समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।
शङ्कापदोत्तरत्वात्सूत्रस्य शङ्कापदानि पठति -
अथापि स्यादिति ।
अभिधानाभिधेयाविच्छेदे हि सम्बन्धनित्यत्वं भवेत् । एवमध्यापकाध्येतृपरम्पराविच्छेदे वेदस्य नित्यत्वं स्यात् । निरन्वयस्य तु जगतः प्रविलयेऽत्यन्तासतश्चापूर्वस्योत्पादेऽभिधानाभिधेयावत्यन्तमुच्छिन्नाविति किमाश्रयः सम्बन्धः स्यात् । अध्यापकाध्येतृसन्तानविच्छेदे च किमाश्रयो वेदः स्यात् । नच जीवास्तद्वासनावासिताः सन्तीति वाच्यम् । अन्तःकरणाद्युपाधिकल्पिता हि ते तद्विच्छेदे न स्थातुमर्हन्ति । नच ब्रह्मणस्तद्वासना, तस्य विद्यात्मनः शुद्धस्वभावस्य तदयोगात् । ब्रह्मणश्च सृष्ट्यादावन्तःकरणानि तदवच्छिन्नाश्छ जीवाः प्रादुर्भवन्तो न पूर्वकर्माविद्यावासनावन्तो भवितुमर्हन्ति, अपूर्वत्वात् । तस्माद्विरुद्धमिदं शब्दार्थसम्बन्धवेदनित्यत्वं सृष्टिप्रलयाभ्युपगमेनेति । अभिधातृग्रहणेनाध्यापकाध्येतारावुक्तौ ।
शङ्कां निराकर्तुं सूत्रमवतारयति -
तत्रेदमभिधीयते समाननामरूपत्वादिति ।
यद्यपि महाप्रलयसमये नान्तःकरणादयः समुदाचरद्वृत्तयः सन्ति तथापि स्वकारणेऽनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण कर्मविक्षेपकाविद्यावासनाभिः सहावतिष्ठन्त एव । तथा च स्मृतिः - “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥”(म.स्मृ. १.५.) इति । ते चावधिं प्राप्य परमेश्वरेच्छाप्रचोदिता यथा कूर्मदेहे निलीनान्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्राप्तमृद्भावानि मण्डूकशरीराणि तद्वासनावासिततया घनघनाघनासारावसेकसुहितानि पुनर्मण्डूकदेहभावमनुभवन्ति, तथा पूर्ववासनावशात्पूर्वसमाननामरूपाण्युत्पद्यन्ते । एतदुक्तं भवति - यद्यपीश्वरात्प्रभवः संसारमण्डलस्य, तथापीश्वरः प्राणभृत्कर्माविद्यासहकारी तदनुरूपमेव सृजति । नच सर्गप्रलयप्रवाहस्यानादितामन्तरेणैतदुपपद्यत इति सर्गप्रलयाभ्ययुपगमेऽपि संसारानादिता न विरुध्यत इति ।
तदिदमुक्तम् -
उपपद्यते चाप्युपलभ्यते च ।
आगमत इति ।
स्यादेतत् । भवत्वनादिता संसारस्य, तथापि महाप्रलयान्तरिते कुतः स्मरणं वेदानामित्यत आह -
अनादौ च संसारे यथा स्वापप्रबोधयोरिति ।
यद्यपिप्राणमात्रावशेषतातन्निःशेषते सुषुप्तप्रलयावस्थयोर्विशेषः, तथापि कर्मविक्षेपसंस्कारसहितलयलक्षणा विद्यावशेषतासाम्येन स्वापप्रलयावस्थयोरभेद इति द्रष्टव्यम् । ननु नापर्यायेण सर्वेषां सुषुप्तावस्था, केषाञ्चित्तदा प्रबोधात् , तेभ्यश्च सुप्तोत्थितानां ग्रहणसम्भवात् , प्रायणकालविप्रकर्षयोश्च वासनोच्छेदकारणयोरभावेन सत्यां वासनायां स्मरणोपपत्तेः शब्दार्थसम्बन्धवेदव्यहारानुच्छेदो युज्यते ।
