ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति, तदयुक्तम्कुतः ? स्मृत्यनवकाशदोषप्रसङ्गात्स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन्तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यतेमन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्तिअस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम् , ईदृशश्चाचारः, इत्थं वेदाध्ययनम् , इत्थं समावर्तनम् , इत्थं सहधर्मचारिणीसंयोग इतितथा पुरुषार्थांश्च वर्णाश्रमधर्मान्नानाविधान्विदधतिनैवं कपिलादिस्मृतीनामनुष्ठेये विषये अवकाशोऽस्तिमोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताःयदि तत्राप्यनवकाशाः स्युः, आनर्थक्यमेवासां प्रसज्येततस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याःकथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ? भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम्; परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन्; तद्बलेन श्रुत्यर्थं प्रतिपित्सेरन्अस्मत्कृते व्याख्याने विश्वस्युः, बहुमानात्स्मृतीनां प्रणेतृषुकपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यतेश्रुतिश्च भवति ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं पश्येत्’ (श्वे. उ. ५ । २) इतितस्मान्नैषां मतमयथार्थं शक्यं सम्भावयितुम्तर्कावष्टम्भेन चैतेऽर्थं प्रतिष्ठापयन्तितस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः

कथं पुनरीक्षत्यादिभ्य इति ।

प्रसाधितं खलु धर्ममीमांसायां “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”(जै. सू. १ । ३ । ३) इत्यत्र, यथा श्रुतिविरुद्धानां स्मृतीनां दुर्बलतयानपेक्षणीयत्वं तस्मान्न दुर्बलानुरोधेन बलीयसीनां श्रुतीनां युक्तमुपवर्णनम् , अपि तु स्वतःसिद्धप्रमाणभावाः श्रुतयो दुर्बलाः स्मृतीर्बाधन्त एवेति युक्तम् । पूर्वपक्षी समाधत्ते -

भवेदयमिति ।

प्रसाधितोऽप्यर्थः श्रद्धाजडान्प्रति पुनः प्रसाध्यत इत्यर्थः ।

आपाततः समाधानमुक्त्वा परमसमाधानमाह पूर्वपक्षी -

कपिलप्रभृतीनां चार्षमिति ।

अयमस्याभिसन्धिः - ब्रह्म हि शास्त्रस्य कारणमुक्तं “शास्त्रयोनित्वात्”(ब्र.सू. १-१-३) इति, तेनैष वेदराशिर्ब्रह्मप्रभवः सन्नाजानसिद्धानावरणभूतार्थमात्रगोचरतद्बुद्धिपूर्वको यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिद्धभावानां स्मृतयोऽनावरणसर्वविषयतद्बुद्धिप्रभवा इति न श्रुतिभ्योऽमूषामस्ति कश्चिद्विशेषः । न चैताः स्फुटतरं प्रधानादिप्रतिपादनपराः शक्यन्तेऽन्यथयितुम् । तस्मात्तदनुरोधेन कथञ्चिच्छ्रुतय एव नेतव्याः । अपि च तर्कोऽपि कपिलादिस्मृतिरनुमन्यते, तस्मादप्येतदेव प्राप्तम् । एवं प्राप्त आह