ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
एतेन योगः प्रत्युक्तः ॥ ३ ॥
एतेन साङ्ख्यस्मृतिप्रत्याख्यानेन, योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशतितत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणम् , महदादीनि कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्तेनन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतम्; किमर्थं पुनरतिदिश्यतेअस्ति ह्यत्राभ्यधिकाशङ्कासम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितःश्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति; त्रिरुन्नतं स्थाप्य समं शरीरम्’ (श्वे. उ. २ । ८) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यतेलिङ्गानि वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्तेतां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्’ (क. उ. २ । ३ । ११) इति, विद्यामेतां योगविधिं कृत्स्नम्’ (क. उ. २ । ३ । १८) इति चैवमादीनियोगशास्त्रेऽपि — ‘अथ तत्त्वदर्शनोपायो योगःइति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियतेअतः सम्प्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीतिइयमभ्यधिका शङ्कातिदेशेन निवर्त्यते, अर्थैकदेशसम्प्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात्सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु साङ्ख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतःसाङ्ख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन श्रौतेनोपबृंहितौतत्कारणं साङ्ख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः’ (श्वे. उ. ६ । १३) इतिनिराकरणं तु साङ्ख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इतिश्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयतितमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इतिद्वैतिनो हि ते साङ्ख्या योगाश्च नात्मैकत्वदर्शिनःयत्तु दर्शनमुक्तम्तत्कारणं साङ्ख्ययोगाभिपन्नम्इति, वैदिकमेव तत्र ज्ञानं ध्यानं साङ्ख्ययोगशब्दाभ्यामभिलप्येते प्रत्यासत्तेरित्यवगन्तव्यम्येन त्वंशेन विरुध्येते, तेनेष्टमेव साङ्ख्ययोगस्मृत्योः सावकाशत्वम्; तद्यथाअसङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन साङ्ख्यैरभ्युपगम्यतेतथा यौगैरपि अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यतेएतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानितान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेत् , उपकुर्वन्तु नामतत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवतिनावेदविन्मनुते तं बृहन्तम्’ (तै. ब्रा. ३ । १२ । ९ । ७) तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इत्येवमादिश्रुतिभ्यः ॥ ३ ॥

एतेन योगः प्रत्युक्तः ।

नानेन योगशास्त्रस्य हैरण्यगर्भपातञ्जलादेः सर्वथा प्रामाण्यं निराक्रियते, किन्तु जगदुपादानस्वतन्त्रप्रधानतद्विकारमहदहङ्कारपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते । न चैतावतैषामप्रामाण्यं भवितुमर्हति । यत्पराणि हि तानि तत्राप्रामाण्येऽप्रामाण्यमश्रुवीरन् । न चैतानि प्रधानादिसद्भावपराणि । किन्तु योगस्वरूपतत्साधनतदवान्तरफलविभूतितत्परमफलकैवल्यव्युत्पादनपराणि । तच्च किञ्चिन्निमित्तीकृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं, पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपादनपरेषु, न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमित्तं तत्प्रतीयमानमभ्युपेयेत, यदि न मानान्तरेण विरुध्येत । अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् । तस्मात्प्रमाणभूतादपि योगशास्त्रान्न प्रधानादिसिद्धिः । अत एव योगशास्त्रं व्युत्पादयिताह स्म भगवान् वार्षगण्यः “गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथप्राप्तं तन्मायैव सुतुच्छकम् ॥' इति । योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः, न तु भावतः, तेषामतात्त्विकत्वादित्यर्थः । अलोकसिद्धानामपि प्रधानादीनामनादिपूर्वपक्षन्यायाभासोत्प्रेक्षितानामनुवाद्यत्वमुपपन्नम् । तदनेनाभिसन्धिनाह

एतेन साङ्ख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपिप्रधानादिविषयतयाप्रत्याख्याता द्रष्टव्येति ।

