ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यतेतथा ब्राह्मणम्अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयतिमन्त्रवर्णश्चसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) इत्येवंजातीयकः तेजःप्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः श्रुता, येन परस्मादात्मनोऽन्यस्तद्विकारो जीवः स्यात्काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवः, नान्य इति मतम्आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतम् , तथापिप्रतिज्ञासिद्धेःइति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यतेऔडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येतेतत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपिपादयिषितार्थानुसारात्तत्त्वमसिइत्यादिश्रुतिभ्यःएवं सति तज्ज्ञानादमृतत्वमवकल्पतेविकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसम्बन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्पेतअतश्च स्वाश्रयस्य नामरूपस्यासम्भवादुपाध्याश्रयं नामरूपं जीवे उपचर्यतेअत वोत्पत्तिरपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणा उपाध्याश्रयैव वेदितव्या

तदेवमाचार्यदेशीयमतद्वयमुक्त्वात्रापरितुष्यन्नाचार्यमतमाह सूत्रकारः -

अविस्थितेरिति काशकृत्स्नः ।

एतद्व्याचष्टे -

अस्यैव परमात्मन इति ।

न जीव आत्मनोऽन्यः । नापि तद्विकारः किन्त्वात्मैवाविद्योपाधानकल्पितावच्छेदः । आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमाकाशादन्यस्तद्विकारो वा । ततश्च जीवात्मनोपक्रमः परामात्मनैवोपक्रमस्तस्य ततोऽभेदात् । स्थूलदर्शिलोकप्रतीतिसौकर्यायौपाधिकेनात्मरूपेणोपक्रमः कृतः ।

अत्रैव श्रुतिं प्रमाणयति -

तथा चेति ।

अथ विकारः परमात्मनो जीवः कस्मान्न भवत्याकाशादिवदित्याह -

न च तेजःप्रभृतीनामिति ।

न हि यथा तेजःप्रभृतीनामात्मविकारत्वं श्रूयते एवं जीवस्येति ।

आचार्यत्रयमतं विभजते -

काशकृत्स्नस्याचार्यस्येति ।

आत्यन्तिके सत्यभेदे कार्यकारणभावाभावादनात्यन्तिकोऽभेद आस्थेयः, तथाच कथञ्चिद्भेदोऽपीति तमास्थाय कार्यकारणभाव इति मतत्रयमुक्त्वा काशकृत्स्नीयमतं साधुत्वेन निर्धारयति -

तत्र तेषु मध्ये । काशकृत्स्नीयं मतमिति ।

आत्यन्तिके हि जीवपरमात्मनोरभेदे तात्त्विकेऽनाद्यविद्योपाधिकल्पितो भेदस्तत्त्वमसीति जीवात्मनो ब्रह्मभावतत्त्वोपदेशश्रवणमनननिदिध्यासनप्रकर्षपर्यन्तजन्मना साक्षात्कारेण विद्यया शक्यः समूलकाषं कषितुं, रज्ज्वामहिविभ्रम इव रज्जुतत्त्वसाक्षात्कारेण, राजपुत्रस्येव च म्लेच्छकुले वर्धमानस्यात्मनि समारोपितो म्लेच्छभावो राजपुत्रोऽसीति आप्तोपदेशेन । न तु मृद्विकारः शरावादिः शतशोऽपि मृन्मृदिति चिन्त्यमानस्तज्जन्मना मृद्भावसाक्षात्कारेण शक्यो निवर्तयितुं, तत्कस्य हेतोः, तस्यापि मृदो भिन्नाभिन्नस्य तात्त्विकत्वात् , वस्तुतस्तु ज्ञानेनोच्छेत्तुमशक्यत्वात् , सोऽयं प्रतिपिपादयिषितार्थानुसारः । अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठानात्स्वप्रकृतावप्यये सति नामृतत्वस्याशास्तीत्यपुरुषार्थत्वममृतत्वप्राप्तिश्रुतिविरोधश्च ।

काशकृत्स्नमते त्वेतदुभयं नास्तीत्याह -

एवं च सतीति ।

ननु यदि जीवो न विकारः किन्तु ब्रह्मैव कथं तर्हि तस्मिन्नामरूपाश्रयत्वश्रुतिः, कथञ्च “यथाग्नेः क्षुद्रा विस्फुलिङ्गा” (बृ. उ. २ । १ । २०) इति ब्रह्मविकारश्रुतिरित्याशङ्कामुपसंहारव्याजेन निराकरोति -

अतश्च स्वाश्रयस्येति ।

यतः प्रतिपिपादयिषितार्थानुसारश्चामृतत्वप्राप्तिश्च विकारपक्षे न सम्भवतः, अतश्चेति योजना ।