आत्मकृतेः परिणामात् ।
प्रकृतिग्रहणमुपलक्षणं, निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपादानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात् ।
कथं पुनरिति ।
सिद्धसाध्ययोरेकत्रासमवायो विरोधादिति ।
परिणामादिति ब्रूम इति ।
पूर्वसिद्धस्याप्यनिर्वचनीयविकारात्मना परिणामोऽनिर्वचनीयत्वाद्भेदेनाभिन्न इवेति सिद्धस्यापि साध्यत्वमित्यर्थः ।
एकवाक्यत्वेन व्याख्याया परिणामादित्यवच्छिद्य व्याचष्टे -
परिणामादिति वेति ।
सच्चत्यच्चेति द्वे ब्रह्मणो रूपे । सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं, पृथिव्यप्तेजोलक्षणम् । त्यच्च परोक्षमत एवानिर्वाच्यमिदन्तया वाय्वाकाशलक्षणं, कथं च तद्ब्रह्मणो रूपं यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाद्ब्रह्म भूतानां प्रकृतिरिति ॥ २६ ॥