ज्ञेयत्वावचनाच्च ।
इतोऽपि नायमव्यक्तशब्दः साङ्ख्याभिमतप्रधानपरः । साङ्ख्यैः खलु प्रधानाद्विवेकेन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूत्यै वा प्रधानं ज्ञेयत्वेनोपक्षिप्यते । न चेह जानीयादिति चोपासीतेति वा विधिविभक्तिश्रुतिरस्ति, अपि त्वव्यक्तपदमात्रम् । न चैतावता साङ्ख्यस्मृतिप्रत्यभिज्ञानं भवतीति भावः ॥ ४ ॥