामेतौ जानीयातामित्याशयवान् प्रजापतिरुवाच, साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा पुनरुदशरावे पश्यतमात्मानं, यच्चात्र पश्यथस्तद्ब्रूतमिति । तौ च साध्वलङ्कृतौ सुवसनौ छिन्ननखलोमानौ भूत्वा तथैव चक्रतुः । पुनश्च प्रजापतिनापृष्टौ तामेव छायामात्मानमूचतुः । तदुपश्रुत्य प्रजापतिरहो बताद्यापि न प्रशान्त एनयोर्विभ्रमः, तद्यथाभिमतमेवात्मतत्त्वं कथयामि तावत् । कालेन कल्मषे क्षीणेऽस्मद्वचनसन्दर्भपौर्वापर्यलोचनयात्मतत्त्वं प्रतिपत्स्येते स्वयमेवेति मत्वोवाच, एष आत्मैतदमृतमभयमेतद्ब्रह्मेति । तयोर्विरोचनो देहानुपातित्वाच्छायाया देह एवात्मतत्त्वमिति मत्वा निजसदनमागत्य तथैवासुरानुपदिदेश । देवेन्द्रस्त्वप्राप्तनिजसदनोऽध्वन्येव किञ्चिद्विरलकल्मषतया छायात्मनि शरीरगुणदोषानुविधायिनि तं तं दोषं परिभावयन्नाहमत्र छायात्मदर्शने भोग्यं पश्यामीति प्रजापतिसमीपं समित्पाणिः पुनरेवेवायम् । आगतश्च प्रजापतिनागमनकारणं पृष्टः पथि परिभावितं जगाद । प्रजापतिस्तु सुव्याख्यातमप्यात्मतत्त्वमक्षीणकल्मषावरणतया नाग्रहीः, तत्पुनरपि तत्प्रक्षयाया चरापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यं, अथ प्रक्षीणकल्मषाय ते अहमेतमेवात्मानं भूयोऽनुव्याख्यास्यामीत्यवोचत् । स च तथा चरितब्रह्मचर्यः सुरेन्द्रः प्रजापतिमुपससाद । उपपन्नाय चास्मै प्रजापतिर्व्याचष्टे, य आत्मापहतपाप्मादिलक्षणोऽक्षण दर्शितः सोऽयं य एष स्वप्ने महीयमानो वनितादिभिरनेकधा स्वप्नोपभोगान् भुञ्जानो विरहतीति । अस्मिन्नपि देवेन्द्रो भयं ददर्श । यद्यप्ययं छायापुरुषवन्न शरीरधर्माननुपतति, तथापि शोकभयादिविविधबाधानुभवान्न तत्राप्यस्ति स्वस्तिप्राप्तिरित्युक्तवति मघवति पुनरपराणि चर द्वात्रिंशतं वर्षाणि स्वच्छं ब्रह्मचर्यमिदानीमप्यक्षीणकल्मषोऽसीत्यूचे प्रजापतिः । अथास्मिन्नेवंकारमुपसन्ने मघवति प्रजापतिरुवाच, य एष आत्मापहतपाप्मादिगुणो दर्शितोऽक्षिणि च स्वप्ने च स एष यो विषयेन्द्रियसंयोगविरहात्प्रसन्नः सुषुप्तावस्थायामिति । अत्रापि नेन्द्रो निर्ववार । यथा हि जाग्रद्वा स्वप्नगतो वायमहमस्मीति इमानि भूतानि चेति विजानाति नैवं सुषुप्तः किञ्चिदपि वेदयते, तदा खल्वयमचेतयमानोऽभावं प्राप्त