ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
भामतीव्याख्या
 
विशेषितत्वाच्च ॥ ८ ॥
‘ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’ (बृ. उ. ६ । २ । १५) इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव गतिरिति गम्यते । न हि बहुवचनेन विशेषणं परस्मिन्ब्रह्मण्यवकल्पते । कार्ये तु अवस्थाभेदोपपत्तेः सम्भवति बहुवचनम् । लोकश्रुतिरपि विकारगोचरायामेव सन्निवेशविशिष्टायां भोगभूमावाञ्जसी । गौणी त्वन्यत्र ‘ब्रह्मैव लोक एष सम्राट्’ इत्यादिषु । अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन्ब्रह्मणि अनाञ्जसः स्यात् । तस्मात् कार्यविषयमेवेदं नयनम् ॥ ८ ॥

विशेषितत्वाच्च ॥ ८ ॥