ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
अत एव च नित्यत्वम् ॥ २९ ॥
स्वतन्त्रस्य कर्तुरस्मरणादिभिः स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्यअतः प्रभवात्इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयतिअत एव नित्यत्वमितिअत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दनित्यत्वमपि प्रत्येतव्यम्तथा मन्त्रवर्णःयज्ञेन वाचः पदवीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्’ (ऋ. सं. १० । ७ । ३) इति स्थितामेव वाचमनुविन्नां दर्शयतिवेदव्यासश्चैवमेव स्मरति — ‘युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयःलेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवाइति ॥ २९ ॥

अत एव च नित्यत्वम् ।

ननु प्राच्यामेव मीमांसायां वेदस्य नित्यत्वं सिद्धं तत्किं पुनः साध्यत इत्यत आह -

स्वतन्त्रस्य कर्तुरस्मरणादेव हि स्थिते वेदस्य नित्यत्व इति ।

नह्यनित्याज्जगदुत्पत्तुमर्हति, तस्याप्युत्पत्तिमत्त्वेन सापेक्षत्वात् । तस्मान्नित्यो वेदः जगदुत्पत्तिहेतुत्वात् , ईश्वरवदिति सिद्धमेव नित्यत्वमनेन दृढीकृतम् । शेषमतिरोहितार्थम् ॥ २९ ॥