इव भवति । तदिह का निर्वृत्तिरिति । एवमुक्तवति मघवति बताद्यापि न ते कल्मषक्षयोऽभूत् । तत्पुनरपराणि चर पञ्च वर्षाणि ब्रह्मचर्यमित्यवोचत्प्रजापतिः । तदेवमस्य मघोनस्त्रिभिः पर्यायैर्व्यतीयुः षण्णवतिवर्षाणि । चतुर्थे च पर्याये पञ्च वर्षाणीत्येकोत्तरं शतं वर्षाणि ब्रह्मचर्यं चरतः सहस्राक्षस्य सम्पेदिरे । अथास्मै ब्रह्मचर्यसम्पदुन्मृदितकल्मषाय मघवते य एषोऽक्षिणि यश्च स्वप्ने यश्च सुषुप्ते अनुस्यूत एष आत्मापहतपाप्मादिगुणको दर्शितः, तमेव “मघवन्मर्त्यं वै शरीरम्”(छा. उ. ८ । १२ । १) इत्यादिना विस्पष्टं व्याचष्टे प्रजापतिः । अयमस्याभिसन्धिः - यावत्किञ्चित्सुखं दुःखमागमापायि तत्सर्वं शरीरेन्द्रियान्तःकरणसम्बन्धि, न त्वात्मनः । स पुनरेतानेव शरीरादीननाद्यविद्यावासनावशादात्मत्वेनाभिप्रतीतस्तद्गतेन सुखदुःखेन तद्वन्तमात्मानमभिमन्यमानोऽनुतप्यते । यदा त्वयमपहतपाप्मत्वादिलक्षणमुदासीनमात्मानं देहादिभ्यो विविक्तमनुभवति, अथास्य शरीरवतोऽप्यशरीरस्य न देहादिधर्मसुखदुःखप्रसङ्गोऽस्तीति नानुतप्यते, केवलमयं निजे चैतन्यानन्दघने रूपे व्यवस्थितः समस्तलोककामान् प्राप्तो भवति । एतस्यैव हि परमानन्दस्य मात्राः सर्वे कामाः । दुःखं त्वविद्यानिर्माणमिति न विद्वानाप्नोति । “अशीलितोपनिषदां व्यामोह इह जायते । तेषामनुग्रहायेदमुपाख्यानमवर्तयम्” ॥ एवं व्यवस्थित उत्तराद्वाक्यसन्दर्भात्प्राजापत्यात् अक्षिणि च स्वप्ने सुषुप्ते च चतुर्थे च पर्याये “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय”(छा. उ. ८ । ३ । ४) इति जीवात्मैवापहतपाप्मादिगुणः श्रुत्योच्यते । नो खलु परस्याक्षिस्थानं सम्भवति । नापि स्वप्नाद्यवस्थायोगः । नापि शरीरात्समुत्थानम् । तस्माद्यस्यैतत्सर्वं सोऽपहतपाप्मादिगुणः श्रुत्योक्तः । जीवस्य चैतत्सर्वमिति स एवापहतपाप्मादिगुणः श्रुत्योक्त इति नापहतपाप्मादिभिः परं ब्रह्म गम्यते । ननु जीवस्यापहतपाप्मत्वादयो न सम्भवन्तीत्युक्तम् । वचनाद्भविष्यति । किमिव वचनं न कुर्यात् । नास्ति वचनस्यातिभारः । नच मानान्तरविरोधः । नहि जीवः पाप्मादिस्वभावः, किन्तु वाग्बुद्धिशरीरारम्भसम्भवोऽस्य पाप्मादिः शरीराद्यभावे न भवति धूम इव धूमध्वजाभाव इति शङ्कार्थः ।

