आचार्यदेशीयमतमाह -
अन्ये त्विति ।
एतद्दूषयति -
तैस्त्विति ।
प्रकरणपारिशेष्ययोरुभयत्र तुल्यत्वान्नैकग्रहणनियमहेतुरस्ति ।
शङ्कते -
आम्नातस्यार्थमिति ।
अव्यक्तपदमेव स्थूलशरीरव्यावृत्तिहेतुर्व्यक्तत्वात्तस्येति शङ्कार्थः ।
निराकरोति -
न ।
एकवाक्यताधीनत्वादिति ।
प्रकृतहान्यप्रकृतप्रक्रियाप्रसङ्गेनैकवाक्यत्वे सम्भवति न वाक्यभेदो युज्यते । न चाकाङ्क्षां विनैकवाक्यत्वम् , उभयं च प्रकृतमित्युभयं ग्राह्यत्वेनेहाकाङ्क्षितमित्येकाभिधायकमपि पदं शरीरद्वयपरम् । नच मुख्यया वृत्त्याऽतत्परमित्यौपचारिकं न भवति । यथोपहन्तृमात्रनिराकरणाकाङ्क्षायां काकपदं प्रयुज्यमानं श्वादिसर्वहन्तृपरं विज्ञायते । यथाहुः “काकेभ्यो रक्ष्यतामन्नमिति बालेऽपि नोदितः । उपघातप्रधानत्वान्न श्वादिभ्यो न रक्षति ॥”(मीमांसाकारिका) इति ।
ननु न शरीरद्वयस्यात्राकाङ्क्षा । किन्तु दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्य, नतु षाट्कौशिकस्य स्थूलस्य । एतद्धि दृष्टबीभत्सतया सुकरं वैराग्यविषयत्वेन शोधयितुमित्यत आह -
न चैवं मन्तव्यमिति ।
विष्णोः परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमित्यर्थः ।
अलं वा विवादेन, भवतु सूक्ष्ममेव शरीरं परिशोध्यं, तथापि न साङ्ख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्याह -
सर्वथापि त्विति ॥ ३ ॥