सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
तुशब्द आशङ्काव्यावृत्त्यर्थः । परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः, तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते । परमेव हि ब्रह्म विशुद्धोपाधिसम्बन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः ॥ ९ ॥