ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
भामतीव्याख्या
 
आसृत्युपक्रमात् समानोत्क्रान्तिरित्युक्तम् । सृतिस्तु श्रुत्यन्तरेष्वनेकधा श्रूयते — नाडीरश्मिसम्बन्धेनैका ‘अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इति । अर्चिरादिकैका ‘तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः’ (बृ. उ. ६ । २ । १५) इति । ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्यन्या । ‘यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति’ (बृ. उ. ५ । १० । १) इत्यपरा । ‘सूर्यद्वारेण ते विरजाः प्रयान्ति’ (मु. उ. १ । २ । ११) इति च अपरा । तत्र संशयः — किं परस्परं भिन्ना एताः सृतयः, किं वा एकैव अनेकविशेषणेति । तत्र प्राप्तं तावत् — भिन्ना एताः सृतय इति, भिन्नप्रकरणत्वात् , भिन्नोपासनाशेषत्वाच्च । अपि च ‘अथैतैरेव रश्मिभिः’ (छा. उ. ८ । ६ । ५) इत्यवधारणम् अर्चिराद्यपेक्षायाम् उपरुध्येत, त्वरावचनं च पीड्येत — ‘स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इति । तस्मादन्योन्यभिन्ना एवैते पन्थान इति । एवं प्राप्ते, अभिदध्महे —

चतुर्थेऽध्याये तृतीयः पादः

अर्चिरादिना तत्प्रथितेः ।

भिन्नप्रकरणस्थत्वाद्भिन्नोपासनयोगतः । अनपेक्षा मिथो मार्गास्त्वरातोऽवधृतेरपि ॥ गन्तव्यमेकं नगरं प्रति वक्रेणाध्वना गतिमपेक्ष्य ऋजुनाध्वना गतिस्त्वरावती कल्प्यते । एकमार्गत्वे तु कमपरमपेक्ष्य त्वरा स्यात् । अथ तैरेव रश्मिभिरित्यवधारणं नोपपद्यते पथ्यन्तरस्य निवर्तनीयस्याभावात्तस्मात्परानपेक्षा एवैते पन्थान एकब्रह्मलोकप्राप्त्युपाया व्रीहियवाविव विकल्पेरन्निति प्राप्ते प्रत्युच्यते एकत्वेऽपि पथोऽनेकपर्वसङ्गमसम्भवात् । गौरवान्नैव नानात्वं प्रत्यभिज्ञानलिङ्गतः ॥ सपर्वा हि पन्था नगरादिकमेकं गन्तव्यं प्रापयति नाभागः । तत्र किमेते रश्म्यहर्वायुसूर्यादयोऽध्वनः पर्वाणः सन्तोऽध्वनैकेन युज्यन्ते, आहो यथायथमध्वानमपि भिन्दन्तीति सन्देहेऽभेदेऽप्यध्वनो भागभेदोपपत्तेर्न भागिभेदकल्पनोचिता, गौरवप्रसङ्गात् । एकदेशप्रत्यभिज्ञानाच्च विशेषणविशेष्यभावोपपत्तेर्नानेकाध्वकल्पना । अथैतैरेव रश्मिभिरित्यवधारणं न तावदर्थान्तरनिवृत्त्यर्थं तत्प्रापकैरेव वाक्यान्तरैर्विरोधात् , तस्मादन्यानपेक्षामस्यावधारयतीति वक्तव्यम् । न चैकं वाक्यमप्राप्तमध्वानं प्रापयति तस्य चानपेक्षतां प्रतिपादयतीत्यर्थद्वयाय पर्याप्तं, तस्माद्विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारोऽनुवदतीति युक्तम् ।

त्वरावचनं चेति ।

न खल्वेकस्मिन्नेव गन्तव्ये पथिभेदमपेक्ष्य त्वरावकल्प्यते किन्तु गन्तव्यभेदादपि तदुपपत्तिः । यथा कश्मीरेभ्यो मथुरां क्षिप्रं याति चैत्र इति तथेहाप्यन्यतः कुतश्चिद्गन्तव्यादनेनोपायेन ब्रह्मलोकं क्षिप्रं प्रयातीति ।