स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।
वृत्तवर्तिष्यमाणयोः समन्वयविरोधपरिहारलक्षणयोः सङ्गतिप्रदर्शनाय सुखग्रहणाय चैतयोः सङ्क्षेपतस्तात्पर्यार्थमाह -
प्रथमेऽध्याय इति ।
अनपेक्षवेदान्तवाक्यस्वरससिद्धसमन्वयलक्षणस्य विरोधतत्परिहाराभ्यामाक्षेपसमाधानकरणादनेन लक्षणेनास्ति विषयविषयिभावः सम्बन्धः । पूर्वलक्षणार्थो हि विषयस्तद्गोचरत्वादाक्षेपसमाधानयोरेष च विषयीति । तदेवमध्यायमवतार्य तदवयवमधिकरणमवतारयति -
तत्र प्रथमं तावदिति ।
तन्त्र्यते व्युत्पाद्यते मोक्षसाधनमनेनेति तन्त्रं, तदेवाख्या यस्याः सा स्मृतिस्तन्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणीता । अन्याश्चासुरिपञ्चशिखादिप्रणीताः स्मृतयस्तदनुसारिण्यः । न खल्वमूषां स्मृतीनां मन्वादिस्मृतिवदन्योऽवकाशः शक्यो वदितुमृते मोक्षसाधनप्रकाशनात् । तदपि चेन्नाभिदध्युरनवकाशाः सत्योऽप्रमाणं प्रसज्येरन् । तस्मात्तदविरोधेन कथञ्चिद्वेदान्ता व्याख्यातव्याः । पूर्वपक्षमाक्षिपति