ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भामतीव्याख्या
 
नैकस्मिन्नसम्भवात् ॥ ३३ ॥
अत्राचक्ष्महेनायमभ्युपगमो युक्त इतिकुतः ? एकस्मिन्नसम्भवात् ह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः सम्भवति, शीतोष्णवत् एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति, ते तथैव वा स्युः, नैव वा तथा स्युःइतरथा हि, तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात्नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हतिनेति ब्रूमःनिरङ्कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात्स्यादस्ति स्यान्नास्तिइत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात्एवं निर्धारयितुर्निर्धारणफलस्य स्यात्पक्षेऽस्तिता, स्याच्च पक्षे नास्तितेतिएवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासु उपदेष्टुं शक्नुयात् ? कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् ? ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते, नान्यथाअतश्चानिर्धारितार्थं शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात्तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्याअस्ति वा नास्ति वाइति विकल्प्यमाना, स्यात्तावदेकस्मिन्पक्षे, पक्षान्तरे तु स्यात्इत्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् चैषां पदार्थानामवक्तव्यत्वं सम्भवतिअवक्तव्याश्चेन्नोच्येरन्उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम्उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वाएवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वाइति प्रलपन् मत्तोन्मत्तपक्षस्यैव स्यात् , प्रत्ययितव्यपक्षस्यस्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावः, तथा पक्षे नित्यता पक्षे चानित्यताइत्यनवधारणायां प्रवृत्त्यनुपपत्तिःअनादिसिद्धजीवप्रभृतीनां स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गःएवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसम्भवात् , सत्त्वे चैकस्मिन्धर्मेऽसत्त्वस्य धर्मान्तरस्यासम्भवात् , असत्त्वे चैवं सत्त्वस्यासम्भवात् , असङ्गतमिदमार्हतं मतम्एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याःयत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः सङ्घाताः सम्भवन्तीति कल्पयन्ति, तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो पृथक्तन्निराकरणाय प्रयत्यते ॥ ३३ ॥

नैकस्मिन्नसम्भवात् ।

विभजते

न ह्येकस्मिन्धर्मणि परमार्थसति परमार्थसतांयुगपत्सत्त्वादीनां धर्माणां परस्परपरिहारस्वरूपाणां समावेशः सम्भवति ।

एतदुक्तं भवति - सत्यं यदस्ति वस्तुतस्तत्सर्वथा सर्वदा सर्वत्र सर्वात्मना निर्वचनीयेन रूपेणास्त्येव न नास्ति, यथा प्रत्यगात्मा । यत्तु क्वचित्कथञ्चित्कदाचित्केनचिदात्मनास्तीत्युच्यते, यथा प्रपञ्चः, तद्व्यवहारतो न तु परमार्थतः, तस्य विचारासहत्वात् । न च प्रत्ययमात्रं वास्तवत्वं व्यवस्थापयति, शुक्तिमरुमरीचिकादिषु रजततोयादेरपि वास्तवत्वप्रसङ्गात् । लौकिकानामबाधेन तु तद्व्यवस्थायां देहात्माभिमानस्याप्यबाधेन तात्त्विकत्वे सति लोकायतमतापातेन नास्तिकत्वप्रसङ्गात् । पण्डितरूपाणां तु देहात्माभिमानस्य विचारतो बाधनं प्रपञ्चस्याप्यनैकान्तस्य तुल्यमिति । अपि च सदसत्त्वयोः परस्परविरुद्धत्वेन समुच्चयाभावे विकल्पः । न च वस्तुनि विकल्पः सम्भवति । तस्मात्स्थाणुर्वा पुरुषो वेति ज्ञानवत्सप्तत्वपञ्चत्वनिर्धारणस्य फलस्य निर्धारयितुश्च प्रमातुस्तत्करणस्य प्रमाणस्य च तत्प्रमेयस्य च सप्तत्वपञ्चत्वस्य सदसत्त्वसंशये साधु समर्थितं तीर्थकरत्वमृषेमेणात्मनः । निर्धारणस्य चैकान्तसत्त्वे सर्वत्र नानेकान्तवाद इत्याह

य एते सप्त पदार्था इति ।

शेषमतिरोहितार्थम् ॥ ३३ ॥