ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
भामतीव्याख्या
 
योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
योगिनः प्रति च अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यते । स्मार्ते चैते योगसाङ्ख्ये, न श्रौते । अतो विषयभेदात् प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः । ननु ‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।’ (भ. गी. ८ । २४) ‘धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्’ (भ. गी. ८ । २५) इति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति, उच्यते — ‘तं कालं वक्ष्यामि’ (भ. गी. ८ । २३) इति स्मृतौ कालप्रतिज्ञानात् विरोधमाशङ्क्य अयं परिहारः उक्तः । यदा पुनः स्मृतावपि अग्न्याद्या देवता एव आतिवाहिक्यो गृह्यन्ते, तदा न कश्चिद्विरोध इति ॥ २१ ॥

योगिनः प्रति च स्मर्यते स्मार्ते चैते ।

स्मार्तीमुपासनां प्रत्ययं स्मार्तः कालभेदविनियोगः प्रत्यासत्तेः न तु श्रौतीं प्रतीत्यर्थः । अत्र यदि स्मृतौ कालभेदविधिः श्रुतौ चाग्निज्योतिरादिविधिस्तत्राग्न्यादीनामातिवाहिकतया विषयव्यवस्थया विरोधाभाव उक्तः । अथ तु प्रत्यभिज्ञानं तथापि यत्र काल इत्यत्रापि कालाभिधानद्वारेणातिवाहिक्य एव देवता उक्ता इत्यविरोध एवेति ॥ २१ ॥

इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य द्वितीयः पादः ॥ २ ॥