महाप्रलयस्त्वपर्यायेण प्राणभृन्मात्रवर्ती, प्रायणकालविप्रकर्षौ च तत्र संस्कारमात्रोच्छेदहेतू स्त इति कुतः सुषुप्तवत्पूर्वप्रबोधव्यवहारवदुत्तरप्रबोधव्यवहार इति चोदयति -
स्यादेतत् । स्वाप इति ।
परिहरति -
नैष दोषः । सत्यपि व्यवहारोच्छेदिनीति ।
अयमभिसन्धिः - न तावत्प्रायणकालविप्रकर्षौ सर्वसंस्कारोच्छेदकौ, पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेरनुपपत्तेः । मनुष्यजन्मवासनानां चानेकजात्यन्तरसहस्रव्यवहितानां पुनर्मनुष्यजातिसंवर्तकेन कर्मणाभिव्यक्त्यभावप्रसङ्गात् । तस्मान्निकृष्टधियामपि यत्र सत्यपि प्रायणकालविप्रकर्षादौ पूर्ववासनानुवृत्तिः, तत्र कैव कथा परमेश्वरानुग्रहेण धर्मज्ञानवैराग्यैश्वर्यातिशयसम्पन्नानां हिरण्यगर्भप्रभृतीनां महाधियाम् । यथावा आ च मनुष्येभ्य आ च कृमिभ्यो ज्ञानादीनामनुभूयते निकर्षः, एवमा मनुष्येभ्य एव आ च भगवतो हिरण्यगर्भज्ज्ञानादीनां प्रकर्षोेऽपि सम्भाव्यते । तथाच तदभिवदन्तो वेदस्मृतिवादाः प्रामाण्यमप्रत्यूहमश्नुवते । एवं चात्रभवतां हिरण्यगर्भादीनां परमेश्वरानुगृहीतानामुपपद्यते कल्पान्तरसम्बन्धिनिखिलव्यवहारानुसन्धानमिति । सुगममन्यत् ।
स्यादेतत् । अस्तु कल्पान्तरव्यवहारानुसन्धानं तेषाम् । अस्यां तु सृष्टावन्य एव वेदाः, अन्य एव चैषामर्थाः, अन्य एव वर्णाश्रमाः, धर्माच्चानर्थोऽर्थश्चाधर्मात् , अनर्थश्चेप्सितोऽर्थश्चानीप्सितः अपूर्वत्वात्सर्गस्य । तस्मात्कृतमत्र कल्पान्तरव्यवहारानुसन्धानेन, अकिञ्चित्करत्वात् । तथा च पूर्वव्यवहारोच्छेदाच्छब्दार्थसम्बन्धश्च वेदश्चानित्यौ प्रसज्येयातामित्यत आह -
प्राणिनां च सुखप्राप्तय इति ।
यथावस्तुस्वभावसामर्थ्यं हि सर्गः प्रवर्तते, नतु स्वभावसामर्थ्यमन्यथयितुमर्हति । नहि जातु सुखं तत्त्वेन जिहास्यते, दुःखं चोपादित्स्यते । नच जातु धर्माधर्मयोः सामर्थ्याविपर्ययो भवति । नहि मृत्पिण्डात्पटः, घटश्च तन्तुभ्यो जायते । तथा सति वस्तुसामर्थ्यनियमाभावात्सर्वं सर्वस्माद्भवेदिति पिपासुरपि दहनमाहृत्य पिपासामुपशमयेत् , शीतार्तो वा तोयमाहृत्य शीतार्तिमिति । तेन सृष्ट्यन्तरेऽपि ब्रह्महत्यादिरनर्थहेतुरेवार्थहेतुश्च यागादिरित्यानुपूर्व्यं सिद्धम् । एवं य एव वेदा अस्मिन्कल्पे त एव कल्पान्तरे, त एव चैषामर्थाः त एव च वर्णाश्रमाः । दृष्टसाधर्म्यसम्भवे तद्वैधर्म्यकल्पनमनुमानागमविरुद्धम् । “आगमाश्चेह भूयांसो भाष्यकारेण दर्शिताः । श्रुतिस्मृतिपुराणाख्यास्तद्व्याकोपोऽन्यथा भवेत्” ॥
तस्मात्सुष्ठूक्तम् -
समाननामरूपत्वाच्चावृत्तावप्यविरोध इति ।
'अग्निर्वा अकामयत” इति भाविनीं वृत्तिमाश्रित्य यजमान एवाग्निरुच्यते । नह्यग्नेर्देवतान्तरमग्निरस्ति ॥ ३० ॥