निराकरोति -

तं प्रति ब्रूयात् आविर्भूतस्वरूपस्तु ।

अयमभिसन्धिः - पौर्वापर्यालोचनया तावदुपनिषदां शुद्धबुद्धमुक्तमेकमप्रपञ्चं ब्रह्म तदतिरिक्तं च सर्वं तद्विवर्तो रज्जोरिव भुजङ्ग इत्यत्र तात्पर्यमवगम्यते । तथाच जीवोऽप्यविद्याकल्पितदेहेन्द्रियाद्युपहितं रूपं ब्रह्मणो न तु स्वाभाविकः । एवं च नापहतपाप्मत्वादयस्तस्मिन्नविद्योपाधौ सम्भविनः । आविर्भूतब्रह्मरूपे तु निरुपाधौ सम्भवन्तो ब्रह्मण एव न जीवस्य । एवं च ब्रह्मैवापहतपाप्मादिगुणं श्रुत्युक्तमिति तदेव दहराकाशो न जीव इति ।

स्यादेतत् । स्वरूपाविर्भावे चेद्ब्रह्मैव न जीवः, तर्हि विप्रतिषिद्धमिदमभिधीयते जीव आविर्भूतस्वरूप इति, अत आह -

भूतपूर्वगत्येति ।

उदशरावब्राह्मणेनेति ।

यथैव हि मघोनः प्रतिबिम्बान्युदशराव उपजनापायधर्मकाण्यात्मलक्षणविरहान्नात्मा, एवं देहेन्द्रियाद्यप्युपजनापायधर्मकं नात्मेत्युदशरावदृष्टान्तेन शरीरात्मताया व्युत्थानं बाध इति ।

चोदयति -

कथं पुनः स्वं च रूपमिति ।

द्रव्यान्तरसंसृष्टं हि तेनाभिभूतं तस्माद्विविच्यमानं व्यज्यते हेमतारकादि । कूटस्थनित्यस्य पुनरन्येनासंसृष्टस्य कुतो विवेचनादभिव्यक्तिः । नच संसारावस्थायां जीवोऽनभिव्यक्तः । दृष्ट्यादयो ह्यस्य स्वरूपं, ते च संसारावस्थायां भासन्त इति कथं जीवरूपं न भासत इत्यर्थः ।

परिहरति -

प्राग्विवेकज्ञानोत्पत्तेरिति ।

अयमर्थः - यद्यप्यस्य कूटस्थनित्यस्यान्यसंसर्गो न वस्तुतोऽस्ति, यद्यपि च संसारावस्थायामस्य दृष्ट्यादिरूपं चकास्ति, तथाप्यनिर्वाच्यानाद्यविद्यावशादविद्याकल्पितैरेव देहेन्द्रियादिभिरसंसृष्टमपि संसृष्टमिव विविक्तमप्यविविक्तमिव दृष्ट्यादिरूपमस्य प्रथते । तथाच देहेन्द्रियादिगतैस्तापादिभिस्तापादिमदिव भवतीति । उपपादितं चैतद्विस्तरेणाध्यासभाष्य इति नेहोपपाद्यते । यद्यपि स्फटिकादयो जपाकुसुमादिसंनिहिताः, संनिधानं च संयुक्तसंयोगात्मकं, तथा च संयुक्ताः, तथापि न साक्षाज्जपादिकुसुमसंयोगिन इत्येतावता दृष्टान्तिता इति । वेदना हर्षभयशोकादयः ।

दार्ष्टान्तिके योजयति -

तथा देहादीति ।

'सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इत्येतद्विभजते -

श्रुतिकृतं विवेकविज्ञानमिति ।

तदनेन श्रवणमननध्यानाभ्यासाद्विवेकविज्ञानमुक्त्वा तस्य विवेकविज्ञानस्य फलं केवलात्मरूपसाक्षात्कारः स्वरूपेणाभिनिष्पत्तिः, स च साक्षात्कारो वृत्तिरूपः प्रपञ्चमात्रं प्रविलापयन् स्वयमपि प्रपञ्चरूपत्वात्कतकफलवत्प्रविलीयते । तथाच निर्मृष्टनिखिलप्रपञ्चजालमनुपसर्गमपराधीनप्रकाशमात्मज्योतिः सिद्धं भवति । तदिदमुक्तम् - परं ज्योतिरुपसम्पद्येति । अत्र चोपसम्पत्तावुत्तरकालायामपि क्त्वाप्रयोगो मुखं व्यादाय स्वपितीतीवन्मन्तव्यः ।

यदा च विवेकसाक्षात्कारः शरीरात्समुत्थानं, न तु शरीरापादानकं गमनम् , तदा तत्सशरीरस्यापि सम्भवति प्रारब्धकार्यकर्मक्षयस्य पुरस्तादित्याह -

तथा विवेकाविवेकमात्रेणेति ।

न केवलं “स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इत्यादिश्रुतिभ्यो जीवस्य परमात्मनोऽभेदः, प्राजापत्यवाक्यसन्दर्भपर्यालोचनयाप्येवमेव प्रतिपत्तव्यमित्याह -

कुतश्चैतदेवं प्रतिपत्तव्यमिति ।

स्यादेतत् । प्रतिच्छायात्मवज्जीवं परमात्मनो वस्तुतो भिन्नमप्यमृताभयात्मत्वेन ग्राहयित्वा पश्चात्परमात्मानमृताभयादिमन्तं प्रजापतिर्ग्राह्यति, न त्वयं जीवस्य परमात्मभावमाचष्टे छायात्मन इवेत्यत आह -

