ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः; तर्कनिमित्त इदानीमाक्षेपः परिह्रियतेकुतः पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः ? ननु धर्म इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुमर्हति; — भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयोऽयमर्थः स्यादनुष्ठेयरूप इव धर्मःपरिनिष्पन्नरूपं तु ब्रह्मावगम्यतेपरिनिष्पन्ने वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषुयथा श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेतदृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य सन्निकृष्यते, विप्रकृष्यते तु श्रुतिः ऐतिह्यमात्रेण स्वार्थाभिधानात्अनुभवावसानं ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं दृष्टफलतयेष्यतेश्रुतिरपि — ‘श्रोतव्यो मन्तव्यःइति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयतिअतस्तर्कनिमित्तः पुनराक्षेपः क्रियते विलक्षणत्वादस्यइति

न विलक्षणत्वादस्य तथात्वं च शब्दात् ।

अवान्तरसङ्गतिमाह

ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्येति ।

चोदयति

कुतः पुनरिति ।

समानविषयत्वे हि विरोधो भवेत् । न चेहास्ति समानविषयता, धर्मवद्ब्रह्मणोऽपि मानान्तराविषयतयातर्क्यत्वेनानपेक्षाम्नायैकगोचरत्वादित्यर्थः । समाधत्ते

भवेदयमिति ।

“मानान्तरस्याविषयः सिद्धवस्त्ववगाहिनः । धर्मोऽस्तु कार्यरूपत्वाद्ब्रह्म सिद्धं तु गोचरः ॥' तस्मात्समानविषयत्वादस्त्यत्र तर्कस्यावकाशः । नन्वस्तु विरोधः, तथापि तर्कादरे को हेतुरित्यत आह

यथा च श्रुतीनामिति ।

सावकाशा बह्वयोऽपि श्रुतयोऽनवकाशैकश्रुतिविरोधे तदनुगुणतया यथा नीयन्ते एवमनवकाशैकतर्कविरोधे तदनुगुणतया बह्वयोऽपि श्रुतयो गुणकल्पनादिभिर्व्याख्यानमर्हन्तीत्यर्थः । अपि च ब्रह्मसाक्षात्कारो विरोधितयानादिमविद्यां निवर्तयन् दृष्टेनैव रूपेण मोक्षसाधनमिष्यते । तत्र ब्रह्मसाक्षात्कारस्य मोक्षसाधनतया प्रधानस्यानुमानं दृष्टसाधर्म्येणादृष्टविषयं विषयतोऽन्तरङ्गं, बहिरङ्गं त्वत्यन्तपरोक्षगोचरं शाब्दं ज्ञानं, तेन प्रधानप्रत्यासत्त्याप्यनुमानमेव बलीय इत्याह

दृष्टसाधर्म्येण चेति ।

अपि च श्रुत्यापि ब्रह्मणि तर्क आदृत इत्याह

श्रुतिरिति ।

सोऽयं ब्रह्मणो जगदुपादानत्वाक्षेपः पुनस्तर्केण प्रस्तूयते “प्रकृत्या सह सारूप्यं विकाराणामवस्थितम् । जगद्ब्रह्मसरूपं च नेति नो तस्य विक्रिया ॥ विशुद्धं चेतनं ब्रह्म जगज्जडमशुद्धिभाक् । तेन प्रधानसारूप्यात्प्रधानस्यैव विक्रिया ॥' तथाहि एक एव स्त्रीकायः सुखदुःखमोहात्मकतया पत्युश्च सपत्नीनां च चैत्रस्य च स्त्रैणस्य तामविन्दतोऽपर्यायं सुखदुःखविषादानाधत्ते । स्त्रिया च सर्वे भावा व्याख्याताः । तस्मात्सुखदुःखमोहात्मतया च स्वर्गनरकाद्युच्चावचप्रपञ्चतया च जगदशुद्धमचेतनं च, ब्रह्म तु चेतनं विशुद्धं च, निरतिशयत्वात् । तस्मात्प्रधानस्याशुद्धस्याचेतनस्य विकारो जगन्न तु ब्रह्मण इति युक्तम् । ये तु चेतनब्रह्मविकारतया जगच्चैतन्यमाहुस्तान्प्रत्याह