एवं प्राप्त उच्यते -
प्रकृतिश्च ।
न केवलं ब्रह्म निमित्तकारणं, कुतः, प्रतिज्ञादृष्टान्तयोरनुपरोधात् । निमित्तकारणत्वमात्रे तु तावुपरुध्येयाताम् । तथाहि - “न मुख्ये सम्भवत्यर्थे जघन्या वृत्तिरिष्यते । न चानुमानिकं युक्तमागमेनापबाधितम् ॥ सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः । ऐकान्तिकाद्वैतपरा द्वैतमात्रनिषेधतः” ॥ तदिहापि प्रतिज्ञादृष्टान्तौ मुख्यार्थावेव युक्तौ न तु “यजमानः प्रस्तरः” इतिवद्गुणकल्पनया नेतव्यौ, तस्यार्थवादस्यातत्परत्वात् । प्रतिज्ञादृष्टान्तवाक्ययोस्त्वद्वैतपरत्वादुपादानकारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन तज्ज्ञानोपपत्तेः । निमित्तकारणं तु कार्यादत्यन्तभिन्नमिति न तज्ज्ञाने कार्यज्ञानं भवति । अतो ब्रह्मोपादानकारणं जगतः । नच ब्रह्मणोऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् । प्रतिज्ञादृष्टान्तोपरोधादेव । नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति । जगन्निमित्तकारणस्य ब्रह्मणोऽन्यस्य सर्वमध्यपातिनस्तज्ज्ञानेनाविज्ञानात् । यत इति च पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतौ, “जनिकर्तुः प्रकृतिः”(पा. सू. १ । ४ । ३०) इति । ततोऽपि प्रकृतित्वमवगच्छामः । दुन्दुभिग्रहणं दुन्दुभ्याघातग्रहणं च तद्गतशब्दत्वसामान्योपलक्षणार्थम् ॥ २३ ॥ अनागतेच्छासङ्कल्पोऽभिध्या । एतया खलु स्वातन्त्र्यलक्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् । “बहु स्याम्” (छा. उ. ६ । २ । ३) इति च स्वविषयतयोपादानत्वमुक्तम् ॥ २४ ॥