नापि प्रतिच्छायात्मायमक्षिलक्षित इति ।

अक्षिलक्षितोऽप्यात्मैवोपदिश्यते न छायात्मा । तस्मादसिद्धो दृष्टान्त इत्यर्थः ।

किञ्च द्वितीयादिष्वपि पर्यायेषु “एतं त्वेव ते भूयोऽनुव्याख्यास्यामि” (छा. उ. ८ । ९ । ३) इत्युपक्रमात्प्रथमपर्यायनिर्दिष्टो न छायापुरुषः, अपि तु ततोऽन्यो दृष्टात्मेति दर्शयति, अन्यथा प्रजापतेः प्रतारकत्वप्रसङ्गादित्यत आह -

तथा द्वितीयेऽपीति ।

अथ छायापुरुष एव जीवः कस्मान्न भवति । तथाच छायापुरुष एवैतमिति परामृश्यत इत्यत आह -

किञ्चाहमद्य स्वप्ने हस्तिनमिति ।

किञ्चेति समुच्चयाभिधानं पूर्वोपपत्तिसाहित्यं ब्रूते, तच्च शङ्कानिराकरणद्वारेण । छायापुरुषोऽस्थायी, स्थायी चायमात्मा चकास्ति, प्रत्यभिज्ञानादित्यर्थः ।

न हि खल्वयमेवमिति ।

अयं सुषुप्तः । सम्प्रति सुषुप्तावस्थायाम् । अहमात्मानमहङ्कारास्पदमात्मानम् । न जानाति ।

केन प्रकारेण न जानातीत्यत आह -

अयमहमस्मीमानि भूतानि चेति ।

यथा जागृतौ स्वप्ने चेति । “न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्”(बृ. उ. ४ । ३ । ३०) इत्यनेनाविनाशित्वं सिद्धवद्धेतुकुर्वता सुप्तोत्थितस्यात्मप्रत्यभिज्ञानमुक्तम् , य एवाहं जागरित्वा सुप्तः स एवैतर्हि जागर्मीति ।

आचार्यदेशीयमतमाह -

केचित्त्विति ।

यदि ह्येतमित्यनेनानन्तरोक्तं चक्षुरधिष्ठानं पुरुषं परामृश्य तस्यात्मत्वमुच्येत ततो न भवेच्छायापुरुषः । न त्वेतदस्ति । वाक्योपक्रमसूचितस्य परमात्मनः परामर्शात् । न खलु जीवात्मनोऽपहतपाप्मत्वादिगुणसम्भव इत्यर्थः ।

तदेतद्दूषयति -

तेषामेतमिति ।

सुबोधम् ।

मतान्तरमाह -

अपरे तु वादिन इति ।

यदि न जीवः कर्ता भोक्ता च वस्तुतो भवेत् , ततस्तदाश्रयाः कर्मविधय उपरुध्येरन् । सूत्रकारवचनं च “नासम्भवात्”(ब्र. सू. १ । ३ । १८) इति कुप्येत । तत्खलु ब्रह्मणो गुणानां जीवेऽसम्भवमाह । न चाभेदे ब्रह्मणो जीवानां ब्रह्मगुणानामसम्भवो जीवेष्विति तेषामभिप्रायः । तेषां वादिनां शारीरकेणैवोत्तरं दत्तम् । तथाहि - पौर्वापर्यपर्यालोचनया वेदान्तानामेकमद्वयमात्मतत्त्वं, जीवास्त्वविद्योपधानकल्पिता इत्यत्र तात्पर्यमवगम्यते । नच वस्तुसतो ब्रह्मणो गुणाः समारोपितेषु जीवेषु सम्भवन्ति । नो खलु वस्तुसत्या रज्ज्वा धर्माः सेव्यत्वादयः समारोपिते भुजङ्गे सम्भविनः । नच समारोपितो भुजङ्गो रज्ज्वा भिन्नः । तस्मान्न सूत्रव्याकोपः । अविद्याकल्पितं च कर्तृत्वभोक्तृत्वं यथालोकसिद्धमुपाश्रित्य कर्मविधयः प्रवृत्ताः, श्येनादिविधय इव निषिद्धेऽपि “न हिंस्यात्सर्वा भूतानि” इति साध्यांशेऽभिचारेऽतिक्रान्तनिषेधं पुरुषमाश्रित्याविद्यावत्पुरुषाश्रयत्वाच्छास्त्रस्येत्युक्तम् ।

तदिदमाह -

तेषां सर्वेषामिति ॥ १९ ॥