मध्वादिष्वसम्भवादनधिकारं जैमिनिः ।
ब्रह्मविद्यास्वधिकारं देवर्षीणां ब्रुवाणः प्रष्टव्यो जायते, किं सर्वासु ब्रह्मविद्या स्वविशेषेण सर्वेषां किंवा कासुचिदेव केषाञ्चित् । यद्यविशेषेण सर्वासु, ततो मध्वादिविद्यास्वसम्भवः ।
कथम् । असौ वा आदित्यो देवमध्वित्यत्र हि मनुष्या आदित्यं मध्वध्यासेनोपासीरन् ।
उपास्योपासकभावो हि भेदाधिष्ठानो न स्वात्मन्यादित्यस्य देवतायाः सम्भवति । न चादित्यान्तरमस्ति । प्राचामादित्यानामस्मिन्कल्पे क्षीणाधिकारत्वात् ।
पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्युपक्रम्येति ।
अयमर्थः - “असौ वा आदित्यो देवमधु”(छा. उ. ३ । १ । १) इति देवानां मोदहेतुत्वान्मध्विव मधु । भ्रामरमधुसारूप्यमाहास्य श्रुतिः - “तस्य मधुनो द्यौरेव तिरश्चीनवंशः”(छा. उ. ३ । १ । १) । अन्तरिक्षं मध्वपूपः । आदित्यस्य हि मधुनोऽपूपः पटलमन्तरिक्षमाकाशं, तत्रावस्थानात् । यानि च सोमाज्यपयःप्रभृतीन्यग्नौ हूयते तान्यादित्यरश्मिभिरग्निसंवलितैरूत्पन्नपाकान्यमृतीभावमापन्नान्यादित्यमण्डलमृङ्मन्त्रमधुपैर्नीयन्ते । यथा हि भ्रमराः पुष्पेभ्य आहृत्य मकरन्दं स्वस्थानमानयन्त्येवमृङ्मन्त्रभ्रमराः प्रयोगसमवेतार्थस्मारणादिभिरृग्वेदविहितेभ्यः कर्मकुसुमेभ्य आहृत्य तन्निष्पन्नं मकरन्दमादित्यमण्डलं लोहिताभिरस्य प्राचीभी रश्मिनाडीभिरानयन्ति, तदमृतं वसव उपजीवन्ति । अथास्यादित्यमधुनो दक्षिणाभी रश्मिनाडीभिः शुक्लाभिर्यजुर्वेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं यजुर्वेदमन्त्रभ्रमरा आदित्यमण्डलमानयन्ति, तदेतदमृतं रुद्रा उपजीवन्ति । अथास्यादित्यमधुनः प्रतीचीभी रश्मिनाडीभिः कृष्णाभिः सामवेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं साममन्त्रस्तोत्रभ्रमरा आदित्यमण्डलमानयन्ति, तदमृतमादित्या उपजीवन्ति । अथास्यादित्यमधुन उदीचिभिरतिकृष्णाभी रश्मिनाडीभिरथर्ववेदविहितेभ्यः कर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नमथर्वाङ्गिरसमन्त्रभ्रमराः, तथाश्वमेधवाचःस्तोमकर्मकुसुमात् इतिहासपुराणमन्त्रभ्रमरा आदित्यमण्डलमानयन्ति । अश्वमेधे वाचःस्तोमे च पारिप्लवं शंसन्ति इति श्रवणादितिहासपुराणमन्त्राणामप्यस्ति प्रयोगः । तदमृतं मरुत उपजीवन्ति । अथास्य या आदित्यमधुन ऊर्ध्वा रश्मिनाड्यो गोप्यास्ताभिरुपासनभ्रमराः प्रणवकुसुमादाहृत्यादित्यमण्डलमानयन्ति, तदमृतमुपजीवन्ति साध्याः । ता एता आदित्यव्यपाश्रयाः पञ्च रोहितादयो रश्मिनाड्य ऋगादिसम्बद्धाः क्रमेणोपदिश्येति योजना । एतदेवामृतं दृष्ट्वोपलभ्य यथास्वं समस्तैः करणैर्यशस्तेज इन्द्रियसाकल्यवीर्यान्नाद्यान्यमृतं तदुपलभ्यादित्ये तृप्यति । तेन खल्वमृतेन देवानां वस्वादीनां मोदनं विदधदादित्यो मधु । एतदुक्तं भवति - न केवलमुपास्योपासकभाव एकस्मिन्विरुध्यते, अपि तु ज्ञातृज्ञेयभावश्च प्राप्यप्रापकभावश्चेति ।
तथाग्निः पाद इति ।
अधिदैवतं खल्वाकाशे ब्रह्मदृष्टिविधानार्थमुक्तम् । आकाशस्य हि सर्वगतत्वं रूपादिहीनत्वे च ब्रह्मणा सारूप्यं, तस्य चैतस्याकाशस्य ब्रह्मणश्चत्वारः पादा अग्न्यादयः “अग्निः पादः” इत्यादिना दर्शिताः । यथा हि गोः पादा न गवा वियुज्यन्त, एवमग्न्यादयोऽपि नाकाशेन सर्वगतेनेत्याकाशस्य पादाः ।
तदेवमाकाशस्य चतुष्पदो ब्रह्मदृष्टिं विधाय स्वरूपेण वायुं संवर्गगुणकमुपास्यं विधातुं महीकरोति -
वायुर्वाव संवर्गः ।
तथा स्वरूपेणैवादित्यं ब्रह्मदृष्ट्योपास्यं विधातुं महीकरोति -
आदित्यो ब्रह्मेत्यादेशः
उपदेशः । अतिरोहितार्थमन्यत् ॥ ३१ ॥