अधिकरणान्तरारम्भमाक्षिपति

नन्वेवं सति समानन्यायत्वादिति ।

समाधत्ते

अस्त्यत्राभ्यधिकाशङ्का ।

मा नाम साङ्ख्यशास्त्रात्प्रधानसत्ता विज्ञायि । योगशास्त्रात्तु प्रधानादिसत्ता विज्ञापयिष्यते बहुलं हि योगशास्त्राणां वेदेन सह संवादो दृश्यते । उपनिषदुपायस्य च तत्त्वज्ञानस्य योगापेक्षास्ति । न जातु योगशास्त्रविहितं यमनियमादिबहिरङ्गमुपायमपहायान्तरङ्गं च धारणादिकमन्तरेणौपनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति । तस्मादौपनिषदेन तत्त्वज्ञानेनापक्षणात्संवादबाहुल्याच्च वेदेनाष्टकादिस्मृतिवद्योगस्मृतिः प्रमाणम् । ततश्च प्रमाणात्प्रधानादिप्रतीतेर्नाशब्दत्वम् । नच तदप्रमाणं प्रधानादौ, प्रमाणं च यमादाविति युक्तम् । तत्राप्रामाण्येऽन्यत्राप्यनाश्वासात् । यथाहुः “प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः । नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥' इति । सेयं लब्धप्रसरा प्रधानादौ योगाप्रमाणतापिशाची सर्वत्रैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपेयमिति नाशब्दं प्रधानमिति शङ्कार्थः । सा इयमप्यधिकाशङ्कातिर्देशेन निवर्त्यते । निवृत्तिहेतुमाह

अर्थैकदेशसम्प्रतिपत्तावपीति ।

यदि प्रधानादिसत्तापरं योगशास्त्रं भवेत् , भवेत्प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् । तथा च तद्विहितेषु यमादिष्वप्यनाश्वासः स्यात् । तस्मान्न प्रधानादिपरं तत् , किन्तु तन्निमित्तीकृत्य योगव्युत्पादनपरमित्युक्तम् । न चाविषयेऽप्रामाण्यं विषयेऽपि प्रामाण्यमुपहन्ति । नहि चक्षू रसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति । तस्माद्वेदान्तश्रुतिविरोधात्प्राधानादिरस्याविषयो न त्वप्रामाण्यमिति परमार्थः । स्यादेतत् । अध्यात्मविषयाः सन्ति सहस्रं स्मृतयो बौद्धार्हतकापालिकादीनां, ता अपि कस्मान्न निराक्रियन्त इत्यत आह

सतीष्वपीति ।

तासु खलु बहुलं वेदार्थविसंवादिनीषु शिष्टानादृतासु कैश्चिदेव तु पुरुषापसदैः पशुप्रायैर्म्लेच्छादिभिः परिगृहीतासु वेदमूलत्वाशङ्कैव नास्तीति न निराकृताः, तद्विपरीतास्तु साङ्ख्ययोगस्मृतय इति ताः प्रधानादिपरतया व्युदस्यन्त इत्यर्थः ।

न साङ्ख्यज्ञानेन वेदनिरपेक्षेणेति ।

प्रधानादिविषयेणेत्यर्थः ।

द्वैतिनो हि ते साङ्ख्या योगाश्च ।

ये प्रधानादिपरतया तच्छास्त्रं व्याचक्षत इत्यर्थः । सङ्ख्या सम्यग्बुद्धिर्वैदिकी तया वर्तन्त इति साङ्ख्याः । एवं योगो ध्यानमुपायोपेययोरभेदविवक्षया । चित्तवृत्तिनिरोधो हि योगस्तस्योपायो ध्यानं प्रत्ययैकतानता । एतच्चोपलक्षणम् । अन्येऽपि यमनियमादयो बाह्या आन्तराश्च धारणादयो योगोपाया द्रष्टव्याः । एतेनाभ्युपगतवेदप्रामाण्यानां कणभक्षाक्षचरणादीनां सर्वाणि तर्कस्मरणानीति योजना । सुगममन्यत् ॥ ३ ॥