ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
भामतीव्याख्या
 
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
केन पुनः सन्निवेशविशेषेण गतिविशेषणानाम् इतरेतरविशेषणविशेष्यभावः — इति तदेतत् सुहृद्भूत्वा आचार्यो ग्रथयति । ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्’ (कौ. उ. १ । ३) इति कौषीतकिनां देवयानः पन्थाः पठ्यते । तत्र अर्चिरग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वादिति नात्र सन्निवेशक्रमः कश्चिदन्वेष्यः । वायुस्तु अर्चिरादौ वर्त्मनि अश्रुतः कतमस्मिन्स्थाने निवेशयितव्य इति, उच्यते — ‘तेऽर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान् ।’ (छा. उ. ५ । १० । १) ‘मासेभ्यः संवत्सरं संवत्सरादादित्यम्’ (छा. उ. ५ । १० । २) इत्यत्र संवत्सरात्पराञ्चम् आदित्यादर्वाञ्चं वायुमभिसम्भवन्ति । कस्मात् ? अविशेषविशेषाभ्याम् । तथा हि ‘स वायुलोकम्’ (कौ. उ. १ । ३) इत्यत्र अविशेषोपदिष्टस्य वायोः श्रुत्यन्तरे विशेषोपदेशो दृश्यते — ‘यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति’ (बृ. उ. ५ । १० । १) इति । एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्दादित्ययोरन्तराले वायुर्निवेशयितव्यः । कस्मात्पुनरग्नेः परत्वदर्शनाद्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते ? नैषोऽस्ति विशेष इति वदामः । ननूदाहृता श्रुतिः — ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम्’ (कौ. उ. १ । ३) इति । उच्यते — केवलोऽत्र पाठः पौर्वापर्येणावस्थितः, नात्र क्रमवचनः कश्चिच्छब्दोऽस्ति । पदार्थोपदर्शनमात्रं ह्यत्र क्रियते — एतं एतं च आगच्छतीति । इतरत्र पुनः, वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वमाक्रम्य आदित्यमागच्छतीति — अवगम्यते क्रमः । तस्मात् सूक्तम् अविशेषविशेषाभ्यामिति । वाजसनेयिनस्तु ‘मासेभ्यो देवलोकं देवलोकादादित्यम्’ (बृ. उ. ६ । २ । १५) इति समामनन्ति । तत्र आदित्यानन्तर्याय देवलोकाद्वायुमभिसम्भवेयुः । ‘वायुमब्दात्’ इति तु छन्दोगश्रुत्यपेक्षयोक्तम् । छान्दोग्यवाजसनेयकयोस्तु एकत्र देवलोको न विद्यते, परत्र संवत्सरः । तत्र श्रुतिद्वयप्रत्ययात् उभावपि उभयत्र ग्रथयितव्यौ । तत्रापि माससम्बन्धात्संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम् ॥ २ ॥

वायुमब्दादविशेषविशेषाभ्याम् ।

“श्रुत्याद्यभावे पाठस्य क्रमं प्रति नियन्तृता । ऊर्ध्वाक्रमणमात्रे च श्रुता वायोर्निमित्तता ॥” “स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते”(बृ. उ. ५ । १० । १) इति हि वायुनिमित्तमूर्ध्वाक्रमणं श्रुतं न तु वायुनिमित्तमादित्यगमनं “स आदित्यं गच्छति” इत्यादित्यगमनमात्रप्रतीतेः । नच तेनेत्यनन्तरश्रुतोर्ध्वीक्रमणक्रियासम्बन्धि निराकाङ्क्षमादित्यगमनक्रिययापि सम्बन्द्धुमर्हति । न चादित्यागमनस्य तेनेति विना काचिदनुपपत्तिर्येनान्यसम्बद्धमप्यनुषज्यते । तत्राग्निलोकमागच्छति स वायुलोकमित्यादिसन्दर्भगतस्य पाठस्य क्वचिन्नियामकत्वेन कॢप्तसामर्थ्यादग्निवायुवरुणक्रमनियामकश्रुत्याद्यभावादिति प्राप्ते प्रत्युच्यते ऊर्ध्वशब्दो न लोकस्य कस्यचित्प्रतिपादकः । तद्भेदापेक्षया युक्तमादित्येन विशेषणम् ॥ भवेदेतदेवं यद्यूर्ध्वशब्दात्कश्चिल्लोकभेदः प्रतीयेत स तूपरिदेशमात्रवाची लोकभेदाद्विनापर्यवस्यंल्लोकभेदवाचिनादित्यपदेनादित्ये व्यवस्थाप्यते । तथा चादित्यलोकगमनमेव वायुनिमित्तमिति श्रौतक्रमनियमे, पाठः पदार्थमात्रप्रदर्शनार्थो न तु क्रमाय प्रभवति श्रुतिविरोधादिति सिद्धम् । वाजसनेयिनां संवत्सरलोको न पठ्यते छान्दोग्यानां देवलोको न पठ्यते तत्रोभयानुरोधादुभयपाठे माससम्बन्धात्संवत्सरः पूर्वः पश्चिमो देवलोकः । नहि मासो देवलोकेन सम्बध्यते किन्तु संवत्सरेण । तस्मात्तयोः परस्परसम्बन्धान्मासारभ्यत्वाच्च संवत्सरस्य मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवति । तत्रादित्यानन्तर्याय वायोः संवत्सरादित्यस्य स्थाने देवलोकाद्वायुमिति पठितव्यम् ।

वायुमब्दादिति तु सूत्रमत्रापि वाचकमेव । तथापि संवत्सरात्पराञ्चमादित्यादर्वाञ्चं वायुमभिसम्भवन्तीति छान्दोग्यपाठमात्रापेक्षयोक्तं, तदिदमाह –

वायुमब्दादिति त्विति ॥ २ ॥